शाङ्खायनश्रौतसूत्रम्/अध्यायः ०६

विकिस्रोतः तः
← अध्यायः ०५ शाङ्खायनश्रौतसूत्रम्
अध्यायः ०६
[[लेखकः :|]]
अध्यायः ०७ →


॥6.1॥ ज्योतिष्टोमे पाशुकोहप्रकरणम्
व्याख्यातोऽग्नीषोमीयः प्रकृतिः पशूनाम् १
आर्षमाम्नानं मन्त्राणां प्रकृतौ २
यथार्थमुत्तरस्यां ततावर्थविकारस्योत्पत्तिरूपेणानभिधानाच्छब्दविकारमूहं ब्रुवते ३
ऋक्षु विकारो न विद्यते ४
यजमानाभ्यां यजमानेभ्यः । मेधपतये मेधपतिभ्यः । मेधौ मेधान् । आददादन् । घस्तु घसन्तु । अघसदघसन् । अघदक्षन्निति वा । रभौ । साविव रभीयस इव । अग्रभीदग्रभीषुः । अवीवृधतावीवृधन्त । अश्यासुः । ऋध्यौसुः । अचीकमेतामचीकमन्त । इत्यर्थभे दाच्छब्दविकारः ५
बर्हिश्चक्षुः श्रोत्रं प्राणोऽसुस्त्वङ् नाभिरूष्मा ज्ञातिनामानि श्येनं शला कश्यपा कवषा स्रेकपर्णोवध्यगोहमस्नेति यथासमाम्नातम् ६
चोदनासंदेहे च ७
शेषभूतान्यपूर्वाणि ८
आयनिगदाश्च ९
एकधैकधा षड्विंशतिः षड्विंशतिरिति समासेन वा १०
एष सङ्ख्यान्यायः ११
एकदेवतद्विदेवतयोश्च बहुवत् १२
पुंवन्मिथुनेषु समान्याम् १३
अप्य-न्यतरस्याम् १४
एवेत्यकारेण संधानं देवतानामधेयस्य स्वरादेर्द्विदेवत्यस्य १५
सकृद्बध्नन्पशुभेदे १६
सूपस्थाश्च १७
उदगयनस्याद्यन्तयोरैन्द्राग्नो निरूल्हपशुबन्धः १८
सांवत्सरो वा १९
काम्या बहवः २०
अग्निप्रणयनादयो हृदयशूलान्ताः पशवोऽग्नीषोमीयसवनीयौ परिहाप्य २१
आग्नावैष्णवी च यक्ष्यमाणस्य २२
निर्वचनं चाशिषाम २३
अन्यत्र चाग्नीषोमीयात्सूक्तवाके नामग्रहणम् २४
प्रातरनुवाकप्रभृत्यादिप्रदिष्टानि शस्त्रानुवचनयोः सूक्तानि
२५
एकां प्रतीयादन्यत्र २६

॥6.2॥ ज्योतिष्टोमे प्रातरनुवाकप्रकरणम्
महारात्रे प्रातरनुवाकायामन्त्रितोऽग्रेणाग्नीध्रीयं धिष्ण्यं तिष्ठन्प्रपदो जपति १
भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये भूर्भुवः स्वः प्रपद्य ओम् प्रपद्ये वाचमृचं प्रपद्ये मनो यजुः प्रपद्ये साम प्राणं प्रपद्ये चक्षुः श्रोत्रं प्रपद्ये नमो देवेभ्यो नमो देवताभ्यो नमो महते देवाय नमो गन्धर्वाप्सरोभ्यो नमः सर्पदेवजनेभ्यो नमो भूताय नमो भविष्यते नमः पितृभ्यः प्रतिनमस्कारेभ्यो वोऽपि नमः २
दिशो यथारूपमुपतिष्ठते ३

॥6.3॥ ज्योतिष्टोमे प्रातरनुवाकप्रकरणम्
अस्यां मे प्राच्यां दिशि सूर्यश्च चन्द्रश्चाधिपती सूर्यश्च चन्द्रश्च मैतस्यै दिशः
पातां सूर्यं च चन्द्रं च स देवतानामृच्छतु यो नोऽतोऽभिदासतीति प्राचीम् १
अस्यां मे दक्षिणस्यां दिशि यमश्च मृत्युश्चाधिपती यमश्च मृत्युश्च मैतस्यै दिशः पातां यमं च मृत्युं च स देवतानामृच्छतु यो नोऽतोऽभिदासतीति दक्षिणाम् २
अस्यां मे प्रतीच्यां दिशि मित्रश्च वरुणश्चाधिपती मित्रश्च वरुणश्च मैतस्यै दिशः पातां मित्रं च वरुणं च स देवतानामृच्छतु यो नोऽतोऽभिदासतीति प्रतीचीम् ३
अस्यां म उदीच्यां दिशि सोमश्च रुद्रश्चाधिपती सोमश्च रुद्रश्च मैतस्यै दिशः पातां सोमं च रुद्रं च स देवतानामृच्छतु यो नो
ऽतोऽभिदासतीति सव्यावृदुदीचीम् ४
अस्यां म ऊर्ध्वायां दिशि बृहस्पतिश्चेन्द्रश्चाधिपती बृहस्पतिश्चेन्द्रश्च मैतस्यै दिशः पातां बृहस्पतिं
चेन्द्रं च स देवतानामृच्छतु यो नोऽतोऽभिदामतीति प्राङूर्ध्वाम् ५
अस्मिन्म अन्तरिक्षे वायुश्च वृष्टिश्चाधिपती वायुश्च वृष्टिश्च मैतस्यै दिशः पातां वायुं च वृष्टिं च स देवतानामृच्छतु यो नोऽतोऽभिदासतीत्यन्तरिक्षम् ६
अस्यां मे पृथिव्यामग्निश्चान्नं चाधिपती अग्निश्चान्नं च मैतस्यै दिशः पातामग्निं चान्नं च स देवतानामृच्छतु यो नोऽतोऽभिदासतीति पृथिवीम् ७
बृहद्रथन्तरे म ऊरू वामदेव्यमात्मा यज्ञायज्ञीयं प्रतिष्ठा भूरहं भुवरहं स्वरहमश्माहमश्माखणः सुत्रामाणमिति जपित्वा दक्षिणावृदाग्नीध्रीये भूर्भुवः स्वः स्वाहाग्नये स्वाहोषसे स्वाहाश्विभ्यां स्वाहा सरस्वत्यै स्वाहा जुषाणानि महांसि सवनान्याज्यस्य व्यन्तु स्वाहेति स्रुवेण हुत्वा सव्यावृद्धविर्धानयोः पूर्वस्यां द्वार्युपविशति ८
देवेभ्यः प्रातर्यावभ्य इत्युक्तो हिंकृत्य मध्यमया वाचा प्रातरनुवाकमन्वाह ९
त्रीणि पदानि समस्य पङ्क्तीनामवस्येद्द्वाभ्यां प्रणुयात् १०
[१]आपोरेवतीमनूच्य आग्नेयं गायत्रं क्रतुम् ११
॥6.4॥ ज्योतिष्टोमे प्रातरनुवाकप्रकरणम्
उपप्रयन्तो अध्वरम् । अग्निमीले पुरोहितम् । अग्निं दूतं वृणीमहे । अश्वं न त्वेति दश । जुषस्व सप्रथस्तमम् । अभि त्वा गोतमा गिरा । अग्निर्होता पुरोहितः । दूतं वः । अग्ने मृल । अर्चन्तस्त्वा । अग्निं स्तोमेन । उपसद्याय । इमे विप्रस्य । समिधाग्निम् अग्निं हिन्वन्तु । प्राग्नये वाचम् । त्वमग्ने यज्ञानामिति षड्विंशतिः १
अथानुष्टुभम् २
तेते अग्न इत्येका । होताजनिष्ट । त्वं हि क्षैतवदिति नव अग्ने कदा तआनुषगिति पञ्च ३
अथ त्रैष्टुभम् ४
ससस्य यदिति पञ्च । यो मर्त्येष्विति त्रीणि । प्र वो देवमिति पञ्च सूक्तानि । अग्ने बृहन्निति च सप्त अगन्म महा ५
अथ बार्हतम् ६
एना वः । प्र वो यह्वम् । अग्रे विवस्वदिति द्वादश । सखायस्त्वेत्यष्टौ । अदर्शीति चतस्रः । समिद्ध-श्चिदिति तिस्रः अयमग्निः सुवीर्यस्य ७
अथौष्णिहम् ८
त्वामग्ने मनीषिणः । ईलिष्वा हि पुरु त्वा ९
अथ जागतम् १०
वेदिषद इति सप्त । एति प्र होता । यज्ञेन वर्धत । जनस्य गोपाः ११
अथ पाङ्क्तम् १२
अग्निं तं मव्ये १३

॥6.5॥ ज्योतिष्टोमे प्रातरनुवाकप्रकरणम्
अथोषस्यं गायत्रम् १
कस्त उष इति तिस्रः । प्रति ष्या सूनरी २
अथानुष्टुभम् ३
उषो भद्रेभिः ४
अथ त्रैष्टुभम् ५
उपोरुरुच इति चत्वारि ६
अथ बार्हतम् ७
प्रत्यु अदर्शि । सह वामेन ८
अथौष्णिहम् ९
उषस्तच्चित्रमिति तिस्रः १०
अथ जागतम् ११
एता उ त्या इति चतस्रः १२
अथ पाङ्क्तम् १३
महे नः १४

॥6.6॥ ज्योतिष्टोमे प्रातरनुवाकप्रकरणम्
अथाश्विनं गायत्रम् १
अश्विना यज्वरीरिष इति तिस्रः प्रातर्युजेति चतस्रः । आश्विनावश्वावत्येति तिस्रः । एषो उषाः । गोमदू ष्विति द्वे । दूरादिहेवेति षट्त्रिंशत् । उदीराथाम् । आ मे हवम् २
अथानुष्टुभम् ३
आ नो विश्वाभिरूतिभिः । यदद्य स्थः परावतीति सूक्ते ४
अथ त्रैष्टुभम् ५
आ भातीति सूक्ते । नासत्याभ्यामिति त्रीणि । वसू रुद्रेति तिस्रः । युवो रजांसीति सूक्ते । तं युञ्जाथामिति सूक्ते । ग्रावाणेव । धेनुः प्रत्नस्य । क उ श्रवदिति सूक्ते । स्तुषे नरेति सूक्ते परिहाप्य पञ्चपदाम् । आ वां रथो रोदसी बद्बधान इति पञ्च सूक्तानि ६
अथ बार्हतम् ७
इमा उ वां दिविष्टयः अयं वां मधुमत्तम इति प्रथमा तृतीया पञ्चमी च ८
अथौष्णिहम् ९
युवोरु षू रथमिति पञ्च १०
अथ जागतम् ११
त्रिश्चिन्नो अद्य । ईलेद्यावीयम् । घोषां च सपुत्राम् १२
अथ पाङ्क्तम् १३
प्रति प्रियतममिति १४
उत्तमया परिधायोत्सृज्य वाचम् । अया वाजमिति जपति १५
इति साहस्रः प्रातरनुवाकः १६
छन्दोऽनन्तरेण वा प्रतिपत्समारोहणीयानां चैतस्य समाम्नायस्य त्रीणि षष्टिशतानि १७
ऊर्ध्वं वा शताद्याथाकामी १८
पाङ्क्तानि नान्तरियात् १९
पुरोदयादुपांशुं होष्यन्तीति स कालः परिधानस्य २०
आन्तर्यामाद्वाग्यमनम् २१

॥6.7॥ ज्योतिष्टोमे प्रातरनुवाकप्रकरणम्
अप इष्य होतरित्युक्तः प्र देवत्रेति द्वादशीं परिहाप्य १
नवानूच्यैकादशीमाहुतावप्सु हूयमानायाम् २
आवृत्तासु दशमीम् ३
प्रति यदाप इति दृश्यमानासु ४
समन्या इति समायतीषु ५
आपो न देवीरिति होतृचमसे ऽवनीयमानासु ६
आ धेनव इत्यायतीषु सर्वामुक्त्वा प्रणवेनावस्यति ७
अध्वर्यवैषीरपा ३
इत्यध्वर्युं पृच्छति ८
उतेव नम्नमुरिति प्रत्याह ९
प्रत्युक्तो निगदं तास्वध्वर्यवाधावेन्द्राय सोममूर्जस्वन्तं पयस्वन्तं मधुमन्तं वृष्टिवनिं वसुमते रुद्रवत आदित्यवत ऋभुमते विभुमते वाजवते बृहस्पतिमते विश्वदेव्यावते । यस्य पीत्वा मद इन्द्रो वृत्राणि जङ्घनत् । प्र स जन्यानि तारिषः । अम्बय इत्यध्यर्धामनूच्य । उपोत्थायाध्वर्युमन्वावृत्योत्तरामध्यर्धामनूच्य । उपोत्तमां च सूक्तस्य । उत्तमया परिधाय । पर्यावृत्योपविशति १०

॥6.8॥ ज्योतिष्टोमे प्रातरनुवाकप्रकरणम्
प्राणं मे पाहि प्राणं मे जिन्व स्वाहा त्वा सुभव सूर्यायेत्युपांशुं हूयमानमनुप्राणिति १
अपानं मे पाह्यपानं मे जिन्व स्वाहा त्वा सुभव सूर्यायेत्यन्तर्याममन्ववानिति २
उत्तरेणाहवनीयं बहिष्पवमानेन स्तुवते ३
दक्षिणतो ब्रह्मा मैत्रावरुणश्चोपविश्य ४
ब्रह्मन्स्तोष्यामः प्रशास्तरित्युक्तौ ५
आयुष्मत्य ऋचो मा गात तनूपाः साम्नः स्तुत देवस्य सवितुः प्रसव इति जपित्वा ६
ॐ स्तुतेति ७
प्रसवः सर्वेषां स्तोत्राणाम् ८
असतो मा सद्गमय तमसो मा ज्योतिर्गमयान्तान्मानन्तं गमय मृत्योर्मामृतं गमयेति यजमानः पवमानानुषसरिष्यन् ९
श्येनोऽसि पत्वा गायत्रच्छन्दा अनु त्वारभे स्वस्ति मा संपारयास्य यज्ञस्योट्टचमिति स्तुते बहिष्पवमाने १०
सुपर्णोऽसि पत्वा त्रिष्टुप्छन्दा इति माध्यन्दिने ११
सखासि पत्वा जगच्छन्दा इत्यार्भवे १२
समान उदर्कः १३
उपहूता देवा अस्य सोमस्य पवमानस्य विचक्षणस्य भक्ष उप मां देवा हूयन्तामस्य सोमस्य पवमानस्य विचक्षणस्य भक्षे मनसा त्वा भक्षयामि वाचा त्वा भक्षयामि प्राणेन त्वा भक्षयामि चक्षुषा त्वा भक्षयामि श्रोत्रेण त्वा भक्षयामीति स्तुते बहिष्पवमाने होता १४

॥6.9॥ ज्योतिष्टोमे सवनीयपशुप्रकरणम्
आग्नेयः सवनीयः १
ऐन्द्राग्नो वा २
ऐकादशिना वा ३
एकयूपेष्वैकादशि-नेष्वावर्तते परिव्ययणीया रशनापृथक्त्वात्त्रिस्त्रिः ४
नानायूपेषु ५
अग्निष्ठे परिव्ययणीयामुक्त्वा नवसु सप्तसप्ताह ६
एकादशेऽन्तरेण परिव्ययणीयां प्रगाथं च यान्वो नर इति च सूक्तशेषमन्वाह ७
उत्तमयोपशयमनुमन्त्रयते ८
पूर्वेद्युरुच्छ्रितेष्वपरिवीयमाणेषु पूर्वया परिदध्यात् ९
संतानार्थो वार्धर्चेनैव काङ्क्षेत् १०
समानजातीया अनुममियात् ११
यथोत्तमे तथोहेन १२
पशुदेवतामावाह्य वनस्पतिं च । इन्द्रं वसुमन्तमावहेन्द्रं रुद्रवन्तमावहेन्द्र-मादित्यवन्तमृभुमन्तं विभुमन्तं वाजवन्तं बृहस्पतिमन्तं विश्वदव्यावन्तमावहेति सवनदेवताः १३
नान्येषु निगमस्थानेषु निगच्छन्ति १४
सूक्तवाके वा १५
अध्वर्यू संमृश्य प्रवरानुपूर्व्येण प्रवृताहुती जुहोति १६
जुष्टो वाचो भूयासं जुष्टो वाचस्पतेर्देवि वाग्यत्ते वाचो मधुमत्तमं तस्मिन्नो अद्य धाः स्वाहा सरस्वत्या इति पूर्वाम् १७
तूष्णीमुत्तराम् १८

॥6.10॥ ज्योतिष्टोमे सवनीयपशुप्रकरणम्
अग्ने नयेति तिस्रो भुवो यज्ञस्य प्र वः शुक्राय प्र कारव इत्याग्नेयस्य १
आ नो दिवो बृहतः पर्वतादा सरस्वतीं देवयन्तः सरस्वत्यभि नः पावीरवी कन्या प्र क्षोदसेमा जुह्वाना इति सारस्वतस्य २
त्वं सोम प्र चिकितस्त्वमिमा ओषधीः सोमो धेनुं या ते धामानि दिव्यषाल्हं युत्सु या ते धामानि हविषेति सौम्यस्य ३
पूषेमा आशाः प्रपथे पथां पथस्य यः शुक्रं ते यास्ते पूषन्पूषा सुबन्धुरिति पौष्णस्य ४
आ दैव्या वेधसं बृहस्पतिः समजयत्स हि शुचिः स सुष्टुभा स ऋक्वता म आ नो योनिमिति बार्हस्पत्यस्य ५
विश्वे अद्य मरुतो विश्व ऊती यं देवामोऽवथ विश्वे देवाः शृणुत ये के च ज्मा ते हि यज्ञेषु यज्ञियाम ऊमाः स्तीर्णे बार्हषीति वैश्वदेबस्य ६
इन्द्रं नर इन्द्रो राजेन्द्र क्षत्रमुरुं न आ नो विश्वाभिरूतिभिः सजोषा आ ते शुष्पो वृषभ इत्यैन्द्रस्य ७
गोमदश्वावद्धये नरः शुची वोऽरा इवेद्या वः शर्म यूयमस्मानिति मारुतस्य ८
उभा वामा वृत्रहणा ता योधिष्टं शुचिं नु गीर्भिर्विप्रः प्र चर्षणिभ्य इत्यैन्द्राग्नस्य ९
आ नो देवः सविता त्रायमाण आ देवो यातु सविता यन्त्रैर्वाममद्य ये ते पन्था अस्मभ्यं तद्दिव इति सावित्रस्य १०
अस्तभ्नाद् द्यां तत्त्वा याम्यव ते हेल एवा वन्दस्वेमां धियं शिक्षमाणस्योदुत्तमं वरुणेति वारुणस्य ११
इत्यैकादशिनानाम् १२
ये चैवंदेवताः पशवः १३
१०
॥6.11॥ ज्योतिष्टोमे सवनीयपशुप्रकरणम्
इन्द्रा नु पूषणेत्यैन्द्रापौष्णस्य १
सोमापूषणेति सोमापौष्णस्य २
सं वां कर्मणेत्यैन्द्रावैष्णवस्य ३
नासत्याभ्यामित्याश्विनस्य ४
विष्णोर्नु कमिति वैष्णवस्य ५
रात्रीति रात्र्याः ६
भूरिं द्वे इति द्यावापृथिवीयस्य ७
जनीयन्त
इति तिस्रः स वावृधे दिव्यं सुपर्णं यस्य व्रतं पशवो यन्ति सर्वे
यस्य व्रतमुपतिष्ठन्त आपः
यस्य व्रते पुष्टिपतिर्निविष्टस्तं सरस्वन्तमवसे हुवेम
इति सारस्वतः ८
य इमा विश्वा भुवनानीति वैश्वकर्मणस्य चतुर्थीं परिहाप्य ९
आ ते पितरिति रौद्रस्य १०
अहं रुद्रेभिरिति वाग्देवत्यस्य ११
तिस्रस्तिस्रः पूर्वाः पुरोनुवाक्या वपायाः पुरोलाशस्य पशोस्तिस्रस्तिस्र उत्तरा याज्याः १२
नैके पशुपुरोलाशं सवनीयस्य १३
कर्म तु न्यायः १४
सावित्रवाग्देवत्यौ चोपांशु १५
आवर्तते पशुगणे मनोता १६
परिव्ययणीयादि वपान्तं प्रातःसवने
पशुकर्म कृत्वा निष्क्रम्य तथैवोपस्पृश्य चात्वाले १७
११
॥6.12॥ ज्योतिष्टोमे धिष्ण्योपस्थानप्रकरणम्
धिष्ण्यानुपस्थाय सदः प्रसर्पन्ति १
अग्रेण हविर्धाने तिष्ठन्तस्तंतमीक्षमाणाः २
सम्रालसि कृशानो रौद्रेणानीकेन पाहि मा अग्ने पिपृहि मा नमस्ते अस्तु मा मा हिंसीरित्याहवनीयम् ३
रौद्रादिरुदर्कः ४
अनुदर्को वा ५
अपिजोऽसि दुवस्वानिति मथित्वानुप्रहृतम् ६
परिषद्योऽसि पवमान इत्यास्तवम् ७
प्रतक्वासि नभस्वानिति चात्वालम् ८
कव्योऽसि हव्यसूदन इति शामित्रम् ९
समुह्योऽसि विश्वभरा इत्युत्करम् १०
दक्षिणावृतो विभूरसि प्रवाहण इत्याग्नीध्रम् ११
प्रपत्स्यमानाः सदश्चोपर्यभिमृशन्ति दिवस्पृष्ठमसि मा मा संताप्सीरिति १२
ऋतस्य द्वारौ मा मा संताप्तमिति द्वार्यौ संमृश्य । उत्तरेणाग्नीध्रीयं धिष्ण्यं गच्छन्ति ये प्रत्यञ्चो धिष्ण्यानतिक्रामन्ति १३
मलिम्लुचोऽसि सगर इत्यासादमच्छावाकस्य १४
वह्निरसि हव्यवाहन इति होतुर्धिष्ण्यम् १५
श्वात्रोऽसि प्रचेता इति मैत्रावरुणस्य १६
तुथोऽसि विश्ववेदा इति ब्राह्मणाच्छंसिनः १७
उशिगसि कविरसीति पोतुः १८
अवस्युरसि दुवस्वानिति नेष्टुः १९
अंहारिरसि बम्भारिरित्यच्छावाकस्य २०
शुन्ध्युरसि मार्जालीय इत्यवेक्ष्य मार्जालीयम् २१
शुन्ध्युरत्युपसद्य इति ब्रह्मसदनम् २२
ऋतधामासि स्वर्ज्योतिरित्यौदुम्बरीम् २३
समुद्रोऽसि विश्वव्यचा इति सदोऽनुवीक्ष्य २४
अजोऽस्येकपादिति शालामुखीयम् २५
अहिरसि बुध्न्य
इति प्राजहितम् २६
अन्नदास्यन्नपतिरिति व्रतश्रपणम् २७
१२
॥6.13॥ ज्योतिष्टोमे सदःप्रसर्पणप्रकरणम्
अग्नयः सगराः सगराः स्थ सगरेण नाम्ना रौद्रेणानीकेन पात माग्नयः पिपृत मा नमो वो अस्तु मा मा हिंमिष्टेति सर्वान् १
अध्वनो अधिपतिरसि स्वस्ति नो ऽद्यास्मिन्देवयाने पथि स्तादित्यादित्यमुपस्थाय मैत्रावरुणप्रभृतय उदञ्चो ऽच्छावाकं परिहाप्य पूर्वया द्वारा सदः प्रसर्पन्ति २
विश्वे देवा अनु मा प्रमर्पतेन्द्र त्रिधातु शरणं यत इन्द्र भयामहे सदसस्पतिमद्भुतमिति जपन्तो
ऽग्रेणोत्तरेण सर्वान्धिष्ण्यान्गच्छन्ति ३
दक्षिणधिष्ण्योदक्षिणधिष्ण्यः पूर्वो गत्वा स्वस्यस्वस्य धिष्ण्यस्य पश्चादुपविशति ४
उत्तरेण सदो गत्वा ब्रह्मापरया द्वारा सदः प्रपद्य दक्षिणेन मैत्रावरुणं गत्वा यथासनमास्ते ५
नासंस्थिते सवनेऽपरया द्वारा निःसर्पन्ति ६
अन्तरेण होतुर्मैत्रावरुणस्य च धिष्ण्यावधिष्ण्यानां विसंस्थितसंचरः ७
उत्तरेण स्वंस्वं धिष्ण्यं धिष्ण्य-वताम् ८
पश्चार्धेनाग्नीध्रीयस्योदञ्चः ९
मार्जालीयस्य वा दक्षिणा १०
अव्या-वर्तमानाश्च प्रत्यायन्ति ११
ऊर्ध्वं प्रातःसवनात्समस्तोपस्थानप्रभृतिना प्रस-र्पन्ति १२
आदित्योपस्थानं रात्रिपर्यायेष्वाश्विने च न विद्यते न विद्यते १३
१३
इति शाङ्खायनश्रौतसूत्रे षष्ठोऽध्यायः समाप्तः

  1. १०.३०.१२