ऋग्वेदः सूक्तं ५.५७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.५६ ऋग्वेदः - मण्डल ५
सूक्तं ५.५७
श्यावाश्व आत्रेयः
सूक्तं ५.५८ →
दे. मरुतः। जगती, ७-८ त्रिष्टुप्


आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन ।
इयं वो अस्मत्प्रति हर्यते मतिस्तृष्णजे न दिव उत्सा उदन्यवे ॥१॥
वाशीमन्त ऋष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङ्गिणः ।
स्वश्वा स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो याथना शुभम् ॥२॥
धूनुथ द्यां पर्वतान्दाशुषे वसु नि वो वना जिहते यामनो भिया ।
कोपयथ पृथिवीं पृश्निमातरः शुभे यदुग्राः पृषतीरयुग्ध्वम् ॥३॥
वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसदृशः सुपेशसः ।
पिशङ्गाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौरिवोरवः ॥४॥
पुरुद्रप्सा अञ्जिमन्तः सुदानवस्त्वेषसंदृशो अनवभ्रराधसः ।
सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतं नाम भेजिरे ॥५॥
ऋष्टयो वो मरुतो अंसयोरधि सह ओजो बाह्वोर्वो बलं हितम् ।
नृम्णा शीर्षस्वायुधा रथेषु वो विश्वा वः श्रीरधि तनूषु पिपिशे ॥६॥
गोमदश्वावद्रथवत्सुवीरं चन्द्रवद्राधो मरुतो ददा नः ।
प्रशस्तिं नः कृणुत रुद्रियासो भक्षीय वोऽवसो दैव्यस्य ॥७॥
हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः ।
सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः ॥८॥


सायणभाष्यम्

पञ्चमेऽनुवाके षोडश सूक्तानि । तत्र ‘ आ रुद्रासः' इत्यष्टर्चं प्रथमं सूक्तं श्यावाश्वस्यार्षं मारुतम् । सप्तम्यष्टम्यौ त्रिष्टुभौ शिष्टाः षट् जगत्यः । ‘ आरुद्रासोऽष्टौ द्वित्रिष्टुबन्तम् ' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥


आ रु॑द्रास॒ इन्द्र॑वन्तः स॒जोष॑सो॒ हिर॑ण्यरथाः सुवि॒ताय॑ गन्तन ।

इ॒यं वो॑ अ॒स्मत्प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा॑ उद॒न्यवे॑ ॥१

आ । रु॒द्रा॒सः॒ । इन्द्र॑ऽवन्तः । स॒ऽजोष॑सः । हिर॑ण्यऽरथाः । सु॒वि॒ताय॑ । ग॒न्त॒न॒ ।

इ॒यम् । वः॒ । अ॒स्मत् । प्रति॑ । ह॒र्य॒ते॒ । म॒तिः । तृ॒ष्णऽजे॑ । न । दि॒वः । उत्साः॑ । उ॒द॒न्यवे॑ ॥१

आ । रुद्रासः । इन्द्रऽवन्तः । सऽजोषसः । हिरण्यऽरथाः । सुविताय । गन्तन ।

इयम् । वः । अस्मत् । प्रति । हर्यते । मतिः । तृष्णऽजे । न । दिवः । उत्साः । उदन्यवे ॥१

हे “रुद्रासः रुद्रपुत्राः “इन्द्रवन्तः इन्द्रेण युष्मत्स्वामिना तद्वन्तः “सजोषसः परस्परं समानप्रीतयः “हिरण्यरथाः हिरण्यमयरथाः सन्तः “सुविताय सुगमनाय तत्साधनाय सुष्ठु सर्वैर्गन्तव्याय यज्ञाय तदर्थम् “आ “गन्तन अगच्छत । किमत्र विद्यते इति तदुच्यते । “इयम् “अस्मत् अस्मदीया “मतिः स्तुतिः “वः युष्मान् “प्रति “हर्यते कामयते । तस्मादागच्छत । "उदन्यवे उदकेच्छवे “तृष्णजे गोतमाय “दिवः द्युलोकसकाशात् "उत्साः उदकनिष्यन्दा यथा युष्माभिः प्रेरितास्तद्वदस्मदर्थमपि आगत्याभिमतं ददतेत्यर्थः ॥


वाशी॑मन्त ऋष्टि॒मन्तो॑ मनी॒षिण॑ः सु॒धन्वा॑न॒ इषु॑मन्तो निष॒ङ्गिण॑ः ।

स्वश्वा॑ः स्थ सु॒रथा॑ः पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभ॑म् ॥२

वाशी॑ऽमन्तः । ऋ॒ष्टि॒ऽमन्तः॑ । म॒नी॒षिणः॑ । सु॒ऽधन्वा॑नः । इषु॑ऽमन्तः । नि॒ष॒ङ्गिणः॑ ।

सु॒ऽअश्वाः॑ । स्थ॒ । सु॒ऽरथाः॑ । पृ॒श्नि॒ऽमा॒त॒रः॒ । सु॒ऽआ॒यु॒धाः । म॒रु॒तः॒ । या॒थ॒न॒ । शुभ॑म् ॥२

वाशीऽमन्तः । ऋष्टिऽमन्तः । मनीषिणः । सुऽधन्वानः । इषुऽमन्तः । निषङ्गिणः ।

सुऽअश्वाः । स्थ । सुऽरथाः । पृश्निऽमातरः । सुऽआयुधाः । मरुतः । याथन । शुभम् ॥२

हे “मरुतः यूयं “वाशीमन्तः । वाशीति तक्षणसाधनमायुधम् । तद्वन्तः स्थ । “ऋष्टिमन्तः । ऋष्टिर्नाम छुरिका । तद्वन्तः स्थ । एवं सर्वत्र योज्यम् । “मनीषिणः मनस ईश्वरा मनस्विनः “सुधन्वानः शोभनधनुष्काः “इषुमन्तः बाणवन्तः “निषङ्गिणः निषङ्गवन्तः “स्वश्वाः “स्थ शोभनाश्वाः भवथ । “सुरथाः शोभनरथाः “पृश्निमातरः पृश्नेः पुत्राः “स्वायुधाः खड्गपरश्वादिसकलायुधोपेताः । एवं महात्मानः सन्तः “शुभं शोभनं यथा भवति तथा शुभमुदकाय वा रथेन “याथन गच्छथः ॥


धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॒ नि वो॒ वना॑ जिहते॒ याम॑नो भि॒या ।

को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः शु॒भे यदु॑ग्रा॒ः पृष॑ती॒रयु॑ग्ध्वम् ॥३

धू॒नु॒थ । द्याम् । पर्व॑तान् । दा॒शुषे॑ । वसु॑ । नि । वः॒ । वना॑ । जि॒ह॒ते॒ । याम॑नः । भि॒या ।

को॒पय॑थ । पृ॒थि॒वीम् । पृ॒श्नि॒ऽमा॒त॒रः॒ । शु॒भे । यत् । उ॒ग्राः॒ । पृष॑तीः । अयु॑ग्ध्वम् ॥३

धूनुथ । द्याम् । पर्वतान् । दाशुषे । वसु । नि । वः । वना । जिहते । यामनः । भिया ।

कोपयथ । पृथिवीम् । पृश्निऽमातरः । शुभे । यत् । उग्राः । पृषतीः । अयुग्ध्वम् ॥३

हे मरुतः “द्याम् । दिवीत्यर्थः । “पर्वतान् मेघान् “दाशुषे हविर्दात्रे यजमानाय “वसु धनानि च “धूनुथ प्रापयथ । “वः युष्माकं “यामनः गमनस्य “भिया भीत्या “वना वनानि वृक्षादिसमूहाः “नि “जिहते नितरां कम्पन्ते । अवनता भृशं शंसन्तीत्यर्थः । हे “पृश्निमातरः पृश्नेः पुत्राः । “पृश्नियै वै पयसो मरुतो जाताः ' (तै. सं. २. २.११.४ ) इति हि श्रुतिः । हे मरुतः “पृथिवीं "कोपयथ अभिवृष्ट्या क्षोभयथ । हे “उग्राः उद्गूर्णबला यूयं “यत् यदा “शुभे उदकार्थं "पृषतीः युष्मदीयाः अश्वाः "अयुग्ध्वं योजयथ तदा कोपयथ पृथिवीम् ॥


वात॑त्विषो म॒रुतो॑ व॒र्षनि॑र्णिजो य॒मा इ॑व॒ सुस॑दृशः सु॒पेश॑सः ।

पि॒शङ्गा॑श्वा अरु॒णाश्वा॑ अरे॒पस॒ः प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रव॑ः ॥४

वात॑ऽत्विषः । म॒रुतः॑ । व॒र्षऽनि॑र्निजः । य॒माःऽइ॑व । सुऽस॑दृशः । सु॒ऽपेश॑सः ।

पि॒शङ्ग॑ऽअश्वाः । अ॒रु॒णऽअ॑श्वाः । अ॒रे॒पसः॑ । प्रऽत्व॑क्षसः । म॒हि॒ना । द्यौःऽइ॑व । उ॒रवः॑ ॥४

वातऽत्विषः । मरुतः । वर्षऽनिर्निजः । यमाःऽइव । सुऽसदृशः । सुऽपेशसः ।

पिशङ्गऽअश्वाः । अरुणऽअश्वाः । अरेपसः । प्रऽत्वक्षसः । महिना । द्यौःऽइव । उरवः ॥४

“वातत्विषः सर्वदा संप्राप्तदीप्तयः “वर्षनिर्णिजः वृष्टेः शोधयितारः । अथवा निर्णिगिति रूपनाम । वर्षमेव रूपं येषां ते तादृशाः । वृष्टिप्रदा इत्यर्थः । "यमाइव युगलोत्पन्ना इव “सुसंदृशः परस्परं बलरूपादिभिरत्यन्तं सरूपाः "सुपेशसः शोभनरूपाः “पिशङ्गाश्वाः पिशङ्गवर्णाश्वोपेतास्तथा “अरुणाश्वाः “अरेपसः अपापाः “प्रत्वक्षसः प्रकृष्टं तनूकर्तारो द्वेष्टॄणां “महिना महत्त्वेन “द्यौरिव अन्तरिक्षमिव “उरवः विस्तीर्णाः । उक्तलक्षणा नाम भेजिर इत्युत्तरेण संबन्धः ॥


पु॒रु॒द्र॒प्सा अ॑ञ्जि॒मन्त॑ः सु॒दान॑वस्त्वे॒षसं॑दृशो अनव॒भ्ररा॑धसः ।

सु॒जा॒तासो॑ ज॒नुषा॑ रु॒क्मव॑क्षसो दि॒वो अ॒र्का अ॒मृतं॒ नाम॑ भेजिरे ॥५

पु॒रु॒ऽद्र॒प्साः । अ॒ञ्जि॒ऽमन्तः॑ । सु॒ऽदान॑वः । त्वे॒षऽस॑न्दृशः । अ॒न॒व॒भ्रऽरा॑धसः ।

सु॒ऽजा॒तासः॑ । ज॒नुषा॑ । रु॒क्मऽव॑क्षसः । दि॒वः । अ॒र्काः । अ॒मृत॑म् । नाम॑ । भे॒जि॒रे॒ ॥५

पुरुऽद्रप्साः । अञ्जिऽमन्तः । सुऽदानवः । त्वेषऽसन्दृशः । अनवभ्रऽराधसः ।

सुऽजातासः । जनुषा । रुक्मऽवक्षसः । दिवः । अर्काः । अमृतम् । नाम । भेजिरे ॥५

“पुरुद्रप्साः प्रभूतोदका: “अञ्जिमन्तः आभरणवन्तः “सुदानवः शोभनदाना: “त्वेषसंदृश: दीप्तरूपाः "अनवभ्रराधसः अनवभ्रष्टधनाः "सुजातासः शोभनजनना: “जनुषा जन्मनैवोक्तरूपाः “रुक्मवक्षसः हारवक्षस्काः “अर्काः पूज्या मरुतः "दिवः द्युलोकादागत्य “अमृतम् अमरणसाधनं “नाम उदकं नमनहेतुकमुक्तलक्षणं हविर्वा भेजिरे लब्धवन्तः ॥ ॥ २१ ॥


ऋ॒ष्टयो॑ वो मरुतो॒ अंस॑यो॒रधि॒ सह॒ ओजो॑ बा॒ह्वोर्वो॒ बलं॑ हि॒तम् ।

नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे॑षु वो॒ विश्वा॑ व॒ः श्रीरधि॑ त॒नूषु॑ पिपिशे ॥६

ऋ॒ष्टयः॑ । वः॒ । म॒रु॒तः॒ । अंस॑योः । अधि॑ । सहः॑ । ओजः॑ । बा॒ह्वोः । वः॒ । बल॑म् । हि॒तम् ।

नृ॒म्णा । शी॒र्षऽसु॑ । आयु॑धा । रथे॑षु । वः॒ । विश्वा॑ । वः॒ । श्रीः । अधि॑ । त॒नूषु॑ । पि॒पि॒शे॒ ॥६

ऋष्टयः । वः । मरुतः । अंसयोः । अधि । सहः । ओजः । बाह्वोः । वः । बलम् । हितम् ।

नृम्णा । शीर्षऽसु । आयुधा । रथेषु । वः । विश्वा । वः । श्रीः । अधि । तनूषु । पिपिशे ॥६

हे “मरुतः “वः युष्माकम् "अंसयोरधि “ऋष्टयः आयुधविशेषा हिताः आश्रिताः। वक्षमाणहितशब्दो विपरिणन्तव्यः । अधीति सप्तम्यर्थानुवादी । तथा “वः “बाह्रोः अधि “सहः शत्रूणामभिभावुकम् “ओजः । ओजो नामाष्टमो धातुः । तद्रूपं “बलं “हितं निहितम् । “शीर्षसु शिरःसु “नृम्णा नृम्णानि हिरण्यमयानि पट्टोष्णीषादीनि निहितानि । “रथेषु “आयुधा आयुधानि युद्धसाधनानि निहितानि । "वः "श्रीः युष्माकं कान्तिः “तनूषु युष्मदीयेषु “अधि “पिपिशे अधिष्ठिता आश्रिता ॥


गोम॒दश्वा॑व॒द्रथ॑वत्सु॒वीरं॑ च॒न्द्रव॒द्राधो॑ मरुतो ददा नः ।

प्रश॑स्तिं नः कृणुत रुद्रियासो भक्षी॒य वोऽव॑सो॒ दैव्य॑स्य ॥७

गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । सु॒ऽवीर॑म् । च॒न्द्रऽव॑त् । राधः॑ । म॒रु॒तः॒ । द॒द॒ । नः॒ ।

प्रऽश॑स्तिम् । नः॒ । कृ॒णु॒त॒ । रु॒द्रि॒या॒सः॒ । भ॒क्षी॒य । वः॒ । अव॑सः । दैव्य॑स्य ॥७

गोऽमत् । अश्वऽवत् । रथऽवत् । सुऽवीरम् । चन्द्रऽवत् । राधः । मरुतः । दद । नः ।

प्रऽशस्तिम् । नः । कृणुत । रुद्रियासः । भक्षीय । वः । अवसः । दैव्यस्य ॥७

हे “मरुतः “नः अस्मभ्यं “गोमत् बहुभिर्गोंभिरुपेतम् “अश्वावत् बहुभिरश्वैरुपेतं “रथवत् रथोपेतं "सुवीरं सुष्ठु पुत्रोपेतं “चन्द्रवत् हिरण्योपेतं "राधः अन्नं "दद ददत ॥ व्यत्ययेन एकवचनम् । अथवा लोडर्थस्य लिटो मध्यमबहुवचनम् ॥ हे “रुद्रियासः रुद्रपुत्रा मरुतः “नः अस्मदीयां “प्रशस्तिम् । समृद्धिमित्यर्थः । तां “कृणुत कुरुत । “वः युष्माकं स्वभूतम् “अवसः अवः रक्षणं "दैव्यस्य दैव्यं देवार्हं “भक्षीय भजेय ॥


ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः ।

सत्य॑श्रुत॒ः कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥८

ह॒ये । नरः॑ । मरु॑तः । मृ॒ळत॑ । नः॒ । तुवि॑ऽमघासः । अमृ॑ताः । ऋत॑ऽज्ञाः ।

सत्य॑ऽश्रुतः । कव॑यः । युवा॑नः । बृह॑त्ऽगिरयः । बृ॒हत् । उ॒क्षमा॑णाः ॥८

हये । नरः । मरुतः । मृळत । नः । तुविऽमघासः । अमृताः । ऋतऽज्ञाः ।

सत्यऽश्रुतः । कवयः । युवानः । बृहत्ऽगिरयः । बृहत् । उक्षमाणाः ॥८

"हये हे “नरः नेतारः “मरुतः “नः अस्मान् “मृळत सुखयत अस्मभ्यं हिताय वा सुखिनो भवत । हे “तुवीमघासः प्रभूतधनाः “अमृताः अमरणस्वभावाः “ऋतज्ञाः उदकस्य यज्ञस्य वा ज्ञातारः । कर्तार इत्यर्थः । "सत्यश्रुतः सत्येन सत्यफलत्वेन प्रसिद्धाः “कवयः मेधाविनः। “युवानः नित्यतरुणाः “बृहद्गिरयः प्रभूतस्तुतयः “बृहत् अत्यधिकम् “उक्षमाणाः हविर्भिः सेविताः उदकं वा सिञ्चन्तो यूयं मृळत ॥ ॥ २२ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.५७&oldid=199646" इत्यस्माद् पुनः प्राप्तिः