ऋग्वेदः सूक्तं ५.६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.५ ऋग्वेदः - मण्डल ५
सूक्तं ५.६
वसुश्रुत आत्रेयः
सूक्तं ५.७ →
दे. अग्निः। पङ्क्तिः।


अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।
अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥१॥
सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः ।
समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ॥२॥
अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः ।
अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर ॥३॥
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् ।
यद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ॥४॥
आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस्पते ।
सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं स्तोतृभ्य आ भर ॥५॥
प्रो त्ये अग्नयोऽग्निषु विश्वं पुष्यन्ति वार्यम् ।
ते हिन्विरे त इन्विरे त इषण्यन्त्यानुषगिषं स्तोतृभ्य आ भर ॥६॥
तव त्ये अग्ने अर्चयो महि व्राधन्त वाजिनः ।
ये पत्वभिः शफानां व्रजा भुरन्त गोनामिषं स्तोतृभ्य आ भर ॥७॥
नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीरिषः ।
ते स्याम य आनृचुस्त्वादूतासो दमेदम इषं स्तोतृभ्य आ भर ॥८॥
उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि ।
उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर ॥९॥
एवाँ अग्निमजुर्यमुर्गीर्भिर्यज्ञेभिरानुषक् ।
दधदस्मे सुवीर्यमुत त्यदाश्वश्व्यमिषं स्तोतृभ्य आ भर ॥१०॥


सायणभाष्यम्

अग्निं तं मन्ये ' इति दशर्चं षष्ठं सूक्तं वसुश्रुतस्यार्षमाग्नेयं पाङ्क्तम् । ‘अग्निं तं दश पाङ्क्तम्' इत्यनुक्रमणिका । प्रातरनुवाके आग्नेये क्रतौ पाङ्क्ते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । ‘अग्निं तं मन्य इति पाङ्क्तम्' ( आश्व. श्रौ. ४. १३ ) इति हि सूत्रितम् । आश्वमेधिके मध्यमेऽहनीदमेव आज्यशस्त्रम् । सूत्रितं च - अग्निं तं मन्य इत्याज्यं तस्यैकाहिकमुपरिष्टात् ' ( आश्व. श्रौ. १०.१०) इति । आद्य आभिप्लविकेषूक्थ्येषु मैत्रावरुणस्यानुरूपस्तृचः । सूत्रितं च - अग्निं तं मन्ये यो वसुराग्ने स्थूरं रयिं भर ' (आश्व. श्रौ. ७. ८) इति ॥


अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नव॑ः ।

अस्त॒मर्व॑न्त आ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥१

अ॒ग्निम् । तम् । म॒न्ये॒ । यः । वसुः॑ । अस्त॑म् । यम् । यन्ति॑ । धे॒नवः॑ ।

अस्त॑म् । अर्व॑न्तः । आ॒शवः॑ । अस्त॑म् । नित्या॑सः । वा॒जिनः॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥१

अग्निम् । तम् । मन्ये । यः । वसुः । अस्तम् । यम् । यन्ति । धेनवः ।

अस्तम् । अर्वन्तः । आशवः । अस्तम् । नित्यासः । वाजिनः । इषम् । स्तोतृऽभ्यः । आ । भर ॥१

“तम् “अग्निं “मन्ये स्तौमि । “यः अग्निः "वसुः वासकः । “यम् “अस्तं सर्वेषां गृहवदाश्रयभूतं “धेनवः "यन्ति गच्छन्ति प्रीणयितुम् । “अस्तम् उक्तलक्षणम् “अर्वन्तः अरणवन्तोऽश्वाः । “आशवः शीघ्रगामिनो यन्ति । तथा “नित्यासः नित्यप्रवृत्तयः “वाजिनः हविर्लक्षणान्नवन्तः यजमाना यम् “अस्तं यन्ति तं मन्ये । “इषम् अन्नं “स्तोतृभ्यः अस्मभ्यम् “आ “भर अग्ने ॥


सो अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यन्ति॑ धे॒नव॑ः ।

समर्व॑न्तो रघु॒द्रुव॒ः सं सु॑जा॒तास॑ः सू॒रय॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥२

सः । अ॒ग्निः । यः । वसुः॑ । गृ॒णे । सम् । यम् । आ॒ऽयन्ति॑ । धे॒नवः॑ ।

सम् । अर्व॑न्तः । र॒घु॒ऽद्रुवः॑ । सम् । सु॒ऽजा॒तासः॑ । सू॒रयः॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥२

सः । अग्निः । यः । वसुः । गृणे । सम् । यम् । आऽयन्ति । धेनवः ।

सम् । अर्वन्तः । रघुऽद्रुवः । सम् । सुऽजातासः । सूरयः । इषम् । स्तोतृऽभ्यः । आ । भर ॥२

“सः “अग्निः स खल्वग्निः “यो "वसुः वासकः “गृणे स्तूयते । “यं “धेनवः “सम् “आयन्ति होमार्थम् । “अर्वन्तः अश्वाः “रघुद्रुवः लघुगमनाः “सम् आयन्ति । "सुजातासः “सूरयः मेधाविनश्च “सम् आयन्ति स खल्वग्निरिति ।।


अ॒ग्निर्हि वा॒जिनं॑ वि॒शे ददा॑ति वि॒श्वच॑र्षणिः ।

अ॒ग्नी रा॒ये स्वा॒भुवं॒ स प्री॒तो या॑ति॒ वार्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥३

अ॒ग्निः । हि । वा॒जिन॑म् । वि॒शे । ददा॑ति । वि॒श्वऽच॑र्षणिः ।

अ॒ग्निः । रा॒ये । सु॒ऽआ॒भुव॑म् । सः । प्री॒तः । या॒ति॒ । वार्य॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥३

अग्निः । हि । वाजिनम् । विशे । ददाति । विश्वऽचर्षणिः ।

अग्निः । राये । सुऽआभुवम् । सः । प्रीतः । याति । वार्यम् । इषम् । स्तोतृऽभ्यः । आ । भर ॥३

“अग्निर्हि अयमग्निः खलु “विशे यजमानाय “वाजिनम् अन्नवन्तं पुत्रमश्वमन्नं वा “ददाति । “विश्वचर्षणिः । विश्वे चर्षणयो मनुष्या रक्षणीया अर्चका वा यस्य स तथोक्तः । यद्वा । पश्यतिकर्मैतत् । सर्वस्य द्रष्टा "अग्निः “राये धनार्थिने । अथवा द्वितीयार्थे चतुर्थी । धनं “स्वाभुवं सुष्ठु सर्वत्र व्याप्तं “वार्यं सर्वैर्वरणीयं “प्रीतः सन् "याति यमयति । दातुं वा गच्छति । इषमित्यादि गतम् ॥


आभिप्लविकेषूक्थ्येषु तृतीयसवने स्तोत्रियतृचस्य ' अ ते अग्न इधीमहि ' इत्यादिके प्रथमाद्वितीये । सूत्रितं च भवति - आ ते अग्ने इधीमह्युभे सुश्चन्द्र सर्पिष इति द्वे एका च ' ( आश्व. श्रौ. ७. ८) इति ॥

आ ते॑ अग्न इधीमहि द्यु॒मन्तं॑ देवा॒जर॑म् ।

यद्ध॒ स्या ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवीषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥४

आ । ते॒ । अ॒ग्ने॒ । इ॒धी॒म॒हि॒ । द्यु॒ऽमन्त॑म् । दे॒व॒ । अ॒जर॑म् ।

यत् । ह॒ । स्या । ते॒ । पनी॑यसी । स॒म्ऽइत् । दी॒दय॑ति । द्यवि॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥४

आ । ते । अग्ने । इधीमहि । द्युऽमन्तम् । देव । अजरम् ।

यत् । ह । स्या । ते । पनीयसी । सम्ऽइत् । दीदयति । द्यवि । इषम् । स्तोतृऽभ्यः । आ । भर ॥४

हे अग्ने “देव “द्युमन्तं दीप्तिमन्तम् “अजरम् अजीर्णं “ते त्वाम् “आ सर्वतः “इधीमहि दीपयामः । “यद्ध खलु “स्या सा “ते तव “पनीयसी स्तुत्या “समित् दीप्तिः "दीदयति दीप्यते द्यवि द्युलोके ॥


आ ते॑ अग्न ऋ॒चा ह॒विः शुक्र॑स्य शोचिषस्पते ।

सुश्च॑न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट् तुभ्यं॑ हूयत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥५

आ । ते॒ । अ॒ग्ने॒ । ऋ॒चा । ह॒विः । शुक्र॑स्य । शो॒चि॒षः॒ । प॒ते॒ ।

सुऽच॑न्द्र । दस्म॑ । विश्प॑ते । हव्य॑ऽवाट् । तुभ्य॑म् । हू॒य॒ते॒ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥५

आ । ते । अग्ने । ऋचा । हविः । शुक्रस्य । शोचिषः । पते ।

सुऽचन्द्र । दस्म । विश्पते । हव्यऽवाट् । तुभ्यम् । हूयते । इषम् । स्तोतृऽभ्यः । आ । भर ॥५

हे "शोचिषः दीप्तेः "पते स्वामिन् “अग्ने "शुक्रस्य दीप्तस्य “ते तुभ्यम् “ऋचा मन्त्रेण सह "हविः हूयते । हे "सुश्चन्द्र सुष्ठ्वाह्लादक शोभनहिरण्य वा हे “दस्म शत्रूणामुपक्षपयितः “विश्पते विशां प्रजानां पालक “हव्यवाट् हविषो वोढः । इषमिति गतम् ॥ ॥ २२ ॥


प्रो त्ये अ॒ग्नयो॒ऽग्निषु॒ विश्वं॑ पुष्यन्ति॒ वार्य॑म् ।

ते हि॑न्विरे॒ त इ॑न्विरे॒ त इ॑षण्यन्त्यानु॒षगिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥६

प्रो इति॑ । त्ये । अ॒ग्नयः॑ । अ॒ग्निषु॑ । विश्व॑म् । पु॒ष्य॒न्ति॒ । वार्य॑म् ।

ते । हि॒न्वि॒रे॒ । ते । इ॒न्वि॒रे॒ । ते । इ॒ष॒ण्य॒न्ति॒ । आ॒नु॒षक् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥६

प्रो इति । त्ये । अग्नयः । अग्निषु । विश्वम् । पुष्यन्ति । वार्यम् ।

ते । हिन्विरे । ते । इन्विरे । ते । इषण्यन्ति । आनुषक् । इषम् । स्तोतृऽभ्यः । आ । भर ॥६

“प्रो प्रैव “पुष्यन्ति “त्ये ते “अग्नयः धिष्ण्या “अग्निषु गार्हपत्यादिषु । यद्वा । लौकिका अग्नयः तेजःपदार्थोऽग्निषु वैदिकेषु “विश्वं सर्वं “वार्यं वरणीयमपेक्षितं धनं पुष्यन्ति । “ते अग्नयः “हिन्विरे प्रीणयन्ति । “इन्विरे व्याप्नुवन्ति च । “ते “इषण्यन्ति अन्नमिच्छन्ति । “आनुषक् सर्वत्रानुषक्तम् । तत्राग्निसामान्याभिप्रायेणैकवचनम् ॥


तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ महि॑ व्राधन्त वा॒जिन॑ः ।

ये पत्व॑भिः श॒फानां॑ व्र॒जा भु॒रन्त॒ गोना॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥७

तव॑ । त्ये । अ॒ग्ने॒ । अ॒र्चयः॑ । महि॑ । व्रा॒ध॒न्त॒ । वा॒जिनः॑ ।

ये । पत्व॑ऽभिः । श॒फाना॑म् । व्र॒जा । भु॒रन्त॑ । गोना॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥७

तव । त्ये । अग्ने । अर्चयः । महि । व्राधन्त । वाजिनः ।

ये । पत्वऽभिः । शफानाम् । व्रजा । भुरन्त । गोनाम् । इषम् । स्तोतृऽभ्यः । आ । भर ॥७

हे “अग्ने “तव त्वदीयाः “त्ये ते “अर्चयः रश्मयः “महि महदत्यधिकं “वाजिनः अन्नवन्तो वा “व्राधन्त वर्धन्ते । यद्वा लुप्तोपमा । वाजिनोऽश्वा इव । “ये रश्मयः “पत्वभिः पतनैः “शफानां । “गोनां “व्रजा यूथानि “भुरन्त इच्छन्ति । आयता ज्वाला होमाय काङ्क्षन्त इत्यर्थः । ते वर्धन्ते ॥


नवा॑ नो अग्न॒ आ भ॑र स्तो॒तृभ्य॑ः सुक्षि॒तीरिष॑ः ।

ते स्या॑म॒ य आ॑नृ॒चुस्त्वादू॑तासो॒ दमे॑दम॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥८

नवाः॑ । नः॒ । अ॒ग्ने॒ । आ । भ॒र॒ । स्तो॒तृऽभ्यः॑ । सु॒ऽक्षि॒तीः । इषः॑ ।

ते । स्या॒म॒ । ये । आ॒नृ॒चुः । त्वाऽदू॑तासः । दमे॑ऽदमे । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥८

नवाः । नः । अग्ने । आ । भर । स्तोतृऽभ्यः । सुऽक्षितीः । इषः ।

ते । स्याम । ये । आनृचुः । त्वाऽदूतासः । दमेऽदमे । इषम् । स्तोतृऽभ्यः । आ । भर ॥८

हे “अग्ने “स्तोतृभ्यः “नः अस्मभ्यं “नवाः स्तुत्या नूत्ना वा "सुक्षितीः सुनिवासाः सुप्रजा वा “इषः उक्तलक्षणान्यन्नानि “आ “भर प्रयच्छ । "ये वयं “दमेदमे सर्वेषु यागगृहेषु त्वाम् “आनृचुः अर्चयन्ति । “ते वयं “त्वादूतासः त्वां दूतं फलसूचकं लब्धवन्तः सन्तः “स्याम समृद्धा भूयास्म । दमे दमे स्यामेति वा योज्यम् ॥


आभिप्लविकेषूक्थ्येषु तृतीयसवने वैकल्पिकस्तोत्रियतृचे ‘ उभे सुश्चन्द्र' इत्येषा तृतीया । सूत्रमुक्तम् ॥

उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी॑ श्रीणीष आ॒सनि॑ ।

उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥९

उ॒भे इति॑ । सु॒ऽच॒न्द्र॒ । स॒र्पिषः॑ । दर्वी॒ इति॑ । श्री॒णी॒षे॒ । आ॒सनि॑ ।

उ॒तो इति॑ । नः॒ । उत् । पु॒पू॒र्याः॒ । उ॒क्थेषु॑ । श॒व॒सः॒ । प॒ते॒ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥९

उभे इति । सुऽचन्द्र । सर्पिषः । दर्वी इति । श्रीणीषे । आसनि ।

उतो इति । नः । उत् । पुपूर्याः । उक्थेषु । शवसः । पते । इषम् । स्तोतृऽभ्यः । आ । भर ॥९

हे “सुश्चन्द्र शोभनाह्लादन शोभनहिरण्य वाग्ने “उभे "सर्पिषः पूर्णे “दर्वी जुहूपभृतौ “आसनि आस्ये "श्रीणीषे श्रयसि पचसि वा । "उतो अपि च “नः अस्मान् “उक्थेषु यागेषु "उत्पुपूर्याः उत्पूरय फलैः। हे "शवसस्पते बलस्य पालयितः ॥


ए॒वाँ अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् ।

दध॑द॒स्मे सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥१०

ए॒व । अ॒ग्निम् । अ॒जु॒र्य॒मुः॒ । गीः॒ऽभिः । य॒ज्ञेभिः॑ । आ॒नु॒षक् ।

दध॑त् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् । उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥१०

एव । अग्निम् । अजुर्यमुः । गीःऽभिः । यज्ञेभिः । आनुषक् ।

दधत् । अस्मे इति । सुऽवीर्यम् । उत । त्यत् । आशुऽअश्व्यम् । इषम् । स्तोतृऽभ्यः । आ । भर ॥१०

“एव उक्तरीत्या “अग्निं “गीर्भिः स्तुतिभिः “यज्ञेभिः यज्ञैर्वा तत्साधनैर्हविर्भिर्वा “आनुषक् अनुषक्तम् “अजुः गच्छन्ति। तथा कृत्वा “यमुः यमयन्ति स्थापयन्ति हविर्भिर्यजन्तीत्यर्थः । एवमात्रेयाः स्वान् परोक्षतया निर्दिशन्ति ॥ अजुर्यमुरित्यत्र ‘ आख्यातमाख्यातेन क्रियासातत्ये ' (पा. सू. २. १. ७२ ग.) इति समासः।। किंच “अस्मे अस्मासु “सुवीर्यं शोभनपुत्रादिकम् "उत अपि च “त्यत् तत् “आश्वश्व्यम् । आशवोऽश्वा यस्य भवन्ति स आश्वश्वः । तस्य भाव आश्वश्व्यम् । तदपि “दधत् धारयति ॥ ॥ २३ ॥


[सम्पाद्यताम्]


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.६&oldid=220809" इत्यस्माद् प्रतिप्राप्तम्