ऋग्वेदः सूक्तं ५.६०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.५९ ऋग्वेदः - मण्डल ५
सूक्तं ५.६०
श्यावाश्व आत्रेयः
सूक्तं ५.६१ →
दे. मरुतोऽग्नमरुतौ वा। त्रिष्टुप्, ७-८ जगती।


ईळे अग्निं स्ववसं नमोभिरिह प्रसत्तो वि चयत्कृतं नः ।
रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणिन्मरुतां स्तोममृध्याम् ॥१॥
आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु ।
वना चिदुग्रा जिहते नि वो भिया पृथिवी चिद्रेजते पर्वतश्चित् ॥२॥
पर्वतश्चिन्महि वृद्धो बिभाय दिवश्चित्सानु रेजत स्वने वः ।
यत्क्रीळथ मरुत ऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे ॥३॥
वरा इवेद्रैवतासो हिरण्यैरभि स्वधाभिस्तन्वः पिपिश्रे ।
श्रिये श्रेयांसस्तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु ॥४॥
अज्येष्ठासो अकनिष्ठास एते सं भ्रातरो वावृधुः सौभगाय ।
युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः ॥५॥
यदुत्तमे मरुतो मध्यमे वा यद्वावमे सुभगासो दिवि ष्ठ ।
अतो नो रुद्रा उत वा न्वस्याग्ने वित्ताद्धविषो यद्यजाम ॥६॥
अग्निश्च यन्मरुतो विश्ववेदसो दिवो वहध्व उत्तरादधि ष्णुभिः ।
ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते ॥७॥
अग्ने मरुद्भिः शुभयद्भिरृक्वभिः सोमं पिब मन्दसानो गणश्रिभिः ।
पावकेभिर्विश्वमिन्वेभिरायुभिर्वैश्वानर प्रदिवा केतुना सजूः ॥८॥


सायणभाष्यम्

‘ ईळे अग्निं स्ववसम्' इत्यष्टर्चं चतुर्थं सूक्तं श्यावाश्वस्यार्षम् । सप्तम्यष्टम्यौ जगत्यौ शिष्टाः षट् त्रिष्टुभः । मरुद्देवताकमग्निमरुद्देवताकं वा । ईळे द्विजगत्यन्तमाग्नेयं च वा ' इति । सूक्तविनियोगो लैङ्गिकः । आद्या कारीर्यां सामिधेनीषु याज्या । सूत्रितं च--- ईळे अग्निं स्ववसं नमोभिरिति धाय्ये ' ( आश्व. श्रौ. २. १३ ) इति ॥


ईळे॑ अ॒ग्निं स्वव॑सं॒ नमो॑भिरि॒ह प्र॑स॒त्तो वि च॑यत्कृ॒तं न॑ः ।

रथै॑रिव॒ प्र भ॑रे वाज॒यद्भि॑ः प्रदक्षि॒णिन्म॒रुतां॒ स्तोम॑मृध्याम् ॥१

ईळे॑ । अ॒ग्निम् । सु॒ऽअव॑सम् । नमः॑ऽभिः । इ॒ह । प्र॒ऽस॒त्तः । वि । च॒य॒त् । कृ॒तम् । नः॒ ।

रथैः॑ऽइव । प्र । भ॒रे॒ । वा॒ज॒यत्ऽभिः॑ । प्र॒ऽद॒क्षि॒णित् । म॒रुता॑म् । स्तोम॑म् । ऋ॒ध्या॒म् ॥१

ईळे । अग्निम् । सुऽअवसम् । नमःऽभिः । इह । प्रऽसत्तः । वि । चयत् । कृतम् । नः ।

रथैःऽइव । प्र । भरे । वाजयत्ऽभिः । प्रऽदक्षिणित् । मरुताम् । स्तोमम् । ऋध्याम् ॥१

अहं श्यावाश्वः “अग्निं “स्ववसं स्वायत्तरक्षणं “नमोभिः स्तोत्रैः “ईळे स्तौमि । तत्स्तोत्रं “कृतम् “इह इदानीं “प्रसत्तः प्रसन्नः प्रकर्षेण यज्ञं प्राप्तो वा सन् “नः अस्मदर्थं “वि “चयत् विजानातु । "वाजयद्भिः अन्नमिच्छद्भिः स्तोत्रैः “रथैरिव रथैर्यथाभिमतं प्राप्नुवन्ति तद्वद्रंहणसाधनैः “प्र “भरे प्रकर्षेण संपादयाम्यभिमतम् । प्रदक्षिणित् प्रादक्षिण्येन गच्छन् “मरुतां “स्तोमं स्तोत्रम् “ऋध्यां वर्धयेयम् ॥


आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे॑षु ।

वना॑ चिदुग्रा जिहते॒ नि वो॑ भि॒या पृ॑थि॒वी चि॑द्रेजते॒ पर्व॑तश्चित् ॥२

आ । ये । त॒स्थुः । पृष॑तीषु । श्रु॒तासु॑ । सु॒ऽखेषु॑ । रु॒द्राः । म॒रुतः॑ । रथे॑षु ।

वना॑ । चि॒त् । उ॒ग्राः॒ । जि॒ह॒ते॒ । नि । वः॒ । भि॒या । पृ॒थि॒वी । चि॒त् । रे॒ज॒ते॒ । पर्व॑तः । चि॒त् ॥२

आ । ये । तस्थुः । पृषतीषु । श्रुतासु । सुऽखेषु । रुद्राः । मरुतः । रथेषु ।

वना । चित् । उग्राः । जिहते । नि । वः । भिया । पृथिवी । चित् । रेजते । पर्वतः । चित् ॥२

"ये “मरुतः "रुद्राः रुद्रपुत्राः “आ “तस्थुः आतिष्ठन्ति “पृषतीषु मरुतां वाहनेषु “श्रुतासु श्रान्तासु प्रसिद्धासु वा "सुखेषु । खमाकाशं छिद्रम् । शोभनरथाक्षद्वारेषु “रथेषु रथान् आ तस्थुः आतिष्ठन्ति । हे “उग्राः उद्गूर्णबला मरुतो यूयं यदा रथमारूढाः स्थ तदानीं “वना “चित् वनान्यपि “नि “जिहते न्यग्गच्छन्ति “वः युष्माकं “भिया भीत्या । “पृथिवी “चित् पृथिव्यपि “रेजते । “पर्वतश्चित् पर्वतोऽपि रेजते कम्पते । उत्तरार्ध: प्रत्यक्षकृतः । पूर्वार्धे य एवमकुर्वन् तेषां स्तोममृध्यामिति पूर्वत्रान्वयः ॥


कारीर्याँ मारुतस्य सप्तकपालस्य ‘पर्वतश्चित्' इत्येषा याज्या । सूत्रितं च - पर्वतश्चिन्महि वृद्धो बिभाय सृजन्ति रश्मिमोजसा ' ( आश्व. श्रौ. २. १३) इति ।।

पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने व॑ः ।

यत्क्रीळ॑थ मरुत ऋष्टि॒मन्त॒ आप॑ इव स॒ध्र्य॑ञ्चो धवध्वे ॥३

पर्व॑तः । चि॒त् । महि॑ । वृ॒द्धः । बि॒भा॒य॒ । दि॒वः । चि॒त् । सानु॑ । रे॒ज॒त॒ । स्व॒ने । वः॒ ।

यत् । क्रीळ॑थ । म॒रु॒तः॒ । ऋ॒ष्टि॒ऽमन्तः॑ । आपः॑ऽइव । स॒ध्र्य॑ञ्चः । ध॒व॒ध्वे॒ ॥३

पर्वतः । चित् । महि । वृद्धः । बिभाय । दिवः । चित् । सानु । रेजत । स्वने । वः ।

यत् । क्रीळथ । मरुतः । ऋष्टिऽमन्तः । आपःऽइव । सध्र्यञ्चः । धवध्वे ॥३

हे मरुतः “वः युष्माकं “स्वने भयंकरशब्दे सति “पर्वतश्चित् पर्वतोऽपि "महि महान् “वृद्धः सन्नपि “बिभाय बिभेति । "दिवश्चित् अन्तरिक्षस्यापि “सानु समुच्छ्रितः प्रदेशः “रेजत कम्पते । “यत् यदा “क्रीळथ हे “मरुतः यूयम् “ऋष्टिमन्तः आयुधवन्तः सन्तस्तदा “आपइव उदकानीव “सध्र्यञ्चः सहाञ्चनाः “धवध्वे धावध्वे गच्छथ ।।


व॒रा इ॒वेद्रै॑व॒तासो॒ हिर॑ण्यैर॒भि स्व॒धाभि॑स्त॒न्व॑ः पिपिश्रे ।

श्रि॒ये श्रेयां॑सस्त॒वसो॒ रथे॑षु स॒त्रा महां॑सि चक्रिरे त॒नूषु॑ ॥४

व॒राःऽइ॑व । इत् । रै॒व॒तासः॑ । हिर॑ण्यैः । अ॒भि । स्व॒धाभिः॑ । त॒न्वः॑ । पि॒पि॒श्रे॒ ।

श्रि॒ये । श्रेयां॑सः । त॒वसः॑ । रथे॑षु । स॒त्रा । महां॑सि । च॒क्रि॒रे॒ । त॒नूषु॑ ॥४

वराःऽइव । इत् । रैवतासः । हिरण्यैः । अभि । स्वधाभिः । तन्वः । पिपिश्रे ।

श्रिये । श्रेयांसः । तवसः । रथेषु । सत्रा । महांसि । चक्रिरे । तनूषु ॥४

“वराइव विवाहयोग्या युवान इव । ते यथा “रैवतासः धनवन्तः “हिरण्यैः हिरण्यमयैराभरणविशेषैः “स्वधाभिः उदकैश्च “तन्वः स्वीयानि शरीराणि "अभि “पिपिश्रे संयोजयन्ति अलंकुर्वन्ति तद्वदेते मरुतोऽपि रैवतासः धनवन्तः हिरण्यैः हिरण्यस्थानीयैर्विद्युदाख्यैराभरणैः स्वधाभिश्च तन्वः स्वीयानि शरीराणि पिपिश्रे । "श्रिये शोभायै “श्रेयांसः श्रेष्ठाः “तवसः बलवन्तो मरुतः “रथेषु “सत्रा सत्यं सह वा “तनूषु “महांसि “चक्रिरे कृतवन्तः । सर्वाभरणैरुदकैश्चोपेताः रथानधिष्ठाय शरीरेषु तेजांस्यधारयन्नित्यर्थः ।।


अ॒ज्ये॒ष्ठासो॒ अक॑निष्ठास ए॒ते सं भ्रात॑रो वावृधु॒ः सौभ॑गाय ।

युवा॑ पि॒ता स्वपा॑ रु॒द्र ए॑षां सु॒दुघा॒ पृश्नि॑ः सु॒दिना॑ म॒रुद्भ्य॑ः ॥५

अ॒ज्ये॒ष्ठासः॑ । अक॑निष्ठासः । ए॒ते । सम् । भ्रात॑रः । व॒वृ॒धुः॒ । सौभ॑गाय ।

युवा॑ । पि॒ता । सु॒ऽअपाः॑ । रु॒द्रः । ए॒षा॒म् । सु॒ऽदुघा॑ । पृश्निः॑ । सु॒ऽदिना॑ । म॒रुत्ऽभ्यः॑ ॥५

अज्येष्ठासः । अकनिष्ठासः । एते । सम् । भ्रातरः । ववृधुः । सौभगाय ।

युवा । पिता । सुऽअपाः । रुद्रः । एषाम् । सुऽदुघा । पृश्निः । सुऽदिना । मरुत्ऽभ्यः ॥५

"अज्येष्ठासः “अकनिष्ठासः परस्परं ज्येष्ठकनिष्ठभावरहिताः सहैवोत्पन्नाः समानबलाः “एते मरुतः “भ्रातरः परस्परं भ्रातृभूताः सन्तः “सौभगाय सुभगत्वाय "सं “ववृधुः वर्धन्ते । “युवा नित्यतरुणः “स्वपाः शोभनकर्मा “एषां मरुतां "रुद्रः “पिता “सुदुघा सुष्ठु दोग्ध्री “पृश्निः गोदेवता मातृभूता "मरुद्भ्यः मरुदर्थं “सुदिना शोभनदिनानि । अकुरुतामिति शेषः ॥


यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॒ यद्वा॑व॒मे सु॑भगासो दि॒वि ष्ठ ।

अतो॑ नो रुद्रा उ॒त वा॒ न्व१॒॑स्याग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑म ॥६

यत् । उ॒त्ऽत॒मे । म॒रु॒तः॒ । म॒ध्य॒मे । वा॒ । यत् । वा॒ । अ॒व॒मे । सु॒ऽभ॒गा॒सः॒ । दि॒वि । स्थ ।

अतः॑ । नः॒ । रु॒द्राः॒ । उ॒त । वा॒ । नु । अ॒स्य॒ । अग्ने॑ । वि॒त्तात् । ह॒विषः॑ । यत् । यजा॑म ॥६

यत् । उत्ऽतमे । मरुतः । मध्यमे । वा । यत् । वा । अवमे । सुऽभगासः । दिवि । स्थ ।

अतः । नः । रुद्राः । उत । वा । नु । अस्य । अग्ने । वित्तात् । हविषः । यत् । यजाम ॥६

हे “मरुतः यूयं “यदुत्तमे उत्कृष्टे उत्तम चरमे वा “दिवि द्युलोके “मध्यमे “वा दिवि “यद्वावमे दिवि हे “सुभगासः “स्थ भवथ । 'त्रयो वा इमे त्रिवृतो लोकास्तिस्रो दिवः पृथिवी ' इत्यादिश्रुतेर्द्युलोकस्य त्रैविध्यम् । “अतः अस्मात् स्थानत्रयात् “नः अस्मदर्थं हे “रुद्राः आगच्छतेति शेषः । “उत “वा अथवा "नु अद्य “यद्यजाम यद्धविः प्रक्षिपाम हे “अग्ने त्वम् “अस्य “हविषः एतद्धविः “वित्तात् विद्धि ।


अ॒ग्निश्च॒ यन्म॑रुतो विश्ववेदसो दि॒वो वह॑ध्व॒ उत्त॑रा॒दधि॒ ष्णुभि॑ः ।

ते म॑न्दसा॒ना धुन॑यो रिशादसो वा॒मं ध॑त्त॒ यज॑मानाय सुन्व॒ते ॥७

अ॒ग्निः । च॒ । यत् । म॒रु॒तः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । दि॒वः । वह॑ध्वे । उत्ऽत॑रात् । अधि॑ । स्नुऽभिः॑ ।

ते । म॒न्द॒सा॒नाः । धुन॑यः । रि॒शा॒द॒सः॒ । वा॒मम् । ध॒त्त॒ । यज॑मानाय । सु॒न्व॒ते ॥७

अग्निः । च । यत् । मरुतः । विश्वऽवेदसः । दिवः । वहध्वे । उत्ऽतरात् । अधि । स्नुऽभिः ।

ते । मन्दसानाः । धुनयः । रिशादसः । वामम् । धत्त । यजमानाय । सुन्वते ॥७

हे "विश्ववेदसः सर्वस्य ज्ञातारो विश्वधना वा हे “मरुतः “यत् यूयं “अग्निश्च “दिवः द्युलोकात् “उत्तरात उत्कृष्टतात् “अधि उपरि “स्नुभिः सानुभिरुपरिप्रदेशे “वहध्वे उह्यध्वे । तत्र निवसथेत्यर्थः । यद्वा स्नुशब्देन तत्सदृशा अश्वा उच्यन्ते । तैर्वोह्यध्वे । “ते यूयं “मन्दसानाः मोदमाना अस्मदीयैः स्तोत्रैर्हविर्भिश्च “धुनयः शत्रूणां कप्पयितारः “रिशादसः अस्मद्धिंसकानामत्तारः सन्तः “वामं वननीयं धनं “धत्त दत्त “यजमानाय “सुन्वते अभिषवं कुर्वते ।।


अग्ने॑ म॒रुद्भि॑ः शु॒भय॑द्भि॒रृक्व॑भि॒ः सोमं॑ पिब मन्दसा॒नो ग॑ण॒श्रिभि॑ः ।

पा॒व॒केभि॑र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा॑नर प्र॒दिवा॑ के॒तुना॑ स॒जूः ॥८

अग्ने॑ । म॒रुत्ऽभिः॑ । शु॒भय॑त्ऽभिः । ऋक्व॑ऽभिः । सोम॑म् । पि॒ब॒ । म॒न्द॒सा॒नः । ग॒ण॒श्रिऽभिः॑ ।

पा॒व॒केभिः॑ । वि॒श्व॒म्ऽइ॒न्वेभिः॑ । आ॒युऽभिः॑ । वैश्वा॑नर । प्र॒ऽदिवा॑ । के॒तुना॑ । स॒ऽजूः ॥८

अग्ने । मरुत्ऽभिः । शुभयत्ऽभिः । ऋक्वऽभिः । सोमम् । पिब । मन्दसानः । गणश्रिऽभिः ।

पावकेभिः । विश्वम्ऽइन्वेभिः । आयुऽभिः । वैश्वानर । प्रऽदिवा । केतुना । सऽजूः ॥८

हे “अग्ने “मरुद्भिः सह "मन्दसानः सन् "सोमं “पिब । कीदृशैः मरुद्भिः। “शुभयद्भिः शोभमानैरन्यान् शोभयद्भिर्वा “ऋक्वभिः स्तुत्यैः “गणश्रिभिः गणभावमाश्रयद्भिः “पावकेभिः शोधकैः “विश्वमिन्वेभिः विश्वं वृष्ट्या प्रणयद्भिः "आयुभिः आयुष्मद्भिः। हे "वैश्वानर विश्वनरहिताग्ने “प्रदिवा पुराणेन “केतुना ज्वालापुञ्जेन “सजूः सहितः ॥ ॥ २५ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.६०&oldid=199694" इत्यस्माद् पुनः प्राप्तिः