ऋग्वेदः सूक्तं ५.४१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.४० ऋग्वेदः - मण्डल ५
सूक्तं ५.४१
भौमोऽत्रिः
सूक्तं ५.४२ →
दे. विश्वे देवाः। त्रिष्टुप्, १६-१७ अतिजगती, २० एकपदा विराट् ।

को नु वां मित्रावरुणावृतायन्दिवो वा महः पार्थिवस्य वा दे ।
ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान् ॥१॥
ते नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतो जुषन्त ।
नमोभिर्वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीळ्हुषे सजोषाः ॥२॥
आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन्रथ्यस्य पुष्टौ ।
उत वा दिवो असुराय मन्म प्रान्धांसीव यज्यवे भरध्वम् ॥३॥
प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः ।
पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुराश्वश्वतमाः ॥४॥
प्र वो रयिं युक्ताश्वं भरध्वं राय एषेऽवसे दधीत धीः ।
सुशेव एवैरौशिजस्य होता ये व एवा मरुतस्तुराणाम् ॥५॥
प्र वो वायुं रथयुजं कृणुध्वं प्र देवं विप्रं पनितारमर्कैः ।
इषुध्यव ऋतसापः पुरंधीर्वस्वीर्नो अत्र पत्नीरा धिये धुः ॥६॥
उप व एषे वन्द्येभिः शूषैः प्र यह्वी दिवश्चितयद्भिरर्कैः ।
उषासानक्ता विदुषीव विश्वमा हा वहतो मर्त्याय यज्ञम् ॥७॥
अभि वो अर्चे पोष्यावतो नॄन्वास्तोष्पतिं त्वष्टारं रराणः ।
धन्या सजोषा धिषणा नमोभिर्वनस्पतीँरोषधी राय एषे ॥८॥
तुजे नस्तने पर्वताः सन्तु स्वैतवो ये वसवो न वीराः ।
पनित आप्त्यो यजतः सदा नो वर्धान्नः शंसं नर्यो अभिष्टौ ॥९॥
वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातमपां सुवृक्ति ।
गृणीते अग्निरेतरी न शूषैः शोचिष्केशो नि रिणाति वना ॥१०॥
कथा महे रुद्रियाय ब्रवाम कद्राये चिकितुषे भगाय ।
आप ओषधीरुत नोऽवन्तु द्यौर्वना गिरयो वृक्षकेशाः ॥११॥
शृणोतु न ऊर्जां पतिर्गिरः स नभस्तरीयाँ इषिरः परिज्मा ।
शृण्वन्त्वापः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः ॥१२॥
विदा चिन्नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः ।
वयश्चन सुभ्व आव यन्ति क्षुभा मर्तमनुयतं वधस्नैः ॥१३॥
आ दैव्यानि पार्थिवानि जन्मापश्चाच्छा सुमखाय वोचम् ।
वर्धन्तां द्यावो गिरश्चन्द्राग्रा उदा वर्धन्तामभिषाता अर्णाः ॥१४॥
पदेपदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश्च ।
सिषक्तु माता मही रसा नः स्मत्सूरिभिरृजुहस्त ऋजुवनिः ॥१५॥
कथा दाशेम नमसा सुदानूनेवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ ।
मा नोऽहिर्बुध्न्यो रिषे धादस्माकं भूदुपमातिवनिः ॥१६॥
इति चिन्नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः ।
अत्रा शिवां तन्वो धासिमस्या जरां चिन्मे निरृतिर्जग्रसीत ॥१७॥
तां वो देवाः सुमतिमूर्जयन्तीमिषमश्याम वसवः शसा गोः ।
सा नः सुदानुर्मृळयन्ती देवी प्रति द्रवन्ती सुविताय गम्याः ॥१८॥
अभि न इळा यूथस्य माता स्मन्नदीभिरुर्वशी वा गृणातु ।
उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः ॥१९॥
सिषक्तु न ऊर्जव्यस्य पुष्टेः ॥२०॥

[सम्पाद्यताम्]

सायणभाष्यम्

‘को नु वाम् ' इति विंशत्यृचं नवमं सूक्तं भौमस्यात्रेरार्षम् । षोडशीसप्तदश्यावतिजगत्यौ विंश्यैकपदा विराट् शिष्टाः सप्तदश त्रिष्टुभः । विश्वे देवा देवता । तथा चानुक्रान्तं-’को नु विंशतिर्वैश्वदेवं वै तत् षोळश्याद्यतिजगत्यावन्त्यैकपदा' इति । विनियोगो लैङ्गिकः ।।


को नु वां॑ मित्रावरुणावृता॒यन्दि॒वो वा॑ म॒हः पार्थि॑वस्य वा॒ दे ।

ऋ॒तस्य॑ वा॒ सद॑सि॒ त्रासी॑थां नो यज्ञाय॒ते वा॑ पशु॒षो न वाजा॑न् ॥१

कः । नु । वा॒म् । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒ऽयन् । दि॒वः । वा॒ । म॒हः । पार्थि॑वस्य । वा॒ । दे ।

ऋ॒तस्य॑ । वा॒ । सद॑सि । त्रासी॑थाम् । नः॒ । य॒ज्ञ॒ऽय॒ते । वा॒ । प॒शु॒ऽसः । न । वाजा॑न् ॥१

कः । नु । वाम् । मित्रावरुणौ । ऋतऽयन् । दिवः । वा । महः । पार्थिवस्य । वा । दे ।

ऋतस्य । वा। सदसि । त्रासीथाम् । नः । यज्ञऽयते । वा । पशुऽसः । न । वाजान् ॥ १ ॥

हे "मित्रावरुणौ देवौ "वां युवा "को "नु कः खलु यजमानः "ऋतायन् यज्ञमिच्छन् शक्नुयादिति शेषः । तस्मात् कृपयैव “दिवः सदसि द्युलोकसंबन्धिनि स्थाने "महः महतः "पार्थिवस्य सदसि । “ऋतस्य उत्पादकस्यान्तरिक्षस्य "सदसि । तद्धेतुत्वात्ताच्छब्द्यम् । त्रिषु स्थानेषु "नः अस्मान् "त्रासीथां रक्षतम्। वाशब्दश्चार्थे । किंच "यज्ञायते यज्ञमिच्छते "दे “वा हविर्दात्रे च मह्यं “पशुषो “न “वाजान् पशुषु सीदतो वाजानन्नानि क्षीरदध्यादीनीव । तानि यथा प्रयच्छथः तद्वदवतमिति । यद्वा । नशब्दश्चार्थे । पशुषः पशून्वाजांश्च दत्तमित्यर्थः ॥


ते नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतो॑ जुषन्त ।

नमो॑भिर्वा॒ ये दध॑ते सुवृ॒क्तिं स्तोमं॑ रु॒द्राय॑ मी॒ळ्हुषे॑ स॒जोषाः॑ ॥२

ते । नः॒ । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । आ॒युः । इन्द्रः॑ । ऋ॒भु॒क्षाः । म॒रुतः॑ । जु॒ष॒न्त॒ ।

नमः॑ऽभिः । वा॒ । ये । दध॑ते । सु॒ऽवृ॒क्तिम् । स्तोम॑म् । रु॒द्राय॑ । मी॒ळ्हुषे॑ । स॒ऽजोषाः॑ ॥२

ते । नः । मित्रः । वरुणः । अर्यमा । आयुः । इन्द्रः । ऋभुक्षाः । मरुतः । जुषन्त ।

नमःऽभिः । वा। ये । दधते । सुऽवृक्तिम् । स्तोम॑म् । रुद्राय । मीळ्हुषे । सऽजोषाः ॥ २॥

“ते मित्रादयो देवाः "नः अस्माकं "सुवृक्तिं “स्तोमं शोभनपापादिवर्जनवत्स्तोत्रं “नमोभिर्वा हविर्भिश्च “जुषन्त सेवन्ताम् । "ये “दधते धारयन्त्युक्तलक्षणं स्तोत्रम् । देवा द्विविधाः स्तोत्रभाजो हविर्भाजश्च । अत्र स्तोत्रभाज उच्यन्ते । “आयुः सततगतिर्वायुरुच्यते । अथ मरुत एवं वियुत्य विशेष्यन्ते । "रुद्राय “मीळ्हुषे ॥ तृतीयार्थे चतुर्थी ॥ रुद्रेण सह “सजोषाः सजोषसः सह प्रीयमाणाः । तेषां पुत्रत्वादिति भावः । केचन रुद्राय सजोषा इत्येतत् मित्रादिसर्वदेवताविशेषणमिति कथयन्ति ।


आ वां॒ येष्ठा॑श्विना हु॒वध्यै॒ वात॑स्य॒ पत्म॒न्रथ्य॑स्य पु॒ष्टौ ।

उ॒त वा॑ दि॒वो असु॑राय॒ मन्म॒ प्रान्धां॑सीव॒ यज्य॑वे भरध्वम् ॥३

आ । वा॒म् । येष्ठा॑ । अ॒श्वि॒ना॒ । हु॒वध्यै॑ । वात॑स्य । पत्म॑न् । रथ्य॑स्य । पु॒ष्टौ ।

उ॒त । वा॒ । दि॒वः । असु॑राय । मन्म॑ । प्र । अन्धां॑सिऽइव । यज्य॑वे । भ॒र॒ध्व॒म् ॥३

आ । वाम् । येष्ठा । अश्विना । हुवध्यै । वातस्य । पत्मन् । रथ्यस्य। पुष्टौ ।

उत । वा । दिवः । असुराय । मन्म । प्र । अन्धांसिऽइव । यज्यते । भरध्वम् ॥ ३ ॥

अनयाश्विनौ रुद्रश्चोच्यन्ते । हे “अश्विना अश्विनौ "येष्ठा कामानां यन्तृतमौ “वां युवां “वातस्य “पत्मन् । धर्मसाम्याद्धर्मिग्रहणम् । वायुसमानगतेरश्वस्य गमने प्राप्तौ “रथ्यस्य रथस्य “पुष्टौ च निमित्ते सति “हुवध्यै हुवे आह्वयामि आह्वातुं प्रभवामि । अथवा वायुवद्युवयोः शीघ्रगमनसाधनरथस्य पोषे च निमित्ते सति । "उत “वा किंचेत्यर्थः। “दिवः द्योतमानाय ॥ चतुर्थ्यर्थे षष्ठी ॥ “असुराय प्राणापहर्त्रे रुद्राय । यद्वा । द्युलोकसंबन्धिनेऽसुराय प्राणदात्रे सूर्याय वायवे वा “यज्यवे यागसाधकाय “मन्म मननीय स्तोत्रं “प्र “भरध्वं संपादयत हे ऋत्विजः । “अन्धांसीव अन्नानि हविर्लक्षणानि हवींषि स्तोत्रं चेत्यर्थः ।।


प्र स॒क्षणो॑ दि॒व्यः कण्व॑होता त्रि॒तो दि॒वः स॒जोषा॒ वातो॑ अ॒ग्निः ।

पू॒षा भगः॑ प्रभृ॒थे वि॒श्वभो॑जा आ॒जिं न ज॑ग्मुरा॒श्व॑श्वतमाः ॥४

प्र । स॒क्षणः॑ । दि॒व्यः । कण्व॑ऽहोता । त्रि॒तः । दि॒वः । स॒ऽजोषाः॑ । वातः॑ । अ॒ग्निः ।

पू॒षा । भगः॑ । प्र॒ऽभृ॒थे । वि॒श्वऽभो॑जाः । आ॒जिम् । न । ज॒ग्मुः॒ । आ॒श्व॑श्वऽतमाः ॥४

प्र । सक्षणः । दिव्यः । कण्वऽहोता । त्रितः । दिवः । सऽजोषाः । वातः । अग्निः ।

पूषा। भगः । प्रऽभृथे । विश्वऽभोजाः । आजिम् । न । जग्मुः । आश्वश्वऽतमाः ।। ४ ।।

अत्र लिङ्गोक्तदेवता: । प्र जग्मुरिति संबन्धः। "सक्षणः यज्ञं सेवमानः शत्रूणां सोढा वा "दिव्यः दिवि भवः "कण्वहोता । कण्वा ऋषयो मेधाविनो वा होतार आह्वातारो यस्य स तथोक्तः । “त्रितः त्रिषु क्षित्यादिस्थानेषु तायमानः “दिवः सूर्येण सह "सजोषाः समानगतिः समानप्रीतिर्वा "वातः उक्तलक्षणकः वायुः "अग्निः "पूषा पोषक एतन्नामा "भगः च “प्रभृथे प्रभरणवत्यस्मिन्यज्ञे उक्ताः सर्वदेवाः "विश्वभोजाः विश्वरक्षकाः कृत्स्नात्तारो वा “आश्वश्वतमाः प्रकृष्टगमनाश्ववतां श्रेष्ठाः सन्तः “आजिं "न संग्राममिव “प्र “जग्मुः प्रगच्छन्ति ।


प्र वो॑ र॒यिं यु॒क्ताश्वं॑ भरध्वं रा॒य एषेऽव॑से दधीत॒ धीः ।

सु॒शेव॒ एवै॑रौशि॒जस्य॒ होता॒ ये व॒ एवा॑ मरुतस्तु॒राणा॑म् ॥५

प्र । वः॒ । र॒यिम् । यु॒क्तऽअ॑श्वम् । भ॒र॒ध्व॒म् । रा॒यः । एषे॑ । अव॑से । द॒धी॒त॒ । धीः ।

सु॒ऽशेवः॑ । एवैः॑ । औ॒शि॒जस्य॑ । होता॑ । ये । वः॒ । एवाः॑ । म॒रु॒तः॒ । तु॒राणा॑म् ॥५

प्र। वः । रयिम् । युक्तऽअश्वम् । भरध्वम् । रायः । एषे । अवसे । दधीत । धीः ।।

सुऽशेवः । एवैः । औशिजस्य । होता । ये । वः । एवाः । मरुतः । तुराणाम् ॥ ५॥

हे मरुतः वः यूयं "रयिं धनं "युक्ताश्वम् अश्वसहितमश्वयोग्यं पुत्रं वा “प्र “भरध्वं संपादयत । “रायः धनानि गवाश्वादिलक्षणानि “एषे प्राप्तुम् "अवसे । अव इत्यन्ननाम । अन्नाय प्राप्तानां धनानां रक्षणाय वा “धीः स्तोता "दधीत धारयति स्तुतिम् । स च "औशिजस्य कक्षीवतः "होता अत्रिः “एवैः गन्तव्यैः कामैर्गमनसाधनैरश्वैर्वा "सुशेवः । शेवमिति सुखनाम । सुसुखो भवतु । हे "मरुतः “तुराणां त्वरमाणानां "वः युष्माकं "ये “एवाः कामा अश्वा वा सन्ति तैरिति ॥ ॥ १३ ॥


‘प्र वो वायुम्' इति षष्ठी वायव्ये पशौ हविषो याज्या । ‘प्र वो वायुं रथयुजं कृणुध्वमुत त्वामदिते महि' ( आश्व. श्रौ. ३. ८) इति सूत्रितम् ॥


प्र वो॑ वा॒युं र॑थ॒युजं॑ कृणुध्वं॒ प्र दे॒वं विप्रं॑ पनि॒तार॑म॒र्कैः ।

इ॒षु॒ध्यव॑ ऋत॒साप॒ः पुरं॑धी॒र्वस्वी॑र्नो॒ अत्र॒ पत्नी॒रा धि॒ये धुः॑ ॥६

प्र । वः॒ । वा॒युम् । र॒थ॒ऽयुज॑म् । कृ॒णु॒ध्व॒म् । प्र । दे॒वम् । विप्र॑म् । प॒नि॒तार॑म् । अ॒र्कैः ।

इ॒षु॒ध्यवः॑ । ऋ॒त॒ऽसापः॑ । पुर॑म्ऽधीः । वस्वीः॑ । नः॒ । अत्र॑ । पत्नीः॑ । आ । धि॒ये । धु॒रिति॑ धुः ॥६

प्र । वः । वायुम् । रथऽयुजम् । कृणुध्वम् । प्र । देवम् । विप्रम् । पनितारम् । अर्कैः ।।

इषुध्यवः । ऋतऽसापः । पुरम्ऽधीः । वस्वीः । नः । अत्र । पत्नीः। आ । धिये । धुरिति धुः ॥ ६ ॥

हे मदीया ऋत्विजः “वः यूयं “वायुं देवं “रथयुजं यज्ञगमनाय रथसंबद्धं “कृणुध्वं कुरुध्वम् । “प्र “देवं द्योतमानं “विप्रं विशेषेण कामानां पूरकं विप्रवत्पूज्यं वा “पनितारम् ॥ कर्मणि कर्तृप्रत्ययः ॥ स्तुत्यमित्यर्थः । फलप्रदातारं वा “अर्कैः अर्चनसाधनैर्मन्त्रैः “प्र कृणुध्वं स्तुत । किंच “इषुध्यवः गन्त्र्यः “ऋतसापः यज्ञस्पृशः “पुरंधीः पुरंध्यः स्त्रीरूपाः रूपवत्यो वा “वस्वीः प्रशंस्याः “पत्नीः देवपत्न्यः “अत्र अस्मिन् यज्ञे "नः अस्मदीयाय “धिये कर्मणे तन्निष्पत्तये “आ “धुः आगतवत्यः ।।


उप॑ व॒ एषे॒ वन्द्ये॑भिः शू॒षैः प्र य॒ह्वी दि॒वश्चि॒तय॑द्भिर॒र्कैः ।

उ॒षासा॒नक्ता॑ वि॒दुषी॑व॒ विश्व॒मा हा॑ वहतो॒ मर्त्या॑य य॒ज्ञम् ॥७

उप॑ । वः॒ । एषे॑ । वन्द्ये॑भिः । शू॒षैः । प्र । य॒ह्वी इति॑ । दि॒वः । चि॒तय॑त्ऽभिः । अ॒र्कैः ।

उ॒षसा॒नक्ता॑ । वि॒दुषी॑ इ॒वेति॑ वि॒दुषी॑ऽइव । विश्व॑म् । आ । ह॒ । व॒ह॒तः॒ । मर्त्या॑य । य॒ज्ञम् ॥७

उप । वः । एषे । वन्द्येभिः । शूषैः । प्र। यह्वी इति । दिवः । चितयत्ऽभिः । अर्कैः ।

उषसानक्ता । विदुषी इवेति विदुषीऽइव । विश्वम् । आ । ह। वहतः । मर्त्याय। यज्ञम् ॥७॥

हे "उषासानक्ता अहोरात्राभिमानिदेवते “यह्वी महत्यौ “वन्द्येभिः वन्दनार्हैरितरैर्देवैः सह “दिवः अन्तरिक्षादविशेषेण सर्वप्रदेशात् "वः युष्मभ्यम् “उप “प्र “एषे उपप्रापयामि हविः । ईषिः प्रापणकर्मा स्यादुपप्राभिः समन्वितः । “शूषैः सुखकरैः “चितयद्भिः ज्ञापयद्भिः "अर्कैः मन्त्रैः सहोपप्रापयामि । हे उक्तदेवते “विश्वं सर्वं कर्तव्यजातं “विदुषीइव जानत्याविव "मर्त्याय यजमानाय "यज्ञम् "आ “वहतः अभिमुखं प्रापयतः । हेति पूरणः । यद्वा । शूषैरित्यादीनि तृतीयाबहुवचनान्तानि वन्द्येभिरित्यस्य विशेषणानीति केचिदाहुः ॥


अ॒भि वो॑ अर्चे पो॒ष्याव॑तो॒ नॄन्वास्तो॒ष्पतिं॒ त्वष्टा॑रं॒ ररा॑णः ।

धन्या॑ स॒जोषा॑ धि॒षणा॒ नमो॑भि॒र्वन॒स्पतीँ॒रोष॑धी रा॒य एषे॑ ॥८

अ॒भि । वः॒ । अ॒र्चे॒ । पो॒ष्याऽव॑तः । नॄन् । वास्तोः॑ । पति॑म् । त्वष्टा॑रम् । ररा॑णः ।

धन्या॑ । स॒ऽजोषाः॑ । धि॒षणा॑ । नमः॑ऽभिः । वन॒स्पती॑न् । ओष॑धीः । रा॒यः । एषे॑ ॥८

अभि । वः । अर्चे । पोष्याऽव॑तः । नॄन् । वास्तोः । पतिम् । त्वष्टारम् । रराणः ।

धन्य । सऽजोषाः । धिषणा । नमःऽभिः । वनस्पतीन् । ओषधीः । रायः । एषे ॥ ८॥

अहं "पोष्यावतः बहुपोष्यजनयुक्तान् "नॄन् कर्मनेतॄन् “वः युष्मान् “अभि "अर्चे अभिपूजयामि स्तौमीत्यर्थः । के पुनस्ते यूयम् । उच्यते । "वास्तोष्पतिं “त्वष्टारं “रराणः स्तोत्रादिभिः क्रीडन् हविर्ददद्वा अहम् । “धन्या धनकरी "सजोषाः इतरदेवैः सह गच्छन्ती प्रीणयन्ती वा “धिषणा । वाङ्नामैतत् । वाग्देवता ॥ एता द्वितीयार्थे प्रथमाः ॥ उक्तलक्षणां वाणीं “वनस्पतीन् ओषधीः च “नमोभिः सह अर्चे इति संबन्धः । किमर्थम् । “राय “एषे धनानि प्राप्तुम् ॥


तु॒जे न॒स्तने॒ पर्व॑ताः सन्तु॒ स्वैत॑वो॒ ये वस॑वो॒ न वी॒राः ।

प॒नि॒त आ॒प्त्यो य॑ज॒तः सदा॑ नो॒ वर्धा॑न्न॒ः शंसं॒ नर्यो॑ अ॒भिष्टौ॑ ॥९

तु॒जे । नः॒ । तने॑ । पर्व॑ताः । स॒न्तु॒ । स्वऽए॑तवः । ये । वस॑वः । न । वी॒राः ।

प॒नि॒तः । आ॒प्त्यः । य॒ज॒तः । सदा॑ । नः॒ । वर्धा॑त् । नः॒ । शंस॑म् । नर्यः॑ । अ॒भिष्टौ॑ ॥९

तुजे । नः । तने । पर्वताः । सन्तु । स्वऽएतवः । ये । वसवः । न । वीराः ।

पनितः । आप्त्यः । यजतः । सदा । नः । वर्धात् । नः । शंसम् । नर्यः । अभिष्टौ ।।९।।

“पर्वताः पर्ववन्तः पूरणवन्तो वा मेघाः “तने विस्तृते “तुजे दाने । यद्वा । तनेति पुत्रनाम ॥ षष्ट्यर्थे चतुर्थी ॥ पुत्रस्य दान इत्यर्थः । अथवा “नः तुजे पुत्रे तने तत्पुत्रे च “स्वैतवः शोभनगमनाः “सन्तु भवन्तु । कीदृशास्ते । “ये “वसवः जगतो वासयितारः “वीराः “न वीरा इव । किंच “पनितः स्तुतः "आप्त्यः आप्तव्यः सर्वैः "यजतः यजनीय आदित्यः “सदा सर्वदा “नः “शसम् अस्माकं स्तुतिं “नर्यः नरेभ्यो हितो देवः “अभिष्टौ अभित एषणेऽभिगमने वा सति “वर्धात् वर्धयेत् ॥


वृष्णो॑ अस्तोषि भू॒म्यस्य॒ गर्भं॑ त्रि॒तो नपा॑तम॒पां सु॑वृ॒क्ति ।

गृ॒णी॒ते अ॒ग्निरे॒तरी॒ न शू॒षैः शो॒चिष्के॑शो॒ नि रि॑णाति॒ वना॑ ॥१०

वृष्णः॑ । अ॒स्तो॒षि॒ । भू॒म्यस्य॑ । गर्भ॑म् । त्रि॒तः । नपा॑तम् । अ॒पाम् । सु॒ऽवृ॒क्ति ।

गृ॒णी॒ते । अ॒ग्निः । ए॒तरि॑ । न । शू॒षैः । शो॒चिःऽके॑शः । नि । रि॒णा॒ति॒ । वना॑ ॥१०

वृष्णः । अस्तोषि । भूम्यस्य । गर्भम् । त्रितः । नपातम् । अपाम् । सुऽवृक्ति ।

गृणीते । अग्निः । एतरि । न । शूषैः । शोचिःऽकेशः । नि। रिणाति । वना ।। १० ।।

“भूम्यस्य । भूमिः अन्तरिक्षम् । तदर्हस्य । तादृशस्य “वृष्णः वर्षकस्य पर्जन्यस्य । अथवा भूम्यो भूमेरेवार्हः तदुचितवृष्टिप्रदानात् । तादृशस्य मेघस्य “गर्भं गर्भस्थानीयम् “अपां “नपातं रक्षकं वैद्युतमग्निं “सुवृक्ति । स्तोत्रकर्मैतत् । शोभनपापादिवर्जनवता स्तोत्रेण “अस्तोषि स्तुतवानहम् । सः “त्रितः तीर्णतमः त्रिषु स्थानेष्वन्येषु त्रित्वापन्नेषु तायमानः “अग्निः “एतरि गन्तरि मयि “शूषैः सुखकरैः रश्मिभिः “न “गृणीते न गरणं कुरुते न क्रुध्यतीत्यर्थः । किंतु "शोचिष्केशः प्रदीप्तरश्मिः सन् “वना वनानि “नि “रिणाति हिनस्ति दहतीत्यर्थः ॥ ॥ १४ ॥


क॒था म॒हे रु॒द्रिया॑य ब्रवाम॒ कद्रा॒ये चि॑कि॒तुषे॒ भगा॑य ।

आप॒ ओष॑धीरु॒त नो॑ऽवन्तु॒ द्यौर्वना॑ गि॒रयो॑ वृ॒क्षके॑शाः ॥११

क॒था । म॒हे । रु॒द्रिया॑य । ब्र॒वा॒म॒ । कत् । रा॒ये । चि॒कि॒तुषे॑ । भगा॑य ।

आपः॑ । ओष॑धीः । उ॒त । नः॒ । अ॒व॒न्तु॒ । द्यौः । वना॑ । गि॒रयः॑ । वृ॒क्षऽके॑शाः ॥११

कथा । महे । रुद्रियाय । ब्रवाम । कत् । राये । चिकितुषे । भगाय ।

आपः । ओषधीः । उत । नः । अवन्तु । द्यौः । वना । गिरयः । वृक्षऽकेशाः ॥ ११ ॥

वयमत्रयः "कथा केन प्रकारेण "महे महते "रुद्रियाय रुद्रपुत्राय मरुद्गणाय “ब्रवाम स्तुतीः । “कत् किं च स्तोत्रं “राये धनलाभाय “चिकितुषे सर्वं जानते “भगाय एतन्नामकाय देवाय ब्रवाम । “उत अपि च "आपः अब्देवताः “ओषधीः ओषधयः “द्यौः द्युदेवता “वना वनानि “गिरयो “वृक्षकेशाः । वृक्षा एव केशस्थानीया येषां ते । एता उक्ता देवताः “नः अस्मान् “अवन्तु रक्षन्तु ॥


शृ॒णोतु॑ न ऊ॒र्जां पति॒र्गिर॒ः स नभ॒स्तरी॑याँ इषि॒रः परि॑ज्मा ।

शृ॒ण्वन्त्वाप॒ः पुरो॒ न शु॒भ्राः परि॒ स्रुचो॑ बबृहा॒णस्याद्रेः॑ ॥१२

शृ॒णोतु॑ । नः॒ । ऊ॒र्जाम् । पतिः॑ । गिरः॑ । सः । नभः॑ । तरी॑यान् । इ॒षि॒रः । परि॑ऽज्मा ।

शृ॒ण्वन्तु॑ । आपः॑ । पुरः॑ । न । शु॒भ्राः । परि॑ । स्रुचः॑ । ब॒बृ॒हा॒णस्य॑ । अद्रेः॑ ॥१२

शृणोतु । नः । ऊर्जाम् । पतिः । गिरः । सः । नभः । तरीयान् । इषिरः । परिऽज्मा ।

शृण्वन्तु । आपः । पुरः । न । शुभ्राः । परि । स्रुचः । बबृहाणस्य । अद्रेः ॥ १२ ॥

“नः अस्माकं “गिरः स्तुतीः “शृणोतु । कः । “ऊर्जा बलानां “पतिः वायुः । अथवा ऊर्जामन्नानां पतिः । प्राणोपाधिकस्य वायोः कृत्स्नात्तृत्वं प्रसिद्धम् । श्रुतिश्च भवति-- प्राणस्यान्नमिद सर्वं प्रजापतिरकल्पयत्' (मनु. ५. २८) इति । “स "नभः नभसि चारी “तरीयान् तरितव्यः “इषिरः गमनशीलः "परिज्मा परितो गन्ता । किंच "आपः “शृण्वन्तु गिरः । कीदृश्यस्ता:। “पुरो “न पुराणीव “शुभ्राः दीप्ताः “बबृहाणस्य वर्धमानस्य “अद्रेः मेघस्य वा पर्वतस्य वा “परि परितः “स्रुचः सरणशीलाः ॥


वि॒दा चि॒न्नु म॑हान्तो॒ ये व॒ एवा॒ ब्रवा॑म दस्मा॒ वार्यं॒ दधा॑नाः ।

वय॑श्च॒न सु॒भ्व१॒॑ आव॑ यन्ति क्षु॒भा मर्त॒मनु॑यतं वध॒स्नैः ॥१३

वि॒द । चि॒त् । नु । म॒हा॒न्तः॒ । ये । वः॒ । एवाः॑ । ब्रवा॑म । द॒स्माः॒ । वार्य॑म् । दधा॑नाः ।

वयः॑ । च॒न । सु॒ऽभ्वः॑ । आ । अव॑ । य॒न्ति॒ । क्षु॒भा । मर्त॑म् । अनु॑ऽयतम् । व॒ध॒ऽस्नैः ॥१३

विद । चित् । नु । महान्तः । ये । वः । एवाः । ब्रवाम । दस्माः । वार्यम् । दधानाः ।

वयः । चन । सुऽभ्वः। आ । अव । यन्ति । क्षुभा । मर्तम् । अनुऽयतम् । वधऽस्नैः ॥१३॥

हे “महान्तः मरुतः “नु क्षिप्रं यूयं “विद जानीथ स्तोत्रम् । हे "दस्माः दर्शनीयाः “वः युष्मान् "ये “एवाः गन्तारो युष्मान् भजमानाः “वार्यं वरणीयं हविः “दधानाः ददाना धारयन्तो वा वयं “ब्रवाम स्तुतिम् । यद्वा । ये वो यूयमित्यर्थः । ये यूयमेवाः अस्मद्यज्ञमभिगन्तारस्ते विद । चिदिति पूरणः । “वयश्चन आगन्तारश्चैते मरुतः “सुभ्वः सुष्ठु भवन्तः प्रवृद्धाः “आ अस्मदभिमुखम् “अव “यन्ति गच्छन्ति । किं कुर्वन्तः । “क्षुभा क्षोभकेण सहितं “मर्तं मरणधर्माणं वैरिणम् “अनुयतम् अभिगतं “वधस्नैः आयुधैः परिहरन्तः अव यन्ति ॥


आ दैव्या॑नि॒ पार्थि॑वानि॒ जन्मा॒पश्चाच्छा॒ सुम॑खाय वोचम् ।

वर्ध॑न्तां॒ द्यावो॒ गिर॑श्च॒न्द्राग्रा॑ उ॒दा व॑र्धन्ताम॒भिषा॑ता॒ अर्णाः॑ ॥१४

आ । दैव्या॑नि । पार्थि॑वानि । जन्म॑ । अ॒पः । च॒ । अच्छ॑ । सुऽम॑खाय । वो॒च॒म् ।

वर्ध॑न्ताम् । द्यावः॑ । गिरः॑ । च॒न्द्रऽअ॑ग्राः । उ॒दा । व॒र्ध॒न्ता॒म् । अ॒भिऽसा॑ताः । अर्णाः॑ ॥१४

आ। दैव्यानि । पार्थिवानि । जन्म । अपः । च । अच्छ । सुऽमखाय । वोचम् ।

वर्धन्ताम् । द्यावः । गिरः । चन्द्रऽअग्राः । उदा। वर्धन्ताम् । अभिऽसाताः । अर्णाः ॥१४॥

"दैव्यानि देवसंबन्धीनि "पार्थिवानि पृथिवीसंबन्धीनि च "जन्म जन्मानि “अपश्च अपसा "अच्छ अभिप्राप्तुं "सुमखाय शोभनयज्ञाय मरुद्गणाय “वोचं ब्रवीमि । “गिरः स्तुतयः "वर्धन्ताम् । “द्यावः द्योतमानाः स्वप्रतिपाद्यार्थप्रकाशिन्यः "चन्द्राग्राः । आह्लादनं हिरण्यं वाग्रे यासां ताः । तादृश्यः सत्यो वर्धन्ताम् । "अर्णाः नद्यश्च "अभिषाताः मरुद्भिः संभक्ताः "उदा उदकेन वर्धन्तां समृद्धा भवन्तु ॥


प॒देप॑दे मे जरि॒मा नि धा॑यि॒ वरू॑त्री वा श॒क्रा या पा॒युभि॑श्च ।

सिष॑क्तु मा॒ता म॒ही र॒सा न॒ः स्मत्सू॒रिभि॑रृजु॒हस्त॑ ऋजु॒वनिः॑ ॥१५

प॒देऽप॑दे । मे॒ । ज॒रि॒मा । नि । धा॒यि॒ । वरू॑त्री । वा॒ । श॒क्रा । या । पा॒युऽभिः॑ । च॒ ।

सिस॑क्तु । मा॒ता । म॒ही । र॒सा । नः॒ । स्मत् । सू॒रिऽभिः॑ । ऋ॒जु॒ऽहस्ता॑ । ऋ॒जु॒ऽवनिः॑ ॥१५

पदेऽपदे। मे । जरिमा । नि । धायि । वरूत्री । वा । शुक्रा । या । पायुऽभिः । च ।

सिसक्तु । माता । मही। रसा । नः । स्मत् । सूरिऽभिः । ऋजुऽहस्ता । ऋजुऽवनिः ॥ १५ ॥

"जरिमा स्तुतिः "मे मदीया “पदेपदे तदा तदा भूमौ "नि "धायि निधीयते स्थाप्यते क्रियत इत्यर्थः । "या “च “शक्रा शक्ता सती “पायुभिः रक्षणैः “वरूत्री अस्मदुपद्रववारयित्री भवति । वाशब्दश्चार्थे । "माता सर्वस्य निर्मात्री "मही महती पूज्या "रसा सारभूता भूमिः "सिषक्तु सेवतां “नः अस्माकं स्तुतिम् । अथवा स्तुता नः अस्मान् सिषक्तु । स्मच्छब्दः प्रशस्तवचनः । प्रशस्तैः “सूरिभिः । "मेधाविभिः स्तोतृभिर्निमित्तैः । तेषां परिचर्यया प्रीतेत्यर्थः । “ऋजुहस्ता अस्मदनुकूलहस्ता “ऋजुवनिः कल्याणदाना भवतु ॥ ॥ १५ ॥


क॒था दा॑शेम॒ नम॑सा सु॒दानू॑नेव॒या म॒रुतो॒ अच्छो॑क्तौ॒ प्रश्र॑वसो म॒रुतो॒ अच्छो॑क्तौ ।

मा नोऽहि॑र्बु॒ध्न्यो॑ रि॒षे धा॑द॒स्माकं॑ भूदुपमाति॒वनिः॑ ॥१६

क॒था । दा॒शे॒म॒ । नम॑सा । सु॒ऽदानू॑न् । ए॒व॒ऽया । म॒रुतः॑ । अच्छ॑ऽउक्तौ । प्रऽश्र॑वसः । म॒रुतः॑ । अच्छ॑ऽउक्तौ ।

मा । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । रि॒षे । धा॒त् । अ॒स्माक॑म् । भू॒त् । उ॒प॒मा॒ति॒ऽवनिः॑ ॥१६

कथा । दाशेम । नमसा । सुऽदानून् । एवऽया । मरुतः ।। अच्छऽउक्तौ । प्रऽश्रवसः । मरुतः । अच्छऽउक्तौ ।

मा । नः । अहिः । बुध्न्यः । रिषे । धात् । अस्माकम् । भूत् । उपमातिऽवनिः ।। १६ ।।

वयं "कथा केन प्रकारेण "दाशेम परिचरेम “नमसा स्तोत्रेणान्नेन वा "सुदानून् शोभनदानान् “मरुतः । “एवया एवं क्रियमाणप्रकारेण “अच्छोक्तौ आभिमुख्येन वचने निमित्ते सति तान् मरुतः कथं परिचरेम । तेषां दुराराध्यत्वादिति भावः । कथम् । “प्रश्रवसः प्रकृष्टान्ना भवन्ति। "अच्छोक्तौ। अभिगन्त्र्युक्तिः स्तुतिर्यस्य तादृशे मयि । यद्वा । प्रश्रवसः प्रकृष्टान्नस्य मम अच्छोक्तौ स्तोत्रनिमित्ते सति “मरुतः कथा केन प्रकारेण दाशेम । पुनरुक्तिरादार्था । "अहिर्बुध्न्यः देवः "नः अस्मान् "रिषे हिंसकाय “मा “धात् मा स्थापयतु । स देवः "अस्माकं "भूत् भवतु "उपमातिवनिः शत्रूणां हन्ता ॥


इति॑ चि॒न्नु प्र॒जायै॑ पशु॒मत्यै॒ देवा॑सो॒ वन॑ते॒ मर्त्यो॑ व॒ आ दे॑वासो वनते॒ मर्त्यो॑ वः ।

अत्रा॑ शि॒वां त॒न्वो॑ धा॒सिम॒स्या ज॒रां चि॑न्मे॒ निरृ॑तिर्जग्रसीत ॥१७

इति॑ । चि॒त् । नु । प्र॒ऽजायै॑ । प॒शु॒ऽमत्यै॑ । देवा॑सः । वन॑ते । मर्त्यः॑ । वः॒ । आ । दे॒वा॒सः॒ । व॒न॒ते॒ । मर्त्यः॑ । वः॒ ।

अत्र॑ । शि॒वाम् । त॒न्वः॑ । धा॒सिम् । अ॒स्याः । ज॒राम् । चि॒त् । मे॒ । निःऽऋ॑तिः । ज॒ग्र॒सी॒त॒ ॥१७

इति । चित् । नु । प्रऽजायै । पशुऽमत्यै । देवासः । वनते । मर्त्यः । वः। आ । देवासः । वनते । मर्त्यः । वः।।

अत्र । शिवाम् । तन्वः । धासिम् । अस्याः । जराम् । चित् । मे। निःऽऋतिः । जग्रसीत ॥ १७ ॥

हे "देवासः देवाः "वः युष्मान् "इति "चित् इत्थमेव “नु क्षिप्रं "प्रजायै "पशुमत्यै पशुसहितायापत्याय “वनते भजते “मर्त्यः मनुष्यो यजमानः । "आ "देवासः इति पुनरुक्तिरादरार्था। “अत्र अस्मिन् यज्ञे "शिवां “धासिम् अन्नं "मे मम “अस्याः “तन्वः देवैरनुगृहीतस्य पुत्रस्य करोतु निर्ऋतिः देवता । "जरां “चित् जरां च "जग्रसीत ग्रसतु ॥


तां वो॑ देवाः सुम॒तिमू॒र्जय॑न्ती॒मिष॑मश्याम वसव॒ः शसा॒ गोः ।

सा नः॑ सु॒दानु॑र्मृ॒ळय॑न्ती दे॒वी प्रति॒ द्रव॑न्ती सुवि॒ताय॑ गम्याः ॥१८

ताम् । वः॒ । दे॒वाः॒ । सु॒ऽम॒तिम् । ऊ॒र्जय॑न्तीम् । इष॑म् । अ॒श्या॒म॒ । व॒स॒वः॒ । शसा॑ । गोः ।

सा । नः॒ । सु॒ऽदानुः॑ । मृ॒ळय॑न्ती । दे॒वी । प्रति॑ । द्रव॑न्ती । सु॒वि॒ताय॑ । ग॒म्याः॒ ॥१८

ताम् । वः । देवाः । सुऽमतिम् । ऊर्जयन्तीम् । इषम् । अश्याम । वसवः । शसा । गोः ।।

सा । नः । सुऽदानुः । मृळयन्ती । देवी । प्रति । द्रवन्ती । सुविताय । गम्याः ॥ १८ ॥

हे "देवाः हे वसवः वासयितारः “वः युष्माकं स्वभूतां "तां प्रसिद्धां "सुमतिं शोभनमननसाधनाम् । अन्नेन मतिवृद्धिः ‘अन्नमयं हि सोम्य मनः ' ( छा. उ. ६. ५. ४ ) इत्यादिषु प्रसिद्धा । “ऊर्जयन्तीं बलकरीम् "इषम् एषणसाधनमन्नं क्षीरदध्यादिलक्षणं "शसा स्तुत्या "गोः सकाशात् "अश्याम प्राप्नुयाम । "सा देवी "नः अस्मान् “सुविताय सुखाय “प्रति "गम्याः। प्रतिगम्यात् अभिगच्छेत् । सा इड्देवता विशेष्यते । "सुदानुः शोभनदाना “मृळयन्ती सुखयन्ती “द्रवन्ती अस्मदभिमुखं गच्छन्ती ॥


अ॒भि न॒ इळा॑ यू॒थस्य॑ मा॒ता स्मन्न॒दीभि॑रु॒र्वशी॑ वा गृणातु ।

उ॒र्वशी॑ वा बृहद्दि॒वा गृ॑णा॒नाभ्यू॑र्ण्वा॒ना प्र॑भृ॒थस्या॒योः ॥१९

अ॒भि । नः॒ । इळा॑ । यू॒थस्य॑ । मा॒ता । स्मत् । न॒दीभिः॑ । उ॒र्वशी॑ । वा॒ । गृ॒णा॒तु॒ ।

उ॒र्वशी॑ । वा॒ । बृ॒ह॒त्ऽदि॒वा । गृ॒णा॒ना । अ॒भि॒ऽऊ॒र्ण्वा॒ना । प्र॒ऽभृ॒थस्य॑ । आ॒योः ॥१९

अभि । नः । इळा । यूथस्य । माता । स्मत् । नदीभिः । उर्वशी । वा। गृणातु ।

उर्वशी । वा । बृहत्ऽदिवा । गृणाना । अभिऽऊर्ण्वाना । प्रऽभृथस्य । आयोः ॥ १९॥

“अभि “गृणातु "नः अस्मान् "इळा भूमिः "यूथस्य गोसंघस्य "माता निर्मात्री । यद्वा इळा गोरूपधरा मनोः पुत्रीत्याहुः । यद्वा यूथस्य मरुद्गणस्य निर्मात्रीला माध्यमिकी वाक् । अथवा "उर्वशी माध्यमिकी वाक् । "नदीभिः गङ्गादिभिः सह गृणातु । स्मच्छब्दः प्रशम्तवचन इत्युक्तम् । प्राशस्त्यं गृणातु । "वा अथवा “उर्वशी "बृहद्दिवा प्रभूतदीप्तिः "गृणाना शब्दयन्त्यस्मदीयं कर्म प्रशंसन्ती “अभ्यूर्ण्वाना आच्छादयन्ती । कम् । आयोः आयुं मनुष्यं यजमानम् । केन । "प्रभृथस्य तेजसो वोदकस्य वा दानेन । ‘प्रभृथस्य तेजसो वोदकस्य ' ( निरु. ११. ४९ ) इति निरुक्तम् । अथवा प्रभृथस्य प्रभरणवत आयोर्यज्ञमभ्यूर्ण्वानाच्छादयन्ती ॥


सिष॑क्तु न ऊर्ज॒व्य॑स्य पु॒ष्टेः ॥२०

सिस॑क्तु । नः॒ । ऊ॒र्ज॒व्य॑स्य । पु॒ष्टेः ॥२०

सिसक्तु । नः । ऊर्जव्यस्य । पुष्टेः ॥ २० ॥

“ऊर्जव्यस्य एतन्नामकस्य राज्ञः "पुष्टेः पोषकस्य संबन्धिनः "नः अस्मान् "सिषक्तु सेवताम् । सामर्थ्याद्देवसंघ इति गम्यते । अथवोर्वशी मरुद्गणो वा गृह्यते प्रकृतत्वादिति ॥ ॥ १६ ॥


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.४१&oldid=209177" इत्यस्माद् पुनः प्राप्तिः