ऋग्वेदः सूक्तं ५.५८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.५७ ऋग्वेदः - मण्डल ५
सूक्तं ५.५८
श्यावाश्व आत्रेयः
सूक्तं ५.५९ →
दे. मरुतः। त्रिष्टुप् ।


तमु नूनं तविषीमन्तमेषां स्तुषे गणं मारुतं नव्यसीनाम् ।
य आश्वश्वा अमवद्वहन्त उतेशिरे अमृतस्य स्वराजः ॥१॥
त्वेषं गणं तवसं खादिहस्तं धुनिव्रतं मायिनं दातिवारम् ।
मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन् ॥२॥
आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति ।
अयं यो अग्निर्मरुतः समिद्ध एतं जुषध्वं कवयो युवानः ॥३॥
यूयं राजानमिर्यं जनाय विभ्वतष्टं जनयथा यजत्राः ।
युष्मदेति मुष्टिहा बाहुजूतो युष्मत्सदश्वो मरुतः सुवीरः ॥४॥
अरा इवेदचरमा अहेव प्रप्र जायन्ते अकवा महोभिः ।
पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सं मिमिक्षुः ॥५॥
यत्प्रायासिष्ट पृषतीभिरश्वैर्वीळुपविभिर्मरुतो रथेभिः ।
क्षोदन्त आपो रिणते वनान्यवोस्रियो वृषभः क्रन्दतु द्यौः ॥६॥
प्रथिष्ट यामन्पृथिवी चिदेषां भर्तेव गर्भं स्वमिच्छवो धुः ।
वातान्ह्यश्वान्धुर्यायुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः ॥७॥
हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः ।
सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः ॥८॥


सायणभाष्यम्

‘ तमु नूनम्' इत्यष्टर्चं द्वितीयं सूक्तं श्यावाश्वस्यार्षं त्रैष्टुभं मारुतम् । ‘तमु ' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥


तमु॑ नू॒नं तवि॑षीमन्तमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनाम् ।

य आ॒श्व॑श्वा॒ अम॑व॒द्वह॑न्त उ॒तेशि॑रे अ॒मृत॑स्य स्व॒राज॑ः ॥१

तम् । ऊं॒ इति॑ । नू॒नम् । तवि॑षीऽमन्तम् । ए॒षा॒म् । स्तु॒षे । ग॒णम् । मारु॑तम् । नव्य॑सीनाम् ।

ये । आ॒शुऽअ॑श्वाः । अम॑ऽवत् । वह॑न्ते । उ॒त । ई॒शि॒रे॒ । अ॒मृत॑स्य । स्व॒ऽराजः॑ ॥१

तम् । ऊं इति । नूनम् । तविषीऽमन्तम् । एषाम् । स्तुषे । गणम् । मारुतम् । नव्यसीनाम् ।

ये । आशुऽअश्वाः । अमऽवत् । वहन्ते । उत । ईशिरे । अमृतस्य । स्वऽराजः ॥१

“तमु तमेव पूर्वं स्तुतमेव “मारुतं मरुतां संबन्धिनं तं “गणं “तविषीमन्तं दीप्तिमन्तं "नूनम् अद्य “स्तुषे । कीदृशां मरुताम् । “नव्यसीनाम् ॥ लिङ्गव्यत्ययः ॥ नवतराणां स्तुत्यानां वा । “एषां मारुतं गणम् । गणावयवभूता मरुतः । कीदृशा इत्युच्यते । “ये मरुतः आश्वश्वाः शीघ्रगाम्यश्वोपेताः “अमवत् बलवन्तो यथा भवन्ति तथा “वहन्ते गच्छन्ति। “उत अपि च "ईशिरे ईश्वरा भवन्ति "अमृतस्य उदकस्य "स्वराजः स्वायत्तदीप्तयः स्वयमेव राजमानाः तेषां गणं स्तुषे ॥


त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि॑व्रतं मा॒यिनं॒ दाति॑वारम् ।

म॒यो॒भुवो॒ ये अमि॑ता महि॒त्वा वन्द॑स्व विप्र तुवि॒राध॑सो॒ नॄन् ॥२

त्वे॒षम् । ग॒णम् । त॒वस॑म् । खादि॑ऽहस्तम् । धुनि॑ऽव्रतम् । मा॒यिन॑म् । दाति॑ऽवारम् ।

म॒यः॒ऽभुवः॑ । ये । अमि॑ताः । म॒हि॒ऽत्वा । वन्द॑स्व । वि॒प्र॒ । तु॒वि॒ऽराध॑सः । नॄन् ॥२

त्वेषम् । गणम् । तवसम् । खादिऽहस्तम् । धुनिऽव्रतम् । मायिनम् । दातिऽवारम् ।

मयःऽभुवः । ये । अमिताः । महिऽत्वा । वन्दस्व । विप्र । तुविऽराधसः । नॄन् ॥२

त्वेषं दीप्तं “गणं मारुतं “तवसं बलवन्तं “खादिहस्तं कटकहस्तं “धुनिव्रतं कम्पयितृकर्माणं “मायिनं प्रज्ञावन्तं “दातिवारं दत्तधनं हे “विप्र होतः “वन्दस्व स्तुहीति संबन्धः । "ये मरुतः “मयोभुवः सुखस्य भावयितारः “महित्वा महत्त्वेन “अमिताः अपरिच्छिन्नाः ।। तान् “तुविराधसः प्रभूतधनान् “नॄन् नेतॄन् वन्दस्व ॥


आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य वृ॒ष्टिं ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ ।

अ॒यं यो अ॒ग्निर्म॑रुत॒ः समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः ॥३

आ । वः॒ । य॒न्तु॒ । उ॒द॒ऽवा॒हासः॑ । अ॒द्य । वृ॒ष्टिम् । ये । विश्वे॑ । म॒रुतः॑ । जु॒नन्ति॑ ।

अ॒यम् । यः । अ॒ग्निः । म॒रु॒तः॒ । सम्ऽइ॑द्धः । ए॒तम् । जु॒ष॒ध्व॒म् । क॒व॒यः॒ । यु॒वा॒नः॒ ॥३

आ । वः । यन्तु । उदऽवाहासः । अद्य । वृष्टिम् । ये । विश्वे । मरुतः । जुनन्ति ।

अयम् । यः । अग्निः । मरुतः । सम्ऽइद्धः । एतम् । जुषध्वम् । कवयः । युवानः ॥३

“ये “विश्वे व्याप्ताः “मरुतः “वृष्टिं “जुनन्ति प्रेरयन्ति ते “उदवाहासः उदकस्य वोढारो मरुतः “अद्य इदानीं “वः युष्मान् “आ "यन्तु आगच्छन्तु हे ऋत्विग्यजमानाः । अथ प्रत्यक्षवादः । हे "मरुतः “यः प्रसिद्धः “अयम् “अग्निः “समिद्धः सम्यक् दीपितः “एतम् अग्निं “जुषध्वं सेवध्वं हे “कवयः मेधाविनः हे "युवानः नित्यतरुणाः सर्वत्र व्याप्ता वा ॥


यू॒यं राजा॑न॒मिर्यं॒ जना॑य विभ्वत॒ष्टं ज॑नयथा यजत्राः ।

यु॒ष्मदे॑ति मुष्टि॒हा बा॒हुजू॑तो यु॒ष्मत्सद॑श्वो मरुतः सु॒वीर॑ः ॥४

यू॒यम् । राजा॑नम् । इर्य॑म् । जना॑य । वि॒भ्व॒ऽत॒ष्टम् । ज॒न॒य॒थ॒ । य॒ज॒त्राः॒ ।

यु॒ष्मत् । ए॒ति॒ । मु॒ष्टि॒ऽहा । बा॒हुऽजू॑तः । यु॒ष्मत् । सत्ऽअ॑श्वः । म॒रु॒तः॒ । सु॒ऽवीरः॑ ॥४

यूयम् । राजानम् । इर्यम् । जनाय । विभ्वऽतष्टम् । जनयथ । यजत्राः ।

युष्मत् । एति । मुष्टिऽहा । बाहुऽजूतः । युष्मत् । सत्ऽअश्वः । मरुतः । सुऽवीरः ॥४

हे मरुतः “यूयं “जनाय यजमानाय "राजानं स्वामिनं राजमानं वा “इर्यं शत्रूणां प्रेरकं च्यावयितारं “विभ्वतष्टम् । विभ्वा नाम ऋभूणां मध्यमः । स कुशली । तेन निर्मितम् । अत्यन्तरूपवन्तमित्यर्थः । तादृशं पुत्रं “जनयथ उत्पादयथ हे “यजत्राः यष्टव्याः । हे “मरुतः "युष्मत् युष्मत्तः “एति गच्छति पुत्रः । कीदृशः । मुष्टिहा । मुष्टिशब्दो बाहूपलक्षकः । स्वभुजबलेनैव हन्ता शत्रूणाम् । तदेवोच्यते । “बाहुजूतः । बाहुः प्रेरकः शत्रूणां यस्य तादृशः पुत्र एति । तथा “युष्मत् युष्मत्तः “सदश्वः विद्यमानाश्वः । बह्वश्वः इत्यर्थः । “सुवीरः शोभनवीर्यः पुत्र एति । जायते इत्यर्थः ॥


वरुणप्रघासे मारुत्या अमिक्षायाः ‘ अराइव ' इति याज्या । सूत्रितं च -- ‘ अराइवेदचरमा अहेवेमं मे वरुण श्रुधि' ( आश्व. श्रौ. २. १७ ) इति । एकादशिने मारुते पशावेषैव पशुपुरोडाशस्य याज्या । सूत्रितं च - अराइवेदचरमा अहेव या वः शर्म शशमानाय सन्ति । ( आश्व. श्रौ. ३. ७ ) इति ॥

अ॒रा इ॒वेदच॑रमा॒ अहे॑व॒ प्रप्र॑ जायन्ते॒ अक॑वा॒ महो॑भिः ।

पृश्ने॑ः पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठा॒ः स्वया॑ म॒त्या म॒रुत॒ः सं मि॑मिक्षुः ॥५

अ॒राःऽइ॑व । इत् । अच॑रमाः । अहा॑ऽइव । प्रऽप्र॑ । जा॒य॒न्ते॒ । अक॑वाः । महः॑ऽभिः ।

पृश्नेः॑ । पु॒त्राः । उ॒प॒ऽमासः॑ । रभि॑ष्ठाः । स्वया॑ । म॒त्या । म॒रुतः॑ । सम् । मि॒मि॒क्षुः॒ ॥५

अराःऽइव । इत् । अचरमाः । अहाऽइव । प्रऽप्र । जायन्ते । अकवाः । महःऽभिः ।

पृश्नेः । पुत्राः । उपऽमासः । रभिष्ठाः । स्वया । मत्या । मरुतः । सम् । मिमिक्षुः ॥५

“अराइवेत् रथशङ्कव इव "अचरमाः अनिकृष्टाः । सर्वसमाः सहैवोत्पन्नाश्चेत्यर्थः । “अहेव अहानीव । दिवसा यथा सर्वेऽपि षष्टिघटिकात्मकास्तद्वत्सप्तसंख्योपेतसप्तगणरूपेण समा इत्यर्थः । अनेन दृष्टान्तद्वयेन वैसादृश्याभावः२ प्रतिपादितः । एवमुक्तलक्षणाः “महोभिः तेजोभिः “प्रप्र “जायन्ते प्रकर्षेण प्रादुर्भवन्ति ॥ एकः ‘ प्रसमुपोदः पादपूरणे ' ( पा. सू. ८. १. ६ ) इत्युपसर्गाभ्यासः स च पूरणः ॥ ते च "अकवाः अनल्पाः । यद्वा महोभिरित्यस्य विशेषणम् । “पृश्नेः माध्यमिकाया वाचो गोरूपाया अन्तरिक्षस्य वा पुत्रस्थानीयाः “उपमासः प्रत्येकं समानाः “रभिष्ठाः प्रकृष्टवेगाः । एवं महानुभावाः “मरुतः “स्वया “मत्या स्वकीययैवानुग्रहबुद्ध्या "सं “मिमिक्षुः वृष्ट्या सम्यक् सिञ्चन्ति ॥


यत्प्राया॑सिष्ट॒ पृष॑तीभि॒रश्वै॑र्वीळुप॒विभि॑र्मरुतो॒ रथे॑भिः ।

क्षोद॑न्त॒ आपो॑ रिण॒ते वना॒न्यवो॒स्रियो॑ वृष॒भः क्र॑न्दतु॒ द्यौः ॥६

यत् । प्र । अया॑सिष्ट । पृष॑तीभिः । अश्वैः॑ । वी॒ळु॒प॒विऽभिः॑ । म॒रु॒तः॒ । रथे॑भिः ।

क्षोद॑न्ते । आपः॑ । रि॒ण॒ते । वना॑नि । अव॑ । उ॒स्रियः॑ । वृ॒ष॒भः । क्र॒न्द॒तु॒ । द्यौः ॥६

यत् । प्र । अयासिष्ट । पृषतीभिः । अश्वैः । वीळुपविऽभिः । मरुतः । रथेभिः ।

क्षोदन्ते । आपः । रिणते । वनानि । अव । उस्रियः । वृषभः । क्रन्दतु । द्यौः ॥६

हे “मरुतः “यत् यदा “प्रायासिष्ट प्रगच्छथ "पृषतीभिः पृषत्संज्ञकैः “अश्वैः वाहनसाधनैरश्वैः । अश्वशब्दोऽत्र वाहनसामान्यवचनः । अतः पुँल्लिङ्गता । तथान्यत्र - यदश्वान्धुर्षु पृषतीरयुग्ध्वम् । ( ऋ. सं. ५. ५५. ६ ) । रोहिदश्वोऽजाश्व इति सामानाधिकरण्यप्रयोगः । एवंभूताश्वयुक्तैः "वीळुपविभिः दृढरथनेमिभिः “रथेभिः प्रायासिष्ट । यद्वा । अश्वै रथैश्च सह मरुतो यदा प्रायासिष्ट तदा “आपः “क्षोदन्ते क्षरन्ति । “वनानि वृक्षसमूहाः “रिणते हिस्यन्ते वेगेन भज्यन्ते । “उस्रियः उस्राः सूर्यरश्मयः। तत्संबन्धी पर्जन्यः “वृषभः अपां वर्षिता “द्यौः द्योतमानः “अव “क्रन्दतु अवाङ्मुखं शब्दयतु वृष्ट्यर्थम् ॥


प्रथि॑ष्ट॒ याम॑न्पृथि॒वी चि॑देषां॒ भर्ते॑व॒ गर्भं॒ स्वमिच्छवो॑ धुः ।

वाता॒न्ह्यश्वा॑न्धु॒र्या॑युयु॒ज्रे व॒र्षं स्वेदं॑ चक्रिरे रु॒द्रिया॑सः ॥७

प्रथि॑ष्ट । याम॑न् । पृ॒थि॒वी । चि॒त् । ए॒षा॒म् । भर्ता॑ऽइव । गर्भ॑म् । स्वम् । इत् । शवः॑ । धुः॒ ।

वाता॑न् । हि । अश्वा॑न् । धु॒रि । आ॒ऽयु॒यु॒ज्रे । व॒र्षम् । स्वेद॑म् । च॒क्रि॒रे॒ । रु॒द्रिया॑सः ॥७

प्रथिष्ट । यामन् । पृथिवी । चित् । एषाम् । भर्ताऽइव । गर्भम् । स्वम् । इत् । शवः । धुः ।

वातान् । हि । अश्वान् । धुरि । आऽयुयुज्रे । वर्षम् । स्वेदम् । चक्रिरे । रुद्रियासः ॥७

“एषां मरुतां “यामन् यामनि गमने “पृथिवी “चित् भूमिः । चिदिति पूरणः । “प्रथिष्ट प्रख्याताभवत् । गर्भयोग्याभवदित्यर्थः । ते च मरुतः “भर्ता लौकिकः पतिः “गर्भम् “इव भार्यायाः तथा भूम्याः “स्वमित् स्वभूतं गर्भं गर्भस्थानीयं “शवः उदकं “धुः स्थापितवन्तः । “हि यस्मात् “वातान् गन्तॄन् “अश्वान् “धुरि रथसंबन्धिन्याम् “आयुयुज्रे आयोजितवन्तः तस्मात् “वर्षं “स्वेदं स्वेदस्थानीयं वृष्टिसंस्त्यायं “चक्रिरे कुर्वन्ति "रुद्रियासः रुद्रपुत्राः ॥


ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः ।

सत्य॑श्रुत॒ः कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥८

ह॒ये । नरः॑ । मरु॑तः । मृ॒ळत॑ । नः॒ । तुवि॑ऽमघासः । अमृ॑ताः । ऋत॑ऽज्ञाः ।

सत्य॑ऽश्रुतः । कव॑यः । युवा॑नः । बृह॑त्ऽगिरयः । बृ॒हत् । उ॒क्षमा॑णाः ॥८

हये । नरः । मरुतः । मृळत । नः । तुविऽमघासः । अमृताः । ऋतऽज्ञाः ।

सत्यऽश्रुतः । कवयः । युवानः । बृहत्ऽगिरयः । बृहत् । उक्षमाणाः ॥८

‘हये नरः' इत्यष्टमी गताः ॥ ॥ २३ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.५८&oldid=199670" इत्यस्माद् प्रतिप्राप्तम्