ऋग्वेदः सूक्तं ५.३०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.२९ ऋग्वेदः - मण्डल ५
सूक्तं ५.३०
बभ्रुरात्रेयः
सूक्तं ५.३१ →
दे. इन्द्रः, १२-१५ ऋणंचयेन्द्रौ। त्रिष्टुप्।


क्व स्य वीरः को अपश्यदिन्द्रं सुखरथमीयमानं हरिभ्याम् ।
यो राया वज्री सुतसोममिच्छन्तदोको गन्ता पुरुहूत ऊती ॥१॥
अवाचचक्षं पदमस्य सस्वरुग्रं निधातुरन्वायमिच्छन् ।
अपृच्छमन्याँ उत ते म आहुरिन्द्रं नरो बुबुधाना अशेम ॥२॥
प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः ।
वेददविद्वाञ्छृणवच्च विद्वान्वहतेऽयं मघवा सर्वसेनः ॥३॥
स्थिरं मनश्चकृषे जात इन्द्र वेषीदेको युधये भूयसश्चित् ।
अश्मानं चिच्छवसा दिद्युतो वि विदो गवामूर्वमुस्रियाणाम् ॥४॥
परो यत्त्वं परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् ।
अतश्चिदिन्द्रादभयन्त देवा विश्वा अपो अजयद्दासपत्नीः ॥५॥
तुभ्येदेते मरुतः सुशेवा अर्चन्त्यर्कं सुन्वन्त्यन्धः ।
अहिमोहानमप आशयानं प्र मायाभिर्मायिनं सक्षदिन्द्रः ॥६॥
वि षू मृधो जनुषा दानमिन्वन्नहन्गवा मघवन्संचकानः ।
अत्रा दासस्य नमुचेः शिरो यदवर्तयो मनवे गातुमिच्छन् ॥७॥
युजं हि मामकृथा आदिदिन्द्र शिरो दासस्य नमुचेर्मथायन् ।
अश्मानं चित्स्वर्यं वर्तमानं प्र चक्रियेव रोदसी मरुद्भ्यः ॥८॥
स्त्रियो हि दास आयुधानि चक्रे किं मा करन्नबला अस्य सेनाः ।
अन्तर्ह्यख्यदुभे अस्य धेने अथोप प्रैद्युधये दस्युमिन्द्रः ॥९॥
समत्र गावोऽभितोऽनवन्तेहेह वत्सैर्वियुता यदासन् ।
सं ता इन्द्रो असृजदस्य शाकैर्यदीं सोमासः सुषुता अमन्दन् ॥१०॥
यदीं सोमा बभ्रुधूता अमन्दन्नरोरवीद्वृषभः सादनेषु ।
पुरंदरः पपिवाँ इन्द्रो अस्य पुनर्गवामददादुस्रियाणाम् ॥११॥
भद्रमिदं रुशमा अग्ने अक्रन्गवां चत्वारि ददतः सहस्रा ।
ऋणंचयस्य प्रयता मघानि प्रत्यग्रभीष्म नृतमस्य नृणाम् ॥१२॥
सुपेशसं माव सृजन्त्यस्तं गवां सहस्रै रुशमासो अग्ने ।
तीव्रा इन्द्रमममन्दुः सुतासोऽक्तोर्व्युष्टौ परितक्म्यायाः ॥१३॥
औच्छत्सा रात्री परितक्म्या याँ ऋणंचये राजनि रुशमानाम् ।
अत्यो न वाजी रघुरज्यमानो बभ्रुश्चत्वार्यसनत्सहस्रा ॥१४॥
चतुःसहस्रं गव्यस्य पश्वः प्रत्यग्रभीष्म रुशमेष्वग्ने ।
घर्मश्चित्तप्तः प्रवृजे य आसीदयस्मयस्तम्वादाम विप्राः ॥१५॥


सायणभाष्यम्

‘ क्व स्य वीरः' इति पञ्चदशर्चं षोडशं सूक्तम् । अत्रानुक्रमणिका–- क्व स्य बभ्रुर्ऋणंचयोऽप्यत्र राजा स्तुतः' इति । बभ्रुर्ऋषिः । अनुक्तत्वात् त्रिष्टुप् । इन्द्रो देवता । ऋणंचयनामा राजापि क्वचित् स्तूयते । अतः सोऽपि देवता । तीव्रसोमाख्ये एकाहे मरुत्वतीयशस्त्रे इदं सूक्तं निविद्धानम् । सूत्रित च- तीव्रसोमेनान्नाद्यकामः क्व स्य वीरः ' ( आश्व. श्रौ. ९. ७ ) इति ॥


क्व१॒॑ स्य वी॒रः को अ॑पश्य॒दिंद्रं॑ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्यां ।

यो रा॒या व॒ज्री सु॒तसो॑ममि॒च्छंतदोको॒ गंता॑ पुरुहू॒त ऊ॒ती ॥१

क्व॑ । स्यः । वी॒रः । कः । अ॒प॒श्य॒त् । इन्द्र॑म् । सु॒खऽर॑थम् । ईय॑मानम् । हरि॑ऽभ्याम् ।

यः । रा॒या । व॒ज्री । सु॒तऽसो॑मम् । इ॒च्छन् । तत् । ओकः॑ । गन्ता॑ । पु॒रु॒ऽहू॒तः । ऊ॒ती ॥१

क्व । स्यः । वीरः । कः । अपश्यत् । इन्द्रम् । सुखऽरथम् । ईयमानम् । हरिऽभ्याम् ।

यः । राया । वज्री । सुतऽसोमम् । इच्छन् । तत् । ओकः । गन्ता । पुरुऽहूतः । ऊती ॥१

“वज्री वज्रवान् “पुरुहूतः बहुभिराहूतः “यः इन्द्रः "राया देयेन धनेन सह "सुतसोममिच्छन् अभिषुतसोमं यजमानमन्विच्छन् “ऊती ऊत्यै रक्षायै “तत् तस्य यजमानस्य “ओकः गृहं “गन्ता प्राप्तो भवति "वीरः विक्रान्तः “स्यः स इन्द्रः “क्व कुत्र विद्यते । “सुखरथं शोभनाक्षद्वारः रथो यस्य स सुखरथः । सुष्ठु खनति लिखति भूमिमिति वा सुखम् । तादृग्रथम् । ‘सुहितं खेभ्यः खं पुनः खनतेः ' ( निरु. ३. १३ ) इति यास्कः । "हरिभ्यां स्ववाहनाभ्याम् अश्वाभ्याम् “ईयमानं गच्छन्तम् "इन्द्रं कोऽपश्यत् कश्च ददृशे ॥


अवा॑चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा॑यमि॒च्छन् ।

अपृ॑च्छम॒न्याँ उ॒त ते म॑ आहु॒रिंद्रं॒ नरो॑ बुबुधा॒ना अ॑शेम ॥२

अव॑ । अ॒च॒च॒क्ष॒म् । प॒दम् । अ॒स्य॒ । स॒स्वः । उ॒ग्रम् । नि॒ऽधा॒तुः । अनु॑ । आ॒य॒म् । इ॒च्छन् ।

अपृ॑च्छम् । अ॒न्यान् । उ॒त । ते । मे॒ । आ॒हुः॒ । इन्द्र॑म् । नरः॑ । बु॒बु॒धा॒नाः । अ॒शे॒म॒ ॥२

अव । अचचक्षम् । पदम् । अस्य । सस्वः । उग्रम् । निऽधातुः । अनु । आयम् । इच्छन् ।

अपृच्छम् । अन्यान् । उत । ते । मे । आहुः । इन्द्रम् । नरः । बुबुधानाः । अशेम ॥२

“अस्य इन्द्रस्य “पदं स्थानम् “अवाचचक्षम् अहमवाद्राक्षम् । कीदृशम् । “सस्वः अन्तर्हितम् । “उग्रम् उद्गूर्णम् । किंच “इच्छन् इन्द्रमन्विच्छन्नहं “निधातुः स्वं स्थापयितुः अस्य इन्द्रस्य पदम् “अन्वायम् अन्वगमम् । “अन्यान् "उत अन्यान् विदुषोऽपि मार्गे इन्द्रम् “अपृच्छं पृष्टवानस्मि । पृष्टाः “ते “मे मह्यम् “इन्द्रम् “आहुः । किमाहुरित्युच्यते । “नरः यज्ञानां नेतारः “बुबुधानाः बुभुत्समाना वयम् “अशेम इन्द्रं प्राप्तवन्तः स्मः । यद्यपीन्द्रो विद्यते तथापि दुर्लभश्चेदनुपगन्तव्यः इति बुभुत्समानः स्वभावमपृच्छत् पृष्टैश्च सुलभः इत्युक्त इन्द्रप्राप्त्यर्थं सूक्तशेषमपश्यदित्यर्थः ॥


प्र नु व॒यं सु॒ते या ते॑ कृ॒तानींद्र॒ ब्रवा॑म॒ यानि॑ नो॒ जुजो॑षः ।

वेद॒दवि॑द्वांछृ॒णव॑च्च वि॒द्वान्वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ॥३

प्र । नु । व॒यम् । सु॒ते । या । ते॒ । कृ॒तानि॑ । इन्द्र॑ । ब्रवा॑म । यानि॑ । नः॒ । जुजो॑षः ।

वेद॑त् । अवि॑द्वान् । शृ॒णव॑त् । च॒ । वि॒द्वान् । वह॑ते । अ॒यम् । म॒घऽवा॑ । सर्व॑ऽसेनः ॥३

प्र । नु । वयम् । सुते । या । ते । कृतानि । इन्द्र । ब्रवाम । यानि । नः । जुजोषः ।

वेदत् । अविद्वान् । शृणवत् । च । विद्वान् । वहते । अयम् । मघऽवा । सर्वऽसेनः ॥३

हे "इन्द्र “ते त्वदीयानि यानि “कृतानि कर्माणि सन्ति "नु अद्य “वयं स्तोतारः “सुते सोमेऽभिषुते सति तानि कर्माणि “प्र “ब्रवाम प्रकर्षेण वदाम । त्वमपि “नः अस्मदर्थं “यानि कर्माणि “जुजोषः असेवथाः तानि कर्माणि "अविद्वान् इतः पूर्वमजानन् जनः “वेदत् जानातु । “विद्वान् “शृणवच्च शृणुयाच्च । यद्वा विद्वान् जानन् पुरुषः शृणवच्च । अजानन्तमपि जनं श्रावयेच्च । “सर्वसेनः सर्वाभिः सेनाभिर्युक्तः “मघवा धनवान् विद्वान् जानन् “अयम् इन्द्रो जानतश्च शृण्वतश्च तान् जनान् प्रति "वहते अश्वैरुह्यते ॥ व्यत्ययेन कर्तृप्रत्ययः ॥ प्रापयति ॥


स्थि॒रं मन॑श्चकृषे जा॒त इं॑द्र॒ वेषीदेको॑ यु॒धये॒ भूय॑सश्चित् ।

अश्मा॑नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा॑मू॒र्वमु॒स्रिया॑णां ॥४

स्थि॒रम् । मनः॑ । च॒कृ॒षे॒ । जा॒तः । इ॒न्द्र॒ । वेषि॑ । इत् । एकः॑ । यु॒धये॑ । भूय॑सः । चि॒त् ।

अश्मा॑नम् । चि॒त् । शव॑सा । दि॒द्यु॒तः॒ । वि । वि॒दः । गवा॑म् । ऊ॒र्वम् । उ॒स्रिया॑णाम् ॥४

स्थिरम् । मनः । चकृषे । जातः । इन्द्र । वेषि । इत् । एकः । युधये । भूयसः । चित् ।

अश्मानम् । चित् । शवसा । दिद्युतः । वि । विदः । गवाम् । ऊर्वम् । उस्रियाणाम् ॥४

हे “इन्द्र “जातः उत्पन्नमात्र एव त्वं “स्थिरं चलनरहितं “मनः चित्तं "चकृषे चकर्थ । सर्वान् बलिष्ठान् जयेयमितीदृशम् । तथा हे इन्द्र “एकः “इत् असहाय एव त्वं “युधये युद्धाय “भूयसश्चित् बहुतरान् राक्षसादीनपि "वेषि अवेः अगमः। किंच “अश्मानं चित् गवामावरकं पर्वतमपि "शवसा बलेन “वि "दिद्युतः व्यभिनः । किंच "उस्रियाणां क्षीरमुत्सारयन्तीनां “गवां धेनूनाम् “ऊर्वं समूहं "विदः अवेदयः अलम्भयः ॥


प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त् ।

अत॑श्चि॒दिंद्रा॑दभयंत दे॒वा विश्वा॑ अ॒पो अ॑जयद्दा॒सप॑त्नीः ॥५

प॒रः । यत् । त्वम् । प॒र॒मः । आ॒ऽजनि॑ष्ठाः । प॒रा॒ऽवति॑ । श्रुत्य॑म् । नाम॑ । बिभ्र॑त् ।

अतः॑ । चि॒त् । इन्द्रा॑त् । अ॒भ॒य॒न्त॒ । दे॒वाः । विश्वाः॑ । अ॒पः । अ॒ज॒य॒त् । दा॒सऽप॑त्नीः ॥५

परः । यत् । त्वम् । परमः । आऽजनिष्ठाः । पराऽवति । श्रुत्यम् । नाम । बिभ्रत् ।

अतः । चित् । इन्द्रात् । अभयन्त । देवाः । विश्वाः । अपः । अजयत् । दासऽपत्नीः ॥५

“यत् यदा हे इन्द्र “परः परस्तादुपरिष्टात् स्थितः “परमः उत्कृष्टतमः “त्वं “परावति दूरे "श्रुत्यं श्रवणीयं “नाम नामधेयं “बिभ्रत् धारयन् “आजनिष्ठाः आ समन्तादजायथाः । शेषः परोक्षकृतः । “अतश्चित् अत आरभ्यैव “देवाः द्योतमानाः अग्न्यादयः “इन्द्रात् "अभयन्त बिभ्युः । "विश्वा “अपः सर्वाण्युदकानि इन्द्रः “अजयत् वशीचक्रे । कीदृशीः । “दासपत्नीः । दासो वृत्रः पतिः पालयिता यासामपां ता इति ॥ ॥ २६ ॥


तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒ अर्चं॑त्य॒र्कं सु॒न्वंत्यंधः॑ ।

अहि॑मोहा॒नम॒प आ॒शया॑नं॒ प्र मा॒याभि॑र्मा॒यिनं॑ सक्ष॒दिंद्रः॑ ॥६

तुभ्य॑ । इत् । ए॒ते । म॒रुतः॑ । सु॒ऽशेवाः॑ । अर्च॑न्ति । अ॒र्कम् । सु॒न्वन्ति॑ । अन्धः॑ ।

अहि॑म् । ओ॒हा॒नम् । अ॒पः । आ॒ऽशया॑नम् । प्र । मा॒याभिः॑ । मा॒यिन॑म् । स॒क्ष॒त् । इन्द्रः॑ ॥६

तुभ्य । इत् । एते । मरुतः । सुऽशेवाः । अर्चन्ति । अर्कम् । सुन्वन्ति । अन्धः ।

अहिम् । ओहानम् । अपः । आऽशयानम् । प्र । मायाभिः । मायिनम् । सक्षत् । इन्द्रः ॥६

“एते “मरुतः । महद्रवन्ति वदन्तीति' मरुतः स्तोतारः। "सुशेवाः । शेवमिति सुखनामैतत् । शोभनसुखाः सन्तः । स्तोत्रेण शोभनं सुखमुत्पादयन्त इत्यर्थः । हे इन्द्र “तुभ्येत् तुभ्यमेव “अर्कम् अर्चनीयं स्तोत्रम् "अर्चन्ति स्तुवन्ति कुर्वन्तीत्यर्थः । “अन्धः सोमलक्षणमन्नं 'सुन्वन्ति अभिषवं कुर्वन्ति । “इन्द्रः परमैश्वर्ययुक्तः 'मायाभिः स्वकीयाभिः शक्तिभिः "अहिं वृत्रं “प्र “सक्षत् अभ्यभवत् । कीदृशम् । “ओहानं देवान् बाधमानम् "अपः उदकानि “आशयानम् आवृत्य शयनं कुर्वन्तं “मायिनं कपटवन्तमिति ॥


वि षू मृधो॑ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा॑ मघवन्त्संचका॒नः ।

अत्रा॑ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ॥७

वि । सु । मृधः॑ । ज॒नुषा॑ । दान॑म् । इन्व॑न् । अह॑न् । गवा॑ । म॒घ॒ऽव॒न् । स॒म्ऽच॒का॒नः ।

अत्र॑ । दा॒सस्य॑ । नमु॑चेः । शिरः॑ । यत् । अव॑र्तयः । मन॑वे । गा॒तुम् । इ॒च्छन् ॥७

वि । सु । मृधः । जनुषा । दानम् । इन्वन् । अहन् । गवा । मघऽवन् । सम्ऽचकानः ।

अत्र । दासस्य । नमुचेः । शिरः । यत् । अवर्तयः । मनवे । गातुम् । इच्छन् ॥७

हे "मघवन् धनवन्निन्द्र “संचकानः अस्माभिः स्तूयमानस्त्वम् ॥ संपूर्वः कायतिः शब्दकर्मा । तस्य लडर्थे लिटि रूपम् ॥ "दानं देवानां बाधकं वृत्रमसुरं “गवा वज्रेण “इन्वन् प्रेरयन् हिंसन् “जनुषा जन्मना “मृधः तदनुचरान् राक्षसादीन् शत्रून् “सु सुष्ठु “वि “अहन् विजघन्थ । इन्द्रस्यासुरा जन्मारभ्य शत्रव इत्यर्थः । हे इन्द्र त्वम् “अत्र अस्मिन् युद्धे “मनवे नमुचिनापहृतगोधनाय मह्यं “गातुं सुखम् “इच्छन् अभिलषन् “नमुचेः एतन्नामकस्य “दासस्य उपक्षपयितुरसुरस्य संबन्धि “शिरः शीर्षं “यत् यदा “अवर्तयः अचूर्णयः तदा शत्रून् विजघन्थेति पूर्वेण संबन्धः ॥


युजं॒ हि मामकृ॑था॒ आदिदिं॑द्र॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् ।

अश्मा॑नं चित्स्व॒र्यं१॒॑ वर्त॑मानं॒ प्र च॒क्रिये॑व॒ रोद॑सी म॒रुद्भ्यः॑ ॥८

युज॑म् । हि । माम् । अकृ॑थाः । आत् । इत् । इ॒न्द्र॒ । शिरः॑ । दा॒सस्य॑ । नमु॑चेः । म॒था॒यन् ।

अश्मा॑नम् । चि॒त् । स्व॒र्य॑म् । वर्त॑मानम् । प्र । च॒क्रिया॑ऽइव । रोद॑सी॒ इति॑ । म॒रुत्ऽभ्यः॑ ॥८

युजम् । हि । माम् । अकृथाः । आत् । इत् । इन्द्र । शिरः । दासस्य । नमुचेः । मथायन् ।

अश्मानम् । चित् । स्वर्यम् । वर्तमानम् । प्र । चक्रियाऽइव । रोदसी इति । मरुत्ऽभ्यः ॥८

हे “इन्द्र त्वं “स्वर्यं स्वरेण सहितं “वर्तमानं भ्रमन्तम् “अश्मानं “चित् मेघमिव स्थितं “दासस्य उपक्षपयितुः “नमुचेः असुरस्य “शिरः “मथायन् चूर्णयन् “आदित् अनन्तरमेव “मां "युजं सखायम् “अकृथाः “हि चकृषे खलु । तदानीं “मरुद्धयः त्वत्सहायेभ्यः “रोदसी द्यावापृथिव्यौ “चक्रियेव चक्रे इव “प्र आस्ताम् ॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥


स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा॑ करन्नब॒ला अ॑स्य॒ सेनाः॑ ।

अं॒तर्ह्यख्य॑दु॒भे अ॑स्य॒ धेने॒ अथोप॒ प्रैद्यु॒धये॒ दस्यु॒मिंद्रः॑ ॥९

स्त्रियः॑ । हि । दा॒सः । आयु॑धानि । च॒क्रे । किम् । मा॒ । क॒र॒न् । अ॒ब॒लाः । अ॒स्य॒ । सेनाः॑ ।

अ॒न्तः । हि । अख्य॑त् । उ॒भे इति॑ । अ॒स्य॒ । धेने॒ इति॑ । अथ॑ । उप॑ । प्र । ऐ॒त् । यु॒धये॑ । दस्यु॑म् । इन्द्रः॑ ॥९

स्त्रियः । हि । दासः । आयुधानि । चक्रे । किम् । मा । करन् । अबलाः । अस्य । सेनाः ।

अन्तः । हि । अख्यत् । उभे इति । अस्य । धेने इति । अथ । उप । प्र । ऐत् । युधये । दस्युम् । इन्द्रः ॥९

"दासः उपक्षपयिता नमुचिरसुरः “स्त्रियः स्त्री: “आयुधानि युद्धसाधनानि “चक्रे “हि कृतवान् खलु । इन्द्रेण सह योद्धुं प्रहितवानित्यर्थः । “अस्य असुरस्य संबन्धिन्यः "अबलाः स्त्रीरूपाः “सेनाः “मा मां “किं “करन् । किं कुर्युरिति मन्यमान इन्द्रस्तासां मध्ये "अस्य असुरस्य “धेने प्रीणयित्र्यौ सुरूपे “उभे द्वे स्त्रियौ “अन्तः “अख्यत् “हि गृहमध्ये निदधे खलु । “अथ अनन्तरम् “इन्द्रः “दस्युं नमुचिं “युधये युद्धाय “उप “प्रैत् उपप्रागच्छत् ॥


समत्र॒ गावो॒ऽभितो॑ऽनवंते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न् ।

सं ता इंद्रो॑ असृजदस्य शा॒कैर्यदीं॒ सोमा॑सः॒ सुषु॑ता॒ अमं॑दन् ॥१०

सम् । अत्र॑ । गावः॑ । अ॒भितः॑ । अ॒न॒व॒न्त॒ । इ॒हऽइ॑ह । व॒त्सैः । विऽयु॑ताः । यत् । आस॑न् ।

सम् । ताः । इन्द्रः॑ । अ॒सृ॒ज॒त् । अ॒स्य॒ । शा॒कैः । यत् । ई॒म् । सोमा॑सः । सुऽसु॑ताः । अम॑न्दन् ॥१०

सम् । अत्र । गावः । अभितः । अनवन्त । इहऽइह । वत्सैः । विऽयुताः । यत् । आसन् ।

सम् । ताः । इन्द्रः । असृजत् । अस्य । शाकैः । यत् । ईम् । सोमासः । सुऽसुताः । अमन्दन् ॥१०

“यत् यदा “गावः “वत्सैर्वियुताः “आसन् वियुक्ता अभवन् “अत्र अस्मिन् काले “अभितः सर्वतो नमुचिनापहृता गावः “इहेह इह चेह च सर्वतः “सम् “अनवन्त अत्यन्तमगच्छन् । “यत् यदा "सुषुताः बभ्रुनाम्ना ऋषिणा सुष्ट्वभिषुताः “सोमासः सोमाः “ईम् एनमिन्द्रम् “अमन्दन् अमादयन् तदा “इन्द्रः “शाकैः शक्तैर्मरुद्भिः सह “अस्य बभ्रोः संबन्धिनीर्नमुचिनापहृताः “ताः गाः “सम् “असृजत् वत्सैः सह समयोजयत् ॥ ॥ २७ ॥


यदीं॒ सोमा॑ ब॒भ्रुधू॑ता॒ अमं॑द॒न्नरो॑रवीद्वृष॒भः साद॑नेषु ।

पु॒रं॒द॒रः प॑पि॒वाँ इंद्रो॑ अस्य॒ पुन॒र्गवा॑मददादु॒स्रिया॑णां ॥११

यत् । ई॒म् । सोमाः॑ । ब॒भ्रुऽधू॑ताः । अम॑न्दन् । अरो॑रवीत् । वृ॒ष॒भः । सद॑नेषु ।

पु॒र॒म्ऽद॒रः । प॒पि॒ऽवान् । इन्द्रः॑ । अ॒स्य॒ । पुनः॑ । गवा॑म् । अ॒द॒दा॒त् । उ॒स्रिया॑णाम् ॥११

यत् । ईम् । सोमाः । बभ्रुऽधूताः । अमन्दन् । अरोरवीत् । वृषभः । सदनेषु ।

पुरम्ऽदरः । पपिऽवान् । इन्द्रः । अस्य । पुनः । गवाम् । अददात् । उस्रियाणाम् ॥११

“यत् यदा “बभ्रुधूताः बभ्रुणाभिषुताः “सोमाः “ईम् एनमिन्द्रम् “अमन्दन् अमादयन् तदा “वृषभः कामानां वर्षिता इन्द्रः “सदनेषु युद्धेषु “अरोरवीत् अत्यर्थं शब्दमकरोत् । “पुरंदरः पुरां दारयिता “अस्य इमं सोमं “पपिवान् पीतवान् “इन्द्रः “पुनः “उस्रियाणां क्षीरमुत्स्राविणीः “गवां गाः “अददात् बभ्रवे ददौ ॥


भ॒द्रमि॒दं रु॒शमा॑ अग्ने अक्र॒न्गवां॑ च॒त्वारि॒ दद॑तः स॒हस्रा॑ ।

ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णां ॥१२

भ॒द्रम् । इ॒दम् । रु॒शमाः॑ । अ॒ग्ने॒ । अ॒क्र॒न् । गवा॑म् । च॒त्वारि॑ । दद॑तः । स॒हस्रा॑ ।

ऋ॒ण॒म्ऽच॒यस्य॑ । प्रऽय॑ता । म॒घानि॑ । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । नृऽत॑मस्य । नृ॒णाम् ॥१२

भद्रम् । इदम् । रुशमाः । अग्ने । अक्रन् । गवाम् । चत्वारि । ददतः । सहस्रा ।

ऋणम्ऽचयस्य । प्रऽयता । मघानि । प्रति । अग्रभीष्म । नृऽतमस्य । नृणाम् ॥१२

रुशम इति कश्चिज्जनपदविशेषः । अत्र रुशमशब्देन तत्रत्या जना उच्यन्ते । “रुशमाः ऋणंचयनाम्नो राज्ञः किंकराः हे “अग्ने 'भद्रं कल्याणम् “इदं कर्म “अक्रन् अकुर्वन् । कीदृशाः । “गवां धेनूनां “चत्वारि चतुःसंख्यायुक्तानि "सहस्रा सहस्राणि “ददतः मह्यं प्रयच्छन्तः । राज्ञा हि दीयमानानि धनानि राजपुरुषा एव प्रयच्छन्तीत्यर्थः । “नृणां नेतॄणां मध्ये "नृतमस्य अतिशयेन नेतृतमस्य “ऋणंच यस्य एतन्नामकेन राज्ञा “प्रयता प्रयतानि दत्तानि “मघानि गोरूपाणि धनानि वयं “प्रत्यग्रभीष्म प्रतिगृहीतवन्तः स्मः । पूजार्थं बहुवचनम् ॥


सु॒पेश॑सं॒ माव॑ सृजं॒त्यस्तं॒ गवां॑ स॒हस्रै॑ रु॒शमा॑सो अग्ने ।

ती॒व्रा इंद्र॑मममंदुः सु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाः ॥१३

सु॒ऽपेश॑सम् । मा॒ । अव॑ । सृ॒ज॒न्ति॒ । अस्त॑म् । गवा॑म् । स॒हस्रैः॑ । रु॒शमा॑सः । अ॒ग्ने॒ ।

ती॒व्राः । इन्द्र॑म् । अ॒म॒म॒न्दुः॒ । सु॒तासः॑ । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाः ॥१३

सुऽपेशसम् । मा । अव । सृजन्ति । अस्तम् । गवाम् । सहस्रैः । रुशमासः । अग्ने ।

तीव्राः । इन्द्रम् । अममन्दुः । सुतासः । अक्तोः । विऽउष्टौ । परिऽतक्म्यायाः ॥१३

हे "अग्ने “रुशमासः रुशमा ऋणंचयस्य किंकराः “सुपेशसं सुरूपमलंकाराच्छादनादिभिः संस्कृतं “मा माम् “अस्तं गृहं “गवां धेनूनां “सहस्रैः सह "अव "सृजन्ति प्रापयन्ति स्म । तदनन्तरमेव “तीव्राः रसवन्तः “सुतासः लब्धबहुधनेन मयाभिषुताः सोमाः “परितक्म्यायाः । तमसा भूतानि परितस्तकति गच्छतीति परितक्म्या । तस्याः "अक्तोः रात्रेः “व्युष्टौ व्युच्छने सति । उषःकाले इत्यर्थः । “इन्द्रम् "अममन्दुः अमादयन् । बभ्रुः गवां प्राप्त्यनन्तरमविलम्बितमेव सोमेनेजे इत्यर्थः ॥


औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा॑नां ।

अत्यो॒ न वा॒जी र॒घुर॒ज्यमा॑नो ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा॑ ॥१४

औच्छ॑त् । सा । रात्री॑ । परि॑ऽतक्म्या । या । ऋ॒ण॒म्ऽच॒ये । राज॑नि । रु॒शमा॑नाम् ।

अत्यः॑ । न । वा॒जी । र॒घुः । अ॒ज्यमा॑नः । ब॒भ्रुः । च॒त्वारि॑ । अ॒स॒न॒त् । स॒हस्रा॑ ॥१४

औच्छत् । सा । रात्री । परिऽतक्म्या । या । ऋणम्ऽचये । राजनि । रुशमानाम् ।

अत्यः । न । वाजी । रघुः । अज्यमानः । बभ्रुः । चत्वारि । असनत् । सहस्रा ॥१४

“रुशमानं रुशमनाम्नां जनानां “राजनि प्रभौ “ऋणंचये एतत्संज्ञके तत्समीप एव “या रात्रिः “परितक्या परितो गन्त्री भवति “सा “रात्री “औच्छत् व्युष्टाभवत् । “अत्यः सततगामी “वाजी “न अश्व इव “रघुः शीघ्रगामी "अज्यमानः प्रेर्यमाणः “बभ्रुः एतन्नामक ऋषिः “चत्वारि चतुःसंख्याकानि "सहस्रा सहस्राणि गोरूपाणि धनानि “असनत् अलभत ॥


चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे॑ष्वग्ने ।

घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी॑दय॒स्मय॒स्तम्वादा॑म॒ विप्राः॑ ॥१५

चतुः॑ऽसहस्रम् । गव्य॑स्य । प॒श्वः । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । रु॒शमे॑षु । अ॒ग्ने॒ ।

घ॒र्मः । चि॒त् । त॒प्तः । प्र॒ऽवृजे॑ । यः । आसी॑त् । अ॒य॒स्मयः॑ । तम् । ऊं॒ इति॑ । आदा॑म । विप्राः॑ ॥१५

चतुःऽसहस्रम् । गव्यस्य । पश्वः । प्रति । अग्रभीष्म । रुशमेषु । अग्ने ।

घर्मः । चित् । तप्तः । प्रऽवृजे । यः । आसीत् । अयस्मयः । तम् । ऊं इति । आदाम । विप्राः ॥१५

हे अग्ने वयं “रुशमेषु एतत्संज्ञकेषु जनेषु “गव्यस्य गवात्मकस्य “पश्वः पशोः पशूनाम् । जातावेकवचनम् । “चतुःसहस्रं चत्वारि सहस्राणि प्रत्यग्रभीष्म प्रतिगृहीतवन्तः स्मः । “प्रवृजे प्रवृञ्जनार्थं “तप्तः संतप्तः शोभनवर्णः “घर्मश्चित् महावीर इव "अयस्मयः अयोमयो हिरण्मयः “यः कलशः “आसीत् अभवत् 'तमु दोहनार्थं कलशं च “विप्राः मेधाविनो वयं रुशमेषु “आदाम आदत्तवन्तः ॥ ॥ २८ ॥


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.३०&oldid=185628" इत्यस्माद् पुनः प्राप्तिः