ऋग्वेदः सूक्तं ५.२८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ५.२७ ऋग्वेदः - मण्डल ५
सूक्तं ५.२८
विश्ववारात्रेयी
सूक्तं ५.२९ →
दे. अग्निः। १, ३ त्रिष्टुप्, २ जगती, ४ अनुष्टुप्, ५-६ गायत्री


समिद्धो अग्निर्दिवि शोचिरश्रेत्प्रत्यङ्ङुषसमुर्विया वि भाति ।
एति प्राची विश्ववारा नमोभिर्देवाँ ईळाना हविषा घृताची ॥१॥
समिध्यमानो अमृतस्य राजसि हविष्कृण्वन्तं सचसे स्वस्तये ।
विश्वं स धत्ते द्रविणं यमिन्वस्यातिथ्यमग्ने नि च धत्त इत्पुरः ॥२॥
अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।
सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥३॥
समिद्धस्य प्रमहसोऽग्ने वन्दे तव श्रियम् ।
वृषभो द्युम्नवाँ असि समध्वरेष्विध्यसे ॥४॥
समिद्धो अग्न आहुत देवान्यक्षि स्वध्वर ।
त्वं हि हव्यवाळसि ॥५॥
आ जुहोता दुवस्यताग्निं प्रयत्यध्वरे ।
वृणीध्वं हव्यवाहनम् ॥६॥


सायणभाष्यम्

‘ समिद्धो अग्निः' इति षड़ृचं चतुर्दशं सूक्तम् । अत्रेयमनुक्रमणिका - समिद्धो विश्ववारात्रेयी त्रिष्टुब्जगती त्रिष्टुबनुष्टुब्गायत्र्यौ ' इति । अत्रिगोत्रोत्पन्ना विश्ववारानामिका अस्य सूक्तस्य ऋषिः । आद्यातृतीये त्रिष्टुभौ द्वितीया जगती चतुर्थ्यनुष्टुबन्त्ये गायत्र्यौ । अग्निर्देवता । सूक्तविनियोगो लैङ्गिकः ॥


समि॑द्धो अ॒ग्निर्दि॒वि शो॒चिर॑श्रेत्प्र॒त्यङ्ङु॒षस॑मुर्वि॒या वि भा॑ति ।

एति॒ प्राची॑ वि॒श्ववा॑रा॒ नमो॑भिर्दे॒वाँ ईळा॑ना ह॒विषा॑ घृ॒ताची॑ ॥१

सम्ऽइ॑द्धः । अ॒ग्निः । दि॒वि । शो॒चिः । अ॒श्रे॒त् । प्र॒त्यङ् । उ॒षस॑म् । उ॒र्वि॒या । वि । भा॒ति॒ ।

एति॑ । प्राची॑ । वि॒श्वऽवा॑रा । नमः॑ऽभिः । दे॒वान् । ईळा॑ना । ह॒विषा॑ । घृ॒ताची॑ ॥१

सम्ऽइद्धः । अग्निः । दिवि । शोचिः । अश्रेत् । प्रत्यङ् । उषसम् । उर्विया । वि । भाति ।

एति । प्राची । विश्वऽवारा । नमःऽभिः । देवान् । ईळाना । हविषा । घृताची ॥१

“समिद्धः सम्यग्दीप्तः “अग्निः “दिवि द्योतमानेऽन्तरिक्षे “शोचिः तेजः “अश्रेत् श्रयति । तथा “उषसं “प्रत्यङ् उषसमभिमुखः सन् “उर्विया उरु विस्तीर्णं “वि “भाति विशेषेण भ्राजते । “नमोभिः स्तोत्रैः "देवान् इन्द्रादीन् “ईळाना स्तुवती “हविषा पुरोडाशादिलक्षणेन युक्त्या “घृताची घृताच्या स्रुचा सहिता "विश्ववारा सर्वमपि पापरूपं शत्रुं वारयित्र्येतन्नामिका “प्राची प्राङ्मुखी सती “एति । एवंभूतमग्निं प्रतिगच्छति ॥


स॒मि॒ध्यमा॑नो अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वन्तं॑ सचसे स्व॒स्तये॑ ।

विश्वं॒ स ध॑त्ते॒ द्रवि॑णं॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत्पु॒रः ॥२

स॒म्ऽइ॒ध्यमा॑नः । अ॒मृत॑स्य । रा॒ज॒सि॒ । ह॒विः । कृ॒ण्वन्त॑म् । स॒च॒से॒ । स्व॒स्तये॑ ।

विश्व॑म् । सः । ध॒त्ते॒ । द्रवि॑णम् । यम् । इन्व॑सि । आ॒ति॒थ्यम् । अ॒ग्ने॒ । नि । च॒ । ध॒त्ते॒ । इत् । पु॒रः ॥२

सम्ऽइध्यमानः । अमृतस्य । राजसि । हविः । कृण्वन्तम् । सचसे । स्वस्तये ।

विश्वम् । सः । धत्ते । द्रविणम् । यम् । इन्वसि । आतिथ्यम् । अग्ने । नि । च । धत्ते । इत् । पुरः ॥२

हे अग्ने “समिध्यमानः सम्यगिध्यमानस्त्वम् “अमृतस्य उदकस्य राजसि ईशिष । तथा “हविष्कृण्वन्तं पुरोडाशादिहविष्कर्तारं यजमानं "स्वस्तये अविनाशाय “सचसे सेवसे । किंच “यं यजमानम् “इन्वसि गच्छसि “सः यजमानः “विश्वं समस्तं “द्रविणं पश्वादिलक्षणं धनं “धत्ते धारयति । अपि च हे “अग्ने “आतिथ्यम् अतिथिरूपस्य तव योग्यं हविः “पुरः “इत् तव पुरस्तादेव “नि “धत्ते “च स्थापयति च ॥


पवित्रेष्ट्यां स्विष्टकृतः ‘अग्ने शर्ध ' इति याज्या। सूत्र्यते हि - जुष्टो दमूना अग्ने शर्ध महते सौभगायेति संयाज्ये ' ( आश्व. श्रौ. २. १२) इति । साकमेधेषु मरुद्भ्यः क्रीडिभ्यः पुरोडाशं सप्तकपालमित्यत्राप्येषैव स्विष्टकृतो याज्या । सूत्रितं च-- ‘ जुष्टो दमूना अग्ने शर्ध महते सौभगायेति संयाज्ये ' ( आश्व. श्रौ. २. १८) इति ॥

अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु ।

सं जा॑स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां॑सि ॥३

अग्ने॑ । शर्ध॑ । म॒ह॒ते । सौभ॑गाय । तव॑ । द्यु॒म्नानि॑ । उ॒त्ऽत॒मानि॑ । स॒न्तु॒ ।

सम् । जः॒ऽप॒त्यम् । सु॒ऽयम॑म् । आ । कृ॒णु॒ष्व॒ । श॒त्रु॒ऽय॒ताम् । अ॒भि । ति॒ष्ठ॒ । महां॑सि ॥३

अग्ने । शर्ध । महते । सौभगाय । तव । द्युम्नानि । उत्ऽतमानि । सन्तु ।

सम् । जःऽपत्यम् । सुऽयमम् । आ । कृणुष्व । शत्रुऽयताम् । अभि । तिष्ठ । महांसि ॥३

हे “अग्ने त्वं “महते प्रभूताय “सौभगाय अस्माकं शोभनधनत्वाय "शर्ध शत्रून् सहस्व । तथा “तव संबन्धीनि “द्युम्नानि धनानि तेजांसि वा “उत्तमानि उत्कृष्टानि “सन्तु भवन्तु । किंच हे अग्ने त्वं “जास्पत्यम् । जा जाया च पतिश्च जायापती । तयोः कर्म जास्पत्यम् । तत् “सुयमं सुष्ठु नियमनोपेतम् । अन्योन्यसंश्लिष्टमित्यर्थः । "सम् “आ “कृणुष्व सम्यक् कुरुष्व । अपि च “शत्रूयतां शत्रुमात्मन इच्छतां सपत्नानां “महांसि तेजांसि “अभि "तिष्ठ आक्रमस्व ॥


समि॑द्धस्य॒ प्रम॑ह॒सोऽग्ने॒ वन्दे॒ तव॒ श्रिय॑म् ।

वृ॒ष॒भो द्यु॒म्नवाँ॑ असि॒ सम॑ध्व॒रेष्वि॑ध्यसे ॥४

सम्ऽइ॑द्धस्य । प्रऽम॑हसः । अ॒ग्ने॒ । वन्दे॑ । तव॑ । श्रिय॑म् ।

वृ॒ष॒भः । द्यु॒म्नऽवा॑न् । अ॒सि॒ । सम् । अ॒ध्व॒रेषु॑ । इ॒ध्य॒से॒ ॥४

सम्ऽइद्धस्य । प्रऽमहसः । अग्ने । वन्दे । तव । श्रियम् ।

वृषभः । द्युम्नऽवान् । असि । सम् । अध्वरेषु । इध्यसे ॥४

हे “अग्ने “समिद्धस्य प्रवृद्धस्य “प्रमहसः प्रकृष्टतेजसः “तव संबन्धिनीं “श्रियं दीप्तिं “वन्दे । अहं यजमानः स्तौमि । “वृषभः कामानां वर्षिता त्वं “द्युम्नवान् “असि धनवान् भवसि । “अध्वरेषु यज्ञेषु “सम् “इध्यसे सम्यग्दीप्यसे ॥


दर्शपूर्णमासयोः ‘ समिद्धो अग्न आहुत' इति द्वे सामिधेन्यौ । सूत्रितं च - ' समिद्धो अग्न आहुतेति द्वे' (आश्व. श्रौ. १. २ ) इति ॥

समि॑द्धो अग्न आहुत दे॒वान्य॑क्षि स्वध्वर ।

त्वं हि ह॑व्य॒वाळसि॑ ॥५

सम्ऽइ॑द्धः । अ॒ग्ने॒ । आ॒ऽहु॒त॒ । दे॒वान् । य॒क्षि॒ । सु॒ऽअ॒ध्व॒र॒ ।

त्वम् । हि । ह॒व्य॒ऽवाट् । असि॑ ॥५

सम्ऽइद्धः । अग्ने । आऽहुत । देवान् । यक्षि । सुऽअध्वर ।

त्वम् । हि । हव्यऽवाट् । असि ॥५

हे “आहुत यजमानैः आ समन्तात् हुत हे "स्वध्वर शोभनयज्ञोपेत हे “अग्ने “समिद्धः सम्यग्दीप्तः “त्वं “देवान् द्योतमानानिन्द्रादीन् 'यक्षि यजस्व । “हि यस्मात् कारणात् हे अग्ने त्वं “हव्यवाट् “असि हव्यानां वोढा भवसि । अतः कारणात् देवान् यजस्वेति संबन्धः ॥


आ जु॑होता दुव॒स्यता॒ग्निं प्र॑य॒त्य॑ध्व॒रे ।

वृ॒णी॒ध्वं ह॑व्य॒वाह॑नम् ॥६

आ । जु॒हो॒त॒ । दु॒व॒स्यत॑ । अ॒ग्निम् । प्र॒ऽय॒ति । अ॒ध्व॒रे ।

वृ॒णी॒ध्वम् । ह॒व्य॒ऽवाह॑नम् ॥६

आ । जुहोत । दुवस्यत । अग्निम् । प्रऽयति । अध्वरे ।

वृणीध्वम् । हव्यऽवाहनम् ॥६

हे ऋत्विजो यूयम् “अध्वरे अस्मदीययागे “प्रयति प्रवृत्ते सति “हव्यवाहनं हविषां वोढारम् एतन्नामकम् “अग्निम् “आ “जुहोत आ समन्तात् जुहोत । तथा “दुवस्यत परिचरत । “वृणीध्वस् संभजध्वं च हव्यवाहनम् । हव्यवाहननामकस्यैवाग्नेर्देवतासंबन्धो यजमानैर्वरणीयत्वं च तैत्तिरीये स्पष्टमाम्नातं - ' त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणां सहरक्षा असुराणाम् । त एतर्ह्याशंसन्ते मां वरिष्यते मामिति वृणीध्वं हव्यवाहनमित्याह य एव देवानां तं वृणीते' (तै. सं. २. ५. ८. ६ ) इति ॥ ॥ २२ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.२८&oldid=199496" इत्यस्माद् पुनः प्राप्तिः