शाङ्खायनश्रौतसूत्रम्/अध्यायः ०७

विकिस्रोतः तः
← अध्यायः ०६ शाङ्खायनश्रौतसूत्रम्
अध्यायः ०७
[[लेखकः :|]]
अध्यायः ०८ →


॥7.1॥ ज्योतिष्टोमे सवनीयपुरोळाशप्रचारम्
प्रसृप्य पुरोलाशैः सवनीयैश्चरन्ति १
धानावन्तमिति पुरोनुवाक्या २
होता यक्षदिन्द्रं हरिवाँ इत्यनुसवनं प्रैषो यथासमाम्नातम् ३
यथासवनं वितारयति ४
तेनैव यजत्युद्धृत्य होतायक्षं होतर्यजं च ५
अग्ने जुषस्व नो हविरिति स्विष्टकृतः पुरोनुवाक्या ६
होता यक्षदग्निं पुरोलाशानामित्यनुसवनं प्रैषः ७
हविरग्ने वीहीति च याज्या ८

॥7.2॥ ज्योतिष्टोमे ग्रहयागप्रकरणम्
ऐन्द्रवायवमैत्रावरुणावाश्विनश्च द्विदेवत्याः १
वायवा याहि दर्शतेन्द्रवायू इम इत्यैन्द्रवायवस्य पुरोनुवाक्ये २
होता यक्षद्वायुं होता यक्षदिन्द्रवायू इति प्रैषौ ३
अग्रं पिब शतेना न इति याज्ये ४
अयं वां मित्रावरुणेति मैत्रवरुणस्य पुरोनुवाक्या ५
होता यक्षन्मित्रावरुणेति प्रैषः ६
गृणाना जमदग्निनेति याज्या ७
प्रातर्युजेत्याश्विनस्य पुरोनुवाक्या ८
होता यक्षदश्विनेति प्रैषः ९
वावृधानेति याज्या १०
अनवानं द्विदेवत्यानां पुरोनुवाक्याः प्रैषांश्चाह ११
तथा यजति १२
ऐन्द्रवायवस्य नानाप्रणवे पुरोनुवाक्ये १३
याज्ये नानावषट्कारे १४
सकृत्पुरस्ताज्जपो येयजामहोऽनुमन्त्रणश्च १५


द्विदेवत्यसोमभक्षणम्

(द्र. बौ.श्रौ.सू. ७.१४)

द्विदेवत्यग्रह१(ऐन्द्रवायवः)
द्विदेवत्यग्रह२(ऐन्द्रवायवः+मैत्रावरुणः)
द्विदेवत्यग्रह३(ऐन्द्रवायवः+मैत्रावरुणः+आश्विन्
निष्क्रियक्षणेषु द्विदेवत्यग्रहाः

॥7.3॥
ऐतु वसुः पुरूवसुरित्यैन्द्रवायवं प्रतिगृह्योरौ दक्षिणे निधायानपिधानमनवेक्षणं च द्विदेवत्यानामा शेषस्यावनयनात् १
ऐतुवसुर्विदद्वसुरिति मैत्रावरुणं प्रतिगृह्य दक्षिणेनैन्द्रवायवं हृत्वा दक्षिणतः पश्चान्निदधाति २
ऐतु वसुः संयद्वसुरित्याश्विनं प्रतिगृह्य दक्षिणेन पूर्वौ हृत्वोत्तरतःपश्चान्निदधाति ३
सोमस्याग्ने वीहीत्यनुवषट्कारः सर्वासु सोमयाज्यासु द्विदेवत्यर्तुयाजान्परि-हाप्यादित्यग्रहसावित्रग्रहौ पात्नीवतं च ४
उपांशु वा पात्नीवतस्य ५

॥7.4॥ ज्योतिष्टोमे ग्रहचमसयागप्रकरणम्
उन्नीयमानेभ्य इत्युक्त आ त्वा वहन्तु हरय इत्युन्नीयमानसूक्तम् १
होता यक्षदिन्द्रं प्रातः प्रातःसावस्येति प्रैषः २
इदं ते सोम्यं मध्विति यजति ३
नृचक्षसं त्वा नृचक्षाः प्रतीक्ष इति होतृचमसं प्रतीक्ष्य वयोधसं त्वा वयोधाः प्रतिगृह्णामीति प्रतिगृह्योरः संस्पर्शयति द्विदेवत्यांश्च ४
पुनरुन्नीतानां होत्रका यजन्ति ५
मित्रं वयमिति मैत्रावरुणः ६
इन्द्र त्वा वृषभमिति ब्राह्मणाच्छंसी ७
मरुतो यस्येति पोता ८
अग्ने पत्नीरिति नेष्टा ९
उक्षान्नायेत्याग्नीध्रः १०
अयालग्नीदित्युक्तेऽयालित्याग्नीध्रः ११
स भद्रमकर्यो नः सोमं पाययिष्यतीति होता १२
सोमं भक्षयिष्यन्तो याज्ञिकैर्नामधेयैरसा उपह्वयस्वेति कर्तारो ऽन्योऽन्यस्मिन्नुपहवमिच्छन्ते १३
वषट्कर्ता प्रथमो भक्षयति १४
प्रतिभक्षितं द्विदेवत्यशेषं नाराशंसवतां च ग्रहाणां होतृचमसेऽवनयति हुते त्वा भक्षितमवनयाम्यूर्जस्वन्तं देवेभ्य आयुष्मन्तं मह्यमिति १५
द्विरैन्द्रवायव-शेषस्यावनयनं तत्राभ्यावर्तते मन्त्रः १६
अनवसर्जनं च द्विदेवत्यानामा शेषस्यावनयनात् १७

॥7.5॥ ज्योतिष्टोमे सोमभक्षप्रकरणम्
इह वसुः पुरूवसुरित्यैन्द्रवायवमध्वर्यवे प्रगृह्योपहूतौ वायुरिन्द्रवायू सह प्राणेन सह वर्चसा तयोरहमुपहूतः सह प्राणेन सह वर्चसेति भक्षयित्वा प्रग्रहणमन्त्रेण पुनः प्रगृह्य भक्षमन्त्रेण पुनर्भक्षयति १
इह वसुर्विदद्वसुरिति मैत्रावरुणं प्रगृह्य २
उपहूतौ मित्रावरुणौ सह चक्षुषा सह वर्चसा तयोर-हमुपहूतः सह चक्षुषा सह वर्चसेति भक्षयित्वा ३
आश्विनं प्रदक्षिणं शिरः पर्याहृत्यावेक्ष्य प्रतिपर्याहृत्यावेक्ष्य ४
इह वसुः संयद्वसुरित्याश्विनं प्रगृह्य ५
उपहूतौ देवावश्विनौ सह श्रोत्रेण सह वर्चसा तयोरक्षमुपहूतः सह
श्रोत्रेण सह वर्चसेति भक्षयित्वा ६
उपस्पृश्येलामुपह्वयते ७
उपोद्यच्छन्ति चमसान् ८
होतृचमसमन्वारभते ९
असंस्पर्शनं सर्वत्राज्यलेपेन सोमस्य १०
उपहूय प्रस्थितान्भक्षयन्ति ११
तेजसे त्वा ब्रह्मवर्चसाय भक्षयामीति भक्षमन्त्रः प्रातःसवने १२
ओजसे त्वेन्द्रियाय भक्षयामीति माध्यन्दिने १३
प्रजायै त्वा पुष्ट्यै भक्षयामीति तृतीयसवने १४
शं नो भव हृद इत्युरोऽभिमर्शनी भक्षयित्वा १५
सव्ये पाणौ चमसान्कृत्वा दक्षिणेनाप्याययन्ति १६
आ प्यायस्व समेतु त इत्याप्यायनी प्रातः सवने १७
सं ते पयांसीत्युत्तरयोः १८
प्रस्थितानाप्याययन्ति १९
आज्ये मरुत्वतीये च २०
आज्यपौगयोर्नाराशंसा निष्केवल्यमरुत्वतीययोर्वैश्वदेवे च २१
देवोऽसि नराशंसो यत्ते मेधः स्वर्ज्योतिस्तस्य त ऊमैः पितृभिर्भक्षितस्योपहूतस्योपहूतो भक्षयामीति भक्षमन्त्रः प्रातःसवने नाराशंसानाम् २२
ऊर्वैरिति माध्यन्दिने विकारः २३
काव्यैरिति तृतीयसवने २४

॥7.6॥ ज्योतिष्टोमे नाराशंसाप्यायनप्रकरणम्
अच्छावाकः सीदेत्युक्तोऽग्रेण मद उत्तरेण स्रुतिमुपविश्य पुरोलाशं प्रतिगृह्याच्छावाक वदस्वेत्युक्तोऽच्छा वो अग्निमवस इति तिस्रोऽन्वाह १
प्रणवान्निगदम् २
यजमान होतरध्वर्योऽग्नीद्ब्रह्मन्पोतर्नेष्टरुतोपवक्तरिषेषय-ध्वमूर्जोर्जयध्वं नि वो जामयो जिहतां न्यजामयो नि सपत्ना यामनि बाधितासो जेषथाभीत्वरीं जेषथाभीत्वर्याः श्रवद्व इन्द्रः शृणवद्वो अग्निः प्रस्थायेन्द्राग्निभ्यां सोमं वोचतोपो अस्मान्ब्राह्मणान्ब्राह्मणा ह्वयध्वमिति ३
उपहवमयं ब्राह्मण इच्छतेऽच्छावाको वेत्यध्वर्युराह तं होतरुपह्वयस्वेति ४
तं होतोपह्वयते ५
प्रत्येता वामा सूक्तायं सुन्वन्यजमानो अग्रभीदुत प्रतिष्ठोतोपवक्त उत नो गाव उपहूता उतोपहूत इत्युपह्वास्यमानः ६
उत नो गाव उपहूता इत्यातोऽनुप-ह्वास्यमानः ७
अनुपहूतोऽच्छावाको निवर्तध्वमिति सूक्तस्य यावच्छ-क्नुयात्तावदनुद्रवेत् ८
होता वा प्रतिकामिनमच्छावाकं प्रत्युपहूय ९

॥7.7॥ ज्योतिष्टोमे अच्छावाककर्मप्रकरणम्
उन्नीयमानायेत्युक्तः प्रत्यस्मै पिपीषत इत्यच्छावाकः सूक्तमन्वाह १
प्रातर्यावभिरिति यजति २
भक्षिताप्यायितं चमसमध्वर्यवे प्रदाय दक्षिणावृ-दपरया द्वारा सदः प्रपद्य स्वस्य धिष्ण्यस्य पश्चादुपविश्य पुरोलाशं प्राश्नाति ३
पूर्वः प्रसृप्तश्चेदच्छावाकीयां कुर्यात्स्वेन विसंस्थितसंचरेण निष्क्रम्याच्छा-वाकस्य बहिष्कर्म कृत्वा स्वकर्म कुरुते ४
स्वे तु होता धिष्ण्ये ५
विकल्पो होत्रकाणां याज्यासु ६
प्रातःसवनेऽनवानन्तो यजन्त्यर्धर्चशो वा ७
अत्र व्रतयन्ति ८
ऊर्ध्वं चौपासनेभ्यः ९

॥7.8॥ ज्योतिष्टोमे ऋतुयाजप्रकरणम्
अथर्तुयाजैश्चरन्ति १
होता यक्षदिन्द्रं होत्रादित्यृतुप्रैषैरनवानं प्रेष्यति २
तथा यजति ३
येन प्रेष्यति सा याज्योद्धृत्य होतायक्षमसौयजं च ४
मैधातिथ्यो वेन्द्र सोमं पिब ऋतुनेति ५
योयः प्रैषान्ते श्रूयते सस यजति ६
होतरेतद्य-जेत्यध्वर्युराह ७
गृहपतिश्च ८
तयोर्यजति ९
ययावषट्कृतं भक्षयन्ति १०
द्विरन्ततो होता ११
लिम्पदिवैव जिघ्रदत्र द्विदेवथेषु चेति १२

॥7.9॥ ज्योतिष्टोमे आज्यशस्त्रप्रकरणम्
आज्यं शंसिष्यन्पिता मातरिश्वाच्छिद्रा पदोशिगसीयानुनक्षिषत्सोमो नीथवि-न्नीथानि नेषद्बृहस्पतिरुक्थामदानि शंसिषदिति जपित्वा शोंसावो३
इत्याहावः शस्त्रादौ प्रातःसवने तेनाहूयोपांशु तूष्णींशंसम् १
अग्निर्ज्योतिर्ज्योतिरग्निरित्यवसायेन्द्रो ज्योतिर्ज्योतिरिन्द्र इत्यवसाय सूर्यो ज्योतिर्ज्योतिः सूर्य इत्यवसाय पच्छोऽवस्यन्पुरोरुचम् २
अग्निर्देवेद्धः । अग्निर्मन्विद्धः । अग्निः सुसमित् । होता देववृतः । होता मनुवृतः । प्रणीर्यज्ञानाम् । रथीरध्व-राणाम् । अनूर्तो होता । तूर्णिर्हव्यवाट् । आ देवो देवान्वक्षत् । यक्षदग्नि-र्देवो देवान् । सो अध्वरा करति जातवेदो३
प्र वो देवायेत्याज्यम् ३
तस्य प्रथममर्धचं पच्छोऽनवानम् ४
मरुत्वतीयवैश्वदेवयोश्च ५
सूक्तशेषं शस्त्वाहूयोत्तमया परिधायोक्थवीर्यं जपति भा विभा उषाः स्वर्ज्योतिः श्लोकाय त्वोक्थमवाचीति ६
उक्थशा इत्यध्वर्युराह सर्वासु शस्त्रयाज्यासु ७
अग्न इन्द्रश्चेति यजति ८

॥7.10॥ ज्योतिष्टोमे प्रउगशस्त्रप्रकरणम्
आज्ये संस्थिते स्तुवते १
स्तोत्रवतां शस्त्राणामेषेति प्राहोत्तमात्प्रवीहारा-दूर्ध्वमाहूय शंसन्ति २
प्रौगेऽन्तरेण माधुच्छन्दसांस्तृचानृचो व्यवयन्ति ताः पुरोरुच इत्याचक्षते ३
तासां पुरस्तादाहावः ४
परिधानीयायै च ५
षट्पदा वैश्वदेवी ६
तस्यां द्वाभ्यांद्वाभ्यामवसाय द्वाभ्यां प्रणौति ७
सारस्वत्यां
विकल्पः । शंसेन्न वा । नित्यस्त्वाहावः ८
वायुरग्रेगा यज्ञप्रीः साकं गन्मनसा यज्ञम् शिवो नियुद्भिः शिवाभिः इति सकृच्छस्त्वा वायवा याहि दर्शतेति तिसृणां त्रिः प्रथमाम् ९
हिरण्यवर्तनी नरा देवा पती अभिष्टये
वायुश्चेन्द्रश्च सुमखौ इन्द्रवायू इम इति तिस्रः १०
काव्ययोराजानेषु क्रत्वा दक्षस्य दुरोणे रिशादसा सधस्य आ मित्रं हुव इति तिस्रः ११
दैव्यावध्यर्यू आ गतं रथेन सूर्यत्वचा मध्वा यज्ञं समञ्जाथे अश्विना यज्वरीरिष इति तिस्रः १२
इन्द्र उक्थेभिर्भन्दिष्ठो वाजानां च वाजपतिः हरिवान् सुतानां सखा इन्द्रा याहि चित्रभानो इति तिस्रः १३
विश्वान्देवान्हवामाहेऽस्मिन्यज्ञे सजोषसः त इमं यज्ञमागमन्देवासो देव्या धिया ये यज्ञस्य तनूकृतो विश्व आ सोमपीतये ओमासश्चर्षणीधृत इति तिस्रः १४
वाचामहं देवीं वाचमस्मिन्यज्ञे सुपेशसम् । सरस्वतीं हवामहे ॥ पावका नः सरस्वतीति तिसृणामुत्तमया परिधायोक्थवीर्यं जपति वाचं मे जिन्व । प्राणं मे तृम्प । चक्षुर्मे पाहि । श्रोत्रं मेऽव । वर्णं मे यच्छ । तन्वं मे पाहि । यशो मे धेहि । घोषाय त्वोक्थमवाचीति १५
शिश्वेभिः सोम्यं मध्विति यजति १६
१०
॥7.11॥ ज्योतिष्टोमे प्रातःसवनहोत्रकशस्त्रप्रकरणम्
तृचाः स्तोत्रियानुरूपाः प्रगाथान्परिहाप्य १
आ नो मित्रावरुणा नो गन्तमिति स्तोत्रियानुरूपौ मैत्रावरुणस्य २
प्र वो मित्रायेत्युक्थमुखम् ३
प्र मित्रयोरिति
नवानामुत्तमया परिधायोप नः सुतमा गतमिति यजति ४
११
॥7.12॥ ज्योतिष्टोमे प्रातःसवनहोत्रकशस्त्रप्रकरणम्
आ याहि सुषुमेति ब्राह्मणाच्छंसिनः स्तोत्रियानुरूपौ १
शेषः सूक्तस्योक्थ-मुखमुत्तमे परिहाप्य २
इन्द्र त्वा वृषभम् ३
उद्घेदभौति तिसृणामुत्तमया
परिधायेन्द्रक्रतुविदमिति यजति ४
१२
॥7.13॥ ज्योतिष्टोमे प्रातःसवनहोत्रकशस्त्रप्रकरणम्
इन्द्राग्नी आ गतं सुतमित्यच्छावाकस्य स्तोत्रियानुरूपौ १
शेषः सूक्तस्यो-क्थमुखम् २
इहेन्द्राग्नी उप ह्वय इति पञ्च ३
इयं वामस्य मन्मन इति नवानामुत्तमया परिधायेन्द्राग्नी आ गतं सुतमितियजति ४
१३
॥7.14॥ ज्योतिष्टोमे प्रातःसवनहोत्रकशस्त्रप्रकरणम्
मित्रं वयमिन्द्रमिद्गाथिन इन्द्रे अग्नेति स्तोत्रिया बृहत्पृष्ठस्य १
राथन्तरम-च्छावाकः स्तोत्रियमनुरूपं कुरुते २
अनुरूपमुक्थमुखम् ३
चतुराहावा होत्रकाः ४
होता चातिरिक्तोक्थेषु ५
स्तोत्रियानुरूपाभ्यां यच्चानन्तरम-नुरूपात्परिधानीयायै च ६
अनुरूपादनन्तरः प्रगाथस्तस्मादूर्ध्वं पञ्चमं मध्यन्दिने ७
उक्थमुखात्सर्वेषां रात्रौ ८
यदाध्वर्युराह प्रशास्तः प्रसुहीत्यॐ सर्पतेति प्रशास्त आह ९
दक्षिणावृतोऽपरया द्वारा निःसर्पन्त्युत्तरेणौदुम्बरीं दक्षिणेन ब्रह्मा १०
अग्रेण शालामुदञ्चः ११
माध्यन्दिनाय सवनाय
यथानिःसृप्तं प्रसृप्य यथासनमुपविशन्ति १२
१४
॥7.15॥ ज्योतिष्टोमे ग्रावस्तुत्कर्मप्रकरणम्
आदौ माध्यन्दिनस्य सवनस्य राजानमभिषुण्वन्ति १
ग्रावस्तुत्पूर्वया द्वारा हविर्धाने प्रपद्योत्तरस्य हविर्धानस्य दक्षिणं चक्रमग्रेण दक्षिणा तिष्ठन्सोमोपनहनेन मुखं परिवेष्ट्य ग्रावघोषं श्रुत्वासंप्रेषितोऽभिष्टौत्यमंत-न्वन्नर्धर्चशोऽनवानं वा २
अभि त्वा देव सवितर्युञ्जते मन उत युञ्जते धिय आ तू न इन्द्र क्षुमन्तमा नो भर दक्षिणेनोप क्रमस्वा भर ३
आ प्यायस्व समेतु त इत्याप्यायितवतीनां तिसृणां प्रथमामभिष्टुत्यार्बुदस्य द्वे ४
द्वितीयामभिष्टुत्यार्बुदस्य द्वे ५
तृतीयामभिष्टुत्यार्बुदस्यैकाम् ६
मृजन्ति त्वा दश क्षिप एतमु त्यं दश क्षिप एतं मृजन्ति मर्ज्यमिति मृष्टवतीरभिष्टुत्य ७
आ कलशा अनूषता कलशेषु धावति परि प्र सोम ते रस इति कलशवतीरभिष्टुत्य ८
आप्यायितवतीप्रभृत्येवं विहृतो द्वितीयोऽपि सवः । षष्ठीप्रभृतयः पञ्चार्बुदस्य ९
एवं विहृतस्तृतीयोऽपि सवः । तिस्रोऽर्बुदस्यैकादशीप्रभृतयः १०
यस्मिन्सवे बृहच्छब्दं कुर्युर्बृहद्वदन्तीति तत्र ११
षष्ठीं प्रथमे १२
वितते पवित्रे पवित्रं त इति द्वे वि यत्पवित्रमित्येका १३
प्राम्य धाराः प्र धारा अस्य प्र ते धारा इति प्रक्षरन्तीषु धारासु १४
ग्रहेषु गृह्यमाणेषु याः कामयेत पावमानीनाम् १५
इन्द्रायेन्द्रो मरुत्वत इति तिस्रो नियच्छति १६
उत्तमे ग्रहे गृहीते ऽर्बुदस्योत्तमया परिधायादायोष्णीषमुत्सृज्यते १७
सत्त्राहीनानां त्वन्त्येऽहनि १८
अर्बुदं वा शुद्धमभिष्टुयात् १८
१५
॥7.16॥ ज्योतिष्टोमे ग्रावस्तुत्कर्मप्रकरणम्
माध्यन्दिनेन स्तुते पवमानेन दधिधर्मेण चरन्ति यदि प्रवर्ग्यवान् १
होत-र्वदस्वेत्युक्त उत्तिष्ठताव पश्यतेति प्रथमामभिष्टौति २
श्रातं हविरित्युक्ते द्वितीयां सूक्तस्य ३
दधिघर्मस्य यजेत्युक्तस्तृतीयया यजति ४
अनवानमेकैकां सप्रणवामभिष्टौति ५
तथा यजति ६
दधिघर्मस्याग्ने वीहीत्यनुवषट्कारः ७
मयि त्यदिन्द्रियं बृहन्मयि दक्षो मयि क्रतुः
घर्मस्त्रिशुग्विरोचत आकूत्या मनसा सह
विराजा ज्योतिषा सह तस्य दोहमशीमहि
इति भक्षमन्त्रः ८
पशुपुरोलाशेन चरित्वातः पुरोलाशैः सवनीग्रैश्चरन्ति ९
१६
॥7.17॥ ज्योतिष्टोमे प्रस्थितयाज्याप्रकरणम्
माध्यन्दिनस्य सवनस्येति पुरोनुवाक्या १
माध्यन्दिने सवन इति स्विष्टकृतः २
असावि देवमित्युन्नीयमानसूक्तम् ३
होता यक्षदिन्द्रं माध्यन्दिनस्य सवनस्येति प्रैषः ४
पिबा सोममभि यमुग्रेति यजति ५
द्वितीया मैत्रावरुणस्य ६
तृतीया ब्राह्मणाच्छंसिनः ७
अर्वाङेहीति पोतुः ८
तवायं सोम इति नेष्टुः ९
इन्द्राय सोमाः प्रदिवो विदाना इत्यच्छावाकस्य १०
आपूर्णो अस्येत्याग्नीध्रस्य ११
न द्विदेव्रत्यर्तुयाजा उत्तरयोः सवनयोः १२
न बहिष्कर्माच्छावाकस्य १३
समानमन्यत्प्रातःसवनेन १४
इलामुपहूय प्रस्थितान्भक्षयित्वा १५
एष दक्षिणाकालः १६
द्वादशं शतं गवां दद्यात्
१७
एकविंशतिप्रभृति वा यथोपपादम् १८
१७
॥7.18॥ ज्योतिष्टोमे दक्षिणाप्रतिग्रहप्रकरणम्
अग्नये त्वा मह्यं वरुणो ददातु सोऽमृतत्वमशीय । आयुर्दात्र एधि मयो मह्यं प्रतिगृह्णत इति हिरण्यं प्रतिगृह्णाति १
रुद्राय त्वा मह्यं वरुणो ददातु सोऽमृतत्वमशीय । गौर्दात्र एधि मयो मह्यं प्रतिगृह्णत इति गाः २
बृहस्पतये त्वा मह्यं वरुणो ददातु सोऽमृतत्वमशीय । त्वग्दात्र एधि मयो मह्यं प्रतिगृह्णत इति वासः ३
यमाय त्वा मह्यं वरुणो ददातु सोऽमृतत्वमशीय । हयो दात्र एधि मयो मह्यं प्रतिगृह्णत इत्येकशफम् ४
प्रजापतये त्वा मह्यं
वरुणो ददातु सोऽमृतत्वमशीय । प्राणो दात्र एधि मयो मह्यं प्रतिगृह्णत इत्यन्यत् ५
ओमिति वा सर्वम् ६
कोऽदात्कस्मा अदादित्यनुमन्त्रयते प्राणि ७
उपस्पृशतीतरत् ८
अस्मद्राता मधुमतीर्देवत्रा गच्छत प्रदातारमाविशत इति दत्त्वा जपति ९
१८
॥7.19॥ ज्योतिष्टोमे मरुत्वतीयशस्त्रप्रकरणम्
इन्द्राय मरुत्वत इत्युक्तः १
इन्द्र मरुत्व इति पुरोनुवाक्या २
होता यक्षदिन्द्रं मरुत्वन्तमिति प्रैषः ३
सजोषा इन्द्र सगण इति यजति ४
तं भक्षयित्वा मरुत्वतीयं शंसति ५
अध्वर्यो शॐसावो३
इत्याहावः शत्त्रादौ माध्यन्दिने सवने ६
प्रातःसवनिकोऽन्तःशस्त्रम् ७
आ त्वा रथं यथोतय इति प्रातिपदं तृचं शस्त्वाहूय ८
इदं वसो सुतमन्ध इत्यनुचरं तृचं शस्त्वाहूय ९
इन्द्र नेदीय एदिहीतीन्द्रनिहवं प्रगाथं शस्त्वाहूय १०
प्र नूनं ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यं प्रगाथं शस्त्वाहूय ११
अग्निर्नेतेत्येकां शस्त्वाहूय १२
त्वं सोम क्रतुभिरित्येकां शस्त्वाहूय १३
पिन्वन्त्यप इत्येकां शस्त्वाहूय १४
जनिष्ठा उग्र इति षट्छस्त्वाहूय निविदम् १५
मद्वानस्मिन्प्रथमः प्रतिगरः १६
एकया भूयसीः शस्त्वा विषमर्चानाम् १७
मध्ये समर्चानाम् १८
एकां शस्त्वा तृचानाम् १९
सूक्तविवृद्धावन्त्ये २०
प्रथमे त्वाहावः २१
उत्तमाः परिशिष्य तृतीयसवने २२
वियतं पच्छो निविदः शंसति २३
उत्तमे प्रणवः पदे २४
सूक्तशेषं शस्त्वाहूयोत्तमया परिधायोक्थवीर्यं जपित्वा ये त्वाहिहत्य इति यजति २५
१९
॥7.20॥ ज्योतिष्टोमे निष्केवल्यशस्त्रप्रकरणम्
रथन्तरं पृष्ठं निष्केवल्यस्य १
बृहद्वा २
अभि त्वा शूराभि त्वा पूर्वपीतय इति स्तोत्रियानुरूपौ प्रगाथौ रथन्तरस्य ३
त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहतः ४
यद्वावानेति धाय्या ५
पिबा सुतस्य रसिन इति प्रगाथो रथन्तरस्य ६
उभयं शृणवदिति बृहतः ७
इन्द्रस्य नु वीर्याणीति रथन्तरपृष्ठे ८
तमु ष्टुहीति बृहत्पृष्ठे ९
नितरां परिधानीयां शंसेत् १०
उक्थवीर्यं जपित्वा
पिबा सोममिन्द्र मन्दतु त्वेति यजति ११
२०
॥7.21॥ ज्योतिष्टोमे निष्केवल्यशस्त्रप्रकरणम्
उभयसाम्नि १
रथन्तरपृष्ठे यः सूक्तात्पूर्वः प्रगाथस्तमुद्धृत्य बृहतो योनिं शंसति २
बृहत्पृष्ठे रथन्तरस्य ३
ऊर्ध्वं सामप्रगाथादुत्तरासु संस्थासु ४
एतद्योन्यनुशंसनमित्याचक्षते ५
बृहद्रथन्तरयोरेवानुशंसेदिति ह स्माह कौषीतकिः ६
परिमितशस्यः प्राकृतोऽग्निष्टोमस्तस्मात्प्रगाथमुद्धरति ७
स्तोत्रियायाहावोऽनुरूपाय धाय्यायै प्रगाथाय सूक्ताय निविदे परिधानीयायै च ८
अश्वो निविद्वरो वरो वा ९
२१
॥7.22॥ ज्योतिष्टोमे द्वितीयसवने होत्रकशस्त्रप्रकरणम्
वामदेव्यं मैत्रावरुणस्य १
कया नश्चित्रः कया त्वं न ऊत्येति स्तोत्रियानुरूपौ २
कस्तमिन्द्रेति सामप्रगाथः ३
सद्यो ह जातः ४
एवा त्वामिन्द्र वज्रिन्नत्र ५
उशन्नु षु ण इति यजति ६
२२
॥7.23॥ ज्योतिष्टोमे द्वितीयसवने होत्रकशस्त्रप्रकरणम्
नौधसं ब्राह्मणाच्छंसिनो रथन्तरपृष्ठे १
श्यैतं बृहत्पृष्ठे २
तं वो दस्मं तत्त्वा यामि सुवीर्यमिति स्तोत्रियानुरूपौ प्रगाथौ नौधसस्य ३
अभि प्र वः प्र सु श्रुतमिति श्यैतस्य ४
उदु त्ये मधुमत्तमा इति सामप्रगाथः ५
इन्द्रः पूर्भिदिति नौधसे ६
असावि सोमः पुरुहूतेति श्यैते ७
उदु ब्रह्माणीति समानम् ८
ऋजीषी वज्रीति यजति ९
२३
॥7.24॥ ज्योतिष्टोमे द्वितीयसवने होत्रकशस्त्रप्रकरणम्
कालेयमच्छावाकस्य १
तरोभिर्वस्तरणिरित्सिषासतीति स्तोत्रियानुरूपौ प्रगाथौ २
उदिन्वस्य रिच्यत इति सामप्रगाथः ३
भूय इद्वावृधे ४
इमामू षु ५
पिबा वर्धस्वेति यजति ६
२४
॥7.25॥ ज्योतिष्टोमे प्रगाथप्रग्रथनप्रकरणम्
शस्त्रेषु १
प्रायेणायथासमाम्नातम् २
बृहती पूर्वा ककुब्वा सतोबृहत्युत्तरा तं प्रगाथ इत्याचक्षते ३
बार्हतो बृहत्यां पूर्वस्याम् ४
काकुभः ककुभि ५
बृहतीं शस्त्वोत्तमं पादं प्रत्यादायोत्तरस्याः प्रथमेनावसाय द्वितीयेन प्रणुत्य तं प्रत्यादाय तृतीयेनावसायोत्तमेन प्रणौति ६
तास्तिस्रो भवन्ति बृहती
पूर्वोत्तरे ककुभौ ७
बृहद्रथन्तरयोः ८
होत्रकाणां च यत्रैते पृष्ठे प्रगाथस्थे ९
सर्वत्र यज्ञायज्ञीयस्य १०
इन्द्रनिहवब्राह्मणस्पत्यानां च ११
अतोऽन्यत्र बार्हतानाम् १२
बृहतीं शस्त्वोत्तमं पादं द्विः प्रत्यादायावसायार्धर्चेनोत्तर-स्याः प्रणुत्य द्वितीयं पादं द्विः प्रत्यादायावसायोत्तमेनार्धर्चेन प्रणौति १३
तास्तिस्रो बृहत्यः १४
उत्तमं ककुभः प्रत्यादत्ते १४
सतोबृहत्या द्वितीयम् १५
तास्तिस्रः ककुभः १६
स्तोत्रियत्वादनुरूपत्वाद्वा २५
एतं धर्मं प्रगाथा
लभन्ते १७
२५
॥7.26॥ ज्योतिष्टोमे छन्दःप्रकरणम्
इन्द्रनिहवोऽस्तोत्रियः १
ब्राह्मणस्पत्याश्च २
द्वाभ्यामवसायद्वाभ्यामवसायैकेन प्रणौति पङ्क्तीनाम् ३
पच्छस्त्रिष्टुब्जगतीनामक्षरपङ्क्तीनां द्विपदानां च ४
सप्रणवो द्वितीयश्च चतुर्थश्च ५
यास्तु पञ्चपदास्त्रैष्टुभे प्राये जागते वा यत्र पुनःपदं स्यात्तौ तत्र समस्येन्न पदेन पुनःपदस्य विप्रयोगोऽस्ति ६
उत्तमाव-पुनःपदे ७
द्वाभ्यामवसायद्वाभ्यामवसाय द्वाभ्यां प्रणौति षट्पदानां पुनःपदानाम् ८
द्वाभ्यामवसायापुनःपदानामेकेन प्रणौति द्वाभ्यामवसायैकेन ९
अष्टाक्षरस्तु प्रणवनीयः १०
एकेनावसाय सप्तप्रदानां द्वाभ्यां प्रणौति द्वाभ्यामवसाय द्वा-भ्याम् ११
प्रथमेषु रात्रिपर्यायेषु गायत्राणां स्तोत्रियानुरूपाणां प्रथमान्पा-दानभ्यस्यन्ति १२
मध्यमान्मध्यमेषु १३
उत्तमानुत्तमेषु १४
अर्धर्चशो वा
प्रातःसवनम् १५
स्तोत्रियानुरूपांश्च प्रगाथान्परिहाप्य १६
२६
॥7.27॥ ज्योतिष्टोमे छन्दःप्रकरणम्
त्रिपदा गायत्री १
उष्णिक् २
पुरौष्णिक् ३
ककुप् ४
विराट् च पूर्वा ५
चतुष्पदोत्तरा विराट् ६
बृहती ७
सतोबृहती ८
जगती ९
अनुष्टुप् १०
त्रिष्टुप् च ११
पञ्च पङ्क्तेः १२
षट्सप्तेत्यतिच्छन्दसाम् १३
स हि शर्धो न मारुतमित्यष्टौ १४
द्वौ द्विपदायाः १५
तेऽष्टाक्षराः प्रायेण १६
द्वादशाक्षरा जगत्याः १७
तृतीयौ चोष्णिग्बृहत्योः १८
सतोबृहत्याश्च प्रथमतृतीयौ १९
मध्यमः ककुभः २०
प्रथमःपुरौष्णिहः २१
एकादशाक्षरास्त्रिष्टुब्बिराजोः २२
उत्तरस्या दशाक्षराः २३
तामक्षरपङ्क्तिरित्यप्याचक्षते २४
पञ्चभिः पञ्चाक्षरैः पदपङ्क्तिः २५
षलप्यष्टाक्षरा जगत्याः २६
एकेन द्वाभ्यामित्यूनके निचृत् २७
अतिरिक्ते भुरिक् २८
संपाद्यपादभागेनाहार्यस्यर्चः संमितास्तस्य पादभागेन संपन्नाः २९
गायत्त्र्युष्णिहावनुष्टुब्बृहत्यौ पङ्क्तिश्च त्रिष्टुब्जगत्यावि-त्यानुपूर्व्यं छन्दसां चतुर्विंशत्यक्षरादीनां चतुरुत्तराणां चतुरुत्तराणाम् ३०
२७
इति शाङ्खायनश्रौतसूत्रे सप्तमोऽध्यायः समाप्तः