ऋग्वेदः सूक्तं ५.८०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.७९ ऋग्वेदः - मण्डल ५
सूक्तं ५.८०
सत्यश्रवा आत्रेयः
सूक्तं ५.८१ →
दे. उषाः। त्रिष्टुप्।


द्युतद्यामानं बृहतीमृतेन ऋतावरीमरुणप्सुं विभातीम् ।
देवीमुषसं स्वरावहन्तीं प्रति विप्रासो मतिभिर्जरन्ते ॥१॥
एषा जनं दर्शता बोधयन्ती सुगान्पथः कृण्वती यात्यग्रे ।
बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर्यच्छत्यग्रे अह्नाम् ॥२॥
एषा गोभिररुणेभिर्युजानास्रेधन्ती रयिमप्रायु चक्रे ।
पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ॥३॥
एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वं पुरस्तात् ।
ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥४॥
एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् ।
अप द्वेषो बाधमाना तमांस्युषा दिवो दुहिता ज्योतिषागात् ॥५॥
एषा प्रतीची दुहिता दिवो नॄन्योषेव भद्रा नि रिणीते अप्सः ।
व्यूर्ण्वती दाशुषे वार्याणि पुनर्ज्योतिर्युवतिः पूर्वथाकः ॥६॥


सायणभाष्यम्

“द्युतद्यामानम्' इति षड़ृचमष्टमं सूक्तम् । अत्रानुक्रमणिका –‘द्युतयामानं षट्' इति । सत्यश्रवा ऋषिः । अनुक्तत्वात् त्रिष्टुप् । 'उषस्यं तु ' इत्युक्तत्वात् उषाः देवता । प्रातरनुवाके उषस्ये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च -‘द्युतद्यामानमुषो वाजेन ' ( आश्व.श्रौ.. ४. १४) इति ।।


द्यु॒तद्या॑मानं बृह॒तीमृ॒तेन॑ ऋ॒ताव॑रीमरु॒णप्सुं॑ विभा॒तीम् ।

दे॒वीमु॒षसं॒ स्व॑रा॒वह॑न्तीं॒ प्रति॒ विप्रा॑सो म॒तिभि॑र्जरन्ते ॥१

द्यु॒तत्ऽया॑मानम् । बृ॒ह॒तीम् । ऋ॒तेन॑ । ऋ॒तऽव॑रीम् । अ॒रु॒णऽप्सु॑म् । वि॒ऽभा॒तीम् ।

दे॒वीम् । उ॒षस॑म् । स्वः॑ । आ॒ऽवह॑न्तीम् । प्रति॑ । विप्रा॑सः । म॒तिऽभिः॑ । ज॒र॒न्ते॒ ॥१

द्युतत्ऽयामानम् । बृहतीम् । ऋतेन । ऋतऽवरीम् । अरुणऽप्सुम् । विऽभातीम् ।

देवीम् । उषसम् । स्वः । आऽवहन्तीम् । प्रति । विप्रासः । मतिऽभिः । जरन्ते ॥१

“द्युतद्यामानं दीप्तरथां “बृहतीं महतीम् “ऋतेन सत्येन यज्ञेन वा “ऋतावरीम् ऋतवतीम् “अरुणप्सुम् अरुणरूपां “विभातीं व्युच्छन्तीं “देवीं द्योतमानाम् "उषसं “स्वरावहन्तीं सूर्यं गच्छन्तीम् । एवं महानुभावाम् उषसं “विप्रासः मेधाविन ऋत्विजः “मतिभिः स्तुतिभिः “प्रति जरन्ते स्तुवन्ति ॥


ए॒षा जनं॑ दर्श॒ता बो॒धय॑न्ती सु॒गान्प॒थः कृ॑ण्व॒ती या॒त्यग्रे॑ ।

बृ॒ह॒द्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति॑र्यच्छ॒त्यग्रे॒ अह्ना॑म् ॥२

ए॒षा । जन॑म् । द॒र्श॒ता । बो॒धय॑न्ती । सु॒ऽगान् । प॒थः । कृ॒ण्व॒ती । या॒ति॒ । अग्रे॑ ।

बृ॒ह॒त्ऽर॒था । बृ॒ह॒ती । वि॒श्व॒म्ऽइ॒न्वा । उ॒षाः । ज्योतिः॑ । य॒च्छ॒ति॒ । अग्रे॑ । अह्ना॑म् ॥२

एषा । जनम् । दर्शता । बोधयन्ती । सुऽगान् । पथः । कृण्वती । याति । अग्रे ।

बृहत्ऽरथा । बृहती । विश्वम्ऽइन्वा । उषाः । ज्योतिः । यच्छति । अग्रे । अह्नाम् ॥२

“दर्शता दर्शनीया “एषा उषाः "बोधयन्ती । कम् । “जनम् । प्रसुप्तमित्यर्थः । "पथः "सुगान् सुगमनान् “कृण्वती “अग्रे सूर्यस्य पुरस्तात् “याति गच्छति । कीदृश्युषाः “बृहद्रथा प्रभूतरथा “बृहती महती “विश्वमिन्वा विश्वं व्याप्नुवाना विश्वतर्पणा वा । ईदृशी “उषाः "अह्नाम् “अग्रे “ज्योतिः तेजः “यच्छति ॥


ए॒षा गोभि॑ररु॒णेभि॑र्युजा॒नास्रे॑धन्ती र॒यिमप्रा॑यु चक्रे ।

प॒थो रद॑न्ती सुवि॒ताय॑ दे॒वी पु॑रुष्टु॒ता वि॒श्ववा॑रा॒ वि भा॑ति ॥३

ए॒षा । गोभिः॑ । अ॒रु॒णेभिः॑ । यु॒जा॒ना । अस्रे॑धन्ती । र॒यिम् । अप्र॑ऽआयु । च॒क्रे॒ ।

प॒थः । रद॑न्ती । सु॒वि॒ताय॑ । दे॒वी । पु॒रु॒ऽस्तु॒ता । वि॒श्वऽवा॑रा । वि । भा॒ति॒ ॥३

एषा । गोभिः । अरुणेभिः । युजाना । अस्रेधन्ती । रयिम् । अप्रऽआयु । चक्रे ।

पथः । रदन्ती । सुविताय । देवी । पुरुऽस्तुता । विश्वऽवारा । वि । भाति ॥३

“एषा उषाः "अरुणेभिः अरुणवर्णैः “गोभिः बलीवर्दैः रथं "युजाना योजयन्ती “अस्रेधन्ती अशुष्यन्त्यक्षीणा वा । किम् । “रयिं धनम् "अप्रायु अप्रगन्तृ अविचलितं “चक्रे करोति । किं कुर्वती । “पथः मार्गान् “रदन्ती प्रकाशयन्ती । किमर्थम् । “सुविताय सुष्ठु गमनाय "देवी द्योतमाना “पुरुष्टुता बहुभिः स्तुता 'विश्ववारा सर्वैर्वरणीया “वि “भाति प्रकाशं करोति ।।


ए॒षा व्ये॑नी भवति द्वि॒बर्हा॑ आविष्कृण्वा॒ना त॒न्वं॑ पु॒रस्ता॑त् ।

ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥४

ए॒षा । विऽए॑नी । भ॒व॒ति॒ । द्वि॒ऽबर्हाः॑ । आ॒विः॒ऽकृ॒ण्वा॒ना । त॒न्व॑म् । पु॒रस्ता॑त् ।

ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒ति॒ । सा॒धु । प्र॒जा॒न॒तीऽइ॑व । न । दिशः॑ । मि॒ना॒ति॒ ॥४

एषा । विऽएनी । भवति । द्विऽबर्हाः । आविःऽकृण्वाना । तन्वम् । पुरस्तात् ।

ऋतस्य । पन्थाम् । अनु । एति । साधु । प्रजानतीऽइव । न । दिशः । मिनाति ॥४

“एषा उषाः “व्येनी "भवति विशेषेण श्वेता भवति "द्विबर्हाः द्वयोः प्रथममध्यमयोः स्थानयोः परिवृढोषाः पश्चात् “तन्वं स्वीयां तनुम् “आविष्कृण्वाना प्रकटीकुर्वती । कुत्र । “पुरस्तात् पूर्वस्यां दिशि । किंच “ऋतस्य आदित्यस्य “पन्थां पन्थानं “साधु सम्यक् “अन्वेति । किंच “प्रजानतीव विश्वं प्रज्ञापयन्ती । इवेति संप्रत्यर्थे । “न “दिशो “मिनाति न हिनस्ति । प्रत्युत दिशः प्रकाशयति । अथवा प्रजानतीव अनुगन्तव्यमिति प्रकर्षेण अवगच्छन्ती च ऋतस्य पन्थामन्वेति ॥


ए॒षा शु॒भ्रा न त॒न्वो॑ विदा॒नोर्ध्वेव॑ स्ना॒ती दृ॒शये॑ नो अस्थात् ।

अप॒ द्वेषो॒ बाध॑माना॒ तमां॑स्यु॒षा दि॒वो दु॑हि॒ता ज्योति॒षागा॑त् ॥५

ए॒षा । शु॒भ्रा । न । त॒न्वः॑ । वि॒दा॒ना । ऊ॒र्ध्वाऽइ॑व । स्ना॒ती । दृ॒शये॑ । नः॒ । अ॒स्था॒त् ।

अप॑ । द्वेषः॑ । बाध॑माना । तमां॑सि । उ॒षाः । दि॒वः । दु॒हि॒ता । ज्योति॑षा । आ । अ॒गा॒त् ॥५

एषा । शुभ्रा । न । तन्वः । विदाना । ऊर्ध्वाऽइव । स्नाती । दृशये । नः । अस्थात् ।

अप । द्वेषः । बाधमाना । तमांसि । उषाः । दिवः । दुहिता । ज्योतिषा । आ । अगात् ॥५

“एषा उषाः “शुभ्रा “न शुभ्रवर्णा निर्मला स्वलंकृता योषिदिव “तन्वः अङ्गानि “विदाना प्रज्ञापयन्ती “स्नाती स्नानं कुर्वाणा “ऊर्ध्वेव उन्नतेव स्नानादुत्तिष्ठन्तीव "नः अस्मदर्थम् अस्माकं पुरतो वा “दृशये सर्वेषां दर्शनाय उत् "अस्थात् पूर्वस्यां दिशि उत्तिष्ठति। किं कुर्वती । “द्वेषः द्वेष्याणि “तमांसि “अप "बाधमाना “दिवो "दुहिता “उषाः "ज्योतिषा तेजसा सह 'आगात् आगच्छति ॥


ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन्योषे॑व भ॒द्रा नि रि॑णीते॒ अप्स॑ः ।

व्यू॒र्ण्व॒ती दा॒शुषे॒ वार्या॑णि॒ पुन॒र्ज्योति॑र्युव॒तिः पू॒र्वथा॑कः ॥६

ए॒षा । प्र॒ती॒ची । दु॒हि॒ता । दि॒वः । नॄन् । योषा॑ऽइव । भ॒द्रा । नि । रि॒णी॒ते॒ । अप्सः॑ ।

वि॒ऽऊ॒र्ण्व॒ती । दा॒शुषे॑ । वार्या॑णि । पुनः॑ । ज्योतिः॑ । यु॒व॒तिः । पू॒र्वऽथा॑ । अ॒क॒रित्य॑कः ॥६

एषा । प्रतीची । दुहिता । दिवः । नॄन् । योषाऽइव । भद्रा । नि । रिणीते । अप्सः ।

विऽऊर्ण्वती । दाशुषे । वार्याणि । पुनः । ज्योतिः । युवतिः । पूर्वऽथा । अकरित्यकः ॥६

“एषा उषाः "प्रतीची अभिमुखा सती “दिवः "दुहिता "नॄन् सर्वान् प्राणिनः प्रति “भद्रा “योषेव कल्याणवेषा योषिदिव “अप्सः रूपं “नि “रिणीते प्रेरयति । किंच “दाशुषे हविर्दात्रे यजमानाय “वार्याणि वरणीयानि धनानि “व्यूर्ण्वती प्रयच्छन्ती “युवतिः नित्ययौवना सर्वत्र मिश्रयन्ती वा “पुनः अद्यापि “पूर्वथा पूर्वमिव “ज्योतिः तेजः “अकः करोति ॥ ॥ २३ ॥


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.८०&oldid=199812" इत्यस्माद् प्रतिप्राप्तम्