ऋग्वेदः सूक्तं ५.६७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.६६ ऋग्वेदः - मण्डल ५
सूक्तं ५.६७
यजत आत्रेयः
सूक्तं ५.६८ →
दे. मित्रावरुणौ। अनुष्टुप्


बळित्था देव निष्कृतमादित्या यजतं बृहत् ।
वरुण मित्रार्यमन्वर्षिष्ठं क्षत्रमाशाथे ॥१॥
आ यद्योनिं हिरण्ययं वरुण मित्र सदथः ।
धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ॥२॥
विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा ।
व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः ॥३॥
ते हि सत्या ऋतस्पृश ऋतावानो जनेजने ।
सुनीथासः सुदानवोऽंहोश्चिदुरुचक्रयः ॥४॥
को नु वां मित्रास्तुतो वरुणो वा तनूनाम् ।
तत्सु वामेषते मतिरत्रिभ्य एषते मतिः ॥५॥


सायणभाष्यम्

‘ बळित्था देव ' इति पञ्चर्चमेकादशं सूक्तम् । अत्रेयमनुक्रमणिका--' बळित्था पञ्च यजतः । इति । यजतो नामात्रेय ऋषिः । ‘ आनुष्टुभं तु ' इत्युक्तत्वादिदमप्यानुष्टुभम् । मित्रावरुणौ देवता ! विनियोगो लैङ्गिकः ।।


बळि॒त्था दे॑व निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत् ।

वरु॑ण॒ मित्रार्य॑म॒न्वर्षि॑ष्ठं क्ष॒त्रमा॑शाथे ॥१

बट् । इ॒त्था । दे॒वा॒ । निः॒ऽकृ॒तम् । आदि॑त्या । य॒ज॒तम् । बृ॒हत् ।

वरु॑ण । मित्र॑ । अर्य॑मन् । वर्षि॑ष्ठम् । क्ष॒त्रम् । आ॒शा॒थे॒ इति॑ ॥१

बट् । इत्था । देवा । निःऽकृतम् । आदित्या । यजतम् । बृहत् ।

वरुण । मित्र । अर्यमन् । वर्षिष्ठम् । क्षत्रम् । आशाथे इति ॥१

हे “देवा द्योतमानौ हे “आदित्या अदितेः पुत्रौ हे “वरुण हे “अर्यमन् अरीणां नियमितः “मित्र देव युवां “बट् सत्यं “निष्कृतम्' अबाध्यम् “इत्था इत्थम् इदानीं वर्तमानप्रकारेण “यजतं यष्टव्यं "बृहत् अतिप्रवृद्धं “वर्षिष्ठं प्रवृद्धतमं “क्षत्रं बलम् "आशाथे अश्नुवाथे । यद्वा अर्यमा पृथगेव निर्देष्टव्यः । द्विवचनं बहुवचनीकर्तव्यम् ।।


आ यद्योनिं॑ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः ।

ध॒र्तारा॑ चर्षणी॒नां य॒न्तं सु॒म्नं रि॑शादसा ॥२

आ । यत् । योनि॑म् । हि॒र॒ण्यय॑म् । वरु॑ण । मित्र॑ । सद॑थः ।

ध॒र्तारा॑ । च॒र्ष॒णी॒नाम् । य॒न्तम् । सु॒म्नम् । रि॒शा॒द॒सा॒ ॥२

आ । यत् । योनिम् । हिरण्ययम् । वरुण । मित्र । सदथः ।

धर्तारा । चर्षणीनाम् । यन्तम् । सुम्नम् । रिशादसा ॥२

“यत् यस्मात् “हिरण्ययं हितरमणीयं “योनिं यज्ञभूमिं हे “वरुण हे "मित्र “आ “सदथः आगच्छथः तस्मात् “चर्षणीनां मनुष्याणां “धर्तारा धारकौ च हे "रिशादसा हिंसकानां क्षेप्तारौ युवाम् अस्मभ्यं “सुम्नं सुखं "यन्तं कुरुतमित्यर्थः ।।


विश्वे॒ हि वि॒श्ववे॑दसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

व्र॒ता प॒देव॑ सश्चिरे॒ पान्ति॒ मर्त्यं॑ रि॒षः ॥३

विश्वे॑ । हि । वि॒श्वऽवे॑दसः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

व्र॒ता । प॒दाऽइ॑व । स॒श्चि॒रे॒ । पान्ति॑ । मर्त्य॑म् । रि॒षः ॥३

विश्वे । हि । विश्वऽवेदसः । वरुणः । मित्रः । अर्यमा ।

व्रता । पदाऽइव । सश्चिरे । पान्ति । मर्त्यम् । रिषः ॥३

"विश्वे “हि सर्वेऽपि । हीति चार्थे । “विश्ववेदसः सर्वविदः सर्वधना वा "बरुणो "मित्रो "अर्यमा चैते त्रयः सर्वे "व्रता अस्मदीयानि कर्माणि "पदेव पदानीव स्थानानीव “सश्चिरे संगता भवन्ति । आगत्य च मां “मर्त्यं “रिषः हिंसकात् "पान्ति रक्षन्ति ।।


ते हि स॒त्या ऋ॑त॒स्पृश॑ ऋ॒तावा॑नो॒ जने॑जने ।

सु॒नी॒थास॑ः सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः ॥४

ते । हि । स॒त्याः । ऋ॒त॒ऽस्पृशः॑ । ऋ॒तऽवा॑नः । जने॑ऽजने ।

सु॒ऽनी॒थासः॑ । सु॒ऽदान॑वः । अं॒होः । चि॒त् । उ॒रु॒ऽचक्र॑यः ॥४

ते । हि । सत्याः । ऋतऽस्पृशः । ऋतऽवानः । जनेऽजने ।

सुऽनीथासः । सुऽदानवः । अंहोः । चित् । उरुऽचक्रयः ॥४

“ते “हि खलु "सत्याः सत्यभूताः सत्यफला वा “ऋतस्पृशः उदकस्पर्शस्य कर्तारः “ऋतावानः यज्ञवन्तः "जनेजने सर्वेषु यजमानेषु “सुनीथासः सुनयनाः “सुदानवः सुदानाः । हीति प्रसिद्धवाची सर्वत्र संबन्धनीयः । एवं महानुभावा वरुणादयः “अंहोश्चित् । चिदप्यर्थे । पापिनोऽपि स्वस्तोतुः “उरुचक्रयः प्रभूतधनादिकर्तारः ।।


को नु वां॑ मि॒त्रास्तु॑तो॒ वरु॑णो वा त॒नूना॑म् ।

तत्सु वा॒मेष॑ते म॒तिरत्रि॑भ्य॒ एष॑ते म॒तिः ॥५

कः । नु । वा॒म् । मि॒त्र॒ । अस्तु॑तः । वरु॑णः । वा॒ । त॒नूना॑म् ।

तत् । सु । वा॒म् । आ । ई॒ष॒ते॒ । म॒तिः । अत्रि॑ऽभ्यः । आ । ई॒ष॒ते॒ । म॒तिः ॥५

कः । नु । वाम् । मित्र । अस्तुतः । वरुणः । वा । तनूनाम् ।

तत् । सु । वाम् । आ । ईषते । मतिः । अत्रिऽभ्यः । आ । ईषते । मतिः ॥५

हे "मित्र "वां युवयोर्मध्ये त्वं च “वरुणो “वा “को नु “अस्तुतः । सर्वेरस्तूयमानः कोऽस्ति । उभावपि स्तुत्यावित्यर्थः । “तनूनाम् इति तृतीयार्थे षष्ठी । तनुभिः स्तुतिभिः अस्तुत इति संबन्धः ॥ अन्न मित्रशब्देन मित्रस्यैकस्यैव संबोधनं ‘वरुणेळास्वन्तः ' ( ऋ. सं. ५. ६२. ६ ) इत्यत्रेवात्र द्विवचनसूचकस्याकारस्य अनाम्नानात्। लोकेषु बहुषु संनिहितेषु एकमेव संबोध्य युवयोरिदं युष्माकमिदमिति प्रयुञ्जते ॥ “तत् तस्मात् यस्मात्सर्वे स्तुवन्ति तस्मात् । तनूनामित्येतत् व्यवहितमप्युत्तरत्र वा योज्यम् । तनूनाम् अल्पमतीनामस्माकं “मतिः स्तुतिः “वां युवां सुष्ठु “एषते अभिगच्छति । “अत्रिभ्यः अत्रिगोत्रेभ्योऽस्मभ्यम् अस्मदीयमतिः “एषते । आदरार्थं पुनर्वचनम् ॥ ॥ ५ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.६७&oldid=199744" इत्यस्माद् पुनः प्राप्तिः