ऋग्वेदः सूक्तं ५.२५
← सूक्तं ५.२४ | ऋग्वेदः - मण्डल ५ सूक्तं ५.२५ वसूयव आत्रेयाः |
सूक्तं ५.२६ → |
दे. अग्निः। अनुष्टुप्। |
अच्छा वो अग्निमवसे देवं गासि स नो वसुः ।
रासत्पुत्र ऋषूणामृतावा पर्षति द्विषः ॥१॥
स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे ।
होतारं मन्द्रजिह्वमित्सुदीतिभिर्विभावसुम् ॥२॥
स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या ।
अग्ने रायो दिदीहि नः सुवृक्तिभिर्वरेण्य ॥३॥
अग्निर्देवेषु राजत्यग्निर्मर्तेष्वाविशन् ।
अग्निर्नो हव्यवाहनोऽग्निं धीभिः सपर्यत ॥४॥
अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम् ।
अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे ॥५॥
अग्निर्ददाति सत्पतिं सासाह यो युधा नृभिः ।
अग्निरत्यं रघुष्यदं जेतारमपराजितम् ॥६॥
यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो ।
महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥७॥
तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् ।
उतो ते तन्यतुर्यथा स्वानो अर्त त्मना दिवः ॥८॥
एवाँ अग्निं वसूयवः सहसानं ववन्दिम ।
स नो विश्वा अति द्विषः पर्षन्नावेव सुक्रतुः ॥९॥
सायणभाष्यम्
‘ अच्छा वो अग्निम्' इति नवर्चमेकादशं सूक्तम् । अत्रानुक्रमणिका- अच्छा वो नव वसूयव अनुष्टुभम् ' इति । आत्रेया वसूयुनामान ऋषयः । अनुष्टुप् । मण्डलादिपरिभाषयाग्निर्देवता । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः । प्रातःसवनेऽच्छावाकवदस्वेत्युक्ते “ अच्छा वो अग्निमवसे' इत्यृचमनुब्रूयात् । तथा च सूत्रितम् -‘ अच्छा वो अग्निमवस इत्यृचमन्वाह' ( आश्व. श्रौ. ५. ७ ) इति ॥
अच्छा॑ वो अ॒ग्निमव॑से दे॒वं गा॑सि॒ स नो॒ वसु॑ः ।
रास॑त्पु॒त्र ऋ॑षू॒णामृ॒तावा॑ पर्षति द्वि॒षः ॥१
अच्छ॑ । वः॒ । अ॒ग्निम् । अव॑से । दे॒वम् । गा॒सि॒ । सः । नः॒ । वसुः॑ ।
रास॑त् । पु॒त्रः । ऋ॒षू॒णाम् । ऋ॒तऽवा॑ । प॒र्ष॒ति॒ । द्वि॒षः ॥१
अच्छ । वः । अग्निम् । अवसे । देवम् । गासि । सः । नः । वसुः ।
रासत् । पुत्रः । ऋषूणाम् । ऋतऽवा । पर्षति । द्विषः ॥१
हे वसूयवः “वः यूयं “देवम् “अग्निम् “अवसे रक्षणाय “अच्छा “गासि अभिगायत । “वसुः अग्निहोत्रार्थं यजमानानां गृहे वासयिता “सः अग्निः “नः अस्मभ्यं “रासत् कामान् ददातु । “ऋषूणाम् ऋषीणां “पुत्रः । ऋषिभिर्मन्थनेन जनितत्वात् पुत्र इत्युपचर्यते । “ऋतावा ऋतावान् सत्यवानुदकवान्वा सोऽग्निः “द्विषः अस्माकं शत्रून् “पर्षति पारयतु ॥
स हि स॒त्यो यं पूर्वे॑ चिद्दे॒वास॑श्चि॒द्यमी॑धि॒रे ।
होता॑रं म॒न्द्रजि॑ह्व॒मित्सु॑दी॒तिभि॑र्वि॒भाव॑सुम् ॥२
सः । हि । स॒त्यः । यम् । पूर्वे॑ । चि॒त् । दे॒वासः॑ । चि॒त् । यम् । ई॒धि॒रे ।
होता॑रम् । म॒न्द्रऽजि॑ह्वम् । इत् । सु॒दी॒तिऽभिः॑ । वि॒भाऽव॑सुम् ॥२
सः । हि । सत्यः । यम् । पूर्वे । चित् । देवासः । चित् । यम् । ईधिरे ।
होतारम् । मन्द्रऽजिह्वम् । इत् । सुदीतिऽभिः । विभाऽवसुम् ॥२
“पूर्वे “चित् पूर्वे महर्षयः "होतारं देवानामाह्वातारं “मन्द्रजिह्वम् । हविषां प्रदानेन देवानां मादयित्री जिह्वा यस्य सः । तम् । यद्वा मोदनजिह्वम् । तथाह यास्कः- मन्द्रजिह्वं मन्दनजिह्वं मोदनजिह्वमिति वा' (निरु. ६. २३ ) इति । “सुदीतिभिः शोभनदीप्तिभिर्युक्तं “विभावसुं प्रभाधनं “यम् अग्निम् ईधिरे समैन्धत “देवासश्चित् देवा अपि “यम् अग्निम् “ईधिरे समैन्धत “स “हि अग्निः “सत्यः भवति । सत्यप्रतिश्रवो भवति । “इत् इति पूरणः ॥
स नो॑ धी॒ती वरि॑ष्ठया॒ श्रेष्ठ॑या च सुम॒त्या ।
अग्ने॑ रा॒यो दि॑दीहि नः सुवृ॒क्तिभि॑र्वरेण्य ॥३
सः । नः॒ । धी॒ती । वरि॑ष्ठया । श्रेष्ठ॑या । च॒ । सु॒ऽम॒त्या ।
अग्ने॑ । रा॒यः । दि॒दी॒हि॒ । नः॒ । सु॒वृ॒क्तिऽभिः॑ । व॒रे॒ण्य॒ ॥३
सः । नः । धीती । वरिष्ठया । श्रेष्ठया । च । सुऽमत्या ।
अग्ने । रायः । दिदीहि । नः । सुवृक्तिऽभिः । वरेण्य ॥३
"सुवृक्तिभिः स्तुतिभिः स्तूयमान “वरेण्य वरणीय हे “अग्ने “सः त्वं वरिष्ठया वरतमेन “श्रेष्ठया अतिशयेन प्रशस्येन “नो “धीती धीत्यास्मदीयेन परिचरणात्मकेन कर्मणा सुमत्या “च । सुमतिरिति शस्त्रमुच्यते । शस्त्रेण च प्रीतः सन् "रायः धनानि "नः अस्मभ्यं "दीदिहि देहि ॥
अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते॑ष्वावि॒शन् ।
अ॒ग्निर्नो॑ हव्य॒वाह॑नो॒ऽग्निं धी॒भिः स॑पर्यत ॥४
अ॒ग्निः । दे॒वेषु॑ । रा॒ज॒ति॒ । अ॒ग्निः । मर्ते॑षु । आ॒ऽवि॒शन् ।
अ॒ग्निः । नः॒ । ह॒व्य॒ऽवाह॑नः । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥४
अग्निः । देवेषु । राजति । अग्निः । मर्तेषु । आऽविशन् ।
अग्निः । नः । हव्यऽवाहनः । अग्निम् । धीभिः । सपर्यत ॥४
यः "अग्निः “देवेषु देवानां मध्ये “राजति देवतारूपेण प्रकाशते । यः “अग्निः “मर्तेषु मनुष्येषु "आविशन् आहवनीयादिरूपेण प्रविष्टो भवति । यः "अग्निः “नः अस्माकं “हव्यवाहनः भवति अस्मदीयेषु यज्ञेषु देवतार्थं हव्यानां वोढा भवति । हे यजमानास्तम् “अग्निं “धीभिः स्तुतिभिः “सपर्यत परिचरत ॥
पुत्रकामेष्ट्याम् ‘अग्निस्तुविश्रवस्तमम् ' इति द्वे स्विष्टकृतो याज्यानुवाक्ये । सूत्रितं च-- ‘ अग्निस्तुविश्रवस्तममिति द्वे संयाज्ये ' ( आश्व. श्रौ. २. १०) इति ॥
अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र॑ह्माणमुत्त॒मम् ।
अ॒तूर्तं॑ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे॑ ॥५
अ॒ग्निः । तु॒विश्र॑वःऽतमम् । तु॒विऽब्र॑ह्माणम् । उ॒त्ऽत॒मम् ।
अ॒तूर्त॑म् । श्र॒व॒यत्ऽप॑तिम् । पु॒त्रम् । द॒दा॒ति॒ । दा॒शुषे॑ ॥५
अग्निः । तुविश्रवःऽतमम् । तुविऽब्रह्माणम् । उत्ऽतमम् ।
अतूर्तम् । श्रवयत्ऽपतिम् । पुत्रम् । ददाति । दाशुषे ॥५
“अग्निः “तुविश्रवस्तमम् अतिशयेन बह्वन्नं “तुविब्रह्माणं बहुस्तोत्रम् "उत्तमम् उत्कृष्टम् "अतूर्तं शत्रुभिरहिंसितं “श्रावयत्पतिम् । श्रावयति विश्रुतान् करोति पतीन् पालयितॄन् पितॄनिति स्वकर्मणा पितॄणां प्रख्यापक इति श्रावयत्पतिः । तथाविधं “पुत्रं “दाशुषे हवींषि दत्तवते यजमानाय "ददाति ददातु ॥ ॥ १७ ॥
अ॒ग्निर्द॑दाति॒ सत्प॑तिं सा॒साह॒ यो यु॒धा नृभि॑ः ।
अ॒ग्निरत्यं॑ रघु॒ष्यदं॒ जेता॑र॒मप॑राजितम् ॥६
अ॒ग्निः । द॒दा॒ति॒ । सत्ऽप॑तिम् । स॒साह॑ । यः । यु॒धा । नृऽभिः॑ ।
अ॒ग्निः । अत्य॑म् । र॒घु॒ऽस्यद॑म् । जेता॑रम् । अप॑राऽजितम् ॥६
अग्निः । ददाति । सत्ऽपतिम् । ससाह । यः । युधा । नृऽभिः ।
अग्निः । अत्यम् । रघुऽस्यदम् । जेतारम् । अपराऽजितम् ॥६
"यः पुत्रः “युधा युद्धेन "नृभिः परिजनैः “ससाह शत्रूनभिभवति "सत्पतिं सतां पालयितारं तथाविधं पुत्रम् “अग्निर्ददाति अस्मभ्यं ददातु । किंच “अग्निः “रघुष्यदम् । रघुर्लघुः स्यदो जवो यस्य तम् । “जेतारं शत्रून् “अपराजितं शत्रुभिः “अत्यम् । अतति सततं गच्छतीत्यत्योऽश्वः । तं ददातु ॥
अश्वमेधे पौष्ण्यामिष्टौ ‘यद्वाहिष्ठम्' इति स्विष्टकृतो याज्या । सूत्रितं च - ‘ यद्वाहिष्ठं तदग्नय इति संयाज्ये ' ( आश्व. श्रौ. १०. ६ ) इति ॥
यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो ।
महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ॥७
यत् । वाहि॑ष्ठम् । तत् । अ॒ग्नये॑ । बृ॒हत् । अ॒र्च॒ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो ।
महि॑षीऽइव । त्वत् । र॒यिः । त्वत् । वाजाः॑ । उत् । ई॒र॒ते॒ ॥७
यत् । वाहिष्ठम् । तत् । अग्नये । बृहत् । अर्च । विभावसो इति विभाऽवसो ।
महिषीऽइव । त्वत् । रयिः । त्वत् । वाजाः । उत् । ईरते ॥७
“वाहिष्ठं वोढ़ृतमं “यत् स्तोत्रं तदग्नये क्रियते । अतो हे “विभावसो प्रभाधनाग्ने “बृहत् बह्वन्नं धनं च "अर्च अस्मभ्यं प्रयच्छ । कथमस्यान्नधनप्रदातृत्वमित्यपेक्षायामाह । यतः “त्वत् त्वत्तः सकाशात् “महिषी महती “रयिः धनम् “उदीरते उद्गच्छति । “वाजाः अन्नानि च “त्वत् त्वत्तः उदीरते उद्गच्छन्ति । इवेति पूरणः ॥
तव॑ द्यु॒मन्तो॑ अ॒र्चयो॒ ग्रावे॑वोच्यते बृ॒हत् ।
उ॒तो ते॑ तन्य॒तुर्य॑था स्वा॒नो अ॑र्त॒ त्मना॑ दि॒वः ॥८
तव॑ । द्यु॒ऽमन्तः॑ । अ॒र्चयः॑ । ग्रावा॑ऽइव । उ॒च्य॒ते॒ । बृ॒हत् ।
उ॒तो इति॑ । ते॒ । त॒न्य॒तुः । य॒था॒ । स्वा॒नः । अ॒र्त॒ । त्मना॑ । दि॒वः ॥८
तव । द्युऽमन्तः । अर्चयः । ग्रावाऽइव । उच्यते । बृहत् ।
उतो इति । ते । तन्यतुः । यथा । स्वानः । अर्त । त्मना । दिवः ॥८
हे अग्ने “तव “अर्चयः रश्मयः “द्युमन्तः दीप्तिमन्तो भवन्ति। “बृहत् महान् त्वं “ग्रावेव अभिषवग्रावेव “उच्यते स्तूयसे । “उतो अपि च “त्मना आत्मना “दिवः द्योतमानस्य “ते तव “स्वानः शब्दः “तन्यतुर्यथा मेघगर्जितमिव “अर्त उद्गच्छति ॥
ए॒वाँ अ॒ग्निं व॑सू॒यव॑ः सहसा॒नं व॑वन्दिम ।
स नो॒ विश्वा॒ अति॒ द्विष॒ः पर्ष॑न्ना॒वेव॑ सु॒क्रतु॑ः ॥९
ए॒व । अ॒ग्निम् । व॒सु॒ऽयवः॑ । स॒ह॒सा॒नम् । व॒व॒न्दि॒म॒ ।
सः । नः॒ । विश्वा॑ । अति॑ । द्विषः॑ । पर्ष॑त् । ना॒वाऽइ॑व । सु॒ऽक्रतुः॑ ॥९
एव । अग्निम् । वसुऽयवः । सहसानम् । ववन्दिम ।
सः । नः । विश्वा । अति । द्विषः । पर्षत् । नावाऽइव । सुऽक्रतुः ॥९
“वसूयवः वसुकामा वयं “सहसानम् अस्माकं बलमाचरन्तम् “अग्निम् एवमुक्तप्रकारेण “ववन्दिम स्तुमः । “सुक्रतुः शोभनकर्मा “सः अग्निः “नः अस्मान् “विश्वाः सर्वान् "द्विषः शत्रून् “अति “पर्षत अतिपारयतु । कथमिव । "नावा साधनेन सिन्धुम् “इव ॥ ॥ १८ ॥
टिप्पणी
५.२५.७ यद् वाहिष्ठं इति
अच्छावाकीयम् - अथ एनम् अध्वर्युर् आह अच्छावाक वदस्व यत् ते वाद्यम् इति । अच्छावाक उपहवम् इच्छस्व इत्य् एव एनम् तद् आह । अच्छा वो अग्निम् अवस इत्य् अच्छावाक आग्नेयीर् अन्वाह । आग्नेयम् प्रातःसवनम् । ता वा अनुष्टुभो भवन्ति । गायत्री वै सा अनुष्टुप् । गायत्रम् अग्नेश् छन्दः । ता वै तिस्रो भवन्ति । त्रिवृद् वा अग्निर् अङ्गारा अर्चिर् धूम इति । उत्तमायै तृतीये वचने प्रणवेण निगदम् उपसंदधाति ।कौब्रा २८.५
ज्योतिष्टोमे नाराशंसाप्यायनप्रकरणम् - अच्छावाकः सीदेत्युक्तोऽग्रेण मद उत्तरेण स्रुतिमुपविश्य पुरोलाशं प्रतिगृह्याच्छावाक वदस्वेत्युक्तोऽच्छा वो अग्निमवस इति तिस्रोऽन्वाह १ प्रणवान्निगदम् २ -शांश्रौ. ७.६.१,
दशरात्रे दशममहः - अविवाक्यं चतुर्विंशस्तोमं दशममहः...अच्छा नः शीरशोचिषमिति तिस्रोऽच्छा वो अग्निमवस इत्येतासां स्थाने - शांश्रौ. १०.१२.१६
पुरोडाशदृगलं प्रत्तमिडामिवोद्यम्याच्छावाक वदस्वेत्युक्तोऽच्छा वो अग्निमवस इति तृचमन्वाह -आश्व.श्रौ. ५.७.२,
सोम व्यूळ्ह दशरात्र दशमम् अहः - अच्छा वो अग्निम् अवसे प्रत्य् अस्मा इति तृचयोः स्थाने अच्छा नः शीर शोचिषम् प्रतिश्रुताय वो धृषद् इति तृचाव् अच्छावाकः ।आश्रौ ८.१२.६
मण्डल ५ | ||||
---|---|---|---|---|