ऋग्वेदः सूक्तं ५.४५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.४४ ऋग्वेदः - मण्डल ५
सूक्तं ५.४५
सदापृण आत्रेयः
सूक्तं ५.४६ →
दे. विश्वे देवाः। त्रिष्टुप्, ९ पुरस्ताज्ज्योतिः।


विदा दिवो विष्यन्नद्रिमुक्थैरायत्या उषसो अर्चिनो गुः ।
अपावृत व्रजिनीरुत्स्वर्गाद्वि दुरो मानुषीर्देव आवः ॥१॥
वि सूर्यो अमतिं न श्रियं सादोर्वाद्गवां माता जानती गात् ।
धन्वर्णसो नद्यः खादोअर्णा स्थूणेव सुमिता दृंहत द्यौः ॥२॥
अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय ।
वि पर्वतो जिहीत साधत द्यौराविवासन्तो दसयन्त भूम ॥३॥
सूक्तेभिर्वो वचोभिर्देवजुष्टैरिन्द्रा न्वग्नी अवसे हुवध्यै ।
उक्थेभिर्हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ॥४॥
एतो न्वद्य सुध्यो भवाम प्र दुच्छुना मिनवामा वरीयः ।
आरे द्वेषांसि सनुतर्दधामायाम प्राञ्चो यजमानमच्छ ॥५॥
एता धियं कृणवामा सखायोऽप या माताँ ऋणुत व्रजं गोः ।
यया मनुर्विशिशिप्रं जिगाय यया वणिग्वङ्कुरापा पुरीषम् ॥६॥
अनूनोदत्र हस्तयतो अद्रिरार्चन्येन दश मासो नवग्वाः ।
ऋतं यती सरमा गा अविन्दद्विश्वानि सत्याङ्गिराश्चकार ॥७॥
विश्वे अस्या व्युषि माहिनायाः सं यद्गोभिरङ्गिरसो नवन्त ।
उत्स आसां परमे सधस्थ ऋतस्य पथा सरमा विदद्गाः ॥८॥
आ सूर्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया दीर्घयाथे ।
रघुः श्येनः पतयदन्धो अच्छा युवा कविर्दीदयद्गोषु गच्छन् ॥९॥
आ सूर्यो अरुहच्छुक्रमर्णोऽयुक्त यद्धरितो वीतपृष्ठाः ।
उद्ना न नावमनयन्त धीरा आशृण्वतीरापो अर्वागतिष्ठन् ॥१०॥
धियं वो अप्सु दधिषे स्वर्षां ययातरन्दश मासो नवग्वाः ।
अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्यंहः ॥११॥


सायणभाष्यम्

अथ चतुर्थेऽनुवाके द्वादश सूक्तानि । तत्र ‘ विदा दिवः ' इत्येकादशर्चं प्रथमं सूक्तम् । सदापृणो नामात्रेय ऋषिः । त्रिष्टुप् छन्दः । ' वै तत् ' इत्युक्तत्वादिदमपि वैश्वदेवम् । विदा एकादश सदापृणः । इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥


वि॒दा दि॒वो वि॒ष्यन्नद्रि॑मु॒क्थैरा॑य॒त्या उ॒षसो॑ अ॒र्चिनो॑ गुः ।

अपा॑वृत व्र॒जिनी॒रुत्स्व॑र्गा॒द्वि दुरो॒ मानु॑षीर्दे॒व आ॑वः ॥१

वि॒दाः । दि॒वः । वि॒ऽस्यन् । अद्रि॑म् । उ॒क्थैः । आ॒ऽय॒त्याः । उ॒षसः॑ । अ॒र्चिनः॑ । गुः॒ ।

अप॑ । अ॒वृ॒त॒ । व्र॒जिनीः॑ । उत् । स्वः॑ । गा॒त् । वि । दुरः॑ । मानु॑षीः । दे॒वः । आ॒व॒रित्या॑वः ॥१

विदाः । दिवः । विऽस्यन् । अद्रिम् । उक्थैः । आऽयत्याः । उषसः । अर्चिनः । गुः ।

अप । अवृत । व्रजिनीः । उत् । स्वः । गात् । वि । दुरः । मानुषीः । देवः । आवरित्यावः ॥१

अत्रेन्द्रादयो लिङ्गोक्तदेवताः । अत्राङ्गिरसां पणिभिरपहृत्य गिरेरधः स्थापितानां गवामिन्द्रेण विमोकः प्रतिपाद्यते । “विदाः अवेदयदिन्द्रः । किम् । गा निगूढा इति संबन्धः । किं कुर्वन् । “उक्थैः अङ्गिरसां स्तुतिभिर्निमित्तभूताभिः “अद्रिं वज्रं “विष्यन् प्रक्षिपन् । रक्षकाणामुपरि गिरिभेदनाय च विष्यन् । “आयत्याः आगामिन्याः “उषसः संबन्धिनः “अर्चिनः रश्मयः "गुः अगच्छन् सर्वत्र प्रसृता अभवन् । “अपावृत अपावृणोत् “व्रजिनीः तमःपुञ्जवतीर्निशाः । “स्वः स्वरणशील: आदित्यः “उत् "गात् उदगात् । तथा कृत्वा “मानुषीः मनुष्यसंबन्धिनीः "दुरः द्वाराणि “देवः सूर्यः “वि “आवः व्यवृणोत् । अन्धकारापनयनेन मनुष्यादिव्यवहारायाकरोदित्यर्थः ॥


वि सूर्यो॑ अ॒मतिं॒ न श्रियं॑ सा॒दोर्वाद्गवां॑ मा॒ता जा॑न॒ती गा॑त् ।

धन्व॑र्णसो न॒द्य१॒॑ः खादो॑अर्णा॒ः स्थूणे॑व॒ सुमि॑ता दृंहत॒ द्यौः ॥२

वि । सूर्यः॑ । अ॒मति॑म् । न । श्रिय॑म् । सा॒त् । आ । ऊ॒र्वात् । गवा॑म् । मा॒ता । जा॒न॒ती । गा॒त् ।

धन्व॑ऽअर्णसः । न॒द्यः॑ । खादः॑ऽअर्णाः । स्थूणा॑ऽइव । सुऽमि॑ता । दृं॒ह॒त॒ । द्यौः ॥२

वि । सूर्यः । अमतिम् । न । श्रियम् । सात् । आ । ऊर्वात् । गवाम् । माता । जानती । गात् ।

धन्वऽअर्णसः । नद्यः । खादःऽअर्णाः । स्थूणाऽइव । सुऽमिता । दृंहत । द्यौः ॥२

“सूर्यः देवः “श्रियं दीप्तिं “वि “सात् विभजते प्रकाशयतीत्यर्थः । “अमतिं “न । रूपनामैतत् । रूपमिव द्रव्यम् । यथा द्रव्याणि घटपटादीनि नीलपीतादिरूपं लभन्ते तद्वत् । तथा “गवां रश्मीनां “माता उषाः "जानती सूर्यं उदेष्यति मया च व्युच्छनं कर्तव्यमिति जानती “ऊर्वात् महतोऽन्तरिक्षात् “आ “गात् आगच्छति । तथा “नद्यः च “धन्वर्णसः ॥ धन्वतिर्गतिकर्मा । धन्वन्ति गच्छन्त्यर्णांसि यासु तास्तथोक्ताः । दीर्घाभावश्छान्दसः ॥ “खादोअर्णाः भक्षितकूलोदकाः । कूलंकषा इत्यर्थः । नद्यश्चैवंरूपा भवन्ति । किंच “द्यौः च "सुमिता सुष्ठु गृहे स्थापिता “स्थूणेव गृहाधारस्तम्भ इव “दृंहत दृढाभवत् । एतत्सर्वं सूर्यस्याज्ञयेति भावः ॥


अ॒स्मा उ॒क्थाय॒ पर्व॑तस्य॒ गर्भो॑ म॒हीनां॑ ज॒नुषे॑ पू॒र्व्याय॑ ।

वि पर्व॑तो॒ जिही॑त॒ साध॑त॒ द्यौरा॒विवा॑सन्तो दसयन्त॒ भूम॑ ॥३

अ॒स्मै । उ॒क्थाय॑ । पर्व॑तस्य । गर्भः॑ । म॒हीना॑म् । ज॒नुषे॑ । पू॒र्व्याय॑ ।

वि । पर्व॑तः । जिही॑त । साध॑त । द्यौः । आ॒ऽविवा॑सन्तः । द॒स॒य॒न्त॒ । भूम॑ ॥३

अस्मै । उक्थाय । पर्वतस्य । गर्भः । महीनाम् । जनुषे । पूर्व्याय ।

वि । पर्वतः । जिहीत । साधत । द्यौः । आऽविवासन्तः । दसयन्त । भूम ॥३

“अस्मै मह्यम् “उक्थाय स्तोत्रे "पर्वतस्य पर्ववतो मेघस्य “गर्भः गर्भस्थानीयमुदकं “जिहीत चलति । चालयति वेन्द्रः । कीदृशायास्मै । “महीनां महतीनां स्तुतीनां “जनुषे उत्पादयित्रे “पूर्व्याय प्रत्नाय । तदेव पुनरुच्यते । “पर्वतः मेघः “वि जिहीत । “द्यौः च “साधत साधयति वृष्टिम् । “आविवासन्तः सर्वतः परिचरन्तोऽङ्गिारसः “भूम अत्यधिकं “दसयन्त उपक्षपयन्यात्मानं कर्मभिः ॥


सू॒क्तेभि॑र्वो॒ वचो॑भिर्दे॒वजु॑ष्टै॒रिन्द्रा॒ न्व१॒॑ग्नी अव॑से हु॒वध्यै॑ ।

उ॒क्थेभि॒र्हि ष्मा॑ क॒वय॑ः सुय॒ज्ञा आ॒विवा॑सन्तो म॒रुतो॒ यज॑न्ति ॥४

सु॒ऽउ॒क्तेभिः॑ । वः॒ । वचः॑ऽभिः । दे॒वऽजु॑ष्टैः । इन्द्रा॑ । नु । अ॒ग्नी इति॑ । अव॑से । हु॒वध्यै॑ ।

उ॒क्थेभिः । हि । स्म॒ । क॒वयः॑ । सु॒ऽय॒ज्ञाः । आ॒ऽविवा॑सन्तः । म॒रुतः॑ । यज॑न्ति ॥४

सुऽउक्तेभिः । वः । वचःऽभिः । देवऽजुष्टैः । इन्द्रा । नु । अग्नी इति । अवसे । हुवध्यै ।

उक्थेभिः । हि । स्म । कवयः । सुऽयज्ञाः । आऽविवासन्तः । मरुतः । यजन्ति ॥४

हे “इन्द्रा हे “अग्नी । परस्परापेक्षया प्रत्येकं द्विवचनम् । यद्यप्येकमेव पदं मध्ये व्यवधानं छान्दसम् । हे इन्द्राग्नी “वः युवाम् ॥ व्यत्ययेन बहुवचनम् ॥ “देवजुष्टैः देवैः सेवनीयैः "सूक्तेभिः सूक्तैः सुवचनैः शोभनगुणप्रकाशनप्रवणैः “वचोभिः “अवसे अस्मद्रक्षणाय “हुवध्यै आह्वयामि । “नु क्षिप्रं युवाम् “उक्थेभिः स्तोत्रैः “कवयः अनूचानाः पूर्वे ऋषयः “सुयज्ञाः शोभनयागाः "आविवासन्तः स्तुत्यादिना परिचरन्तः "मरुतः मरुत्सदृशाः कर्मसु शीघ्राः “यजन्ति पूजयन्ति । “हि “स्म इति पूरणौ ।।।


एतो॒ न्व१॒॑द्य सु॒ध्यो॒३॒॑ भवा॑म॒ प्र दु॒च्छुना॑ मिनवामा॒ वरी॑यः ।

आ॒रे द्वेषां॑सि सनु॒तर्द॑धा॒माया॑म॒ प्राञ्चो॒ यज॑मान॒मच्छ॑ ॥५

एतो॒ इति॑ । नु । अ॒द्य । सु॒ऽध्यः॑ । भवा॑म । प्र । दु॒च्छुनाः॑ । मि॒न॒वा॒म॒ । वरी॑यः ।

आ॒रे । द्वेषां॑सि । स॒नु॒तः । द॒धा॒म॒ । अया॑म । प्राञ्चः॑ । यज॑मानम् । अच्छ॑ ॥५

एतो इति । नु । अद्य । सुऽध्यः । भवाम । प्र । दुच्छुनाः । मिनवाम । वरीयः ।

आरे । द्वेषांसि । सनुतः । दधाम । अयाम । प्राञ्चः । यजमानम् । अच्छ ॥५

अयमङ्गिरसां वादः । “अद्य अस्मिन् यागदिने “नु क्षिप्रम् “एतो एत गच्छत । “सुध्यः शोभनकर्माणः “भवाम । “दुच्छुनाः द्विषः “प्र “मिनवाम प्रकर्षेण हिंसाम “वरीयः अत्यन्तमित्यर्थः । तदेवोच्यते । “सनुतः संभक्तॄन् "द्वेषांसि यजमानस्य द्वेष्टॄन् "आरे दूरे “दधाम स्थापयाम । यद्वा । सनुतरित्यन्तर्हितनाम । पूर्वं प्रकाशवैरिणां वध उक्त इदानीं प्रच्छन्नानामिति विवेकः । तदर्थं “यजमानं प्राञ्चः सदापृणमवत्सारं च "अच्छ अभिमुखम् “अयाम गच्छाम ॥ ॥ २६ ॥


एता॒ धियं॑ कृ॒णवा॑मा सखा॒योऽप॒ या मा॒ताँ ऋ॑णु॒त व्र॒जं गोः ।

यया॒ मनु॑र्विशिशि॒प्रं जि॒गाय॒ यया॑ व॒णिग्व॒ङ्कुरापा॒ पुरी॑षम् ॥६

आ । इ॒त॒ । धिय॑म् । कृ॒णवा॑म । स॒खा॒यः॒ । अप॑ । या । मा॒ता । ऋ॒णु॒त । व्र॒जम् । गोः ।

यया॑ । मनुः॑ । वि॒शि॒ऽशि॒प्रम् । जि॒गाय॑ । यया॑ । व॒णिक् । व॒ङ्कुः । आप॑ । पुरी॑षम् ॥६

आ । इत । धियम् । कृणवाम । सखायः । अप । या । माता । ऋणुत । व्रजम् । गोः ।

यया । मनुः । विशिऽशिप्रम् । जिगाय । यया । वणिक् । वङ्कुः । आप । पुरीषम् ॥६

इदमप्यङ्गिरसां वाक्यम् । “एत आगच्छत । आगत्य च “धियं स्तुतिं “कृणवाम करवाम । हे "सखायः परस्परं सखिभूता अङ्गिरस इत्यङ्गिरसां वचनम् । “या धीः "माता गवां निर्मात्री “गोः गवां “व्रजं पणिभिरपहृतम् “अप “ऋणुत अपावृणोत् । “यया च “मनुः “विशिशिप्रं विगतहनुं शत्रुं “जिगाय जितवान् । यद्वा । मनुः सर्वस्य मन्तेन्द्रो विशिशिप्रो वृत्रः । स तमस्माभिः कृतया स्तोमलक्षणया धिया जिगाय । “यया च “वणिक् वणिगिवाल्पेन कर्मणा बहुफलाकाङ्क्षी कक्षीवान् “वङ्कुः जलेच्छया वनगामी “पुरीषं पूरकमुदकम् “आप । ' याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशः ' ( ऋ. सं. १. ११२. ११ ) इति हि श्रुतम् ॥


अनू॑नो॒दत्र॒ हस्त॑यतो॒ अद्रि॒रार्च॒न्येन॒ दश॑ मा॒सो नव॑ग्वाः ।

ऋ॒तं य॒ती स॒रमा॒ गा अ॑विन्द॒द्विश्वा॑नि स॒त्याङ्गि॑राश्चकार ॥७

अनू॑नोत् । अत्र॑ । हस्त॑ऽयतः । अद्रिः॑ । आर्च॑न् । येन॑ । दश॑ । मा॒सः । नव॑ऽग्वाः ।

ऋ॒तम् । य॒ती । स॒रमा॑ । गाः । अ॒वि॒न्द॒त् । विश्वा॑नि । स॒त्या । अङ्गि॑राः । च॒का॒र॒ ॥७

अनूनोत् । अत्र । हस्तऽयतः । अद्रिः । आर्चन् । येन । दश । मासः । नवऽग्वाः ।

ऋतम् । यती । सरमा । गाः । अविन्दत् । विश्वानि । सत्या । अङ्गिराः । चकार ॥७

“अत्र अस्मिन् यज्ञे “अद्रिः अभिषवग्रावा “हस्तयतः हस्तेन संहतः सन् "अनूनोत् । नौतिरत्र शब्दमात्रे वर्तते । अशब्दयत् । “येन ग्राव्णा तदभिषवेण “दश “मासः मासान् दशमासपर्यन्तं “नवग्वाः । नवमासपर्यन्तं गवार्थमनुतिष्ठन्तोऽङ्गिरसो नवग्वाः । नवगोयुक्ता वा "आर्चन् अपूजयन्निन्द्रम् । यद्वा । दशसंख्याकमासोपेता दशमासानुष्ठाना अङ्गिरसः अपरे नवग्वाश्चैते सर्वेऽपि येनार्चन्ति । नवग्वासः सुतसोमास इन्द्रम् ' (ऋ. सं. ५. २९. १२) इति हि निगमः। “ऋतं सत्यं यज्ञं वा “यती प्राप्नुवती “सरमा सरणशीला स्तुतिरूपा वागङ्गिरसां गवार्थमिन्द्रेण प्रहिता देवशुनी वा “गा "अविन्दत् पणिभिरपहृताः। “विश्वानि सर्वाणि स्तुत्यादिलक्षणानि “सत्या सत्यानि “चकार “अङ्गिराः ॥


विश्वे॑ अ॒स्या व्युषि॒ माहि॑नाया॒ः सं यद्गोभि॒रङ्गि॑रसो॒ नव॑न्त ।

उत्स॑ आसां पर॒मे स॒धस्थ॑ ऋ॒तस्य॑ प॒था स॒रमा॑ विद॒द्गाः ॥८

विश्वे॑ । अ॒स्याः । वि॒ऽउषि॑ । माहि॑नायाः । सम् । यत् । गोभिः॑ । अङ्गि॑रसः । नव॑न्त ।

उत्सः॑ । आ॒सा॒म् । प॒र॒मे । स॒धऽस्थे॑ । ऋ॒तस्य॑ । प॒था । स॒रमा॑ । वि॒द॒त् । गाः ॥८

विश्वे । अस्याः । विऽउषि । माहिनायाः । सम् । यत् । गोभिः । अङ्गिरसः । नवन्त ।

उत्सः । आसाम् । परमे । सधऽस्थे । ऋतस्य । पथा । सरमा । विदत् । गाः ॥८

“विश्वे सर्वे “अङ्गिरसः “माहिनायाः मंहनीयायाः “अस्याः उषसः “व्युषि व्युच्छने सति गवामावरकेऽन्धकारेऽपवृते सति “यत् यदा “गोभिः “सं “नवन्त संजग्मिरे तदा “आसां गवाम् “उत्सः क्षीराद्युत्स्रावः “परमे उत्कृष्टे “सधस्थे सहस्थाने यज्ञे उपयुक्तोऽभवदित्यर्थः। “ऋतस्य सत्यस्य “पथा मार्गेण “सरमा वाक् देवशुनी वा “गाः निगूढाः “विदत् अलभत । यद्वा । आसां गवां परमे सधस्थे सहस्थाने व्रजस्य निगूहनप्रदेश उत्स उदकस्य प्रस्रवणो वर्तते । बिलमित्यर्थः । तेन ऋतस्य उदकस्य पथा मार्गेण सरमा गा विदत् ॥


आ सूर्यो॑ यातु स॒प्ताश्व॒ः क्षेत्रं॒ यद॑स्योर्वि॒या दी॑र्घया॒थे ।

र॒घुः श्ये॒नः प॑तय॒दन्धो॒ अच्छा॒ युवा॑ क॒विर्दी॑दय॒द्गोषु॒ गच्छ॑न् ॥९

आ । सूर्यः॑ । या॒तु॒ । स॒प्तऽअ॑श्वः । क्षेत्र॑म् । यत् । अ॒स्य॒ । उ॒र्वि॒या । दी॒र्घ॒ऽया॒थे ।

र॒घुः । श्ये॒नः । प॒त॒य॒त् । अन्धः॑ । अच्छ॑ । युवा॑ । क॒विः । दी॒द॒य॒त् । गोषु॑ । गच्छ॑न् ॥९

आ । सूर्यः । यातु । सप्तऽअश्वः । क्षेत्रम् । यत् । अस्य । उर्विया । दीर्घऽयाथे ।

रघुः । श्येनः । पतयत् । अन्धः । अच्छ । युवा । कविः । दीदयत् । गोषु । गच्छन् ॥९

“सूर्यः सर्वस्य प्रेरको देवः “सप्ताश्वः सर्पणस्वभावाश्वोपेतः सप्तसंख्याकाश्वो वा “आ “यातु अस्मदभिमुखमागच्छतु । “यत् यस्मात् “अस्य सूर्यस्य “दीर्घयाथे दीर्घगमने “क्षेत्रं 'गन्तव्यप्रदेशः “उर्विया उरु अतिप्रभूतायामः । स एव देवः “रघुः लघुगमनः सन् “श्येनः शंसनीयगमनः “अन्धः दीयमानं हविः “अच्छ अभिलक्ष्य "पतयत् आगच्छति । “युवा सर्वत्र मिश्रयिता “कविः क्रान्तदर्शी सन् “गोषु रश्मिषु “गच्छन् मध्ये वर्तयन् “दीदयत् दीप्यते । यद्वा । श्येनः सुपर्णोऽन्धोऽच्छ पतयत्। द्युलोकस्थं सोमलक्षणं देवानामन्नमस्मद्योगार्थमानेतुं तदभिमुखमगात् । युवेत्यादि शिष्टं समानम् ॥


आ सूर्यो॑ अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो॑ वी॒तपृ॑ष्ठाः ।

उ॒द्ना न नाव॑मनयन्त॒ धीरा॑ आशृण्व॒तीरापो॑ अ॒र्वाग॑तिष्ठन् ॥१०

आ । सूर्यः॑ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः॑ । अयु॑क्त । यत् । ह॒रितः॑ । वी॒तऽपृ॑ष्ठाः ।

उ॒द्ना । न । नाव॑म् । अ॒न॒य॒न्त॒ । धीराः॑ । आ॒ऽशृ॒ण्व॒तीः । आपः॑ । अ॒र्वाक् । अ॒ति॒ष्ठ॒न् ॥१०

आ । सूर्यः । अरुहत् । शुक्रम् । अर्णः । अयुक्त । यत् । हरितः । वीतऽपृष्ठाः ।

उद्ना । न । नावम् । अनयन्त । धीराः । आऽशृण्वतीः । आपः । अर्वाक् । अतिष्ठन् ॥१०

“सूर्यः देवः "शुक्रं दीप्तम् “अर्णः उदकं प्रति “आ “अरुहत् सर्वतः प्रादुर्भवति । “यत् यस्मात् यदा वा “हरितः अश्वान् "वीतपृष्ठाः कान्तपृष्ठान् “अयुक्त रथे अयोजयत् तदा तं सूर्यं “धीराः धीमन्तो यजमानादयः “उद्ना उदकेन “नावं “न नावमिव “अनयन्त । तदा “आशृण्वतीः सर्वतोऽनुज्ञां कुर्वाणाः "आपः "अर्वाक् अवाङ्मुखाः “अतिष्ठन् अभवन् ॥


धियं॑ वो अ॒प्सु द॑धिषे स्व॒र्षां ययात॑र॒न्दश॑ मा॒सो नव॑ग्वाः ।

अ॒या धि॒या स्या॑म दे॒वगो॑पा अ॒या धि॒या तु॑तुर्या॒मात्यंह॑ः ॥११

धिय॑म् । वः॒ । अ॒प्ऽसु । द॒धि॒षे॒ । स्वः॒ऽसाम् । यया॑ । अत॑रन् । दश॑ । मा॒सः । नव॑ऽग्वाः ।

अ॒या । धि॒या । स्या॒म॒ । दे॒वऽगो॑पाः । अ॒या । धि॒या । तु॒तु॒र्या॒म॒ । अति॑ । अंहः॑ ॥११

धियम् । वः । अप्ऽसु । दधिषे । स्वःऽसाम् । यया । अतरन् । दश । मासः । नवऽग्वाः ।

अया । धिया । स्याम । देवऽगोपाः । अया । धिया । तुतुर्याम । अति । अंहः ॥११

हे देवाः “वः युष्माकं “धियं स्तुतिम् “अप्सु अब्निमित्तां “स्वर्षां सर्वस्य दात्रीं “दधिषे धारयामि ॥ व्यत्ययेन मध्यमः ॥ “यया धिया कर्मणा “नवग्वाः अङ्गिरसः “दश “मासः “अतरन् सत्रमनुतिष्ठन्तः “अया अनया “धिया “देवगोपाः देवैर्गुप्ताः “स्याम भवेम । “अया “धिया “अंह: पापम् “अति “तुतुर्याम अतितरेम ॥ ॥ २७ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.४५&oldid=199500" इत्यस्माद् पुनः प्राप्तिः