ऋग्वेदः सूक्तं ५.२७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ५.२७ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ५.२६ ऋग्वेदः - मण्डल ५
सूक्तं ५.२७
विश्ववारात्रेयी
सूक्तं ५.२८ →
दे. अग्निः। १, ३ त्रिष्टुप्, २ जगती, ४ अनुष्टुप्, ५-६ गायत्री


अनस्वन्ता सत्पतिर्मामहे मे गावा चेतिष्ठो असुरो मघोनः ।
त्रैवृष्णो अग्ने दशभिः सहस्रैर्वैश्वानर त्र्यरुणश्चिकेत ॥१॥
यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति ।
वैश्वानर सुष्टुतो वावृधानोऽग्ने यच्छ त्र्यरुणाय शर्म ॥२॥
एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः ।
यो मे गिरस्तुविजातस्य पूर्वीर्युक्तेनाभि त्र्यरुणो गृणाति ॥३॥
यो म इति प्रवोचत्यश्वमेधाय सूरये ।
दददृचा सनिं यते ददन्मेधामृतायते ॥४॥
यस्य मा परुषाः शतमुद्धर्षयन्त्युक्षणः ।
अश्वमेधस्य दानाः सोमा इव त्र्याशिरः ॥५॥
इन्द्राग्नी शतदाव्न्यश्वमेधे सुवीर्यम् ।
क्षत्रं धारयतं बृहद्दिवि सूर्यमिवाजरम् ॥६॥


सायणभाष्यम्

‘अनस्वन्ता' इति षड़ृचं त्रयोदशं सूक्तम् । अत्रानुक्रमणिका -- अनस्वन्ता षट् त्रैवृष्णपौरुकुत्स्यौ द्वौ त्र्यरुणत्रसदस्यू राजानौ भारतश्चाश्वमेधोऽन्त्यास्तिस्रोऽनुष्टुभो नात्मात्मने दद्यादिति सर्वास्वत्रिं केचिदन्त्यैन्द्राग्नी' इति । त्रिवृष्णस्य पुत्रस्त्र्यरुणः पुरुकुत्सस्य पुत्रस्त्रसदस्युर्भरतस्य पुत्रोऽश्वमेध एते त्रयोऽपि राजानः संभूयास्य सूक्तस्य ऋषयः । यद्वा । अत्रिरेव ऋषिः । आद्यास्तिस्रस्त्रिष्टुभः चतुर्थ्याद्यास्तिस्रोऽनुष्टुभः । षष्ठीन्द्राग्निदेवत्या शिष्टाः पञ्चाग्नेय्यः । विनियोगो लैङ्गिकः ॥


अन॑स्वन्ता॒ सत्प॑तिर्मामहे मे॒ गावा॒ चेति॑ष्ठो॒ असु॑रो म॒घोन॑ः ।

त्रै॒वृ॒ष्णो अ॑ग्ने द॒शभि॑ः स॒हस्रै॒र्वैश्वा॑नर॒ त्र्य॑रुणश्चिकेत ॥१

अन॑स्वन्ता । सत्ऽप॑तिः । म॒म॒हे॒ । मे॒ । गावा॑ । चेति॑ष्ठः । असु॑रः । म॒घोनः॑ ।

त्रै॒वृ॒ष्णः । अ॒ग्ने॒ । द॒शऽभिः॑ । स॒हस्रैः॑ । वैश्वा॑नर । त्रिऽअ॑रुणः । चि॒के॒त॒ ॥१

अनस्वन्ता । सत्ऽपतिः । ममहे । मे । गावा । चेतिष्ठः । असुरः । मघोनः ।

त्रैवृष्णः । अग्ने । दशऽभिः । सहस्रैः । वैश्वानर । त्रिऽअरुणः । चिकेत ॥१

अत्री राजर्षीणां दानमग्नेः पुरतोऽनेन सूक्तेनावर्णयत् । हे “वैश्वानर विश्वेषां नराणां नेतः “अग्ने “सत्पतिः सतां पालयिता “चेतिष्ठः ज्ञातृतमः "असुरः बलवान् “मघोनः मघवा धनवान् ॥ प्रथमार्थे ङसिः ॥ “त्रैवृष्णः त्रिवृष्णपुत्रः “त्र्यरुणः त्र्यरुणः इत्येतन्नामा राजर्षिः “अनस्वन्ता अनस्वन्तौ अनसा शकटेन संयुक्तौ “गावा गावावनड्वाहौ गवां हिरण्यानां वा “दशभिः “सहस्रैः सह “मे मह्यं “ममहे ददौ । “ महि दाने '। स राजर्षिः “चिकेत सर्वैर्जनैरनेन दानेन ज्ञायते ॥


यो मे॑ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी॑ च यु॒क्ता सु॒धुरा॒ ददा॑ति ।

वैश्वा॑नर॒ सुष्टु॑तो वावृधा॒नोऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑ ॥२

यः । मे॒ । श॒ता । च॒ । विं॒श॒तिम् । च॒ । गोना॑म् । हरी॒ इति॑ । च॒ । यु॒क्ता । सु॒ऽधुरा॑ । ददा॑ति ।

वैश्वा॑नर । सुऽस्तु॑तः । व॒वृ॒धा॒नः । अग्ने॑ । यच्छ॑ । त्रिऽअ॑रुणाय । शर्म॑ ॥२

यः । मे । शता । च । विंशतिम् । च । गोनाम् । हरी इति । च । युक्ता । सुऽधुरा । ददाति ।

वैश्वानर । सुऽस्तुतः । ववृधानः । अग्ने । यच्छ । त्रिऽअरुणाय । शर्म ॥२

"यः त्र्यरुणः “शता "च शतानि सुवर्णानां “गोनां गवां “विंशतिं “च “युक्ता रथेन युक्तौ “सुधुरा सुधुरौ सुष्ठु धुरं वहन्तौ “हरी अश्वौ “च “मे मह्यं “ददाति अददात् हे “वैश्वानर “अग्ने "सुष्टुतः अस्माभिः सम्यक्स्तुतः “ववृधानः हविर्भिर्वर्धमानस्त्वं तस्मै “त्र्यरुणाय “शर्म सुखं “यच्छ प्रयच्छ ॥


ए॒वा ते॑ अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः ।

यो मे॒ गिर॑स्तुविजा॒तस्य॑ पू॒र्वीर्यु॒क्तेना॒भि त्र्य॑रुणो गृ॒णाति॑ ॥३

ए॒व । ते॒ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । च॒का॒नः । नवि॑ष्ठाय । न॒व॒मम् । त्र॒सद॑स्युः ।

यः । मे॒ । गिरः॑ । तु॒वि॒ऽजा॒तस्य॑ । पू॒र्वीः । यु॒क्तेन॑ । अ॒भि । त्रिऽअ॑रुणः । गृ॒णाति॑ ॥३

एव । ते । अग्ने । सुऽमतिम् । चकानः । नविष्ठाय । नवमम् । त्रसदस्युः ।

यः । मे । गिरः । तुविऽजातस्य । पूर्वीः । युक्तेन । अभि । त्रिऽअरुणः । गृणाति ॥३

"यः “त्र्यरुणः “तुविजातस्य बह्वपत्यस्य “मे “पूर्वीः बह्वीः "गिरः स्तुतीः श्रुत्वा प्रीतः सन् “युक्तेन अभियुक्तेन मनसा “अभि “गृणाति इदं गृहाणेदं गृहाणेति यथा मां ब्रवीति “एव एवं हे “अग्ने “नविष्ठाय अत्यन्तं स्तुत्याय “ते तुभ्यं "नवमं नवतमां “सुमतिं स्तुतिं “चकानः कामयमानः “त्रसदस्युः अपि इदं गृहाणेदं गृहाणेति मां प्रार्थितवान् ॥


यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये॑ ।

दद॑दृ॒चा स॒निं य॒ते दद॑न्मे॒धामृ॑ताय॒ते ॥४

यः । मे॒ । इति॑ । प्र॒ऽवोच॑ति । अश्व॑ऽमेधाय । सू॒रये॑ ।

दद॑त् । ऋ॒चा । स॒निम् । य॒ते । दद॑त् । मे॒धाम् । ऋ॒त॒ऽय॒ते ॥४

यः । मे । इति । प्रऽवोचति । अश्वऽमेधाय । सूरये ।

ददत् । ऋचा । सनिम् । यते । ददत् । मेधाम् । ऋतऽयते ॥४

“यः भिक्षमाणोऽर्थी “सूरये प्रेरकाय धनानां दात्रे वास्मै “अश्वमेधाय राजर्षये “मे मह्यं देहि “इति “प्रवोचति प्रब्रवीति । योऽश्वमेधं धनानि भिक्षते इत्यर्थः । “ऋचा अग्नेः स्तोत्रेण सह “यते आत्मनः समीपं गच्छते तस्मा अर्थिनेऽश्वमेधः “सनिं धनं “ददत् ददाति । हे अग्ने “ऋतायते यज्ञमिच्छते तस्मा अश्वमेधाय “मेधां यज्ञविषयां प्रज्ञां “ददत् देहि ॥


यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षय॑न्त्यु॒क्षण॑ः ।

अश्व॑मेधस्य॒ दाना॒ः सोमा॑ इव॒ त्र्या॑शिरः ॥५

यस्य॑ । मा॒ । प॒रु॒षाः । श॒तम् । उ॒त्ऽह॒र्षय॑न्ति । उ॒क्षणः॑ ।

अश्व॑ऽमेधस्य । दानाः॑ । सोमाः॑ऽइव । त्रिऽआ॑शिरः ॥५

यस्य । मा । परुषाः । शतम् । उत्ऽहर्षयन्ति । उक्षणः ।

अश्वऽमेधस्य । दानाः । सोमाःऽइव । त्रिऽआशिरः ॥५

“यस्य येन "अश्वमेधस्य अश्वमेधेन “दानाः दत्ताः “परुषाः कामानां पूरकाः “शतम् “उक्षणः उक्षाणो बलीवर्दाः “मा माम् “उद्धर्षयन्ति उत्कर्षेण हर्षयन्ति हे अग्ने ते उक्षाणः “त्र्याशिरः । दधिसक्तुपयोरूपास्तिस्र आशिरोऽधिश्रयणसाधनभूता येषां ते त्र्याशिरः । “सोमाइव तव प्रीणनाय भवन्तु ॥


इन्द्रा॑ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्य॑म् ।

क्ष॒त्रं धा॑रयतं बृ॒हद्दि॒वि सूर्य॑मिवा॒जर॑म् ॥६

इन्द्रा॑ग्नी॒ इति॑ । श॒त॒ऽदाव्नि॑ । अश्व॑ऽमेधे । सु॒ऽवीर्य॑म् ।

क्ष॒त्रम् । धा॒र॒य॒त॒म् । बृ॒हत् । दि॒वि । सूर्य॑म्ऽइव । अ॒जर॑म् ॥६

इन्द्राग्नी इति । शतऽदाव्नि । अश्वऽमेधे । सुऽवीर्यम् ।

क्षत्रम् । धारयतम् । बृहत् । दिवि । सूर्यम्ऽइव । अजरम् ॥६

हे “इन्द्राग्नी “शतदाव्नि । शतमपरिमितमर्थिभ्यो धनं ददातीति शतदावा । तस्मिन् “अश्वमेधे राजर्षौ “सुवीर्यं शोभनवीर्यसहितं "बृहत् महत् “अजरं जरारहितं “क्षत्रं धनं “धारयतं निधारयतम् । कथमिव । “दिवि अन्तरिक्षे “सूर्यमिव ॥ ॥ २१ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.२७&oldid=199495" इत्यस्माद् पुनः प्राप्तिः