ऋग्वेदः सूक्तं ५.४३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.४२ ऋग्वेदः - मण्डल ५
सूक्तं ५.४३
भौमोऽत्रिः
सूक्तं ५.४४ →
दे. विश्वे देवाः। त्रिष्टुप्, १६ एकपदा विराट्।


आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीरुप नो यन्तु मध्वा ।
महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति ॥१॥
आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी अमृध्रे ।
पिता माता मधुवचाः सुहस्ता भरेभरे नो यशसावविष्टाम् ॥२॥
अध्वर्यवश्चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रम् ।
होतेव नः प्रथमः पाह्यस्य देव मध्वो ररिमा ते मदाय ॥३॥
दश क्षिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता ।
मध्वो रसं सुगभस्तिर्गिरिष्ठां चनिश्चदद्दुदुहे शुक्रमंशुः ॥४॥
असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय ।
हरी रथे सुधुरा योगे अर्वागिन्द्र प्रिया कृणुहि हूयमानः ॥५॥
आ नो महीमरमतिं सजोषा ग्नां देवीं नमसा रातहव्याम् ।
मधोर्मदाय बृहतीमृतज्ञामाग्ने वह पथिभिर्देवयानैः ॥६॥
अञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः ।
पितुर्न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निमृतयन्नसादि ॥७॥
अच्छा मही बृहती शंतमा गीर्दूतो न गन्त्वश्विना हुवध्यै ।
मयोभुवा सरथा यातमर्वाग्गन्तं निधिं धुरमाणिर्न नाभिम् ॥८॥
प्र तव्यसो नमउक्तिं तुरस्याहं पूष्ण उत वायोरदिक्षि ।
या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन् ॥९॥
आ नामभिर्मरुतो वक्षि विश्वाना रूपेभिर्जातवेदो हुवानः ।
यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती ॥१०॥
आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम् ।
हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती शृणोतु ॥११॥
आ वेधसं नीलपृष्ठं बृहन्तं बृहस्पतिं सदने सादयध्वम् ।
सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णमरुषं सपेम ॥१२॥
आ धर्णसिर्बृहद्दिवो रराणो विश्वेभिर्गन्त्वोमभिर्हुवानः ।
ग्ना वसान ओषधीरमृध्रस्त्रिधातुशृङ्गो वृषभो वयोधाः ॥१३॥
मातुष्पदे परमे शुक्र आयोर्विपन्यवो रास्पिरासो अग्मन् ।
सुशेव्यं नमसा रातहव्याः शिशुं मृजन्त्यायवो न वासे ॥१४॥
बृहद्वयो बृहते तुभ्यमग्ने धियाजुरो मिथुनासः सचन्त ।
देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात् ॥१५॥
उरौ देवा अनिबाधे स्याम ॥१६॥
समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥१७॥


सायणभाष्यम्

‘आ धेनवः' इति सप्तदशर्चमेकादशं सूक्तमत्रेरार्षं त्रैष्टुभं वैश्वदेवम् । अत्रानुक्रमणिका --’आ धेनवस्त्र्यूनैतयोरुपान्त्यैकपदा ' इति । विनियोगो लैङ्गिकः । अपोनप्त्रीये एकधनासु हविर्धानं प्रति नीयमानास्वाद्यानुवचनीया । सूत्रितं च--- आ धेनवः पयसा तूर्ण्यर्थाः समन्या यन्त्युप यन्त्यन्याः ' (आश्व. श्रौ. ५. १ ) इति ।


आ धे॒नव॒ः पय॑सा॒ तूर्ण्य॑र्था॒ अम॑र्धन्ती॒रुप॑ नो यन्तु॒ मध्वा॑ ।

म॒हो रा॒ये बृ॑ह॒तीः स॒प्त विप्रो॑ मयो॒भुवो॑ जरि॒ता जो॑हवीति ॥१

आ । धे॒नवः॑ । पय॑सा । तूर्णि॑ऽअर्थाः । अम॑र्धन्तीः । उप॑ । नः॒ । य॒न्तु॒ । मध्वा॑ ।

म॒हः । रा॒ये । बृ॒ह॒तीः । स॒प्त । विप्रः॑ । म॒यः॒ऽभुवः॑ । ज॒रि॒ता । जो॒ह॒वी॒ति॒ ॥१

आ। धेनवः । पयसा । तूर्णिऽअर्थाः । अमर्धन्तीः । उप । नः । यन्तु । मध्वा ।

महः । राये । बृहतीः । सप्त । विप्रः । मयःऽभुवः । जरिता । जोहवीति ॥ १ ॥

“धेनवः प्रीणयित्र्यो नद्यः “मध्वा मधुरेण “पयसा रसेन सहिताः “तूर्ण्यर्थाः त्वरमाणगमनाः । ‘अर्थोऽर्तेः ( निरु. १. १८ ) इति यास्कः । “अमर्धन्तीः अहिंसन्त्यः सत्यः “नः अस्मान् “उप “आ "यन्तु उपागच्छन्तु । तदर्थं “महः महते “राये धनाय “बृहतीः महतीः “सप्त सर्पणस्वभावाः सप्तसंख्याकाः ‘इमं मे गङ्गे' ( ऋ. सं. १०. ७५.५) इति मन्त्रोक्ता गङ्गाद्या वा ।। तत्र हि प्राधान्येन सप्तैवोक्ताः । “मयोभुवः सुखस्य भावयित्रीः विप्रः विशेषेण प्रीणयिता "जरिता स्तोता “जोहवीत आह्वयति ॥


आ सु॑ष्टु॒ती नम॑सा वर्त॒यध्यै॒ द्यावा॒ वाजा॑य पृथि॒वी अमृ॑ध्रे ।

पि॒ता मा॒ता मधु॑वचाः सु॒हस्ता॒ भरे॑भरे नो य॒शसा॑वविष्टाम् ॥२

आ । सु॒ऽस्तु॒ती । नम॑सा । व॒र्त॒यध्यै॑ । द्यावा॑ । वाजा॑य । पृ॒थि॒वी इति॑ । अमृ॑ध्रे॒ इति॑ ।

पि॒ता । मा॒ता । मधु॑ऽवचाः । सु॒ऽहस्ता॑ । भरे॑ऽभरे । नः॒ । य॒शसौ॑ । अ॒वि॒ष्टा॒म् ॥२

आ। सुऽस्तुती । नमसा । वर्तयध्यै । द्यावा । वाजाय । पृथिवी इति । अमृध्रे इति ।

पिता । माता । मधुऽवचाः । सुऽहस्ता । भरेऽभरे । नः । यशसौ । अविष्टाम् ॥ २ ॥

अहं “सुष्टुती सुष्टुत्या शोभनस्तोत्रेण “नमसा हविषा च "अमृधे हिंसारहिते “द्यावा “पृथिवी द्यावापृथिव्यौ “आ “वर्तयध्यै। आवर्तयितुमिच्छामि “वाजाय अन्नार्थम् । 'अन्नं वै वाजः' (तै. ब्रा. १.३.६.६ ) इति हि श्रुतिः । “पिता पालयित्री द्यौः "माता निर्मात्री पृथिवी “मधुवचाः प्रियवचना "सुहस्ता अभिमतदानेन शोभनहस्ता। एते उभयविशेषणे । “यशसौ यशोयुक्तौ द्यावापृथिव्यौ “भरेभरे सर्वेषु संग्रामेषु यज्ञेषु वा “नः अस्मान् “अविष्टां रक्षताम् ।।


अध्व॑र्यवश्चकृ॒वांसो॒ मधू॑नि॒ प्र वा॒यवे॑ भरत॒ चारु॑ शु॒क्रम् ।

होते॑व नः प्रथ॒मः पा॑ह्य॒स्य देव॒ मध्वो॑ ररि॒मा ते॒ मदा॑य ॥३

अध्व॑र्यवः । च॒कृ॒ऽवांसः॑ । मधू॑नि । प्र । वा॒यवे॑ । भ॒र॒त॒ । चारु॑ । शु॒क्रम् ।

होता॑ऽइव । नः॒ । प्र॒थ॒मः । पा॒हि॒ । अ॒स्य । देव॑ । मध्वः॑ । र॒रि॒म । ते॒ । मदा॑य ॥३

अध्वर्यवः । चकृऽवांसः । मधूनि । प्र। वायवे । भरत । चारु । शुक्रम् ।।

होताऽइव । नः । प्रथमः । पाहि । अस्य । देव । मध्वः । ररिम । ते। मदाय ॥ ३॥

हे “अध्वर्यवः अध्वरं युञ्जानाः “मधूनि मधुररसानि सोमाज्यादीनि “चकृवांसः कुर्वाणा यूयं “वायवे प्रथमं “प्र “भरत प्रकर्षेण संपादयत “चारु चरणीयं “शुक्रं दीप्तं सोमम् । हे वायो त्वं च “होतेव होता यथा प्रथमं पिबति तद्वत् “नः अस्मदर्थम् “अस्य अमुं सोमं “प्रथमः इतरदेवेभ्यः पूर्वं “पाहि पिब । हे “देव वायो “मध्वः मधुरं सोमरसं ते “मदाय “ररिम ददाम । वायोः पूर्वपानमसकृत्प्रपञ्चितम् ॥


दश॒ क्षिपो॑ युञ्जते बा॒हू अद्रिं॒ सोम॑स्य॒ या श॑मि॒तारा॑ सु॒हस्ता॑ ।

मध्वो॒ रसं॑ सु॒गभ॑स्तिर्गिरि॒ष्ठां चनि॑श्चदद्दुदुहे शु॒क्रमं॒शुः ॥४

दश॑ । क्षिपः॑ । यु॒ञ्ज॒ते॒ । बा॒हू इति॑ । अद्रि॑म् । सोम॑स्य । या । श॒मि॒तारा॑ । सु॒ऽहस्ता॑ ।

मध्वः॑ । रस॑म् । सु॒ऽगभ॑स्तिः । गि॒रि॒ऽस्थाम् । चनि॑श्चदत् । दु॒दु॒हे॒ । शु॒क्रम् । अं॒शुः ॥४

दश । क्षिपः । युञ्जते । बाहू इति । अद्रिम् । सोमस्य । या । शमितारा । सुऽहस्ता ।

मध्वः । रसम् । सुऽगभस्तिः । गिरिऽस्थाम् । चनिश्चदत् । दुदुहे । शुक्रम् । अंशुः ॥ ४ ॥

अत्राभिषवस्य प्रतिपाद्यमानत्वात् सोमो देवता । यद्वा ऐन्द्री । "अद्रिम् अभिषव ग्रावाणं "दश “क्षिपः दशसंख्याकाः क्षेप्त्र्योऽङ्गुलयः "युञ्जते गृह्णन्ति । यद्वा । परस्परं युक्ता भवन्ति । “बाहू अप्यध्वर्युसंबन्धिनौ अद्रिं युञ्जाते । "या यौ “सुहस्ता शोभनहननौ "सोमस्य शमितारौ अभिषोतारौ तौ बाहू युञ्जाते । “मध्वः मधुरस्य सोमस्य “रसं “गिरिष्ठां गिरिस्थायिनं गिरिवदुन्नतप्रदेशस्थितं वा “सुगभस्तिः शोभनाङ्गुलिरध्वर्युः "चनिश्चदत् आह्लादयन् ॥ ‘चदि आह्लादने' इत्यस्माद्यङ्लुकि छान्दसं रूपम् । “दुदुहे दोग्धि । स च “अंशुः “शुक्रं निर्मलं रसं "दुदुहे दुग्धे । यद्वैकं वाक्यम् । अंशुः व्याप्तः सुगभस्तिः सुहस्तोऽध्वर्युः मध्वो रसं दुदुहे दोग्धि ॥


असा॑वि ते जुजुषा॒णाय॒ सोम॒ः क्रत्वे॒ दक्षा॑य बृह॒ते मदा॑य ।

हरी॒ रथे॑ सु॒धुरा॒ योगे॑ अ॒र्वागिन्द्र॑ प्रि॒या कृ॑णुहि हू॒यमा॑नः ॥५

असा॑वि । ते॒ । जु॒जु॒षा॒णाय॑ । सोमः॑ । क्रत्वे॑ । दक्षा॑य । बृ॒ह॒ते । मदा॑य ।

हरी॒ इति॑ । रथे॑ । सु॒ऽधुरा॑ । योगे॑ । अ॒र्वाक् । इन्द्र॑ । प्रि॒या । कृ॒णु॒हि॒ । हू॒यमा॑नः ॥५

असावि । ते । जुजुषाणाय । सोमः । क्रत्वे । दक्षाय । बृहते । मदाय ।

हरी इति । रथे । सुऽधुरा । योगे । अर्वाक् । इन्द्र । प्रिया । कृणुहि । हूयमानः ।। ५ ।।

हे इन्द्र “ते तुभ्यं “जुजुषाणाय सेवमानाय “सोमः “असावि अभिषुतः । किमर्थम् । “क्रत्वे क्रतवे वृत्रवधादिकर्मणे “दक्षाय बलाय “बृहते "मदाय च । यस्मादेवं तस्मात् हे “इन्द्र त्वं “हूयमानः सन् “सुधुरा शोभनायां धुरि नियुक्तौ “प्रिया प्रियौ “हरी अश्वौ "योगे योगार्हे युक्ते वा “रथे योजयित्वा तं रथम् “अर्वाक् अस्मदभिमुखं “कृणुहि कुरु ॥ ॥ २० ॥


आ नो॑ म॒हीम॒रम॑तिं स॒जोषा॒ ग्नां दे॒वीं नम॑सा रा॒तह॑व्याम् ।

मधो॒र्मदा॑य बृह॒तीमृ॑त॒ज्ञामाग्ने॑ वह प॒थिभि॑र्देव॒यानैः॑ ॥६

आ । नः॒ । म॒हीम् । अ॒रम॑तिम् । स॒ऽजोषाः॑ । ग्नाम् । दे॒वीम् । नम॑सा । रा॒तऽह॑व्याम् ।

मधोः॑ । मदा॑य । बृ॒ह॒तीम् । ऋ॒त॒ऽज्ञाम् । आ । अ॒ग्ने॒ । व॒ह॒ । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ॥६

आ। नः । महीम् । अरमतिम् । सऽजोषाः । ग्नाम् । देवीम् । नमसा । रातऽहव्याम् ।

मधोः । मदाय । बृहतीम् । ऋतऽज्ञाम् । आ । अग्ने । वह । पथिऽभिः । देवऽयानैः ॥ ६ ॥

अत्राग्निं संबोध्य ग्नादेवताया आवाह्यत्वादस्याग्निर्ग्ना वा देवता । हे “अग्ने “सजोषाः अस्माभिः सह प्रीयमाणस्त्वं “ग्नां “देवीं सर्वैर्गन्तव्यामेतन्नामिकां देवताम् । 'मेना ग्ना इति स्त्रीणाम् ( निरु. ३. २१ ) इति यास्कः । “नः अस्मदर्थं “देवयानैः देवैर्गन्तव्यैः “पथिभिः मार्गैः “आ अभिमुखम् “आ “वह । कीदृशीम् । “महीं महतीम् "अरमतिम् आ समन्ताद्रममाणां सर्वत्र गन्त्रीं वा “नमसा स्तोत्रेण सह “रातहव्याम् । रातं दत्तं दानाय संकल्पितं हव्यं यस्यास्ताम् । दत्तहविष्कामित्यर्थः । किमर्थम् । “मधोः मधुरस्य सोमस्य “मदाय । पुनः कीदृशीम् । “बृहतीं प्रवृद्धाम् “ऋतज्ञां यज्ञमभिजानतीम् ॥


प्रवर्ग्ये महावीरेऽज्यमाने ‘अञ्जन्ति यम्' इत्येषा । सूत्रितं च--- अञ्जन्ति यं प्रथयन्तो न विप्रा इत्यज्यमाने ' ( आश्व. श्रौ. ४. ६) इति ॥

अ॒ञ्जन्ति॒ यं प्र॒थय॑न्तो॒ न विप्रा॑ व॒पाव॑न्तं॒ नाग्निना॒ तप॑न्तः ।

पि॒तुर्न पु॒त्र उ॒पसि॒ प्रेष्ठ॒ आ घ॒र्मो अ॒ग्निमृ॒तय॑न्नसादि ॥७

अ॒ञ्जन्ति॑ । यम् । प्र॒थय॑न्तः । न । विप्राः॑ । व॒पाऽव॑न्तम् । न । अ॒ग्निना॑ । तप॑न्तः ।

पि॒तुः । न । पु॒त्रः । उ॒पसि॑ । प्रेष्ठः॑ । आ । घ॒र्मः । अ॒ग्निम् । ऋ॒तय॑न् । अ॒सा॒दि॒ ॥७

अञ्जन्ति । यम् । प्रथयन्तः । न । विप्राः । वपाऽवन्तम् । न । अग्निना । तपन्तः ।

पितुः । न । पुत्रः । उपसि । प्रेष्ठः । आ । घर्मः । अग्निम् । ऋतयन् । असादि ॥ ७ ॥

“यं घर्मं महावीरं “प्रथयन्तो “न । नेति संप्रत्यर्थीयः । अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोगः । इदानीं प्रथयन्तः “विप्राः मेधाविन ऋत्विजोऽध्वर्य्वादयः “वपावन्तं “न । वपावन्तं प्रवृद्धं पशुं यथाग्नौ तपन्ति तद्वत् "अग्निना "तपन्तः “अञ्जन्ति । “पितुर्न “पुत्र “उपसि “प्रेष्ठः पितुरुपस्थे प्रियतमः पुत्र इव "घर्मः महावीरः । यद्घ्राम् इत्यपतत्तद्धर्मस्य घर्मत्वम् ' ( तै. आ. ५. १. ५) इति हि श्रुतिः । सः “ऋतयन् यज्ञमिच्छन् अग्निम् अग्नौ “आ “असादि आसादितः । अत्र पितृपुत्रदृष्टान्तः स्फोटादिराहित्येन सुखवासप्रख्यापनार्थः ॥


अच्छा॑ म॒ही बृ॑ह॒ती शंत॑मा॒ गीर्दू॒तो न ग॑न्त्व॒श्विना॑ हु॒वध्यै॑ ।

म॒यो॒भुवा॑ स॒रथा या॑तम॒र्वाग्ग॒न्तं नि॒धिं धुर॑मा॒णिर्न नाभि॑म् ॥८

अच्छ॑ । म॒ही । बृ॒ह॒ती । शम्ऽत॑मा । गीः । दू॒तः । न । ग॒न्तु॒ । अ॒श्विना॑ । हु॒वध्यै॑ ।

म॒यः॒ऽभुवा॑ । स॒ऽरथा॑ । आ । या॒त॒म् । अ॒र्वाक् । ग॒न्तम् । नि॒ऽधिम् । धुर॑म् । आ॒णिः । न । नाभि॑म् ॥८

अच्छ। मही । बृहती । शम्ऽतमा । गीः । दूतः । न । गन्तु। अश्विना । हुवध्यै ।

मयःऽभुवा । सऽरथा । आ । यातम् । अर्वाक् ।। गन्तम् । निऽधिम् । धुरम् । आणिः । न । नाभिम् ॥ ८ ॥

“अच्छ अभिमुखम् “अश्विना अश्विनौ "हुवध्यै आह्वातुं “गीः अस्मदीया स्तुतिः “दूतो “न दूत इवाह्वातेव “गन्तु गच्छतु । गीर्विशेष्यते । “मही पूज्या “बृहती महती “शंतमा सुखतमा । हे अश्विनी "मयोभुवा सुखस्य भावयितारौ “सरथा एकरथौ सन्तौ “निधिं निहितं सोमम् “अर्वाक् अभिमुखं "यातं गच्छतम् । “धुरं भारवाहिकां "नाभिम् “आणिर्न कील इव । यथा निष्कीला नाभी रथं न निर्वहति तद्वत् युवाभ्यां वियुक्तः सोमो यागं न निर्वहतीति ज्ञापयितुमेवं दृष्टान्तितम् ॥


प्र तव्य॑सो॒ नम॑उक्तिं तु॒रस्या॒हं पू॒ष्ण उ॒त वा॒योर॑दिक्षि ।

या राध॑सा चोदि॒तारा॑ मती॒नां या वाज॑स्य द्रविणो॒दा उ॒त त्मन् ॥९

प्र । तव्य॑सः । नमः॑ऽउक्तिम् । तु॒रस्य॑ । अ॒हम् । पू॒ष्णः । उ॒त । वा॒योः । अ॒दि॒क्षि॒ ।

या । राध॑सा । चो॒दि॒तारा॑ । म॒ती॒नाम् । या । वाज॑स्य । द्र॒वि॒णः॒ऽदौ । उ॒त । त्मन् ॥९

प्र । तव्यसः । नमःऽउक्तिम् । तुरस्य । अहम् । पूष्णः । उत । वायोः । अदिक्षि ।

या। राधसा । चोदितारा । मतीनाम् । या । वाजस्य । द्रविणःऽदौ । उत । त्मन् ॥९॥

“अहम् ऋषिः “तव्यसः प्रकृष्टबलस्य “तुरस्य त्वरमाणस्य “पूष्णः पोषकस्य देवस्य । उक्तगुणकाय देवाय “उत अपि च "वायोः उक्तलक्षणाय च “नमउक्तिं नम इति वचनं स्तोत्रं “प्र “अदिक्षि प्रदिशामि। “या यौ पूषवायू “राधसा हविर्लक्षणेन निमित्तेन “मतीनां चोदितारा प्रेरयितारौ । यद्वा ।। राधसेति षष्ठयर्थे तृतीया । राधसो धनस्य मतीनां च चोदयितारौ । यौ च “वाजस्य अन्नस्य संग्रामस्य वा चोदयितारौ तौ देवौ “उत अपि च “त्मन् आत्मन्यनन्यप्रेरणयैव “द्रविणोदौ भवतमिति शेषः ।।


आ नाम॑भिर्म॒रुतो॑ वक्षि॒ विश्वा॒ना रू॒पेभि॑र्जातवेदो हुवा॒नः ।

य॒ज्ञं गिरो॑ जरि॒तुः सु॑ष्टु॒तिं च॒ विश्वे॑ गन्त मरुतो॒ विश्व॑ ऊ॒ती ॥१०

आ । नाम॑ऽभिः । म॒रुतः॑ । व॒क्षि॒ । विश्वा॑न् । आ । रू॒पेभिः॑ । जा॒त॒ऽवे॒दः॒ । हु॒वा॒नः ।

य॒ज्ञम् । गिरः॑ । ज॒रि॒तुः । सु॒ऽस्तु॒तिम् । च॒ । विश्वे॑ । ग॒न्त॒ । म॒रु॒तः॒ । विश्वे॑ । ऊ॒ती ॥१०

आ। नामऽभिः । मरुतः । वक्षि। विश्वान् । ओ । रूपेभिः । जातऽवेदः । हुवानः ।।

यज्ञम् । गिरः । जरितुः । सुऽस्तुतिम् । च । विश्वे । गन्त । मरुतः । विश्वे । ऊती ॥ १० ॥

हे "जातवेदः जातप्रज्ञाग्ने “हुवानः अस्माभिराहूयमानः सन् “विश्वान् “मरुतः सर्वानपि स्तोत्रभाजो हविर्भाजश्च देवान् “नामभिः इन्द्रवरुणेत्यादिलक्षणैः “आ “वक्षि आवहसि । “रूपेभिः सहस्राक्षवज्रहस्तत्वादिलक्षणै रूपैः “आ वक्षि वहसि यज्ञम् । किंच हे “मरुतः “विश्वे सर्वे यूयं “यज्ञम् अस्मदीयं यज्ञसंबन्धि हविर्वा "जरितुः स्तोतुः संबन्धिनीः “गिरः स्तुतिवचांसि "सुष्टुतिं तत्साध्यां शोभनफलां स्तुतिं च । अवयविन्या: स्तुतेरेकत्वादेकवचनम् । अवयवानां बहुत्वाद्बहुवचनम् ॥ उक्ते यज्ञस्तुती अभिलक्ष्य “गन्त आगच्छत । “विश्वे “च यूयम् “ऊती ऊत्या रक्षया च सह गन्त ॥ ॥ २१ ॥


‘आ नो दिवः' इत्येकादशी व्यूढे दशरात्रे नवमेऽहनि प्रउगशस्त्रे सारस्वततृचे द्वितीया । सूत्रितं च--- आ नो दिवो बृहतः पर्वतादा सरस्वत्यभि नो नेषि वस्यः' (आश्व. श्रौ. ८.११) इति ॥

आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम् ।

हवं॑ दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥११

आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व॑तात् । आ । सर॑स्वती । य॒ज॒ता । ग॒न्तु॒ । य॒ज्ञम् ।

हव॑म् । दे॒वी । जु॒जु॒षा॒णा । घृ॒ताची॑ । श॒ग्माम् । नः॒ । वाच॑म् । उ॒श॒ती । शृ॒णो॒तु॒ ॥११

आ । नः । दिवः । बृहतः । पर्वतात् । आ । सरस्वती । यजता । गन्तु । यज्ञम् ।

हवम् । देवी । जुजुषाणा । घृताची । शग्माम् । नः । वाचम् । उशती । शृणोतु ॥ ११ ॥

“नः अस्माकं “यज्ञं “यजता यष्टव्या देवी “सरस्वती “दिवः द्योतमानात् द्युलोकात् “आ “गन्तु आगच्छतु । तथा “बृहतः महतः “पर्वतात् पर्ववतः पूरणवतः प्रीणनवतो वान्तरिक्षात् मेघाद्वा सरस्वती “आ गन्तु आगच्छतु । अनेन माध्यमिकी वागुच्यते । यद्वा एतत् दिव इत्यस्य विशेषणम् । सन्ति हि द्युलोकस्य त्रीणि पर्वाणि तिस्रो दिवः पृथिवीः' इत्यादि श्रुतेः । अस्मिन् पक्षे द्वितीय आकारः पूरणः । तदर्थं “हवम् अस्मदीयमाह्वानं “देवी सरस्वती “जुजुषाणा स्तुतिं सेवमाना “घृताची घृतमुदकमञ्चती “नः अस्मदीयां “शग्मां सुखकरीं “वाचं स्तुतिम् “उशती कामयमाना सती “शृणोतु ।।


आ वे॒धसं॒ नील॑पृष्ठं बृ॒हन्तं॒ बृह॒स्पतिं॒ सद॑ने सादयध्वम् ।

सा॒दद्यो॑निं॒ दम॒ आ दी॑दि॒वांसं॒ हिर॑ण्यवर्णमरु॒षं स॑पेम ॥१२

आ । वे॒धस॑म् । नील॑ऽपृष्ठम् । बृ॒हन्त॑म् । बृह॒स्पति॑म् । सद॑ने । सा॒द॒य॒ध्व॒म् ।

सा॒दत्ऽयो॑निम् । दमे॑ । आ । दी॒दि॒ऽवांस॑म् । हिर॑ण्यऽवर्णम् । अ॒रु॒षम् । स॒पे॒म॒ ॥१२

आ। वेधसम् । नीलऽपृष्ठम् । बृहन्तम् । बृहस्पतिम् । सदने । सादयध्वम् ।

सादत्ऽयोनिम्। दमे । आ । दीदिऽवांसम् । हिरण्यऽवर्णम् । अरुषम् । सपेम ॥ १२ ॥

एषा बार्हस्पत्या । हे ऋत्विजो यूयं “बृहस्पतिं बृहतो मन्त्रस्य स्वामिनं देवं “सदने अस्मद्यागगृहे “आ “सादयध्वं स्थापयध्वम् । कीदृशं देवम् ।' “वेधसं विविधकर्तारं “नीलपृष्ठं स्निग्धाङ्गं "बृहन्तं महान्तम् । तथा सन्तं वयमृत्विग्यजमानाः "सपेम परिचरेम । स एव विशेष्यते । "सादद्योनिं योनौ सीदन्तं “दमे यागगृहे “आ सर्वतः “दीदिवांसं दीप्यमानं “हिरण्यवर्णम् हितरमणीयवर्णम् “अरुषम् आरोचमानम् । अथवेयमाग्नेयी । बृहतः परिवृढस्य कर्मणः स्वामीति बृहस्पतिरग्निरुच्यते । तथा नीलवर्णधूमपृष्ठत्वसदनसादनहिरण्यवर्णत्वादिलिङ्गैरप्यग्निरेव बृहस्पतिः ॥


आ ध॑र्ण॒सिर्बृ॒हद्दि॑वो॒ ररा॑णो॒ विश्वे॑भिर्ग॒न्त्वोम॑भिर्हुवा॒नः ।

ग्ना वसा॑न॒ ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृङ्गो वृष॒भो व॑यो॒धाः ॥१३

आ । ध॒र्ण॒सिः । बृ॒हत्ऽदि॑वः । ररा॑णः । विश्वे॑भिः । ग॒न्तु॒ । ओम॑ऽभिः । हु॒वा॒नः ।

ग्नाः । वसा॑नः । ओष॑धीः । अमृ॑ध्रः । त्रि॒धातु॑ऽशृङ्गः । वृ॒ष॒भः । व॒यः॒ऽधाः ॥१३

आ। धर्णसिः । बृहत्ऽदिवः । रराणः । विश्वेभिः । गन्तु । ओमऽभिः । हुवानः ।

ग्नाः। वसानः । ओषधीः । अमृधः । त्रिधातुऽशृङ्गः । वृषभः । वयःऽधाः ॥ १३॥ .

इदमाद्यृक्त्रयमाग्नेयम् । अग्निः “आ “गन्तु आगच्छत्वस्मयज्ञं “धर्णसिः सर्वस्य धारकः "बृहद्दिवः प्रभूतदीप्तिः “रराणः रममाणः कामान् प्रयच्छन् वा “विश्वेभिः सर्वैः “ओमभिः रक्षणैः सह “हुवानः आहूयमानः । “ग्नाः गन्त्रीर्ज्वालाः “ओषधीः च “वसानः अमृधः अहिसितः “त्रिधातुशृङ्गः त्रिप्रकारशृङ्गवदुन्नतलोहितशुक्लकृष्णवर्णज्वाल: “वृषभः वर्षिता “वयोधाः अन्नस्य दाता हविषो वा धारकः ॥


मा॒तुष्प॒दे प॑र॒मे शु॒क्र आ॒योर्वि॑प॒न्यवो॑ रास्पि॒रासो॑ अग्मन् ।

सु॒शेव्यं॒ नम॑सा रा॒तह॑व्या॒ः शिशुं॑ मृजन्त्या॒यवो॒ न वा॒से ॥१४

मा॒तुः । प॒दे । प॒र॒मे । शु॒क्रे । आ॒योः । वि॒प॒न्यवः॑ । रा॒स्पि॒रासः॑ । अ॒ग्म॒न् ।

सु॒ऽशेव्य॑म् । नम॑सा । रा॒तऽह॑व्याः । शिशु॑म् । मृ॒ज॒न्ति॒ । आ॒यवः॑ । न । वा॒से ॥१४

मातुः । पदे। परमे। शुक्रे । आयोः । विपन्यवः । रास्पिरासः । अग्मन् ।

सुऽशेव्यम् । नमसा । रातऽहव्याः । शिशुम् । मृजन्ति । आयवः । न । वासे ॥ १४ ॥

“आयोः मनुष्यस्य यजमानस्य “विपन्यवः । स्तोतृनामैतत् । स्तोतारो होत्रादयः “रास्पिरासः ॥ रा धनं हविर्लक्षणम् । तत्स्पृशन्ति रास्पा जुह्वादयः । तद्वान् रास्पी । तद्वन्तो रास्पिराः ॥ उक्तविधा ऋत्विजः “मातुः निर्मातुः पृथिव्याः “शुक्रे दीप्ते “परमे “पदे उत्तरवेद्यां स्थितम् “अग्मन् अगमन् भजन्ते । तदर्थं "सुशेव्यं सुखाय हितं "शिशुम् उत्पन्नमात्रं 'वासे वासाय “नमसा स्तोत्रेण “रातहव्याः दत्तहविष्काः इत्यर्थः । तादृशास्ते “मृजन्ति संमार्जयन्ति । तत्र दृष्टान्तः । “आयवो “न लौकिका मनुष्य इव । ते यथा “शिशुं वासाय मृजन्ति तद्वत् ॥


बृ॒हद्वयो॑ बृह॒ते तुभ्य॑मग्ने धिया॒जुरो॑ मिथु॒नासः॑ सचन्त ।

दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥१५

बृ॒हत् । वयः॑ । बृ॒ह॒ते । तुभ्य॑म् । अ॒ग्ने॒ । धि॒या॒ऽजुरः॑ । मि॒थु॒नासः॑ । स॒च॒न्त॒ ।

दे॒वःऽदे॑वः । सु॒ऽहवः॑ । भू॒तु॒ । मह्य॑म् । मा । नः॒ । मा॒ता । पृ॒थि॒वी । दुः॒ऽम॒तौ । धा॒त् ॥१५

बृहत् । वयः । बृहते । तुभ्यम् । अग्ने । धियाऽजुरः । मिथुनासः । सचन्त ।

देवःऽदेवः । सुऽहवः । भूतु । मह्यम् । मा। नः । माता । पृथिवी । दुःऽमतौ । धात् ॥१५॥

"बृहत् प्रभूतं “वयः अन्नं हे “अग्ने बृहते “तुभ्यं “धियाजुरः कर्मणा जीर्णाः “मिथुनासः पत्नीभिः सहिताः “सचन्त सेवन्ते । ‘जायापती अग्निमादधीयाताम्' इत्यादिश्रुतेः । अधिकाराध्याये षष्ठे स्त्रिया अप्यधिकारः स च पत्या सह (पू. मी. ६ . १. २४ ) इति हि प्रतिपादितम् । अवशिष्टं गतम् ॥


उ॒रौ दे॑वा अनिबा॒धे स्या॑म ॥१६

उ॒रौ । दे॒वाः॒ । अ॒नि॒ऽबा॒धे । स्या॒म॒ ॥१६

उरौ । देवाः । अनिऽबाधे। स्याम ॥ १६ ॥


सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।

आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥१७

सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।

आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥१७

सम् । अश्विनोः । अवसा । नूतनेन । मयःऽभुवा । सुऽप्रनीती। गमेम ।

आ। नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता। सौभगानि ॥ १७ ॥

व्याख्याते द्वे ॥ ॥ २२ ॥


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.४३&oldid=209181" इत्यस्माद् पुनः प्राप्तिः