ऋग्वेदः सूक्तं ५.६१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ५.६१ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ५.६० ऋग्वेदः - मण्डल ५
सूक्तं ५.६१
श्यावाश्व आत्रेयः
सूक्तं ५.६२ →
दे. १-४, ११-१६ मरुतः,५-८ तरन्तमहिषी शशीयसी, ९ वैददश्विः पुरुमीळ्हः, १० वैददश्विस्तरन्तः, १७-१९ दार्भ्यो रथवीतिः । गायत्री, ३ निचृत्, ५ अनुष्टुप्, ९ सतोबृहती ।


के ष्ठा नरः श्रेष्ठतमा य एकएक आयय ।
परमस्याः परावतः ॥१॥
क्व वोऽश्वाः क्वाभीशवः कथं शेक कथा यय ।
पृष्ठे सदो नसोर्यमः ॥२॥
जघने चोद एषां वि सक्थानि नरो यमुः ।
पुत्रकृथे न जनयः ॥३॥
परा वीरास एतन मर्यासो भद्रजानयः ।
अग्नितपो यथासथ ॥४॥
सनत्साश्व्यं पशुमुत गव्यं शतावयम् ।
श्यावाश्वस्तुताय या दोर्वीरायोपबर्बृहत् ॥५॥
उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी ।
अदेवत्रादराधसः ॥६॥
वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम् ।
देवत्रा कृणुते मनः ॥७॥
उत घा नेमो अस्तुतः पुमाँ इति ब्रुवे पणिः ।
स वैरदेय इत्समः ॥८॥
उत मेऽरपद्युवतिर्ममन्दुषी प्रति श्यावाय वर्तनिम् ।
वि रोहिता पुरुमीळ्हाय येमतुर्विप्राय दीर्घयशसे ॥९॥
यो मे धेनूनां शतं वैददश्विर्यथा ददत् ।
तरन्त इव मंहना ॥१०॥
य ईं वहन्त आशुभिः पिबन्तो मदिरं मधु ।
अत्र श्रवांसि दधिरे ॥११॥
येषां श्रियाधि रोदसी विभ्राजन्ते रथेष्वा ।
दिवि रुक्म इवोपरि ॥१२॥
युवा स मारुतो गणस्त्वेषरथो अनेद्यः ।
शुभंयावाप्रतिष्कुतः ॥१३॥
को वेद नूनमेषां यत्रा मदन्ति धूतयः ।
ऋतजाता अरेपसः ॥१४॥
यूयं मर्तं विपन्यवः प्रणेतार इत्था धिया ।
श्रोतारो यामहूतिषु ॥१५॥
ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः ।
आ यज्ञियासो ववृत्तन ॥१६॥
एतं मे स्तोममूर्म्ये दार्भ्याय परा वह ।
गिरो देवि रथीरिव ॥१७॥
उत मे वोचतादिति सुतसोमे रथवीतौ ।
न कामो अप वेति मे ॥१८॥
एष क्षेति रथवीतिर्मघवा गोमतीरनु ।
पर्वतेष्वपश्रितः ॥१९॥


सायणभाष्यम्

‘ के ष्ठा नरः' इत्येकोनविंशत्यृचं पञ्चमं सूक्तम् । अत्रानुक्रमणिका- के ष्ठैकोना गायत्रं श्यावाश्वोऽत्र वैददश्वी तरन्तपुरमीळ्हौ दार्भ्यं रथवीतिं मरुतश्च दानतुष्टः प्रशशंस बुद्ध्वा च तरन्तमहिषीं शशीयसीं पञ्चम्यनुष्टुप् नवमी सतोबृहती ' इति । श्यावाश्व ऋषिः । पञ्चम्यनुष्टुप् नवमी सतोबृहती शिष्टा गायत्र्यः । आद्याश्चतस्रो मरुद्देवताकाः । ' सनत्सा ' इत्यादीनां चतसृणां शशीयसी नाम तरन्तस्य राज्ञो भार्या देवता । ‘ उत मेऽरपत्' इत्यस्या वैददश्विः पुरुमीळ्हो देवता ।' यो मे धेनूनाम्' इत्यस्या वैददश्विस्तरन्तो राजा देवता । ‘य ईं वहन्ते ' इत्याद्याः षण्मारुत्यः । एतं मे' इत्यस्य तृचस्य दार्भ्यो रथवीतिर्नाम राजा देवता । विनियोगो लैङ्गिकः ॥

अत्राश्चर्यं पुरावृत्तमाहुरागमपारगाः । अर्चनानाः पुरात्रेयो दार्भ्येण रथवीतिना ॥ आर्त्विज्याय वृतो यज्ञे वितते हौत्र आस्थितः । रथवीतिसुतां कन्यां ददर्श पितुरन्तिके ॥ ययाचे स्वकुमाराय श्यावाश्वाय च तां सुताम् । स प्रदानमना भार्यामपृच्छत्किं प्रयच्छसि ।। इति पृष्टा पुनः प्राह कथमस्मै प्रदास्यसि । इतः पूर्वं सुता दत्ता नासीदनृषये क्वचित् ॥ तत्तथैवेति निश्चित्य प्रत्याचष्टार्चनानसम् । श्यावाश्वः संस्थिते यज्ञे तेन राज्ञा निराकृतः । तत्प्रत्याशान्वितो विप्रस्तपस्तेपे सुदारुणम् । ब्रह्मचर्यरतः शान्तो भिक्षार्थं पर्यटन् द्विजः ॥ तरन्तमहिषीं साध्वीं बिभिक्षेऽसौ शशीयसीम् । सा संप्राप्यान्तिकं पत्युः प्रोवाचागतवानृषिः ॥ इत्युक्तो नृपतिर्भार्यां प्रत्याहैनं प्रपूजय ।। सानुज्ञाता गवां यूथं प्रादादाभरणानि च ॥ तरन्तोऽपि पुनस्तस्मै प्रादाद्धनमपेक्षितम् । दत्वा च पुरुमीळ्हस्य स्वानुजस्यान्तिकं प्रति ॥ प्रेरयामास तमृषिं सोऽपि त्वां मानयिष्यति । तथेति राज्ञो वचनं निशम्य तद्भार्यया दर्शितसर्वमार्गः । गच्छन्ः शनैरर्धपथे मरुद्गणान् समानरूपान् स्वदिदृक्षयागतान् ॥ विलोक्य विप्रः सभयः प्रणम्य कृताञ्जलिः कण्टकिताङ्गसंघः । तुष्टाव हृष्टान्मरुतो विशिष्टैरर्थैर्वचोभिः परितुष्टचित्तः ॥ संप्राप्य सर्वं स्वमनीषितं तदा मरुद्गणेभ्यो मुदितात्मवद्भ्यः ॥ तदाभवदृषिः सूक्तद्रष्टा श्यावाश्वनामकः । पश्चात्पुनर्गृहं गत्वा भूयो लब्ध्वा गवां शतम् ॥ दार्भ्यो मन्त्रदृशे राज्ञ्या चोदितः स्वसुतां ददौ । पुरुमीळ्हस्तरन्तश्च तद्भार्या च शशीयसी ॥ दार्भ्यो यो रथवीत्याख्यः सप्त ये मरुतां गणाः । ते तस्मै यत् ददुस्तुष्टास्तत्के ष्ठेत्यत्र वर्ण्यते ।


के ष्ठा॑ नर॒ः श्रेष्ठ॑तमा॒ य एक॑एक आय॒य ।

प॒र॒मस्या॑ः परा॒वत॑ः ॥१

के । स्थ॒ । न॒रः॒ । श्रेष्ठ॑ऽतमाः । ये । एकः॑ऽएकः । आ॒ऽय॒य ।

प॒र॒मस्याः॑ । प॒रा॒ऽवतः॑ ॥१

के । स्थ । नरः । श्रेष्ठऽतमाः । ये । एकःऽएकः । आऽयय ।

परमस्याः । पराऽवतः ॥१

हे “नरः नेतारो मरुतः “श्रेष्ठतमाः अत्यन्तं श्रेष्ठा यूयं “के “ष्ठ के स्थ के भवथ । एवं स्वरूपानिश्चयात् संदिह्य ब्रवीति । “ये यूयम् “एकएकः प्रत्येकम् “आयय आगच्छथ । कस्मादित्युच्यते । “परमस्याः “परावतः अत्यन्तदूरदेशात् । अन्तरिक्षादित्यर्थः ॥


क्व१॒॑ वोऽश्वा॒ः क्वा॒३॒॑भीश॑वः क॒थं शे॑क क॒था य॑य ।

पृ॒ष्ठे सदो॑ न॒सोर्यम॑ः ॥२

क्व॑ । वः॒ । अश्वाः॑ । क्व॑ । अ॒भीश॑वः । क॒थम् । शे॒क॒ । क॒था । य॒य॒ ।

पृ॒ष्ठे । सदः॑ । न॒सोः । यमः॑ ॥२

क्व । वः । अश्वाः । क्व । अभीशवः । कथम् । शेक । कथा । यय ।

पृष्ठे । सदः । नसोः । यमः ॥२

हे मरुतः “वः युष्माकम् “अश्वाः “क्व कुत्रत्याः । “क्व च “अभीशवः बन्धनरज्जवः । “कथं च “शेक शीघ्रं गन्तुं शक्ता भवथ । “कथा कथं “यय याताः स् । “पृष्ठे अश्वानां पृष्ठदेशे “सदः । सीदति तिष्ठत्यत्रेति सदः पर्याणम् । तच्च दृश्यते । तथा “नसोः नासिकयोः “यमः नियमिता पलायनप्रतिबन्धकारी पशोर्नासिकयोर्दृश्यते । तस्मादश्वादिलिङ्गैः कुत्रापि त्वरितगमना इव प्रतिभान्ति के यूयमिति देवत्वमनवधार्याह ॥


ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो॑ यमुः ।

पु॒त्र॒कृ॒थे न जन॑यः ॥३

ज॒घने॑ । चोदः॑ । ए॒षा॒म् । वि । स॒क्थानि॑ । नरः॑ । य॒मुः॒ ।

पु॒त्र॒ऽकृ॒थे । न । जन॑यः ॥३

जघने । चोदः । एषाम् । वि । सक्थानि । नरः । यमुः ।

पुत्रऽकृथे । न । जनयः ॥३

“एषाम् अश्वानां “जघने हन्तव्यप्रदेशे “चोदः प्रेरिका कशा अराग्रकाष्ठविशेषो वा वर्तते ।। शीघ्रगमनाय ताडयन् वर्तत इत्यर्थः । “सक्थानि ऊरुप्रदेशान् “नरः नेतारो मरुतः “वि विविच्य “यमुः नियच्छन्ति । आशुधावनेन विवृता भवन्तीत्यर्थः । विवृतौ दृष्टान्तः । “पुत्रकृथे पुत्रकरणे उत्पादने “जनयः “न अपत्योत्पादयित्र्यो योषित इव । ता यथा पुत्रोत्पादनकामाः संगमसमये ऊरू विवृतौ कुर्वन्ति तद्वदित्यर्थः॥


परा॑ वीरास एतन॒ मर्या॑सो॒ भद्र॑जानयः ।

अ॒ग्नि॒तपो॒ यथास॑थ ॥४

परा॑ । वी॒रा॒सः॒ । इ॒त॒न॒ । मर्या॑सः । भद्र॑ऽजानयः ।

अ॒ग्नि॒ऽतपः॑ । यथा॑ । अस॑थ ॥४

परा । वीरासः । इतन । मर्यासः । भद्रऽजानयः ।

अग्निऽतपः । यथा । असथ ॥४

कशाताडनादिलिङ्गेन जिगमिषून् मत्वा ब्रूते । हे “वीरासः वीराः अमित्राणामीरयितारो हे “मर्यासः मर्त्येभ्यो हिता हे “भद्रजानयः । भद्रः स्तुत्यो जानिर्जन्म येषां ते तथोक्ताः । रुद्रपुत्राः इत्यर्थः । “अग्नितपः अग्निना तप्तास्ताम्रादयः “यथा दीप्तास्तद्वत् प्रदीप्ताः "असथ भवथ । अथवाग्नितप्ता दग्धदेहा यथा पलायन्ते तथा भवथेति ॥


सन॒त्साश्व्यं॑ प॒शुमु॒त गव्यं॑ श॒ताव॑यम् ।

श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो॑प॒बर्बृ॑हत् ॥५

सन॑त् । सा । अश्व्य॑म् । प॒शुम् । उ॒त । गव्य॑म् । श॒तऽअ॑वयम् ।

श्या॒वाश्व॑ऽस्तुताय । या । दोः । वी॒राय॑ । उ॒प॒ऽबर्बृ॑हत् ॥५

सनत् । सा । अश्व्यम् । पशुम् । उत । गव्यम् । शतऽअवयम् ।

श्यावाश्वऽस्तुताय । या । दोः । वीराय । उपऽबर्बृहत् ॥५

“सा तरन्तमहिषी मह्यं “सनत् प्रादात् । किम्। "अश्व्यम् अश्वात्मकं तत्समूहात्मकं वा “पशुम् । जातावेकवचनम् । "उत अपि च “गव्यं गोसमूहात्मकं पशुं “शतावयम् अनेकैरविभिर्युक्तं सनदिति । सेत्युक्तं केत्याह । "या “श्यावाश्वस्तुताय श्यावाश्वेन मया स्तुताय “वीराय तरन्ताय “दोः स्वकीयं भुजम् "उपबर्बृहत् उपोदयच्छदालिङ्गनाय सा सनदिति । यतः भर्तृप्रेमास्पदा तस्मादेव बहु धनं दाते शक्तेत्यर्थः ॥ ॥ २६ ॥


उ॒त त्वा॒ स्त्री शशी॑यसी पुं॒सो भ॑वति॒ वस्य॑सी ।

अदे॑वत्रादरा॒धस॑ः ॥६

उ॒त । त्वा॒ । स्त्री । शशी॑यसी । पुं॒सः । भ॒व॒ति॒ । वस्य॑सी ।

अदे॑वऽत्रात् । अ॒रा॒धसः॑ ॥६

उत । त्वा । स्त्री । शशीयसी । पुंसः । भवति । वस्यसी ।

अदेवऽत्रात् । अराधसः ॥६

“उत अपि च “त्वा एका “शशीयसी। शशीयसी इस्येतन्महिष्या नाम। सैव "स्त्री । यद्वा । उतेत्ययमेवकारार्थे । स्त्रीषु सैव प्रशस्येत्यर्थः । त्वसमसिमनेमेत्यनुच्चानि ' इति वचनात् त्वेति निघातः ॥ सैव “पुंसः पुरुषात् “वस्यसी वसीयसी “भवति । कस्मात्पुंस इत्युच्यते । “अदेवत्रात् । देवाः अनेन त्रायन्ते स्तुत्यादिना सः देवत्रः । न देवत्रः अदेवत्रः। तस्मात् “अराधसः । राधो धनम् । दानार्हधनरहितात् । लुब्धकादित्यर्थः ॥


वि या जा॒नाति॒ जसु॑रिं॒ वि तृष्य॑न्तं॒ वि का॒मिन॑म् ।

दे॒व॒त्रा कृ॑णु॒ते मन॑ः ॥७

वि । या । जा॒नाति॑ । जसु॑रिम् । वि । तृष्य॑न्तम् । वि । का॒मिन॑म् ।

दे॒व॒ऽत्रा । कृ॒णु॒ते । मनः॑ ॥७

वि । या । जानाति । जसुरिम् । वि । तृष्यन्तम् । वि । कामिनम् ।

देवऽत्रा । कृणुते । मनः ॥७

“या शशीयसी “जसुरिं व्यथितम् । जसिस्ताडनकर्मा उपक्षपणकर्मा वा । तं “वि “जानाति । तथा “तृष्यन्तं "वि जानाति । "कामिनं धनाद्यभिलाषवन्तं “वि जानाति । अनुकम्पया अभिमतं दत्तवतीत्यर्थः । “देवत्रा देवेषु “मनः “कृणुते कुरुते देवप्रीत्यर्थं प्रदानबुद्धिं करोति या सैव स्त्रीति पूर्वत्र संबन्धः ॥


उ॒त घा॒ नेमो॒ अस्तु॑त॒ः पुमाँ॒ इति॑ ब्रुवे प॒णिः ।

स वैर॑देय॒ इत्स॒मः ॥८

उ॒त । घ॒ । नेमः॑ । अस्तु॑तः । पुमा॑न् । इति॑ । ब्रु॒वे॒ । प॒णिः ।

सः । वैर॑ऽदेये । इत् । स॒मः ॥८

उत । घ । नेमः । अस्तुतः । पुमान् । इति । ब्रुवे । पणिः ।

सः । वैरऽदेये । इत् । समः ॥८

“उत “घ अपि च । घेति पूरणः । "नेमः । ‘त्वो नेम इत्यर्धस्य ' ( निरु. ३. २० ) इति निरुक्तम् । नेमोऽर्धः । जायापत्योर्मिलित्वैककार्यकर्तृत्वादेक एव पदार्थः । ‘ अर्धं शरीरस्य भार्या । इत्यादिस्मृतेः । शशीयस्या अर्धभूतस्तरन्तः “पुमान् “अस्तुतः इति “ब्रुवे । बहुधा स्तुतोऽपि गुणस्यातिबाहुल्यादस्तुत एवेति ब्रुवे “पणिः स्तोताहम् । “सः च तरन्तः "वैरदेये । वीरा धनानां प्रेरयितारो दानशीलाः । तैर्दातव्यं धनं देयम् । तस्मिन् धने “समः । सर्वेभ्यो दातेत्यर्थः । “इत् इति पूरणः ।।


उ॒त मे॑ऽरपद्युव॒तिर्म॑म॒न्दुषी॒ प्रति॑ श्या॒वाय॑ वर्त॒निम् ।

वि रोहि॑ता पुरुमी॒ळ्हाय॑ येमतु॒र्विप्रा॑य दी॒र्घय॑शसे ॥९

उ॒त । मे॒ । अ॒र॒प॒त् । यु॒व॒तिः । म॒म॒न्दुषी॑ । प्रति॑ । श्या॒वाय॑ । व॒र्त॒निम् ।

वि । रोहि॑ता । पु॒रु॒ऽमी॒ळ्हाय॑ । ये॒म॒तुः॒ । विप्रा॑य । दी॒र्घऽय॑शसे ॥९

उत । मे । अरपत् । युवतिः । ममन्दुषी । प्रति । श्यावाय । वर्तनिम् ।

वि । रोहिता । पुरुऽमीळ्हाय । येमतुः । विप्राय । दीर्घऽयशसे ॥९

“उत अपि च “श्यावाय श्यावाश्वाय "मे मह्यम् “अरपत् अलपत् । स्पष्टमाचष्ट । किम् । "वर्तनिं मार्गम् । कीदृशी सा । “युवतिः प्रवृत्तयौवना “प्रति “ममन्दुषी प्रतिमोदमाना । कस्मै । “दीर्घयशसे प्रभूतान्नाय प्रभूतकीर्तये वा “पुरुमीळ्हाय एतन्नामकाय प्रभूतगृहाय “विप्राय ॥ ‘ क्रियार्थोपपदस्य च कर्मणि स्थानिनः ' ( पा. सू. २. ३. १४ ) इति चतुर्थी ॥ पुरुमीळ्हं प्राप्तुमित्यर्थः । तदर्थं “रोहिता रोहितवर्णावश्वौ शशीयस्या दत्तौ "वि “येमतुः । धृतवन्तावित्यर्थः । या अश्वाभ्यां युक्ते रथे स्थापयित्वा पुरुमीळ्हगृहस्य मार्गं प्रदर्शयन्ती पुरतो गता सैव पुंसो भवति वस्यसीति पूर्वत्र संबन्धः ॥


यो मे॑ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त् ।

त॒र॒न्त इ॑व मं॒हना॑ ॥१०

यः । मे॒ । धे॒नू॒नाम् । श॒तम् । वैद॑त्ऽअश्विः । यथा॑ । दद॑त् ।

त॒र॒न्तःऽइ॑व । मं॒हना॑ ॥१०

यः । मे । धेनूनाम् । शतम् । वैदत्ऽअश्विः । यथा । ददत् ।

तरन्तःऽइव । मंहना ॥१०

इयं पुरुमीळ्हस्तुतिः । “वैददश्विः पुरुमीळ्होऽपि "यो “मे मह्यं “धेनूनां “शतं “यथा येन प्रकारेण “ददत् दत्तवान् । तथा “मंहना मंहनीयानि धनान्यपि ददत “तरन्तइव । स यथा धेनुशतं बहुविधं धनं च दत्तवान् तद्वद्वैददश्विः पुरुमीळ्होऽपि ददत् । तं स्तुवे इति शेषः ॥ ॥ २७ ॥


य ईं॒ वह॑न्त आ॒शुभि॒ः पिब॑न्तो मदि॒रं मधु॑ ।

अत्र॒ श्रवां॑सि दधिरे ॥११

ये । ई॒म् । वह॑न्ते । आ॒शुऽभिः॑ । पिब॑न्तः । म॒दि॒रम् । मधु॑ ।

अत्र॑ । श्रवां॑सि । द॒धि॒रे॒ ॥११

ये । ईम् । वहन्ते । आशुऽभिः । पिबन्तः । मदिरम् । मधु ।

अत्र । श्रवांसि । दधिरे ॥११

इदानीं मरुत एवैत इति निश्चित्य जनप्रसिद्धैः माहात्म्यैः स्तौति । “ये मरुतः "ईम् इदानीम् “आशुभिः शीघ्रगामिभिरश्वैः "वहन्ते उह्यन्ते । किं कुर्वन्तः । “मदिरं मदकरं “मधु सोमरसं “पिबन्तः । पाथेयत्वेन धृतं सोममित्यर्थः । ते मरुतः "अत्र अस्मिन् देशे “श्रवांसि स्तुतिजनितानि यशांसि “दधिरे धारयन्ति ॥


येषां॑ श्रि॒याधि॒ रोद॑सी वि॒भ्राज॑न्ते॒ रथे॒ष्वा ।

दि॒वि रु॒क्म इ॑वो॒परि॑ ॥१२

येषा॑म् । श्रि॒या । अधि॑ । रोद॑सी॒ इति॑ । वि॒ऽभ्राज॑न्ते । रथे॑षु । आ ।

दि॒वि । रु॒क्मःऽइ॑व । उ॒परि॑ ॥१२

येषाम् । श्रिया । अधि । रोदसी इति । विऽभ्राजन्ते । रथेषु । आ ।

दिवि । रुक्मःऽइव । उपरि ॥१२

"येषां मरुतां “श्रिया कान्त्या "रोदसी द्यावापृथिव्यौ “अधि अधिष्ठिते भवत इति शेषः । यस्मादेते मरुतः “रथेषु “विभ्राजन्ते विशेषेण दीप्यन्ते । "आ इति चार्थे । तत्र दृष्टान्तः । “उपरि उपरिभूते “दिवि द्युलोके “रुक्मः रोचमानः आदित्यः “इव । यद्वा । उपरि रथस्योपरीति वा योज्यम् ॥


युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒ अने॑द्यः ।

शु॒भं॒यावाप्र॑तिष्कुतः ॥१३

युवा॑ । सः । मारु॑तः । ग॒णः । त्वे॒षऽर॑थः । अने॑द्यः ।

शु॒भ॒म्ऽयावा॑ । अप्र॑तिऽस्कुतः ॥१३

युवा । सः । मारुतः । गणः । त्वेषऽरथः । अनेद्यः ।

शुभम्ऽयावा । अप्रतिऽस्कुतः ॥१३

“स “मारुतो “गणः “युवा सर्वत्र मिश्रयिता नित्यतरुणो वा “त्वेषरथः दीप्तरथः “अनेद्यः अनिन्द्यः “शुभंयावा शोभनं गन्ता “अप्रतिष्कुतः अप्रतिगतोऽप्रतिशब्दितो वा । एवं महानुभावो गणो दीप्यत इति ॥


को वे॑द नू॒नमे॑षां॒ यत्रा॒ मद॑न्ति॒ धूत॑यः ।

ऋ॒तजा॑ता अरे॒पस॑ः ॥१४

कः । वे॒द॒ । नू॒नम् । ए॒षा॒म् । यत्र॑ । मद॑न्ति । धूत॑यः ।

ऋ॒तऽजा॑ताः । अ॒रे॒पसः॑ ॥१४

कः । वेद । नूनम् । एषाम् । यत्र । मदन्ति । धूतयः ।

ऋतऽजाताः । अरेपसः ॥१४

“एषां मरुतां स्थानं "को “वेद को जानाति । “नूनम् इदानीं “यत्र स्थाने “धूतयः शत्रूणां कम्पकाः “मदन्ति हृष्यन्ति “ऋतजाताः जलार्थमुत्पन्ना यज्ञे वा प्रादुर्भूताः "अरेपसः अपापाः॥


यू॒यं मर्तं॑ विपन्यवः प्रणे॒तार॑ इ॒त्था धि॒या ।

श्रोता॑रो॒ याम॑हूतिषु ॥१५

यू॒यम् । मर्त॑म् । वि॒प॒न्य॒वः॒ । प्र॒ऽने॒तारः॑ । इ॒त्था । धि॒या ।

श्रोता॑रः । याम॑ऽहूतिषु ॥१५

यूयम् । मर्तम् । विपन्यवः । प्रऽनेतारः । इत्था । धिया ।

श्रोतारः । यामऽहूतिषु ॥१५

हे “विपन्यवः स्तुतिकामा मरुतः “यूयं “मर्तं मरणस्वभावं यजमानम् “इत्था अनया “धिया इदानीं कृतप्रकारयानुग्रहबुद्ध्या ईदृशेन स्तुतिकर्मणा वा निमित्तेन “प्रणेतारः प्रकर्षेण प्रापयितारोऽभिमतं स्वर्गादिकम् । "यामहूतिषु । यामो गमनम् । तदर्था हूतयो यस्मिन्निति यामहूतयो यज्ञाः । तेषु "श्रोतारः आह्वानानाम् ॥ ॥ २८ ॥


ते नो॒ वसू॑नि॒ काम्या॑ पुरुश्च॒न्द्रा रि॑शादसः ।

आ य॑ज्ञियासो ववृत्तन ॥१६

ते । नः॒ । वसू॑नि । काम्या॑ । पु॒रु॒ऽच॒न्द्राः । रि॒शा॒द॒सः॒ ।

आ । य॒ज्ञि॒या॒सः॒ । व॒वृ॒त्त॒न॒ ॥१६

ते । नः । वसूनि । काम्या । पुरुऽचन्द्राः । रिशादसः ।

आ । यज्ञियासः । ववृत्तन ॥१६

हे “रिशादसः हिंसकानां शत्रूणामत्तारो हे "यज्ञियासः यज्ञार्हाः “पुरुश्चन्द्राः प्रभूताह्लादकधनाः “ते यूयं “नः अस्मभ्यं “वसूनि निवासयोग्यानि धनानि “काम्या स्पृहणीयानि “आ “ववृत्तन आवर्तयथेत्यर्थः । मरुतां दानप्रशंसाया अपेक्षितत्वान्न प्रार्थनोचिता ।।


ए॒तं मे॒ स्तोम॑मूर्म्ये दा॒र्भ्याय॒ परा॑ वह ।

गिरो॑ देवि र॒थीरि॑व ॥१७

ए॒तम् । मे॒ । स्तोम॑म् । ऊ॒र्म्ये॒ । दा॒र्भ्याय॑ । परा॑ । व॒ह॒ ।

गिरः॑ । दे॒वि॒ । र॒थीःऽइ॑व ॥१७

एतम् । मे । स्तोमम् । ऊर्म्ये । दार्भ्याय । परा । वह ।

गिरः । देवि । रथीःऽइव ॥१७

संपन्नऋषिभावस्य श्यावाश्वस्यार्चनानसः । रथवीतिसुतायाश्च विवाहं शौनकोऽब्रवीत् ॥ कथम् । मरुत्सु तु प्रयातेषु श्यावाश्वः सुमहायशाः । प्रादुर्भूतार्षमात्मानं ज्ञात्वात्रिकुलनन्दनः ॥ रथवीतेर्दुहितरमगच्छन्मनसा तदा । स सत्यमृषिमात्मानं प्रवक्ष्यन्रथवीतये ॥ एतं मे स्तोममित्याभ्यां दौत्ये रात्रिं न्यवेदयत् । ऋषेर्नियोगमाज्ञाय देव्या रात्र्या प्रचोदितः ॥ आदाय कन्यकां दातुमुपेयायार्चनानसम् । पादौ तस्योपसंगृह्य स्थित्वा प्रह्वः कृताञ्जलिः । रथवीतिरहं दार्भ्य इति नाम शशंस सः । मया सयोगमिच्छन्तं त्वां प्रत्याचक्षि यत् पुरा ॥ तत्क्षमस्व नमस्तेऽस्तु मे मा स्म भगवन् क्रुधः ॥ ऋषेः पुत्रः स्वयमृषिः पितासि भगवन्नृषेः । हन्त प्रतिगृहाणेमां स्नुषामित्येनमब्रवीत् ॥ तस्मै ददावश्वशतं स राजा स्वलंकृतां चापि सुतां स्नुषार्थम् । विवाहकालेऽपि ददौ नरेन्द्रः शतं हयानां दुहितुः सहस्रम् ॥ गवां सहस्रं वसु च प्रभूतं तप्तुं तपोऽन्तेऽथ वनं जगामेति ॥ हे “ऊर्म्ये रात्रि देवि । ऊर्म्येति रात्रिनाम । “मे मदीयम् “एतं “स्तोमं मरुद्यःः् कृतं स्तोत्रमहं मन्त्रदृक् भूत्वा मरुतः स्तुतवानित्येवं “दार्भ्याय श्यावाश्वाय “परा पराङ्मुखी दार्भ्याभिमुखी सती “वह प्रापयेत्यर्थः । तदेवादार्थमुच्यते । हे रात्रि “देवि “गिरः स्तुतीर्मरुद्विषयाः परा वह “रथीरिव । रथी यथा रथेऽभिप्रेतं वसु स्थापयित्वा अभिमतं देशं प्रापयति तद्वत् ॥


उ॒त मे॑ वोचता॒दिति॑ सु॒तसो॑मे॒ रथ॑वीतौ ।

न कामो॒ अप॑ वेति मे ॥१८

उ॒त । मे॒ । वो॒च॒ता॒त् । इति॑ । सु॒तऽसो॑मे । रथ॑ऽवीतौ ।

न । कामः॑ । अप॑ । वे॒ति॒ । मे॒ ॥१८

उत । मे । वोचतात् । इति । सुतऽसोमे । रथऽवीतौ ।

न । कामः । अप । वेति । मे ॥१८

हे ऊर्म्ये "उत अपि च “मे मां “वोचतात ब्रूहि । किमित्युच्यते । “इति इत्थम् । कथमिति । “सुतसोमे कृतसोमयागे "रथवीतौ राज्ञि “मे “कामः तत्पुत्रीविषयः “न “अप “वेति नापगच्छति न विरमते इतीत्थं वोचतात ॥


ए॒ष क्षे॑ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑ ।

पर्व॑ते॒ष्वप॑श्रितः ॥१९

ए॒षः । क्षे॒ति॒ । रथ॑ऽवीतिः । म॒घऽवा॑ । गोऽम॑तीः । अनु॑ ।

पर्व॑तेषु । अप॑ऽश्रितः ॥१९

एषः । क्षेति । रथऽवीतिः । मघऽवा । गोऽमतीः । अनु ।

पर्वतेषु । अपऽश्रितः ॥१९

कन्यां दत्त्वा कृतार्थं तं श्यावाश्वोऽथ वनं गतम् । रथवीतिं तपस्यन्तं संप्रेक्ष्यार्षेण चक्षुषा । रम्ये हिमवतः पृष्ठ एष क्षेतीति सोऽब्रवीत् ॥ “एषः “रथवीतिः “मघवा धनवान् “गोमतीरनु उदकवतीर्नदीरनु अनुसृत्य नदीनां तीरे “क्षेति निवसति “पर्वतेषु हिमवत्पर्वतप्रान्तेषु “अपश्रितः आश्रितः ॥ ॥ २९ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.६१&oldid=199695" इत्यस्माद् पुनः प्राप्तिः