सामग्री पर जाएँ

ऋग्वेदः सूक्तं ५.२४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ५.२४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.२३ ऋग्वेदः - मण्डल ५
सूक्तं ५.२४
गौपायना लौपायना वा बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च
सूक्तं ५.२५ →
दे. अग्निः। द्विपदा विराट्


अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ॥१॥
वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः ॥२॥
स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मात् ॥३॥
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥४॥


सायणभाष्यम्

• अग्ने त्वं नः' इति चतुर्ऋचं दशमं सूक्तम् । अत्रानुक्रमणिका - अग्ने त्वं गौपायना लौपायना वा बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्चैकर्चा द्वैपदम् ' इति । विंशतिका द्विपदा विराजः ' इत्युक्तत्वाच्चतस्रो द्विपदा विराजः । बन्धुः सुबन्धुः श्रुतबन्धुः विप्रबन्धुश्च क्रमेण चतसृणामृषयः । ते च गौपायना लौपायना वा । अग्निर्देवता । महापितृयज्ञे आहवनीयं प्रति गच्छन्त ऋत्विज इदं सूक्तं जपेयुः । तथा च सूत्रितम् - ' अथैनमभिसमायन्ति मा प्र गामाग्ने त्वं न इति जपन्तः ' (आश्व. श्रौ. २. १९) इति । दशरात्रे षष्ठेऽहनि तृतीयसवने मैत्रावरुणस्य ‘अग्ने त्वम्' इति द्वे, “तं त्वा शोचिष्ठ' इत्येका, एवं मिलितो द्वैपदस्तृचः स्तोत्रियः । तथैव सूत्रितम् - अग्ने त्वं नो अन्तमोऽग्ने भव सुषमिधा '(आश्व. श्रौ. ८. २) इति ॥


अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्य॑ः ॥१

अग्ने॑ । त्वम् । नः॒ । अन्त॑मः । उ॒त । त्रा॒ता । शि॒वः । भ॒व॒ । व॒रू॒थ्यः॑ ॥१

अग्ने । त्वम् । नः । अन्तमः । उत । त्राता । शिवः । भव । वरूथ्यः ॥१

हे “अग्ने “वरूथ्यः वरणीयः संभजनीयः । यद्वा । वरूथैः परिधिभिर्वृतः “त्वं “नः अस्माकम् “अन्तमः अन्तिकतमः “भव । "उत अपि च “त्राता रक्षकः “शिवः सुखकरश्च भव ।


वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मं र॒यिं दा॑ः ॥२

वसुः॑ । अ॒ग्निः । वसु॑ऽश्रवाः । अच्छ॑ । न॒क्षि॒ । द्यु॒मत्ऽत॑मम् । र॒यिम् । दाः॒ ॥२

वसुः । अग्निः । वसुऽश्रवाः । अच्छ । नक्षि । द्युमत्ऽतमम् । रयिम् । दाः ॥२

“वसुः वासकः “अग्निः सर्वेषामग्रणीः “वसुश्रवाः व्याप्तान्नस्त्वम् "अच्छ आभिमुख्येन “नक्षि अस्मान् व्याप्नुहि "द्युमत्तमम् अतिशयेन दीप्तिमन्तं “रयिं पश्वादिलक्षणं धनं “दाः अस्मभ्यं देहि ॥


स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः स॑मस्मात् ॥३

सः । नः॒ । बो॒धि॒ । श्रु॒धि । हव॑म् । उ॒रु॒ष्य । नः॒ । अ॒घ॒ऽय॒तः । स॒म॒स्मा॒त् ॥३

सः । नः । बोधि । श्रुधि । हवम् । उरुष्य । नः । अघऽयतः । समस्मात् ॥३

हे अग्ने “सः त्वं “नः अस्मान् "बोधि बुध्यस्व । “हवम् अस्मदीयमाह्वानं “श्रुधि शृणु । “अघायतः अघमिच्छतः “समस्मात् सर्वस्माजनात् "नः अस्मान् “उरुष्य रक्ष ।


तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥४

तम् । त्वा॒ । शो॒चि॒ष्ठ॒ । दी॒दि॒ऽवः॒ । सु॒म्नाय॑ । नू॒नम् । ई॒म॒हे॒ । सखि॑ऽभ्यः ॥४

तम् । त्वा । शोचिष्ठ । दीदिऽवः । सुम्नाय । नूनम् । ईमहे । सखिऽभ्यः ॥४

“शोचिष्ठ अतिशयेन शोचिष्मन् “दीदिवः स्वतेजोभिर्दीप्ताग्ने "तं त्वां “सुम्नाय सुखाय । सुम्नमिति सुखनाम् । तदर्थं “सखिभ्यः समानख्यातिभ्यः पुत्रेभ्यः तदर्थं च "नूनम् “ईमहे याचामहे ॥ ॥ १६ ॥


टिप्पणी

द्र. ऋग्वेदः १०.५७-६०, शुक्लयजुर्वेदः ३.२५-२८

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.२४&oldid=269698" इत्यस्माद् प्रतिप्राप्तम्