ऋग्वेदः सूक्तं ५.५१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.५० ऋग्वेदः - मण्डल ५
सूक्तं ५.५१
स्वस्त्यात्रेयः
सूक्तं ५.५२ →
दे. विश्वे देवाः, ४, ६-७ इन्द्रवायू, ५ वायुः। १-४ गायत्री, ५-१० उष्णिक्, ११-१३ जगती त्रिष्टुपब्वा, १४-१५ अनुष्टुप् ।

अग्ने सुतस्य पीतये विश्वैरूमेभिरा गहि ।
देवेभिर्हव्यदातये ॥१॥
ऋतधीतय आ गत सत्यधर्माणो अध्वरम् ।
अग्नेः पिबत जिह्वया ॥२॥
विप्रेभिर्विप्र सन्त्य प्रातर्यावभिरा गहि ।
देवेभिः सोमपीतये ॥३॥
अयं सोमश्चमू सुतोऽमत्रे परि षिच्यते ।
प्रिय इन्द्राय वायवे ॥४॥
वायवा याहि वीतये जुषाणो हव्यदातये ।
पिबा सुतस्यान्धसो अभि प्रयः ॥५॥
इन्द्रश्च वायवेषां सुतानां पीतिमर्हथः ।
ताञ्जुषेथामरेपसावभि प्रयः ॥६॥
सुता इन्द्राय वायवे सोमासो दध्याशिरः ।
निम्नं न यन्ति सिन्धवोऽभि प्रयः ॥७॥
सजूर्विश्वेभिर्देवेभिरश्विभ्यामुषसा सजूः ।
आ याह्यग्ने अत्रिवत्सुते रण ॥८॥
सजूर्मित्रावरुणाभ्यां सजूः सोमेन विष्णुना ।
आ याह्यग्ने अत्रिवत्सुते रण ॥९॥
सजूरादित्यैर्वसुभिः सजूरिन्द्रेण वायुना ।
आ याह्यग्ने अत्रिवत्सुते रण ॥१०॥
स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः ।
स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥११॥
स्वस्तये वायुमुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः ।
बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥१२॥
विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये ।
देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः ॥१३॥
स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति ।
स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि ॥१४॥
स्वस्ति पन्थामनु चरेम सूर्याचन्द्रमसाविव ।
पुनर्ददताघ्नता जानता सं गमेमहि ॥१५॥

सायणभाष्यम्

' अग्ने सुतस्य ' इति पञ्चदशर्चं सप्तमं सूक्तम् । अत्रेयमनुक्रमणिका- अग्ने पञ्चोना चतस्रो गायत्र्यः षळुष्णिहस्तिस्रो जगत्यस्त्रिष्टुभो वान्त्ये अनुष्टुभौ ' इति ।' ऋषिश्चान्यस्मात् ' इति परिभाषया स्वस्त्यात्रेय ऋषिः । आदितश्चतस्रो गायत्र्यः पञ्चम्याद्याः षडुष्णिह एकादश्याद्यास्तिस्रो जगत्यस्त्रिष्टुभो वा चतुर्दशीपञ्चदश्यावनुष्टुभौ विश्वे देवा देवता ॥ (स्मार्ते प्रत्यवरोहणे इदं सूक्तं जप्यम् । चतुर्थं संहाय सौर्याणि स्वस्त्ययनानि च जपित्वेति सूत्रितम् । गुरुणा प्रसक्ष्यमाणः सर्वतोभये होमे कृते स्वस्ति नो मिमीतामिति सूक्तशेषं जपेत् । तथा च सूत्रम् - स्वस्त्यात्रेयं जपति यतैन्द्रं भयामह इति सूक्तशेषमिति । स्मार्ते शान्तिकर्मण्यपि एतत्सूक्तं जप्यम् । गुरुणाभिमृता इति खण्डे उदिते आदित्ये सौर्याणि च स्वस्त्ययनानि च जपेदिति सूत्रात् ।।)


अग्ने॑ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे॑भि॒रा ग॑हि ।

दे॒वेभि॑र्ह॒व्यदा॑तये ॥१

अग्ने॑ । सु॒तस्य॑ । पी॒तये॑ । विश्वैः॑ । ऊमे॑भिः । आ । ग॒हि॒ ।

दे॒वेभिः॑ । ह॒व्यऽदा॑तये ॥१

अग्ने । सुतस्य । पीतये । विश्वैः । ऊमेभिः । आ । गहि ।

देवेभिः । हव्यऽदातये ॥१

हे "अग्ने त्वं “सुतस्य “पीतये सोमपानाय "विश्वैरूमेभिः ऊमैः सर्वैरपि रक्षकैः “देवेभिः देवैरिन्द्रादिभिः सह “हव्यदातये अस्माकं हविर्दानाय तद्दात्रे यजमानाय वा “आ “गहि आगच्छ ॥


ऋत॑धीतय॒ आ ग॑त॒ सत्य॑धर्माणो अध्व॒रम् ।

अ॒ग्नेः पि॑बत जि॒ह्वया॑ ॥२

ऋत॑ऽधीतयः । आ । ग॒त॒ । सत्य॑ऽधर्माणः । अ॒ध्व॒रम् ।

अ॒ग्नेः । पि॒ब॒त॒ । जि॒ह्वया॑ ॥२

ऋतऽधीतयः । आ । गत । सत्यऽधर्माणः । अध्वरम् ।

अग्नेः । पिबत । जिह्वया ॥२

हे “ऋतधीतयः सत्यस्तुतयोऽबाध्यकर्माणो वा देवाः “अध्वरम् अस्मद्यज्ञम् “आ “गत आगच्छत । आगत्य च हे “सत्यधर्माणः सत्यस्य धारयितारो यूयम् “अग्नेः "जिह्वया "पिबत आज्यसोमादिकम् ॥


विप्रे॑भिर्विप्र सन्त्य प्रात॒र्याव॑भि॒रा ग॑हि ।

दे॒वेभि॒ः सोम॑पीतये ॥३

विप्रे॑भिः । वि॒प्र॒ । स॒न्त्य॒ । प्रा॒त॒र्याव॑ऽभिः । आ । ग॒हि॒ ।

दे॒वेभिः॑ । सोम॑ऽपीतये ॥३

विप्रेभिः । विप्र । सन्त्य । प्रातर्यावऽभिः । आ । गहि ।

देवेभिः । सोमऽपीतये ॥३

हे “विप्र मेधाविन् विविधकामानां वा पूरक हे “सन्त्य संभजनीयाग्ने “विप्रेभिः उक्तलक्षणैः “प्रातर्यावभिः प्रातःकाले आगन्तृभिः "देवेभिः देवैः सार्धम् “आ “गहि आगच्छ । किमर्थम् । “सोमपीतये सोमपानाय ॥


अ॒यं सोम॑श्च॒मू सु॒तोऽम॑त्रे॒ परि॑ षिच्यते ।

प्रि॒य इन्द्रा॑य वा॒यवे॑ ॥४

अ॒यम् । सोमः॑ । च॒मू इति॑ । सु॒तः । अम॑त्रे । परि॑ । सि॒च्य॒ते॒ ।

प्रि॒यः । इन्द्रा॑य । वा॒यवे॑ ॥४

अयम् । सोमः । चमू इति । सुतः । अमत्रे । परि । सिच्यते ।

प्रियः । इन्द्राय । वायवे ॥४

"अयं पुरतो वर्तमानः “सोमः “चमू चम्वोरत्र्योः अधिषवणफलकयोः “सुतः अभिषुतः सन् “अमत्रे पात्रे “परि “षिच्यते पूर्यते । स च “इन्द्राय “वायवे च "प्रियः । तं पातुं हे इन्द्रवायू आगच्छतमिति शेषः ॥


‘ वायवा याहि' इत्येषा पृष्ठ्यस्य तृतीयेऽहनि प्रउगशस्त्रे वायव्यतृचस्याद्या । सूत्रितं च - ‘ वायवा याहि वीतय इत्येका वायो याहि शिवा दिव इति द्वे' ( आश्व. श्रौ. ७. १० ) इति ॥

वाय॒वा या॑हि वी॒तये॑ जुषा॒णो ह॒व्यदा॑तये ।

पिबा॑ सु॒तस्यान्ध॑सो अ॒भि प्रय॑ः ॥५

वायो॒ इति॑ । आ । या॒हि॒ । वी॒तये॑ । जु॒षा॒णः । ह॒व्यऽदा॑तये ।

पिब॑ । सु॒तस्य॑ । अन्ध॑सः । अ॒भि । प्रयः॑ ॥५

वायो इति । आ । याहि । वीतये । जुषाणः । हव्यऽदातये ।

पिब । सुतस्य । अन्धसः । अभि । प्रयः ॥५

हे “वायो “प्रयः अन्नं सोमाख्यम् "अभि अभिलक्ष्य “आ “याहि “वीतये भक्षणाय "जुषाणः श्रीयमाणः “हव्यदातये हविर्दात्रे यजमानाय तदर्थम् । आगत्य च "सुतस्यान्धसः अभिषुतमन्धोऽन्नं सोमलक्षणं “पिब ॥ ॥ ५ ॥


पृष्ठ्यस्य तृतीयेऽहनि प्रउगशस्त्रे ऐन्द्रवायवतृचे • इन्द्रश्च ' इत्यादिके द्वे ऋचौ शंसेत् । तयोः प्रथमां द्वितीयां वावर्त्य तृचं संपादयेत् । तथा च सूत्रितम्- ' इन्द्रश्च वायवेषां सुतानामिति द्वयोरन्यतरां द्विः ' ( आश्व. श्रौ. ७. १० ) इति ॥

इन्द्र॑श्च वायवेषां सु॒तानां॑ पी॒तिम॑र्हथः ।

ताञ्जु॑षेथामरे॒पसा॑व॒भि प्रय॑ः ॥६

इन्द्रः॑ । च॒ । वायो॒ इति॑ । ए॒षा॒म् । सु॒ताना॑म् । पी॒तिम् । अ॒र्ह॒थः॒ ।

तान् । जु॒षे॒था॒म् । अ॒रे॒पसौ । अ॒भि । प्रयः॑ ॥६

इन्द्रः । च । वायो इति । एषाम् । सुतानाम् । पीतिम् । अर्हथः ।

तान् । जुषेथाम् । अरेपसौ । अभि । प्रयः ॥६

हे "वायो त्वं च “इन्द्रश्च “एषां पुरतो गृहीतानां “सुतानाम् अभिषुतानां सोमानां “पीतिं पानम् “अर्हथः । यस्मादेवं तस्मात् “तान् सोमरसान् "जुषेथां सेवेथाम् "अरेपसौ अहिंसकौ । तदर्थं “प्रयः सोमाख्यमन्नमभिलक्ष्यागच्छतमिति शेषः । यद्वा । प्रयः अन्नरूपान् ॥


सु॒ता इन्द्रा॑य वा॒यवे॒ सोमा॑सो॒ दध्या॑शिरः ।

नि॒म्नं न य॑न्ति॒ सिन्ध॑वो॒ऽभि प्रय॑ः ॥७

सु॒ताः । इन्द्रा॑य । वा॒यवे॑ । सोमा॑सः । दधि॑ऽआशिरः ।

नि॒म्नम् । न । य॒न्ति॒ । सिन्ध॑वः । अ॒भि । प्रयः॑ ॥७

सुताः । इन्द्राय । वायवे । सोमासः । दधिऽआशिरः ।

निम्नम् । न । यन्ति । सिन्धवः । अभि । प्रयः ॥७

“इन्द्राय “वायवे च “सोमासः सोमाः “दध्याशिरः दध्याश्रयणाः "सुताः अभिषुताः संपादिताः । ते च “निम्नं गर्तं “सिन्धवः "न नद्य इव हे इन्द्रवायू युवाम् “अभि "यन्ति “प्रयः अन्नरूपाः ॥


तृतीयेऽहनि प्रउगशस्त्रे ‘सजूर्विश्वेभिः' इति वैश्वदेवस्तृचः । सूत्रितं च - सजूर्विश्वेभिर्देवेभिरुत नः प्रिया प्रियासु' ( आश्व. श्रौ. ७. १०) इति ॥

स॒जूर्विश्वे॑भिर्दे॒वेभि॑र॒श्विभ्या॑मु॒षसा॑ स॒जूः ।

आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥८

स॒ऽजूः । विश्वे॑भिः । दे॒वेभिः॑ । अ॒श्विऽभ्या॑म् । उ॒षसा॑ । स॒ऽजूः ।

आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒ऽवत् । सु॒ते । र॒ण॒ ॥८

सऽजूः । विश्वेभिः । देवेभिः । अश्विऽभ्याम् । उषसा । सऽजूः ।

आ । याहि । अग्ने । अत्रिऽवत् । सुते । रण ॥८

हे "अग्ने “विश्वेभिः सर्वैः "देवेभिः देवैः “सजूः संगतः सन् “अश्विभ्यामुषसा च “सजूः समानप्रीतिः सन् “आ “याहि आगहि। “अत्रिवत् अत्रिरिव । अत्रेर्यज्ञे यथा तथेत्यर्थः । यद्वा । अत्रिर्यथा यज्ञे रमते तद्वत् “सुते अभिषुते सोमे “रण रमस्व ॥


उत्तरे द्वे नवमीदशम्यौ स्पष्टे ॥

स॒जूर्मि॒त्रावरु॑णाभ्यां स॒जूः सोमे॑न॒ विष्णु॑ना ।

आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥९

स॒ऽजूः । मि॒त्रावरु॑णाभ्याम् । स॒ऽजूः । सोमे॑न । विष्णु॑ना ।

आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒ऽवत् । सु॒ते । र॒ण॒ ॥९

सऽजूः । मित्रावरुणाभ्याम् । सऽजूः । सोमेन । विष्णुना ।

आ । याहि । अग्ने । अत्रिऽवत् । सुते । रण ॥९


स॒जूरा॑दि॒त्यैर्वसु॑भिः स॒जूरिन्द्रे॑ण वा॒युना॑ ।

आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥१०

स॒ऽजूः । आ॒दि॒त्यैः । वसु॑ऽभिः । स॒ऽजूः । इन्द्रे॑ण । वा॒युना॑ ।

आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒ऽवत् । सु॒ते । र॒ण॒ ॥१०

सऽजूः । आदित्यैः । वसुऽभिः । सऽजूः । इन्द्रेण । वायुना ।

आ । याहि । अग्ने । अत्रिऽवत् । सुते । रण ॥१०


पृष्ठ्यस्य षष्ठेऽहनि वैश्वदेवशस्त्रे • स्वस्ति नः' इति तृचः । सूत्रितं च - स्वस्ति नो मिमीतामश्विना भग इति तृच इति वैश्वदेवम् ' (आश्व. श्रौ. ८.१) इति । तथा बृहस्पतिसवे वैश्वदेवनिविद्धानार्थोऽयं तृचः । ‘ स्वस्ति नो मिमीतामश्विना भग इति वैश्वदेवम् ' ( आश्व. श्रौ. ९. ५ ) इति सूत्रितत्वात् ॥

स्व॒स्ति नो॑ मिमीताम॒श्विना॒ भग॑ः स्व॒स्ति दे॒व्यदि॑तिरन॒र्वण॑ः ।

स्व॒स्ति पू॒षा असु॑रो दधातु नः स्व॒स्ति द्यावा॑पृथि॒वी सु॑चे॒तुना॑ ॥११

स्व॒स्ति । नः॒ । मि॒मी॒ता॒म् । अ॒श्विना॑ । भगः॑ । स्व॒स्ति । दे॒वी । अदि॑तिः । अ॒न॒र्वणः॑ ।

स्व॒स्ति । पू॒षा । असु॑रः । द॒धा॒तु॒ । नः॒ । स्व॒स्ति । द्यावा॑पृथि॒वी इति॑ । सु॒ऽचे॒तुना॑ ॥११

स्वस्ति । नः । मिमीताम् । अश्विना । भगः । स्वस्ति । देवी । अदितिः । अनर्वणः ।

स्वस्ति । पूषा । असुरः । दधातु । नः । स्वस्ति । द्यावापृथिवी इति । सुऽचेतुना ॥११

“नः अस्मभ्यम् “अश्विना अश्विनौ "स्वस्ति अविनाशं क्षेमं “मिमीतां कुरुताम् । “भगः च “स्वस्ति क्षेमं मिमीताम् । तथा “देव्यदितिः च स्वस्ति मिमीताम् । "अनर्वणः अप्रत्यृतः “पूषा “असुरः शत्रूणां निरसिता प्राणानां बलानां दाता वा नः “स्वस्ति दधातु । “नः अस्मभ्यं “द्यावापृथिवी द्यावापृथिव्यावपि “सुचेतुना शोभनेन प्रज्ञानेन विशिष्टे “स्वस्ति मिमीताम् ॥


स्व॒स्तये॑ वा॒युमुप॑ ब्रवामहै॒ सोमं॑ स्व॒स्ति भुव॑नस्य॒ यस्पति॑ः ।

बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये॑ स्व॒स्तय॑ आदि॒त्यासो॑ भवन्तु नः ॥१२

स्व॒स्तये॑ । वा॒युम् । उप॑ । ब्र॒वा॒म॒है॒ । सोम॑म् । स्व॒स्ति । भुव॑नस्य । यः । पतिः॑ ।

बृह॒स्पति॑म् । सर्व॑ऽगणम् । स्व॒स्तये॑ । स्व॒स्तये॑ । आ॒दि॒त्यासः॑ । भ॒व॒न्तु॒ । नः॒ ॥१२

स्वस्तये । वायुम् । उप । ब्रवामहै । सोमम् । स्वस्ति । भुवनस्य । यः । पतिः ।

बृहस्पतिम् । सर्वऽगणम् । स्वस्तये । स्वस्तये । आदित्यासः । भवन्तु । नः ॥१२

“स्वस्तये क्षेमाय "वायुमुप “ब्रवामहै स्तुम इत्यर्थः । “सोमं चोप ब्रवामहै । “यः च सोमः “भुवनस्य “पतिः पालकः । सर्वलोकजीवनस्य सोमायत्तत्वात् । तथा “सर्वगणं सर्वदेवगणोपेतं “बृहस्पतिं बृहतः कर्मणो मन्त्रस्य पालयितारं “स्वस्तये स्तुमः। “आदित्यासः आदित्या अदितेः पुत्राः सर्वे देवा अरुणादयो द्वादश वा “नः अस्माकं “स्वस्तये “भवन्तु ॥


सत्रमध्ये दीक्षिते व्याधिते सति तस्मिन्नहनि वैश्वदेवशस्त्रेऽयं तृचो निविद्धानार्थः । सूत्रितं च- ‘ स्वस्त्यात्रेये निविदं दध्यात्' ( आश्व. श्रौ. ६. ९ ) इति । स्वस्त्यात्रेयशब्देनायं तृचो विवक्षित इति तत्र व्याख्यातम् । तथा भयादिके सत्ययं तृचो जप्यः ॥

विश्वे॑ दे॒वा नो॑ अ॒द्या स्व॒स्तये॑ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये॑ ।

दे॒वा अ॑वन्त्वृ॒भव॑ः स्व॒स्तये॑ स्व॒स्ति नो॑ रु॒द्रः पा॒त्वंह॑सः ॥१३

विश्वे॑ । दे॒वाः । नः॒ । अ॒द्य । स्व॒स्तये॑ । वै॒श्वा॒न॒रः । वसुः॑ । अ॒ग्निः । स्व॒स्तये॑ ।

दे॒वाः । अ॒व॒न्तु॒ । ऋ॒भवः॑ । स्व॒स्तये॑ । स्व॒स्ति । नः॒ । रु॒द्रः । पा॒तु॒ । अंह॑सः ॥१३

विश्वे । देवाः । नः । अद्य । स्वस्तये । वैश्वानरः । वसुः । अग्निः । स्वस्तये ।

देवाः । अवन्तु । ऋभवः । स्वस्तये । स्वस्ति । नः । रुद्रः । पातु । अंहसः ॥१३

“विश्वे सर्वेऽपि “देवाः “नः अस्मान् “अद्य अस्मिन् यागदिने “स्वस्तये क्षेमाय अवन्तु । “वैश्वानरः । विश्व एनं नरा नयन्तीति वैश्वानरः । “वसुः सर्वस्य वासयिता “अग्निः देवः । ‘ अयमेवाग्निर्वैश्वानर इति शाकपूणिः ' (निरु. ७, २३ ) इति यास्कः । सोऽपि “स्वस्तये अवतु । “देवाः “ऋभवः अपि “स्वस्तये “अवन्तु । “रुद्रः दुःखात् द्रावयिता देवोऽपि "अंहसः पापात् “स्वस्ति “पातु “नः अस्मान् ॥


स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति ।

स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो॑ अदिते कृधि ॥१४

स्व॒स्ति । मि॒त्रा॒व॒रु॒णा॒ । स्व॒स्ति । प॒थ्ये॒ । रे॒व॒ति॒ ।

स्व॒स्ति । नः॒ । इन्द्रः॑ । च॒ । अ॒ग्निः । च॒ । स्व॒स्ति । नः॒ । अ॒दि॒ते॒ । कृ॒धि॒ ॥१४

स्वस्ति । मित्रावरुणा । स्वस्ति । पथ्ये । रेवति ।

स्वस्ति । नः । इन्द्रः । च । अग्निः । च । स्वस्ति । नः । अदिते । कृधि ॥१४

हे "मित्रावरुणा अहोरात्राभिमानिदेवौ “स्वस्ति कुरुतम् । हे “पथ्ये। पन्थाः अन्तरिक्षमार्गः । तत्र हिता मार्गाभिमानिनी देवी । हे तादृशि “रेवति धनवति देवि "स्वस्ति कृधि । “इन्द्रश्चाग्निश्च प्रत्येकं “नः अस्मभ्यं “स्वस्ति कृधि । हे “अदिते देवि “नः “स्वस्ति "कृधि कुरु ॥


स्व॒स्ति पन्था॒मनु॑ चरेम सूर्याचन्द्र॒मसा॑विव ।

पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि ॥१५

स्व॒स्ति । पन्था॑म् । अनु॑ । च॒रे॒म॒ । सू॒र्या॒च॒न्द्र॒मसौ॑ऽइव ।

पुनः॑ । दद॑ता । अघ्न॑ता । जा॒न॒ता । सम् । ग॒मे॒म॒हि॒ ॥१५

स्वस्ति । पन्थाम् । अनु । चरेम । सूर्याचन्द्रमसौऽइव ।

पुनः । ददता । अघ्नता । जानता । सम् । गमेमहि ॥१५

“पन्थां पन्थानं “स्वस्ति क्षेमेण “अनु "चरेम "सूर्याचन्द्रमसाविव । तौ यथा निरालम्बे मार्गे राक्षसादिभिरनुपद्रुतौ संचरतस्तद्वत् । किंच वयं प्रवसन्तः “पुनर्ददता अभिमतम् “अघ्नता चिरकालविलम्बकोपेन अहिंसता “जानता अविस्मरता मदीयश्चिरकालं गतः कोऽयमिति संदेहमकुर्वता । मदीयोऽयमिति बुध्यमानेनेत्यर्थः । उक्तलक्षणेन बन्धुजनेन “सं “गमेमहि संगच्छेमहि । यद्वा । पूर्वार्धं प्रवसतां वाक्यमुत्तरार्धं बन्धूनाम् । वयं बन्धवो ददताभिमतमुपार्जितं यच्छताघ्नता प्रवासकोपेन अहिंसता जानता सस्नेहमधिगच्छता प्रवसता सं गमेमहि ॥ ॥ ७ ॥ ‘

[सम्पाद्यताम्]



मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.५१&oldid=196869" इत्यस्माद् पुनः प्राप्तिः