सामग्री पर जाएँ

ऋग्वेदः सूक्तं ५.२९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ५.२९ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.२८ ऋग्वेदः - मण्डल ५
सूक्तं ५.२९
गौरिवीतिः शाक्त्यः
सूक्तं ५.३० →
दे. इन्द्रः, ९(प्रथमपादस्य) उशना वा। त्रिष्टुप्।


त्र्यर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त ।
अर्चन्ति त्वा मरुतः पूतदक्षास्त्वमेषामृषिरिन्द्रासि धीरः ॥१॥
अनु यदीं मरुतो मन्दसानमार्चन्निन्द्रं पपिवांसं सुतस्य ।
आदत्त वज्रमभि यदहिं हन्नपो यह्वीरसृजत्सर्तवा उ ॥२॥
उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः ।
तद्धि हव्यं मनुषे गा अविन्ददहन्नहिं पपिवाँ इन्द्रो अस्य ॥३॥
आद्रोदसी वितरं वि ष्कभायत्संविव्यानश्चिद्भियसे मृगं कः ।
जिगर्तिमिन्द्रो अपजर्गुराणः प्रति श्वसन्तमव दानवं हन् ॥४॥
अध क्रत्वा मघवन्तुभ्यं देवा अनु विश्वे अददुः सोमपेयम् ।
यत्सूर्यस्य हरितः पतन्तीः पुरः सतीरुपरा एतशे कः ॥५॥
नव यदस्य नवतिं च भोगान्साकं वज्रेण मघवा विवृश्चत् ।
अर्चन्तीन्द्रं मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम् ॥६॥
सखा सख्ये अपचत्तूयमग्निरस्य क्रत्वा महिषा त्री शतानि ।
त्री साकमिन्द्रो मनुषः सरांसि सुतं पिबद्वृत्रहत्याय सोमम् ॥७॥
त्री यच्छता महिषाणामघो मास्त्री सरांसि मघवा सोम्यापाः ।
कारं न विश्वे अह्वन्त देवा भरमिन्द्राय यदहिं जघान ॥८॥
उशना यत्सहस्यैरयातं गृहमिन्द्र जूजुवानेभिरश्वैः ।
वन्वानो अत्र सरथं ययाथ कुत्सेन देवैरवनोर्ह शुष्णम् ॥९॥
प्रान्यच्चक्रमवृहः सूर्यस्य कुत्सायान्यद्वरिवो यातवेऽकः ।
अनासो दस्यूँरमृणो वधेन नि दुर्योण आवृणङ्मृध्रवाचः ॥१०॥
स्तोमासस्त्वा गौरिवीतेरवर्धन्नरन्धयो वैदथिनाय पिप्रुम् ।
आ त्वामृजिश्वा सख्याय चक्रे पचन्पक्तीरपिबः सोममस्य ॥११॥
नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्यर्चन्त्यर्कैः ।
गव्यं चिदूर्वमपिधानवन्तं तं चिन्नरः शशमाना अप व्रन् ॥१२॥
कथो नु ते परि चराणि विद्वान्वीर्या मघवन्या चकर्थ ।
या चो नु नव्या कृणवः शविष्ठ प्रेदु ता ते विदथेषु ब्रवाम ॥१३॥
एता विश्वा चकृवाँ इन्द्र भूर्यपरीतो जनुषा वीर्येण ।
या चिन्नु वज्रिन्कृणवो दधृष्वान्न ते वर्ता तविष्या अस्ति तस्याः ॥१४॥
इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म ।
वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा अतक्षम् ॥१५॥


सायणभाष्यम्

त्र्यर्यमा इति पञ्चदशर्चं पञ्चदशं सूक्तम् । अत्रानुक्रमणिका- त्र्यर्यमा पञ्चोना गौरिवीतिः शाक्त्य ऐन्द्रमुशना यदौशनसो वा पादः इति । शक्तिगोत्रोत्पन्नो गौरिवीतिर्नाम ऋषिः । अनुक्तत्वात् त्रिष्टुप् । इन्द्रो देवता मण्डलादिपरिभाषया निवृत्तत्वात् । ' उशना यत्सहस्यैः ' इति पादः औशनस ऐन्द्रो वा । आभिप्लविके तृतीयेऽहनि मरुत्वतीये एतन्निविद्धानम् । सूत्रितं च-' तृतीयस्य त्र्यर्यमा यो जात एवेति मध्यंदिनः ' ( आश्व. श्रौ. ७.७) इति ।।


त्र्य॑र्य॒मा मनु॑षो दे॒वता॑ता॒ त्री रो॑च॒ना दि॒व्या धा॑रयन्त ।

अर्च॑न्ति त्वा म॒रुतः॑ पू॒तद॑क्षा॒स्त्वमे॑षा॒मृषि॑रिन्द्रासि॒ धीरः॑ ॥१

त्री । अ॒र्य॒मा । मनु॑षः । दे॒वऽता॑ता । त्री । रो॒च॒ना । दि॒व्या । धा॒र॒य॒न्त॒ ।

अर्च॑न्ति । त्वा॒ । म॒रुतः॑ । पू॒तऽद॑क्षाः । त्वम् । ए॒षा॒म् । ऋषिः॑ । इ॒न्द्र॒ । अ॒सि॒ । धीरः॑ ॥१

त्री । अर्यमा । मनुषः । देवऽताता । त्री । रोचना । दिव्या । धारयन्त ।

अर्चन्ति । त्वा । मरुतः । पूतऽदक्षाः । त्वम् । एषाम् । ऋषिः । इन्द्र । असि । धीरः ॥१

मनुषः मनोः संबन्धिनी देवताता देवतातौ यज्ञे त्री त्रीणि अर्यमा अर्यमाणि यानि तेजांसि सन्ति । तथा त्री त्रीणि रोचना रोचमानानि वाय्वग्निसूर्यात्मकानि दिव्या दिव्यान्यन्त- रिक्षे भवानि तानि तेजांसि धारयन्त मरुतो धारयन्ति । पूतदक्षाः शुद्धबलाः मरुतः त्वा त्वाम् अर्चन्ति स्तुवन्ति । हे इन्द्र धीरः धीमान् त्वमेषां मरुताम् ऋषिः असि द्रष्टा भवसि ।।


अनु॒ यदीं॑ म॒रुतो॑ मन्दसा॒नमार्च॒न्निन्द्रं॑ पपि॒वांसं॑ सु॒तस्य॑ ।

आद॑त्त॒ वज्र॑म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर॑सृज॒त्सर्त॒वा उ॑ ॥२

अनु॑ । यत् । ई॒म् । म॒रुतः॑ । म॒न्द॒सा॒नम् । आर्च॑न् । इन्द्र॑म् । प॒पि॒ऽवांस॑म् । सु॒तस्य॑ ।

आ । अ॒द॒त्त॒ । वज्र॑म् । अ॒भि । यत् । अहि॑म् । हन् । अ॒पः । य॒ह्वीः । अ॒सृ॒ज॒त् । सर्त॒वै । ऊं॒ इति॑ ॥२

अनु । यत् । ईम् । मरुतः । मन्दसानम् । आर्चन् । इन्द्रम् । पपिऽवांसम् । सुतस्य ।

आ । अदत्त । वज्रम् । अभि । यत् । अहिम् । हन् । अपः । यह्वीः । असृजत् । सर्तवै । ऊं इति ॥२

यत् यदा मरुतो मन्दसानं तृप्यन्तं सुतस्य अभिषुतं सोमं पपिवांसं पीतवन्तम् ईम् एनम् इन्द्रम् अनु आर्चन् अन्वस्तुवन् । तदेन्द्रः वज्रम् आदत्त आददौ । ततः यत् यदा अहिं वृत्रम् अभि हन् अभ्यहन् अभिहतवान् तदा यह्वीः महतीः क्षपः वृत्रेण निरुद्धान्युदकानि सर्तवै स्वैरत्वेन सर्तुं गन्तुम् असृजत् निरोधाच्चामुञ्चत् ।।


उ॒त ब्र॑ह्माणो मरुतो मे अ॒स्येन्द्र॒ः सोम॑स्य॒ सुषु॑तस्य पेयाः ।

तद्धि ह॒व्यं मनु॑षे॒ गा अवि॑न्द॒दह॒न्नहिं॑ पपि॒वाँ इन्द्रो॑ अस्य ॥३

उ॒त । ब्र॒ह्मा॒णः॒ । म॒रु॒तः॒ । मे॒ । अ॒स्य॒ । इन्द्रः॑ । सोम॑स्य । सुऽसु॑तस्य । पे॒याः॒ ।

तत् । हि । ह॒व्यम् । मनु॑षे । गाः । अवि॑न्दत् । अह॑न् । अहि॑म् । प॒पि॒ऽवान् । इन्द्रः॑ । अ॒स्य॒ ॥३

उत । ब्रह्माणः । मरुतः । मे । अस्य । इन्द्रः । सोमस्य । सुऽसुतस्य । पेयाः ।

तत् । हि । हव्यम् । मनुषे । गाः । अविन्दत् । अहन् । अहिम् । पपिऽवान् । इन्द्रः । अस्य ॥३

उत अपि च हे ब्रह्माणः बृहन्तो हे मरुतः यूयम् इन्द्रः च सुसुतस्य सुष्ठ्वभिषुतस्य मे मदीयस्य अस्य सोमस्य इमं सोमम् ।। द्वितीयार्थे षष्ठी ।। पेयाः पिबत ।। पिबतेराशीर्लिङि मध्यमबहुवचनस्यैकवचनम् ।। तद्धि तत्खलु हव्यं युष्माभिः पीतं सोमात्मकं हविः मनुषे मनुष्याय यजमानाय गाः धेनूर्वृष्टिलक्षणान्युदकानि वा अविन्दत् वेदयति । यजमानं गा लम्भयतीत्यर्थः । किंच अस्य इमं सोमं पपिवान् पीतवान् इन्द्रः अहिं वृत्रम् अहन् अवधीत् ।।


आद्रोद॑सी वित॒रं वि ष्क॑भायत्संविव्या॒नश्चि॑द्भि॒यसे॑ मृ॒गं कः॑ ।

जिग॑र्ति॒मिन्द्रो॑ अप॒जर्गु॑राण॒ः प्रति॑ श्व॒सन्त॒मव॑ दान॒वं ह॑न् ॥४

आत् । रोद॑सी॒ इति॑ । वि॒ऽत॒रम् । वि । स्क॒भा॒य॒त् । स॒म्ऽवि॒व्या॒नः । चि॒त् । भि॒यसे॑ । मृ॒गम् । क॒रिति॑ कः ।

जिग॑र्तिम् । इन्द्रः॑ । अ॒प॒ऽजर्गु॑राणः । प्रति॑ । श्व॒सन्त॑म् । अव॑ । दा॒न॒वम् । ह॒न्निति॑ हन् ॥४

आत् । रोदसी इति । विऽतरम् । वि । स्कभायत् । सम्ऽविव्यानः । चित् । भियसे । मृगम् । करिति कः ।

जिगर्तिम् । इन्द्रः । अपऽजर्गुराणः । प्रति । श्वसन्तम् । अव । दानवम् । हन्निति हन् ॥४

इन्द्रः परमैश्वर्ययुक्तः आत् सोमपानानन्तरं रोदसी द्यावापृथिव्यौ वितरम् अतिशयेन ।। ' अमु च छन्दसि ' इति वेः तरपि कृते अमुप्रत्ययः ।। वि ष्कभायत् व्यस्तभ्नात् चलनरहिते अकरोत् । संविव्यानश्चित् संवृण्वानः संगच्छमानो वेन्द्रः ।। व्ययतेर्वा संवरणकर्मणो वेतेर्वा गतिकर्मणो रूपम् । चित् इति एवेत्यस्यार्थे वर्तते ।। मृगं मृगवत्पलायमानं वृत्रं भियसे भयाय कः अकार्षीत् । करोतेर्लुङि ' मन्त्रे घसह्वरः ' इत्यादिना च्लेर्लोपः । ' बहुलं छन्दस्यमाङ्योगेऽपि ' इत्यडभावः ।। इन्द्रः जिगर्ति गिरन्तमाच्छादयन्तं श्वसन्तं भयार्थं श्वासं कुर्वन्तं दानवं दनोः पुत्रं वृत्रम् अपजर्गुराणः आच्छादनाद्विमोचयन् प्रति प्रतिगत्य अव हन् अवहतवान् ।।


अध॒ क्रत्वा॑ मघव॒न्तुभ्यं॑ दे॒वा अनु॒ विश्वे॑ अददुः सोम॒पेय॑म् ।

यत्सूर्य॑स्य ह॒रित॒ः पत॑न्तीः पु॒रः स॒तीरुप॑रा॒ एत॑शे॒ कः ॥५

अध॑ । क्रत्वा॑ । म॒घ॒ऽव॒न् । तुभ्य॑म् । दे॒वाः । अनु॑ । विश्वे॑ । अ॒द॒दुः॒ । सो॒म॒ऽपेय॑म् ।

यत् । सूर्य॑स्य । ह॒रितः॑ । पत॑न्तीः । पु॒रः । स॒तीः । उप॑राः । एत॑शे । करिति॒ कः ॥५

अध । क्रत्वा । मघऽवन् । तुभ्यम् । देवाः । अनु । विश्वे । अददुः । सोमऽपेयम् ।

यत् । सूर्यस्य । हरितः । पतन्तीः । पुरः । सतीः । उपराः । एतशे । करिति कः ॥५

अध अपि च हे मघवन् धनवन्निन्द्र क्रत्वा क्रतुना त्वदीयेन कर्मणा विश्वे सर्वे देवाः द्योतमाना वह्न्यादयः तुभ्यं त्वदर्थं सोमपेयं सोमपानम् अनु अददुः आनुपूर्व्येण दत्तवन्तः । ततः प्रभृतीन्द्रो देवेभ्यः सर्वेभ्योऽधिकोऽभवदित्यर्थः । तथा च श्रूयते-' स महान्भूत्वा देवता अब्रवी- दुद्धारं म उद्धरत ' (ऐ. ब्रा ३. २१) इत्यादि । हे इन्द्र यत् यस्त्वं पतन्तीः आगच्छन्तीः पुरः सतीः पुरस्ताद्भवन्तीः सूर्यस्य संबन्धिनीः हरितः वडवाः उपराः उपरता मन्दगतीः एतशे एतशाख्याय ऋषये कः अकार्षीः । एतशो हि स्वश्वपुत्रेण सूर्येण सह स्पर्धामकरोदिति यावत् । तथा च निगमान्तरे- प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ' ( ऋ. सं. १. ६१. १५) इति ।।


नव॒ यद॑स्य नव॒तिं च॑ भो॒गान्सा॒कं वज्रे॑ण म॒घवा॑ विवृ॒श्चत् ।

अर्च॒न्तीन्द्रं॑ म॒रुतः॑ स॒धस्थे॒ त्रैष्टु॑भेन॒ वच॑सा बाधत॒ द्याम् ॥६

नव॑ । यत् । अ॒स्य॒ । न॒व॒तिम् । च॒ । भो॒गान् । सा॒कम् । वज्रे॑ण । म॒घऽवा॑ । वि॒ऽवृ॒श्चत् ।

अर्च॑न्ति । इन्द्र॑म् । म॒रुतः॑ । स॒धऽस्थे॑ । त्रैस्तु॑भेन । वच॑सा । बा॒ध॒त॒ । द्याम् ॥६

नव । यत् । अस्य । नवतिम् । च । भोगान् । साकम् । वज्रेण । मघऽवा । विऽवृश्चत् ।

अर्चन्ति । इन्द्रम् । मरुतः । सधऽस्थे । त्रैस्तुभेन । वचसा । बाधत । द्याम् ॥६

यत् यदा मघवा धनवानिन्द्रः । अस्य इत्यनेन शम्बर उच्यते । अस्य शम्बरस्य संबन्धीनि नव नवसंख्याकानि नवतिं च नवतिसंख्याकानि च भोगान् पुराणि । भोगान् इत्यन्तोदात्तः पुरवचनः । साकं युगपदेव वज्रेण विवृश्चत् व्यवृश्चत् अभिनत् तदा मरुतः सधस्थे सहस्थाने युद्धे वा स्थितम् इन्द्रं त्रैष्टुभेन त्रिष्टुप्छन्दस्केन वचसा वाग्रूपेण स्तोत्रेण अर्चन्ति अस्तुवन् । इन्द्र एवं स्तुतः सन् द्यां मरुद्भिः प्रयुज्यमानेन मन्त्रेण दीप्तं शम्बराख्यमसुरं बाधत अबाधत पिपीडे ।।


सखा॒ सख्ये॑ अपच॒त्तूय॑म॒ग्निर॒स्य क्रत्वा॑ महि॒षा त्री श॒तानि॑ ।

त्री सा॒कमिन्द्रो॒ मनु॑ष॒ः सरां॑सि सु॒तं पि॑बद्वृत्र॒हत्या॑य॒ सोम॑म् ॥७

सखा॑ । सख्ये॑ । अ॒प॒च॒त् । तूय॑म् । अ॒ग्निः । अ॒स्य । क्रत्वा॑ । म॒हि॒षा । त्री । श॒तानि॑ ।

त्री । सा॒कम् । इन्द्रः॑ । मनु॑षः । सरां॑सि । सु॒तम् । पि॒ब॒त् । वृ॒त्र॒ऽहत्या॑य । सोम॑म् ॥७

सखा । सख्ये । अपचत् । तूयम् । अग्निः । अस्य । क्रत्वा । महिषा । त्री । शतानि ।

त्री । साकम् । इन्द्रः । मनुषः । सरांसि । सुतम् । पिबत् । वृत्रऽहत्याय । सोमम् ॥७

सखा इन्द्रस्य मित्रभूत् अग्निः महिषा महिषाणां पशूनां त्री त्रीणि शतानि शतसंख्या- कानि सख्ये सख्युर्मित्रभूतस्य अस्य इन्द्रस्य क्रत्वा कर्मणा निमित्तभूतेन तूयं क्षिप्रम् अपचत् पपाच । किंच इन्द्रः परमैश्वर्ययुक्तः मनुषः मनोः संबन्धीनि त्री त्रीणि सरांसि पात्राणि । अत्र सरःशब्देन पूतभृदाधवनीयद्रोणकलशसंज्ञानि पात्राण्युच्यन्ते । तेषु स्थितं सुतम् अभिषुतं सोमं साकं युगपदेव वृत्रहत्याय वृत्रहननाय पिबत् अपिबत् पपौ ।।


त्री यच्छ॒ता म॑हि॒षाणा॒मघो॒ मास्त्री सरां॑सि म॒घवा॑ सो॒म्यापाः॑ ।

का॒रं न विश्वे॑ अह्वन्त दे॒वा भर॒मिन्द्रा॑य॒ यदहिं॑ ज॒घान॑ ॥८

त्री । यत् । श॒ता । म॒हि॒षाणा॑म् । अघः॑ । माः । त्री । सरां॑सि । म॒घऽवा॑ । सो॒म्या । अपाः॑ ।

का॒रम् । न । विश्वे॑ । अ॒ह्व॒न्त॒ । दे॒वाः । भर॑म् । इन्द्रा॑य । यत् । अहि॑म् । ज॒घान॑ ॥८

त्री । यत् । शता । महिषाणाम् । अघः । माः । त्री । सरांसि । मघऽवा । सोम्या । अपाः ।

कारम् । न । विश्वे । अह्वन्त । देवाः । भरम् । इन्द्राय । यत् । अहिम् । जघान ॥८

हे इन्द्र त्वं यत् यदा त्री त्रयाणां शता शतसंख्याकानां महिषाणां पशूनां माः मांसानि अघः भक्षितवानसि ।। घसेरत्तेर्वा रूपम् ।। यदा च मघवा धनवांस्त्वं सोम्या सोममयानि त्री त्रीणि सरांसि पात्राणि पाः पीतवानसि । यत् यदेन्द्रः अहिं वृत्रं जघान हतवान् तदा विश्वे सर्वे देवाः भरं सोमपानादिना पूर्णम् इन्द्राय इन्द्रं युद्धार्थम् अह्वन्त आह्वयन्त । तत्र दृष्टान्तः । कारं न स्वामिनः कर्मकरमिव तद्वत् ।।


उशनसस्तोमे ' उशना यत्सहस्यैः ' इति मरुत्वतीये सूक्तमुखीया । सूत्रितं च-उशनस- स्तोमेन गरगीर्णमिवात्मानं मन्यमानो यजेतोशना यत्सहस्यैरयातम्' ( आश्व. श्रौ. ९ .५) इति ।।

उ॒शना॒ यत्स॑ह॒स्यै॒३॒॑रया॑तं गृ॒हमि॑न्द्र जूजुवा॒नेभि॒रश्वैः॑ ।

व॒न्वा॒नो अत्र॑ स॒रथं॑ ययाथ॒ कुत्से॑न दे॒वैरव॑नोर्ह॒ शुष्ण॑म् ॥९

उ॒शना॑ । यत् । स॒ह॒स्यैः॑ । अया॑तम् । गृ॒हम् । इ॒न्द्र॒ । जू॒जु॒वा॒नेभिः॑ । अश्वैः॑ ।

व॒न्वा॒नः । अत्र॑ । स॒ऽरथ॑म् । य॒या॒थ॒ । कुत्से॑न । दे॒वैः । अव॑नोः । ह॒ । शुष्ण॑म् ॥९

उशना । यत् । सहस्यैः । अयातम् । गृहम् । इन्द्र । जूजुवानेभिः । अश्वैः ।

वन्वानः । अत्र । सऽरथम् । ययाथ । कुत्सेन । देवैः । अवनोः । ह । शुष्णम् ॥९

यत् यदा हे इन्द्र त्वम् उशना काव्यश्च सहस्यैः अभिभवनशीलैः जूजुवानेभिः जूजुवानैर्गच्छद्भिः अश्वैः कुत्सस्य गृहम् अयातम् अगच्छत तदा हे इन्द्र त्वम् अत्र अस्मिन् काले वन्वानः शत्रून् हिंसन् कुत्सेन देवैः च सह सरथं समानमेकं रथं .ययाथ जगन्थ । किंच शुष्णम् एतन्नामानमसुरम् अवनोर्ह अहिंसीः खलु ।।


प्रान्यच्च॒क्रम॑वृह॒ः सूर्य॑स्य॒ कुत्सा॑या॒न्यद्वरि॑वो॒ यात॑वेऽकः ।

अ॒नासो॒ दस्यूँ॑रमृणो व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चः ॥१०

प्र । अ॒न्यत् । च॒क्रम् । अ॒वृ॒हः॒ । सूर्य॑स्य । कुत्सा॑य । अ॒न्यत् । वरि॑वः । यात॑वे । अ॒क॒रित्य॑कः ।

अ॒नासः॑ । दस्यू॑न् । अ॒मृ॒णः॒ । व॒धेन॑ । नि । दु॒र्यो॒णे । अ॒वृ॒ण॒क् । मृ॒ध्रऽवा॑चः ॥१०

प्र । अन्यत् । चक्रम् । अवृहः । सूर्यस्य । कुत्साय । अन्यत् । वरिवः । यातवे । अकरित्यकः ।

अनासः । दस्यून् । अमृणः । वधेन । नि । दुर्योणे । अवृणक् । मृध्रऽवाचः ॥१०

हे इन्द्र पूर्वं द्विचक्रस्य सूर्यस्य अन्यत् एकं चक्रं प्र अवृहः पृथक् चकर्थ । अन्यत् एकं चक्रं कुत्साय कुत्सस्य वरिवः धनं यातवे प्राप्तुम् अकः अकार्षीः । किंच अनासः आस्यरहितान् । आस्यशब्देन शब्दो लक्ष्यते । अशब्दान् मूकान् दस्यून् असुरान् वधेन आयुधेन वज्रेण अमृणः अहिंसीः । दुर्योणे संग्रामे मृध्रवाचः हिंसितवागिन्द्रियानसुरान् नि अवृणक् नितरां छिन्नवानसि । अमृणो न्यवृणगिति द्विरुक्तिरादरार्था ।।


स्तोमा॑सस्त्वा॒ गौरि॑वीतेरवर्ध॒न्नर॑न्धयो वैदथि॒नाय॒ पिप्रु॑म् ।

आ त्वामृ॒जिश्वा॑ स॒ख्याय॑ चक्रे॒ पच॑न्प॒क्तीरपि॑ब॒ः सोम॑मस्य ॥११

स्तोमा॑सः । त्वा॒ । गौरि॑ऽवीतेः । अ॒व॒र्ध॒न् । अर॑न्धयः । वै॒द॒थि॒नाय॑ । पिप्रु॑म् ।

आ । त्वाम् । ऋ॒जिश्वा॑ । स॒ख्याय॑ । च॒क्रे॒ । पच॑न् । प॒क्तीः । अपि॑बः । सोम॑म् । अ॒स्य॒ ॥११

स्तोमासः । त्वा । गौरिऽवीतेः । अवर्धन् । अरन्धयः । वैदथिनाय । पिप्रुम् ।

आ । त्वाम् । ऋजिश्वा । सख्याय । चक्रे । पचन् । पक्तीः । अपिबः । सोमम् । अस्य ॥११

हे इन्द्र गौरिवीतेः एतन्नामकस्य मन्त्रद्रष्टुर्मम संबन्धीनि स्तोमासः स्तोत्राणि त्वा त्वाम् अवर्धन् वर्धयन्तु । वैदथिनाय विदथिनः पुत्राय ऋजिश्वनाम्ने पिप्रुम् एतन्नामकमसुरम् अरन्धयः वशमनयः । हे इन्द्र ऋजिश्वनामा कश्चिदृषिः सख्याय तव सखित्वाय पक्तीः पक्तव्यानि पुरोडाशादीनि पचन् पाकं कुर्वन् त्वाम् आ चक्रे अभिमुखीचकार । किंच त्वम् अस्य ऋजिश्वनः संबन्धिनं सोमम् अपिबः अपाः ।।


दशपेयेऽहनि मरुत्वतीये शस्त्रे ' नवग्वासः ' इति सूक्तमुखीया । सूत्रितं च-' नवग्वासः सुतसोमास इन्द्रं सखा ह यत्र सखिभिर्नवग्वैरिति निविद्धानयोराद्ये ' ( आश्व. श्रौ. ९ .३) इति ।।

नव॑ग्वासः सु॒तसो॑मास॒ इन्द्रं॒ दश॑ग्वासो अ॒भ्य॑र्चन्त्य॒र्कैः ।

गव्यं॑ चिदू॒र्वम॑पि॒धान॑वन्तं॒ तं चि॒न्नरः॑ शशमा॒ना अप॑ व्रन् ॥१२

नव॑ऽग्वासः । सु॒तऽसो॑मासः । इन्द्र॑म् । दश॑ऽग्वासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।

गव्य॑म् । चि॒त् । ऊ॒र्वम् । अ॒पि॒धान॑ऽवन्तम् । तम् । चि॒त् । नरः॑ । श॒श॒मा॒नाः । अप॑ । व्र॒न् ॥१२

नवऽग्वासः । सुतऽसोमासः । इन्द्रम् । दशऽग्वासः । अभि । अर्चन्ति । अर्कैः ।

गव्यम् । चित् । ऊर्वम् । अपिधानऽवन्तम् । तम् । चित् । नरः । शशमानाः । अप । व्रन् ॥१२

नवग्वासः । सत्रयागमनुतिष्ठन्तो ये नवभिर्मासैः समाप्य गतास्ते नवग्वाः । दशभिर्मासैः समाप्य ये गतास्ते दशग्वाः । एते उभयविधा अङ्गिरसः सुतसोमासः अभिषुतसोमाः सन्तः इन्द्रम् अर्कैः अर्चनीयैः स्तोत्रैः अभ्यर्चन्ति अभिष्टुवन्ति । तथा शशमानाः स्तुवन्तः नरः नेतारोऽङ्गिरसः अपिधानवन्तं बलेनासुरेणाच्छादितवन्तं तं चित् बहुषु प्रदेशेषु प्रसिद्धमपि गव्यं चित् गोसबन्धिनमपि ऊर्वं समूहम् अप व्रन् अपावृण्वन् ।।


परिक्रीनाम्न्येकाहे मरुत्वतीयनिष्केवल्ययोः सूक्तमुखीये ' कथो नु ते ' इत्याद्ये द्वे ऋचौ । । सूत्रितं च-' कथो नु ते परि चराणि विद्वानिति द्वे ' (आश्व. श्रौ. ९. ५) इति ।।

क॒थो नु ते॒ परि॑ चराणि वि॒द्वान्वी॒र्या॑ मघव॒न्या च॒कर्थ॑ ।

या चो॒ नु नव्या॑ कृ॒णवः॑ शविष्ठ॒ प्रेदु॒ ता ते॑ वि॒दथे॑षु ब्रवाम ॥१३

क॒थो इति॑ । नु । ते॒ । परि॑ । च॒रा॒णि॒ । वि॒द्वान् । वी॒र्या॑ । म॒घ॒ऽव॒न् । या । च॒कर्थ॑ ।

या । चो॒ इति॑ । नु । नव्या॑ । कृ॒णवः॑ । श॒वि॒ष्ठ॒ । प्र । इत् । ऊं॒ इति॑ । ता । ते॒ । वि॒दथे॑षु । ब्र॒वा॒म॒ ॥१३

कथो इति । नु । ते । परि । चराणि । विद्वान् । वीर्या । मघऽवन् । या । चकर्थ ।

या । चो इति । नु । नव्या । कृणवः । शविष्ठ । प्र । इत् । ऊं इति । ता । ते । विदथेषु । ब्रवाम ॥१३

हे मघवन् धनवन्निन्द्र त्वं या यानि वीर्या वीर्याणि चकर्थ चकृषे अहं तानि वीर्याणि अविद्वान् जानन् ते तुभ्यं कथो नु कथं नु परि चराणि परिचर्यां करवाणि । हे शविष्ठ बलवत्तमेन्द्र त्वं या चो यानि चैव नव्या नव्यानि नूतनानि वीर्याणि नु क्षिप्रं कृणवः कुर्याः ते त्वदीयानि ता तानि वीर्याणि विदथेषु यज्ञेषु प्रेदु ब्रवाम प्रैव वदाम ।।


ए॒ता विश्वा॑ चकृ॒वाँ इ॑न्द्र॒ भूर्यप॑रीतो ज॒नुषा॑ वी॒र्ये॑ण ।

या चि॒न्नु व॑ज्रिन्कृ॒णवो॑ दधृ॒ष्वान्न ते॑ व॒र्ता तवि॑ष्या अस्ति॒ तस्याः॑ ॥१४

ए॒ता । विश्वा॑ । च॒कृ॒ऽवान् । इ॒न्द्र॒ । भूरि॑ । अप॑रिऽइतः । ज॒नुषा॑ । वी॒र्ये॑ण ।

या । चि॒त् । नु । व॒ज्रि॒न् । कृ॒णवः॑ । द॒धृ॒ष्वान् । न । ते॒ । व॒र्ता । तवि॑ष्याः । अ॒स्ति॒ । तस्याः॑ ॥१४

एता । विश्वा । चकृऽवान् । इन्द्र । भूरि । अपरिऽइतः । जनुषा । वीर्येण ।

या । चित् । नु । वज्रिन् । कृणवः । दधृष्वान् । न । ते । वर्ता । तविष्याः । अस्ति । तस्याः ॥१४

हे इन्द्र अपरीतः शत्रुभिरपरिगतस्त्वं जनुषा जननसिद्धेनात्मीयेन वीर्येण बलेन भूरि भूरीणि बहूनि एता एतानि प्रत्यक्षेणोपलभ्यमानानि विश्वा विश्वानि व्याप्तानि भुवनजातानि चकृवान् कृतवानसि । हे वज्रिन् वज्रवन्निन्द्र दधृष्वान् सपत्नान् धर्षयंस्त्वं नु क्षिप्रं या चित् यानि च विश्वानि कृणवः कुर्याः ते त्वदीयस्य तस्याः तविष्याः तस्य बलस्य वर्ता निवारयिता न कोऽपि अस्ति ।।


इन्द्र॒ ब्रह्म॑ क्रि॒यमा॑णा जुषस्व॒ या ते॑ शविष्ठ॒ नव्या॒ अक॑र्म ।

वस्त्रे॑व भ॒द्रा सुकृ॑ता वसू॒यू रथं॒ न धीर॒ः स्वपा॑ अतक्षम् ॥१५

इन्द्र॑ । ब्रह्म॑ । क्रि॒यमा॑णा । जु॒ष॒स्व॒ । या । ते॒ । श॒वि॒ष्ठ॒ । नव्याः॑ । अक॑र्म ।

वस्त्रा॑ऽइव । भ॒द्रा । सुऽकृ॑ता । व॒सु॒ऽयुः । रथ॑म् । न । धीरः॑ । सु॒ऽअपाः॑ । अ॒त॒क्ष॒म् ॥१५

इन्द्र । ब्रह्म । क्रियमाणा । जुषस्व । या । ते । शविष्ठ । नव्याः । अकर्म ।

वस्त्राऽइव । भद्रा । सुऽकृता । वसुऽयुः । रथम् । न । धीरः । सुऽअपाः । अतक्षम् ॥१५

हे शविष्ठ बलवत्तम शूरतम वा इन्द्र ते तुभ्यं या यानि स्तोत्राणि नव्याः नूतना अद्यतना वयम् अकर्म अकुर्म हे इन्द्र त्वं क्रियमाणा अस्माभिः क्रियमाणानि ब्रह्म ब्रह्माणि तानि स्तोत्राणि जुषस्व सेवस्व । धीरः धीमान् स्वपाः शोभनकर्मा वसूयुः धनकामोऽहं वस्त्रेव वस्त्राणीव भद्रा भद्राणि भजनीयानि सुकृता सुष्ठु कृतानि स्तोत्राणि रथं न रथमिव अतक्षम् अकरवम् । स्तोत्राणि उपहारवत् ग्राह्याणीत्यभिप्रायेण वस्त्रनिदर्शनमुक्तम् । रथदृष्टान्तस्तु आगमन- साधनत्वप्रतिपादनाय । स्तोत्राणि स्वीकृत्य मह्यं धनं प्रयच्छेत्यर्थः ।।

टिप्पणी

गौरी उपरि पौराणिकसंदर्भाः

गौरिवीति/गौरी उपरि टिप्पणी


५.२९.१ त्र्यर्यमा मनुषो देवताता इति

अर्यमा उपरि पौराणिकसंदर्भाः

अर्यमा उपरि टिप्पणी

यथा आश्वलायनश्रौतसूत्रम्, शांखायनश्रौतसूत्रादि ग्रन्थेषु उल्लिखितमस्ति, अस्य सूक्तस्य विनियोगः अभिप्लवषडहस्य तृतीये अहनि माध्यन्दिनसवने अस्ति। ऐतरेयब्राह्मणे (५.१) तृतीयाह्नस्य मन्त्राणां लक्षणानां उल्लेखमस्ति - यद्वै समानोदर्कं तत्तृतीयस्याह्नो रूपं यदश्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्रतवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरुच्यते यदसौ लोकोऽभ्युदितो यद्वैरूपं यज्जागतं यत्कृतमेतानि वै तृतीयस्याह्नो रूपाणि । ओंकारस्य तृतीयमक्षरं म अस्ति यस्योद्देश्यं तन्त्रे अनुपयोगी ऊर्जायाः सम्यग्रूपेण विसर्जनं अस्ति। व्यवहारे तृतीयअह्नः रूपं किं अस्ति, अस्मिन् विषये भागवतपुराणस्य तृतीयः स्कन्धस्य चित्रं साहाय्यं कर्तुं शक्यते। तृतीये स्कन्धे कर्दमऋषेः विवाहं देवहूतिना सह भवति एवं कर्दमः तस्यां सह विमाने विहारं करोति। कर्दमः - पङ्कः। पापपूर्णे पङ्के अपि देवानां आवाहनस्य सामर्थ्यं अवतरति, अयं भावार्थः प्रतीयते। अर्यम्णः गतिः सामान्यरूपेण तिर्यक् - गतिरस्ति, पापानां शोधनम्। किन्तु अत्र त्रिरर्यमा - अर्यमा, वरुण एवं मित्र, एतेषां त्रयाणां गतिः ऊर्ध्वमुखी अस्ति।

अभिप्लवषडहस्य प्रथममहः (ऋ. ४.२१ )

अभिप्लवषडहस्य द्वितीयमहः(ऋ. ३.३२)

५.२९.९ उशना यत् सहस्यै इति

उशना ह काव्योऽसुराणां पुरोहित आस । स ह देवानामन्नमशित्वा परिदद्रे स हैक्षत । कथं नु तेन यज्ञक्रतुना यजेयं येनेष्ट्वा पाप्मानमपहन्यामिति । स एतमुशनस्तोमं यज्ञक्रतुमपश्यत् । तेनेष्ट्वा पाप्मानमपाहत । तेन पाप्मानमपजिघांसमानो यजेत। ...उशना यत्सहस्यैरयातं वरिवस्यन्नुशने काव्यायेति(६.२०.११) उशनवती तदेतस्याह्नो रूपम् - शांश्रौ. १४.२७.१३


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.२९&oldid=333086" इत्यस्माद् प्रतिप्राप्तम्