ऋग्वेदः सूक्तं ५.४०
← सूक्तं ५.३९ | ऋग्वेदः - मण्डल ५ सूक्तं ५.४० भौमोऽत्रिः |
सूक्तं ५.४१ → |
दे. इन्द्रः, ५ सूर्यः, ६-९ अत्रिः। १-३ उष्णिक्, ५, ९ अनुष्टुप्, ४, ६-८ त्रिष्टुप्। |
आ याह्यद्रिभिः सुतं सोमं सोमपते पिब ।
वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥१॥
वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः ।
वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥२॥
वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः ।
वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥३॥
ऋजीषी वज्री वृषभस्तुराषाट् छुष्मी राजा वृत्रहा सोमपावा ।
युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यंदिने सवने मत्सदिन्द्रः ॥४॥
यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः ।
अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः ॥५॥
स्वर्भानोरध यदिन्द्र माया अवो दिवो वर्तमाना अवाहन् ।
गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्ददत्रिः ॥६॥
मा मामिमं तव सन्तमत्र इरस्या द्रुग्धो भियसा नि गारीत् ।
त्वं मित्रो असि सत्यराधास्तौ मेहावतं वरुणश्च राजा ॥७॥
ग्राव्णो ब्रह्मा युयुजानः सपर्यन्कीरिणा देवान्नमसोपशिक्षन् ।
अत्रिः सूर्यस्य दिवि चक्षुराधात्स्वर्भानोरप माया अघुक्षत् ॥८॥
यं वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः ।
अत्रयस्तमन्वविन्दन्नह्यन्ये अशक्नुवन् ॥९॥
सायणभाष्यम्
‘आ याह्यद्रिभिः ' इति नवर्चमष्टमं सूक्तम् । अत्रेयमनुक्रमणिका---- आ याहि नव त्र्युष्णिगाद्यन्त्यानुष्टुम्मध्ये च सा सौरी तदादीतिहासः स्तुतिकर्मत्वादत्रिर्दैवतैव' इति । कृत्स्नस्य ऋषिश्चान्यस्मात् ' (अनु. १२.२) इति परिभाषया अत्रिर्ऋषिः। आद्यास्तिस्र उष्णिहः पञ्चमीनवम्यावनुष्टुभौ शिष्टाश्चतस्रस्त्रिष्टुभः । अत्रेः स्तूयमानत्वात् षष्ठयाद्याः अत्रिदेवताकाः अत्र्यार्षेयाश्च पञ्चमी सूर्यदेवत्या शिष्टा ऐन्द्र्यः । दशरात्रे तृतीयेऽहनि प्रउगशस्त्रे आद्यस्तृच ऐन्द्रः पञ्चमः । सूत्रितं च---‘आ याह्यद्रिभिः सुतं सजूर्विश्वेभिर्देवेभिः ' ( आश्व. श्रौ. ७. १० ) इति । महाव्रतेऽप्यौष्णिहतृचाशीतावयं तृचः ॥
आ या॒ह्यद्रि॑भिः सु॒तं सोमं॑ सोमपते पिब ।
वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥१
आ । या॒हि॒ । अद्रि॑ऽभिः । सु॒तम् । सोम॑म् । सो॒म॒ऽप॒ते॒ । पि॒ब॒ ।
वृष॑न् । इ॒न्द्र॒ । वृष॑ऽभिः । वृ॒त्र॒ह॒न्ऽत॒म॒ ॥१
आ। याहि । अद्रिऽभिः । सुतम् । सोमम् । सोमऽपते । पिब ।।
वृषन् । इन्द्र । वृषऽभिः । वृत्रहन्ऽतम ॥ १ ॥
हे इन्द्र “आ “याहि अस्मद्यज्ञमागच्छ । आगत्य च हे “सोमपते सोमस्य स्वामिन्निन्द्र “अद्रिभिः ग्रावभिः “सुतं अभिषुतं “सोमं पिब । हे "वृषन् फलस्य वर्षयितः “वृत्रहन्तम अतिशयेन शत्रूणां हन्तृतम "वृषभिः वर्षकैर्मरुद्भिः सहा याहि पिब च ।।
वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः ।
वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥२
वृषा॑ । ग्रावा॑ । वृषा॑ । मदः॑ । वृषा॑ । सोमः॑ । अ॒यम् । सु॒तः ।
वृष॑न् । इ॒न्द्र॒ । वृष॑ऽभिः । वृ॒त्र॒ह॒न्ऽत॒म॒ ॥२
वृषा । ग्रावा । वृषा । मदः । वृषा । सोमः । अयम् । सुतः ।
वृषन् । इन्द्र । वृषऽभिः । वृत्रहन्ऽतम ॥ २ ॥
“ग्रावा अभिषवसाधनः पाषाणः “वृषा वर्षकः सोमरसस्य फलस्य वा। "मदः सोमपानेन जनितः “वृषा वर्षकः । “अयं "सुतः अभिषुतः “सोमः "वृषा । तं सोमं “वृषभिः सह पिब ।।
वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभिः॑ ।
वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥३
वृषा॑ । त्वा॒ । वृष॑णम् । हु॒वे॒ । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ।
वृष॑न् । इ॒न्द्र॒ । वृष॑ऽभिः । वृ॒त्र॒ह॒न्ऽत॒म॒ ॥३
वृषा । त्वा । वृषणम् । हुवे । वज्रिन् । चित्राभिः । ऊतिऽभिः ।
वृषन् । इन्द्र । वृषऽभिः । वृत्रहन्ऽतम ॥ ३ ॥
हे “वज्रिन् वज्रवन् “इन्द्र “वृषा सोमरसस्य सेक्ताहं “वृषणं त्वां “हुवे आह्वयामि । किमर्थम् । “चित्राभिः चायनीयाभिः "ऊतिभिः रक्षाभिर्निमित्तभूताभिः । शिष्टं गतम् ॥
‘ऋजीषी वज्री ' इत्येषा ब्राह्मणाच्छंसिनः शस्त्रयाज्या।' ऋजीषी वज्री वृषभस्तुराषाळिति याज्या ' ( आश्व. श्रौ. ५, १६ ) इति हि सूत्रितम् ॥
ऋ॒जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट् छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑ ।
यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्यं॑दिने॒ सव॑ने मत्स॒दिन्द्रः॑ ॥४
ऋ॒जी॒षी । व॒ज्री । वृ॒ष॒भः । तु॒रा॒षाट् । शु॒ष्मी । राजा॑ । वृ॒त्र॒ऽहा । सो॒म॒ऽपावा॑ ।
यु॒क्त्वा । हरि॑ऽभ्याम् । उप॑ । या॒स॒त् । अ॒र्वाङ् । माध्य॑न्दिने । सव॑ने । म॒त्स॒त् । इन्द्रः॑ ॥४
ऋजीषी । वज्री । वृषभः । तुराषाट् । शुष्मी । राजा । वृत्रऽहा । सोमऽपावा ।
युक्त्वा । हरिऽभ्याम् । उप । यासत् । अर्वाङ् । माध्यंदिने । सवने । मत्सत् । इन्द्रः ॥ ४ ॥
“ऋजीषी । सवनद्वयेऽभिषुतस्य गतसारस्य सोमस्य तृतीयसवने आप्यायाभिषुतः योऽस्ति स ऋजीषः सोमः । सोऽस्यास्तीत्यृजीषी । “वज्री वज्रवान् “वृषभः वर्षिता “तुराषाट् तुराणां त्वरमाणानां शत्रूणां सोढा “शुष्मी बलवान् “राजा ईश्वरः सर्वस्य "वृत्रहा वृत्रस्य हन्ता “सोमपावा सोमरसस्य पाता एवं महानुभाव इन्द्रः “हरिभ्यां “युक्त्वा रथं योजयित्वा “उप “यासत् उपगच्छतु । "अर्वाङ् अस्मदभिमुखमागच्छतु । आगत्य च “माध्यंदिने “सवने मत्सत् माद्यतु सोमेन “इन्द्रः ॥
यत्त्वा॑ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।
अक्षे॑त्रवि॒द्यथा॑ मु॒ग्धो भुव॑नान्यदीधयुः ॥५
यत् । त्वा॒ । सू॒र्य॒ । स्वः॑ऽभानुः । तम॑सा । अवि॑ध्यत् । आ॒सु॒रः ।
अक्षे॑त्रऽवित् । यथा॑ । मु॒ग्धः । भुव॑नानि । अ॒दी॒ध॒युः॒ ॥५
यत् । त्वा । सूर्य । स्वःऽभानुः । तमसा । अविध्यत् । आसुरः ।
अक्षेत्रऽवित्। यथा । मुग्धः । भुवनानि । अदीधयुः ॥ ५ ॥
इदमादिचतुर्भिर्मन्त्रैः अत्रीणां कर्म कीर्त्यते । हे “सूर्य प्रेरक देव “त्वा त्वां “यत् यदा "आसुरः असुरस्य प्राणापहर्तुरसुर्या वा पुत्रः “स्वर्भानुः स्वर्भानुसंज्ञकः “तमसा मायानिर्मितेन “अविध्यत् आवृणोदित्यर्थः । तदा “भुवनानि सर्वाणि "अदीधयुः दृश्यन्ते । “यथा तत्रत्यः सर्वो जनः “अक्षेत्रवित् स्वस्वस्थानमजानन् “मुग्धः मूढो भवति तथा ॥ ॥ ११ ॥
स्व॑र्भानो॒रध॒ यदि॑न्द्र मा॒या अ॒वो दि॒वो वर्त॑माना अ॒वाह॑न् ।
गू॒ळ्हं सूर्यं॒ तम॒साप॑व्रतेन तु॒रीये॑ण॒ ब्रह्म॑णाविन्द॒दत्रिः॑ ॥६
स्वः॑ऽभानोः । अध॑ । यत् । इ॒न्द्र॒ । मा॒या । अ॒वः । दि॒वः । वर्त॑मानाः । अ॒व॒ऽअह॑न् ।
गू॒ळ्हम् । सूर्य॑म् । तम॑सा । अप॑ऽव्रतेन । तु॒रीये॑ण । ब्रह्म॑णा । अ॒वि॒न्द॒त् । अत्रिः॑ ॥६
स्वःऽभानोः । अध । यत् । इन्द्र । मायाः ! अवः । दिवः । वर्तमानाः । अवऽअहन् ।
गूळ्हम् । सूर्यम् । तमसा । अपऽव्रतेन । तुरीयेण । ब्रह्मणा । अविन्दत् । अत्रिः ॥ ६ ॥
“अध अथ जगन्मौढ्यानन्तरं “स्वर्भानोः असुरस्य “यत् याः “मायाः सन्ति । कीदृश्यस्ताः ।। “दिवः द्योतमानादादित्यात् “अवः अवस्तात् वर्तमानाः । तदुपरितिरोधानासामर्थ्यादिति भावः । हे "इन्द्र ताः सर्वाः "अवाहन अवहंसि । अथात्रेरेव परोक्षवादः । "तमसा अन्धकारेण "अपव्रतेन अपगतकर्मणा "गूळ्हं "सूर्यम् । अन्धकारस्यावरणरूपत्वादपव्रतत्वम् । तथाविधं "तुरीयेण “ब्रह्मणा ‘ग्राव्णो ब्रह्मा' इत्यनेन "अत्रिः "अविन्दत् लब्धवान् । आवरणापगमोपायं निरावरणं शुद्धं वा सूर्यमिति । पूर्वमन्त्रापेक्षया अस्य तुरीयत्वम् । एकैकं मायांशमेकैकेन मन्त्रेणापनोद्य चतुर्थेन मन्त्रेण निलीनं तमोऽप्यनुददित्यर्थः ॥
मा मामि॒मं तव॒ सन्त॑मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा॑रीत् ।
त्वं मि॒त्रो अ॑सि स॒त्यरा॑धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा॑ ॥७
मा । माम् । इ॒मम् । तव॑ । सन्त॑म् । अ॒त्रे॒ । इ॒र॒स्या । द्रु॒ग्धः । भि॒यसा॑ । नि । गा॒री॒त् ।
त्वम् । मि॒त्रः । अ॒सि॒ । स॒त्यऽरा॑धाः । तौ । मा॒ । इ॒ह । अ॒व॒त॒म् । वरु॑णः । च॒ । राजा॑ ॥७
मा । माम् । इमम् । तव । सन्तम् । अत्रे । इरस्या। द्रुग्धः । भियसा । नि । गारीत् ।
त्वम् । मित्रः । असि । सत्यऽराधाः । तौ । मा । इह । अवतम् । वरुणः । च । राजा ॥७॥
इदं सूर्यवाक्यम् । हे "अत्रे मामिमम् ईदृगवस्थं मां “तव "सन्तं तव स्वभूतम् “इरस्या अन्नेच्छया "द्रुग्धः द्रोग्धासुरः "भियसा भयजनकेन तमसा “मा “नि “गारीत् मा गिरतु । किंच हे मित्र “त्वं “मित्रः असि । प्रमीतेः सकाशात् त्राता भवसि । "सत्यराधाः सत्यधनश्च । "तौ “राजा “वरुणश्च त्वं च तौ युवां “मा माम् "इहावतं रक्षतम् । यद्वा । अत्रिरेव मित्र उच्यते । स च वरुणश्च युवाम् ॥
ग्राव्णो॑ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन्की॒रिणा॑ दे॒वान्नम॑सोप॒शिक्ष॑न् ।
अत्रि॒ः सूर्य॑स्य दि॒वि चक्षु॒राधा॒त्स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत् ॥८
ग्राव्णः॑ । ब्र॒ह्मा । यु॒यु॒जा॒नः । स॒प॒र्यन् । की॒रिणा॑ । दे॒वान् । नम॑सा । उ॒प॒ऽशिक्ष॑न् ।
अत्रिः॑ । सूर्य॑स्य । दि॒वि । चक्षुः॑ । आ । अ॒धा॒त् । स्वः॑ऽभानोः । अप॑ । मा॒याः । अ॒घु॒क्ष॒त् ॥८
ग्राव्णः । ब्रह्मा । युयुजानः । सपर्यन् । कीरिणा । देवान् । नमसा । उपऽशिक्षन् ।
अत्रिः । सूर्यस्य । दिवि । चक्षुः । आ । अधात् । स्वःऽभानोः । अप । मायाः । अघुक्षत् ॥८॥
"ब्रह्मा ब्राह्मणः "अत्रिः “ग्राव्णः अभिषवसाधनानि "युयुजानः युञ्जन् । इन्द्रार्थं सोममभिषुण्वन्नित्यर्थः। तथा "कीरिणा । कीर्यते विक्षिप्यते इति कीरि स्तोत्रम् । तेन "देवान् "सपर्यन् पूजयन् किंच "नमसा अनेन हविर्लक्षणेन नमस्कारेण वा “उपशिक्षन् । शिक्षतिर्दानार्थोऽत्र प्रसाधने वर्तते । प्रसाधयन् एवमुक्तैः साधनैः "सूर्यस्य सर्वप्रेरकस्य "चक्षुः सर्वस्य ख्यापकं मण्डलं "दिवि अन्तरिक्षे “आधात् । निस्तमस्कं कृतवानित्यर्थः । तदेव स्पष्टयति । "स्वर्भानोः एतन्नामकस्यासुरस्य "मायाः । स्वाश्रयमव्यामोहयन्ती परांस्तु तथा कुर्वती मायेत्युच्यते । तादृशीर्मायाः। यत्तुरीयेण ब्रह्मणेत्युक्तम् । तदेतदुक्तं तुरीयं ब्रह्म । तेनात्रिसहाय इन्द्रः "अप "अघुक्षत् अपजुगोप न्यवारयदित्यर्थः । अथवा तृतीयपाद एवं व्याख्येयः । सूर्यस्य दिवि पूर्वमावृते प्रकाशे तदपनोद्य स्वकीयं चक्षुराधात् । निरावरणं तेजःसंस्त्यायं दृष्टवानित्यर्थः । स्वर्भानुमायया सूर्यस्यावृतिर्हारिद्रविके समाम्नाता--- ‘स्वर्भानुश्चासुरः सूर्यं तमसाविध्यत्तस्मै देवाः प्रायश्चित्तमैच्छन् तस्य यत्प्रथमं तमोऽपाघ्नन् सा कृष्णाविरभवत् यद् द्वितीयं सा फाल्गुनी यत्तृतीयं सा वलक्षी यदध्यस्थादपाकृन्तन्' इत्यादि ।
यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।
अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॒॑न्ये अश॑क्नुवन् ॥९
यम् । वै । सूर्य॑म् । स्वः॑ऽभानुः । तम॑सा । अवि॑ध्यत् । आ॒सु॒रः ।
अत्र॑यः । तम् । अनु॑ । अ॒वि॒न्द॒न् । न॒हि । अ॒न्ये । अश॑क्नुवन् ॥९
यम् । वै । सूर्यम् । स्वःऽभानुः । तमसा । अविध्यत् । आसुरः ।
अत्रयः । तम् । अनु । अविन्दन् । नहि । अन्ये । अशक्नुवन् ॥ ९ ॥
अत्रिकृतं सामर्थ्यमनुवदति “यं "वै "सूर्यम् इति । निगदव्याख्यैषा । "अत्रयस्तं सूर्यम् “अन्वविन्दन् इन्द्रार्थं सोमयागदेवतास्तुतिनमस्कारैरनुक्रमेणेषदीषत् तमोऽवरुध्य लब्धवन्त इत्यर्थः । “अन्ये "नहि "अशक्नुवन् न लब्धवन्तः खलु ॥ ॥ १२ ॥
टिप्पणी
याह्यद्रिभिः सुतं सजूर्विश्वेभिर्देवेभिरुत नः प्रिया प्रियास्वित्यौष्णिहं प्रउगं समानोदर्कं तृतीयेऽहनि तृतीयस्याह्नो रूपं - AB.5. 1.12;
AA.5.2.5.2;
आश्व.श्रौ.7.10.5;
महाव्रतप्रकरणम् - य एक इद्विदयत आ याह्यद्रिभिः सुतमिति द्वे तृचे - शांश्रौ.18.12.6.
दशरात्रे तृतीयमहः - आ याह्यद्रिभिः सजूर्विश्वेभिर्देवेभिरुत नः प्रियेति प्रउगतृचानि - शांश्रौ. 10.4.5.
मण्डल ५ | ||||
---|---|---|---|---|