सामग्री पर जाएँ

ऋग्वेदः सूक्तं ५.२६

विकिस्रोतः तः
← सूक्तं ५.२५ ऋग्वेदः - मण्डल ५
सूक्तं ५.२६
वसूयव आत्रेयाः
सूक्तं ५.२७ →
दे. अग्निः, ९ विश्वे देवाः। गायत्री।


अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।
आ देवान्वक्षि यक्षि च ॥१॥
तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् ।
देवाँ आ वीतये वह ॥२॥
वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि ।
अग्ने बृहन्तमध्वरे ॥३॥
अग्ने विश्वेभिरा गहि देवेभिर्हव्यदातये ।
होतारं त्वा वृणीमहे ॥४॥
यजमानाय सुन्वत आग्ने सुवीर्यं वह ।
देवैरा सत्सि बर्हिषि ॥५॥
समिधानः सहस्रजिदग्ने धर्माणि पुष्यसि ।
देवानां दूत उक्थ्यः ॥६॥
न्यग्निं जातवेदसं होत्रवाहं यविष्ठ्यम् ।
दधाता देवमृत्विजम् ॥७॥
प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः ।
स्तृणीत बर्हिरासदे ॥८॥
एदं मरुतो अश्विना मित्रः सीदन्तु वरुणः ।
देवासः सर्वया विशा ॥९॥


सायणभाष्यम्

‘ अग्ने पावक ' इति नवर्चं द्वादशं सूक्तम् । वसूयव ऋषयः । गायत्री छन्दः । अग्निर्देवता । तथा चानुक्रान्तम्- ‘ अग्ने गायत्रम्' इति । प्रातरनुवाके आग्नेये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च - अग्ने पावक दूतं व इति सूक्ते' (आश्व. श्रौ. ४, १३ ) इति । आधाने द्वितीयायामिष्टौ प्रथमस्य हविषः • अग्ने पावक' इत्येषा याज्या । सूत्रितं च - ‘ स नः पावक दीदिवोऽग्ने पावक रोचिषा ' ( आश्व. श्रौ. २. १ ) इति ॥


अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ ।

आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥१

अग्ने॑ । पा॒व॒क॒ । रो॒चिषा॑ । म॒न्द्रया॑ । दे॒व॒ । जि॒ह्वया॑ ।

आ । दे॒वान् । व॒क्षि॒ । यक्षि॑ । च॒ ॥१

अग्ने । पावक । रोचिषा । मन्द्रया । देव । जिह्वया ।

आ । देवान् । वक्षि । यक्षि । च ॥१

हे “पावक शोधक “रोचिषा स्वदीप्त्या “मन्द्रया देवानां मादयित्र्या “जिह्वया च हे “देव द्योतमान “अग्ने "देवान् "आ “वक्षि यज्ञार्थमावह । “यक्षि “च । तान् यज ॥


तं त्वा॑ घृतस्नवीमहे॒ चित्र॑भानो स्व॒र्दृश॑म् ।

दे॒वाँ आ वी॒तये॑ वह ॥२

तम् । त्वा॒ । घृ॒त॒स्नो॒ इति॑ घृतऽस्नो । ई॒म॒हे॒ । चित्र॑भानो॒ इति॒ चित्र॑ऽभानो । स्वः॒ऽदृश॑म् ।

दे॒वान् । आ । वी॒तये॑ । व॒ह॒ ॥२

तम् । त्वा । घृतस्नो इति घृतऽस्नो । ईमहे । चित्रभानो इति चित्रऽभानो । स्वःऽदृशम् ।

देवान् । आ । वीतये । वह ॥२

हे “घृतस्नो घृतस्य प्रेरक । यद्वा घृतेन जनित । हे “चित्रभानो । चित्रा नानाविधा भानवो रश्मयो यस्यासौ चित्रभानुः । तस्य संबोधनम् । “स्वर्दृशं सर्वद्रष्टारं “तं “त्वा त्वाम् “ईमहे याचामहे । अतः "वीतये हविषां भक्षणाय "देवान् “आ “वह ॥


वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्तं॒ समि॑धीमहि ।

अग्ने॑ बृ॒हन्त॑मध्व॒रे ॥३

वी॒तिऽहो॑त्रम् । त्वा॒ । क॒वे॒ । द्यु॒ऽमन्त॑म् । सम् । इ॒धी॒म॒हि॒ ।

अग्ने॑ । बृ॒हन्त॑म् । अ॒ध्व॒रे ॥३

वीतिऽहोत्रम् । त्वा । कवे । द्युऽमन्तम् । सम् । इधीमहि ।

अग्ने । बृहन्तम् । अध्वरे ॥३

हे "कवे क्रान्तदर्शिन् “अग्ने “वीतिहोत्रं कान्तयज्ञं “द्युमन्तं दीप्तिमन्तं “बृहन्तं महान्तं “त्वा त्वाम् “अध्वरे यज्ञे “समिधीमहि समिद्भिः संदीपयामः ।।


अग्ने॒ विश्वे॑भि॒रा ग॑हि दे॒वेभि॑र्ह॒व्यदा॑तये ।

होता॑रं त्वा वृणीमहे ॥४

अग्ने॑ । विश्वे॑भिः । आ । ग॒हि॒ । दे॒वेभिः॑ । ह॒व्यऽदा॑तये ।

होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ ॥४

अग्ने । विश्वेभिः । आ । गहि । देवेभिः । हव्यऽदातये ।

होतारम् । त्वा । वृणीमहे ॥४

हे “अग्ने “विश्वेभिः सर्वैः "देवेभिः देवैः सह त्वं “हव्यदातये हविषां दात्रे यजमानाय तदर्थम् “आ “गहि यज्ञं प्रत्यागच्छ । यतः “होतारं देवानामाह्वातारं “त्वा त्वां “वृणीमहे प्रार्थयामहे ॥


यज॑मानाय सुन्व॒त आग्ने॑ सु॒वीर्यं॑ वह ।

दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥५

यज॑मानाय । सु॒न्व॒ते । आ । अ॒ग्ने॒ । सु॒ऽवीर्य॑म् । व॒ह॒ ।

दे॒वैः । आ । स॒त्सि॒ । ब॒र्हिषि॑ ॥५

यजमानाय । सुन्वते । आ । अग्ने । सुऽवीर्यम् । वह ।

देवैः । आ । सत्सि । बर्हिषि ॥५

हे “अग्ने "सुन्वते अभिषवं कुर्वते “यजमानाय “सुवीर्यं शोभनं बलम् “आ “वह प्रापय । किंच “देवैः सह “बर्हिषि यज्ञे “आ “सत्सि आसीदेति ॥ ॥ १९ ॥


स॒मि॒धा॒नः स॑हस्रजि॒दग्ने॒ धर्मा॑णि पुष्यसि ।

दे॒वानां॑ दू॒त उ॒क्थ्य॑ः ॥६

स॒म्ऽइ॒धा॒नः । स॒ह॒स्र॒ऽजि॒त् । अग्ने॑ । धर्मा॑णि । पु॒ष्य॒सि॒ ।

दे॒वाना॑म् । दू॒तः । उ॒क्थ्यः॑ ॥६

सम्ऽइधानः । सहस्रऽजित् । अग्ने । धर्माणि । पुष्यसि ।

देवानाम् । दूतः । उक्थ्यः ॥६

हे "सहस्रजित् सहस्रस्य जेतः “अग्ने “समिधानः हविर्भिः समिध्यमानः “उक्थ्यः प्रशस्यस्त्वं "देवानां “दूतः सन् “धर्माणि नः कर्माणि यज्ञादिक्रियाः “पुष्यसि पोषयसि ॥


न्य१॒॑ग्निं जा॒तवे॑दसं होत्र॒वाहं॒ यवि॑ष्ठ्यम् ।

दधा॑ता दे॒वमृ॒त्विज॑म् ॥७

नि । अ॒ग्निम् । जा॒तऽवे॑दसम् । हो॒त्र॒ऽवाह॑म् । यवि॑ष्ठ्यम् ।

दधा॑त । दे॒वम् । ऋ॒त्विज॑म् ॥७

नि । अग्निम् । जातऽवेदसम् । होत्रऽवाहम् । यविष्ठ्यम् ।

दधात । देवम् । ऋत्विजम् ॥७

हे यजमानाः "जातवेदसम् । जातानि भूतानि वेत्तीति जातवेदाः । तं “होत्रवाहं होत्रस्य यज्ञस्य वोढारं “यविष्ठ्यं युवतमं “देवं द्योतमानम् “ऋत्विजम् ऋतौ यष्टारम् “अग्निं “नि “धात निधत्त ॥


प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ।

स्तृ॒णी॒त ब॒र्हिरा॒सदे॑ ॥८

प्र । य॒ज्ञः । ए॒तु॒ । आ॒नु॒षक् । अ॒द्य । दे॒वव्य॑चःऽतमः ।

स्तृ॒णी॒त । ब॒र्हिः । आ॒ऽसदे॑ ॥८

प्र । यज्ञः । एतु । आनुषक् । अद्य । देवव्यचःऽतमः ।

स्तृणीत । बर्हिः । आऽसदे ॥८

“अद्य अस्मिन्नहनि “देवव्यचस्तमः देवै: प्रकाशमानैः स्तोतृभिः व्याप्ततमः “यज्ञः यज्ञसाधनं हविः “आनुषक् अनुषक्तं यथा भवति तथा “प्र “एतु देवान् गच्छतु । हे ऋत्विजः “आसदे अग्नेरासदनार्थ “बर्हिः स्तृणीत ॥


एदं म॒रुतो॑ अ॒श्विना॑ मि॒त्रः सी॑दन्तु॒ वरु॑णः ।

दे॒वास॒ः सर्व॑या वि॒शा ॥९

आ । इ॒दम् । म॒रुतः॑ । अ॒श्विना॑ । मि॒त्रः । सी॒द॒न्तु॒ । वरु॑णः ।

दे॒वासः॑ । सर्व॑या । वि॒शा ॥९

आ । इदम् । मरुतः । अश्विना । मित्रः । सीदन्तु । वरुणः ।

देवासः । सर्वया । विशा ॥९

“मरुतः मरुद्गणाः “अश्विना अश्विनौ देवानां भिषजौ “मित्रः सूर्यः “वरुणः च “देवासः एते सर्वे देवाः “सर्वया “विशा समस्तेन स्वीयेन परिजनेन सार्धम् “इदं बर्हिः “आ “सीदन्तु ॥॥२०॥

टिप्पणी

५.२६.१ अग्ने पावक रोचिषा मन्द्रया देव जिह्वया। आ देवान्वक्षि यक्षि च

जिह्वा उपरि टिप्पणी

अयं तृचः यद्यपि सामवेदे १५२१ आविर्भवति किन्तु अव्याकृतमेवास्ति।

ऽग्ने पावक रोचिषेति दक्षिणम्पक्षं स नः पावक दीदिव इति पुच्छं पावकया यश्चितयन्त्या कृपेत्युत्तरम्पावकं पावकमिति यद्वै शिवं शान्तं तत्पावकं शमयत्येवैनमेतत्। माश ९,१,२,३०

आहवनीयोपस्थानम् - अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च (ऋ. ५.२६.१)॥ स नः पावक दीदिवो ऽग्ने देवाꣳ इहा वह । उप यज्ञꣳ हविश् च नः (ऋ. १.१२.१०) ॥ अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । शुची रोचत आहुतः (ऋ. ८.४४.२१) ॥ - तैसं १.५.५.३

अग्ने पावक रोचिषेत्य - अन्नं वै पावकम् - अन्नाद्येनैवैनं तत् समृद्धयन्ति। अथो वायुर् वै पावकः, प्राणो वै वायुर्, अभिपूर्वम् एवैनं तत् प्राणैस् समृद्धयन्ति।। जै २,१३७


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.२६&oldid=303817" इत्यस्माद् प्रतिप्राप्तम्