ऋग्वेदः सूक्तं ५.६३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.६२ ऋग्वेदः - मण्डल ५
सूक्तं ५.६३
अर्चनाना आत्रेयः
सूक्तं ५.६४ →
दे. मित्रावरुणौ। जगती।


ऋतस्य गोपावधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि ।
यमत्र मित्रावरुणावथो युवं तस्मै वृष्टिर्मधुमत्पिन्वते दिवः ॥१॥
सम्राजावस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा ।
वृष्टिं वां राधो अमृतत्वमीमहे द्यावापृथिवी वि चरन्ति तन्यवः ॥२॥
सम्राजा उग्रा वृषभा दिवस्पती पृथिव्या मित्रावरुणा विचर्षणी ।
चित्रेभिरभ्रैरुप तिष्ठथो रवं द्यां वर्षयथो असुरस्य मायया ॥३॥
माया वां मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश्चरति चित्रमायुधम् ।
तमभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते ॥४॥
रथं युञ्जते मरुतः शुभे सुखं शूरो न मित्रावरुणा गविष्टिषु ।
रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम् ॥५॥
वाचं सु मित्रावरुणाविरावतीं पर्जन्यश्चित्रां वदति त्विषीमतीम् ।
अभ्रा वसत मरुतः सु मायया द्यां वर्षयतमरुणामरेपसम् ॥६॥
धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया ।
ऋतेन विश्वं भुवनं वि राजथः सूर्यमा धत्थो दिवि चित्र्यं रथम् ॥७॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

अष्टकस्य चतुर्थस्य तृतीयो व्याकृतः स्फुटम् । ।

अध्यायः सायणायेंण चतुर्थो व्याकरिष्यते ।।


‘ ऋतस्य गोपौ ' इति सप्तर्चं सप्तमं सूक्तम् । अत्रेयमनुक्रमणिका - ‘ ऋतस्य सप्तार्चनाना जागतम्' इति । आत्रेयोऽर्चनाना नाम ऋषिः । जगती छन्दः । तुह्यादिपरिभाषया मित्रावरुणौ देवता । विनियोगो लैङ्गिकः ॥


ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो॑मनि ।

यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै॑ वृ॒ष्टिर्मधु॑मत्पिन्वते दि॒वः ॥१

ऋत॑स्य । गो॒पौ॒ । अधि॑ । ति॒ष्ठ॒थः॒ । रथ॑म् । सत्य॑ऽधर्माणा । प॒र॒मे । विऽओ॑मनि ।

यम् । अत्र॑ । मि॒त्रा॒व॒रु॒णा॒ । अव॑थः । यु॒वम् । तस्मै॑ । वृ॒ष्टिः । मधु॑ऽमत् । पि॒न्व॒ते॒ । दि॒वः ॥१

ऋतस्य । गोपौ । अधि । तिष्ठथः । रथम् । सत्यऽधर्माणा । परमे । विऽओमनि ।

यम् । अत्र । मित्रावरुणा । अवथः । युवम् । तस्मै । वृष्टिः । मधुऽमत् । पिन्वते । दिवः ॥१

हे "ऋतस्य उदकस्य "गोपौ रक्षितारौ "सत्यधर्माणा सत्यधर्माणौ युवां "रथम् "अधि “तिष्ठथः । आरोहथोऽस्मद्यज्ञमागमनार्थम् । कुत्र । “परमे "व्योमनि निरतिशये आकाशे । हे मित्रावरुणौ "युवं युवाम् "अत्र अस्मिन् यज्ञे "यं यजमानम् "अवथः रक्षथः "तस्मै यजमानाय “वृष्टिः पर्जन्यः "मधुमत् उदकं "दिवः द्युलोकात् "पिन्वते सिञ्चति वर्धयति ॥


स॒म्राजा॑व॒स्य भुव॑नस्य राजथो॒ मित्रा॑वरुणा वि॒दथे॑ स्व॒र्दृशा॑ ।

वृ॒ष्टिं वां॒ राधो॑ अमृत॒त्वमी॑महे॒ द्यावा॑पृथि॒वी वि च॑रन्ति त॒न्यव॑ः ॥२

स॒म्ऽराजौ॑ । अ॒स्य । भुव॑नस्य । रा॒ज॒थः॒ । मित्रा॑वरुणा । वि॒दथे॑ । स्वः॒ऽदृशा॑ ।

वृ॒ष्टिम् । वा॒म् । राधः॑ । अ॒मृ॒त॒ऽत्वम् । ई॒म॒हे॒ । द्यावा॑पृथि॒वी इति॑ । वि । च॒र॒न्ति॒ । त॒न्यवः॑ ॥२

सम्ऽराजौ । अस्य । भुवनस्य । राजथः । मित्रावरुणा । विदथे । स्वःऽदृशा ।

वृष्टिम् । वाम् । राधः । अमृतऽत्वम् । ईमहे । द्यावापृथिवी इति । वि । चरन्ति । तन्यवः ॥२

हे "मित्रावरुणा मित्रावरुणौ "सम्राजौ सम्यक् राजमानौ युवाम् "अस्य "भुवनस्य "राजथः ईशाथे । "स्वर्दृशा स्वर्गस्य द्रष्टारौ युवां "विदथे अस्मद्यज्ञे सम्राजाविति संबन्धः । "वां युवां “वृष्टिं “राधः धनं वृष्ट्याख्यं धनम् "अमृतत्वं स्वर्गं च "ईमहे प्रार्थयामहे । युवयोः "तन्यवः विसृता रश्मयः "द्यावापृथिवी “वि “चरन्ति विविधं प्राप्नुवन्ति । अथवा वृष्टिं धनममृतत्वं चेमहे ॥


स॒म्राजा॑ उ॒ग्रा वृ॑ष॒भा दि॒वस्पती॑ पृथि॒व्या मि॒त्रावरु॑णा॒ विच॑र्षणी ।

चि॒त्रेभि॑र॒भ्रैरुप॑ तिष्ठथो॒ रवं॒ द्यां व॑र्षयथो॒ असु॑रस्य मा॒यया॑ ॥३

स॒म्ऽराजौ॑ । उ॒ग्रा । वृ॒ष॒भा । दि॒वः । पती॒ इति॑ । पृ॒थि॒व्याः । मि॒त्रावरु॑णा । विच॑र्षणी॒ इति॒ विऽच॑र्षणी ।

चि॒त्रेभिः॑ । अ॒भ्रैः । उप॑ । ति॒ष्ठ॒थः॒ । रव॑म् । द्याम् । व॒र्ष॒य॒थः॒ । असु॑रस्य । मा॒यया॑ ॥३

सम्ऽराजौ । उग्रा । वृषभा । दिवः । पती इति । पृथिव्याः । मित्रावरुणा । विचर्षणी इति विऽचर्षणी ।

चित्रेभिः । अभ्रैः । उप । तिष्ठथः । रवम् । द्याम् । वर्षयथः । असुरस्य । मायया ॥३

“सम्राजौ सम्यक् राजमानौ “उग्रा उद्गूर्णबलौ “वृषभा वर्षितारौ “दिवः द्युलोकस्य “पती स्वामिनौ "पृथिव्याः च पती “विचर्षणी सर्वस्य द्रष्टारौ मित्रावरुणौ । एवं महानुभावौ “चित्रेभिः चायनीयैः “अभ्रैः मेघैः सह “रवं स्तोत्रम् “उप “तिष्ठथः । पश्चात “द्यां च “वर्षयथः “असुरस्य उदकनिरसितुः पर्जन्यस्य “मायया प्रज्ञया सामर्थ्येन ।।


मा॒या वां॑ मित्रावरुणा दि॒वि श्रि॒ता सूर्यो॒ ज्योति॑श्चरति चि॒त्रमायु॑धम् ।

तम॒भ्रेण॑ वृ॒ष्ट्या गू॑हथो दि॒वि पर्ज॑न्य द्र॒प्सा मधु॑मन्त ईरते ॥४

मा॒या । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । दि॒वि । श्रि॒ता । सूर्यः॑ । ज्योतिः॑ । च॒र॒ति॒ । चि॒त्रम् । आयु॑धम् ।

तम् । अ॒भ्रेण॑ । वृ॒ष्ट्या । गू॒ह॒थः॒ । दि॒वि । पर्ज॑न्य । द्र॒प्साः । मधु॑ऽमन्तः । ई॒र॒ते॒ ॥४

माया । वाम् । मित्रावरुणा । दिवि । श्रिता । सूर्यः । ज्योतिः । चरति । चित्रम् । आयुधम् ।

तम् । अभ्रेण । वृष्ट्या । गूहथः । दिवि । पर्जन्य । द्रप्साः । मधुऽमन्तः । ईरते ॥४

हे "मित्रावरुणा “वां युवयोः “माया “दिवि “श्रिता आश्रिता । कैषा युवयोर्मायोच्यते । “सूर्यः सर्वस्य प्रेरकः "ज्योतिः दीप्यमानः “चित्रं चायनीयम् “आयुधम् उक्तलक्षणायुधरूपः “चरति परिभ्रमत्यन्तरिक्षे । शत्रुमारकत्वादायुधमुच्यते । “तं सूर्यम् “अभ्रेण मेघेन “वृष्ट्या “दिवि “गूहथः गोपायथः । हे “पर्जन्य देव मित्रावरुणाभ्यां वृष्ट्यर्थं प्रेरितेन त्वया "मधुमन्त: “द्रप्साः “ईरते ईर्यन्ते । त्वत्सृष्टा वा गच्छन्ति ।


रथं॑ युञ्जते म॒रुत॑ः शु॒भे सु॒खं शूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु ।

रजां॑सि चि॒त्रा वि च॑रन्ति त॒न्यवो॑ दि॒वः स॑म्राजा॒ पय॑सा न उक्षतम् ॥५

रथ॑म् । यु॒ञ्ज॒ते॒ । म॒रुतः॑ । शु॒भे । सु॒ऽखम् । शूरः॑ । न । मि॒त्रा॒व॒रु॒णा॒ । गोऽइ॑ष्टिषु ।

रजां॑सि । चि॒त्रा । वि । च॒र॒न्ति॒ । त॒न्यवः॑ । दि॒वः । स॒म्ऽरा॒जा॒ । पय॑सा । नः॒ । उ॒क्ष॒त॒म् ॥५

रथम् । युञ्जते । मरुतः । शुभे । सुऽखम् । शूरः । न । मित्रावरुणा । गोऽइष्टिषु ।

रजांसि । चित्रा । वि । चरन्ति । तन्यवः । दिवः । सम्ऽराजा । पयसा । नः । उक्षतम् ॥५

हे मित्रावरुणौ युवयोरनुग्रहात् "मरुतः “शुभे उदकार्थं “सुखं शोभनाक्षद्वारं “रथं "युञ्जते अश्वैर्योजयन्ति । “शूरो “न शूर इव । स यथा युद्धार्थं रथं युनक्ति तद्वत् । “गविष्टिषु गवामुदकानाम् एषणेषु निमित्तेषु “चित्रा चायनीयानि “रजांसि लोकान् “तन्यवः ततास्ते मरुतः “वि “चरन्ति विविधं चरन्ति । तस्मात् तैः सहितौ हे “सम्राजा युवां “दिवः द्युलोकात् “पयसा उदकेन “नः अस्मान् “उक्षतं सिञ्चतम् ॥


वाचं॒ सु मि॑त्रावरुणा॒विरा॑वतीं प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी॑मतीम् ।

अ॒भ्रा व॑सत म॒रुत॒ः सु मा॒यया॒ द्यां व॑र्षयतमरु॒णाम॑रे॒पस॑म् ॥६

वाच॑म् । सु । मि॒त्रा॒व॒रु॒णौ॒ । इरा॑ऽवतीम् । प॒र्जन्यः॑ । चि॒त्राम् । व॒द॒ति॒ । त्विषि॑ऽमतीम् ।

अ॒भ्रा । व॒स॒त॒ । म॒रुतः॑ । सु । मा॒यया॑ । द्याम् । व॒र्ष॒य॒त॒म् । अ॒रु॒णाम् । अ॒रे॒पस॑म् ॥६

वाचम् । सु । मित्रावरुणौ । इराऽवतीम् । पर्जन्यः । चित्राम् । वदति । त्विषिऽमतीम् ।

अभ्रा । वसत । मरुतः । सु । मायया । द्याम् । वर्षयतम् । अरुणाम् । अरेपसम् ॥६

हे “मित्रावरुणौ युवयोरनुग्रहात् “पर्जन्यः मेघः "सु सुष्ठु “इरावतीम् अन्नवतीं अन्नसाथिकां “चित्रां चायनीयां “त्विषीमतीं दीप्तिमतीं “वाचं गर्जनशब्दं “वदति । शब्दयति वृष्ट्यर्थम् । "मरुतः च “अभ्रा अभ्राणि मेघान् “सु सुष्ठु “वसत आच्छादयन्ति “मायया स्वप्रज्ञया । युवां च पर्जन्येन मरुद्भिश्च सह “अरुणाम् अरुणवर्णाम् "अरेपसम् अपापां वृष्ट्यविघातिनीं “द्यां “वर्षयतम् ॥


धर्म॑णा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेथे॒ असु॑रस्य मा॒यया॑ ।

ऋ॒तेन॒ विश्वं॒ भुव॑नं॒ वि रा॑जथ॒ः सूर्य॒मा ध॑त्थो दि॒वि चित्र्यं॒ रथ॑म् ॥७

धर्म॑णा । मि॒त्रा॒व॒रु॒णा॒ । वि॒पः॒ऽचि॒ता॒ । व्र॒ता । र॒क्षे॒थे॒ इति॑ । असु॑रस्य । मा॒यया॑ ।

ऋ॒तेन॑ । विश्व॑म् । भुव॑नम् । वि । रा॒ज॒थः॒ । सूर्य॑म् । आ । ध॒त्थः॒ । दि॒वि । चित्र्य॑म् । रथ॑म् ॥७

धर्मणा । मित्रावरुणा । विपःऽचिता । व्रता । रक्षेथे इति । असुरस्य । मायया ।

ऋतेन । विश्वम् । भुवनम् । वि । राजथः । सूर्यम् । आ । धत्थः । दिवि । चित्र्यम् । रथम् ॥७

हे “मित्रावरुणा “विपश्चिता प्राज्ञौ युवां “धर्मणा जगद्धारकेण वृष्ट्यादिलक्षणेन कर्मणा “व्रता यज्ञादिकर्माणि "रक्षेथे पालयथः । “असुरस्य मेघानां निरसितुः पर्जन्यस्य "मायया प्रज्ञया च "ऋतेन उदकेन यज्ञेन वा निमित्तेन “विश्वं “भुवनं सर्वं भूतजातं "वि “राजथः विदीपयथः इत्यर्थः । “सूर्यमा सूर्यं च "चित्र्यं पूज्यं “रथं रंहणस्वभावं “दिवि द्युलोके “धत्थः धारयथो जगदुपकारार्थम् ॥ ॥ १ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.६३&oldid=199717" इत्यस्माद् पुनः प्राप्तिः