ऋग्वेदः सूक्तं ६.२०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.१९ ऋग्वेदः - मण्डल ६
सूक्तं ६.२०
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.२१ →
दे. इन्द्रः। त्रिष्टुप्, ७ विराट्


द्यौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पृत्सु जनान् ।
तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वृत्रतुरम् ॥१॥
दिवो न तुभ्यमन्विन्द्र सत्रासुर्यं देवेभिर्धायि विश्वम् ।
अहिं यद्वृत्रमपो वव्रिवांसं हन्नृजीषिन्विष्णुना सचानः ॥२॥
तूर्वन्नोजीयान्तवसस्तवीयान्कृतब्रह्मेन्द्रो वृद्धमहाः ।
राजाभवन्मधुनः सोम्यस्य विश्वासां यत्पुरां दर्त्नुमावत् ॥३॥
शतैरपद्रन्पणय इन्द्रात्र दशोणये कवयेऽर्कसातौ ।
वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत्किं चन प्र ॥४॥
महो द्रुहो अप विश्वायु धायि वज्रस्य यत्पतने पादि शुष्णः ।
उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ ॥५॥
प्र श्येनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन् ।
प्रावन्नमीं साप्यं ससन्तं पृणग्राया समिषा सं स्वस्ति ॥६॥
वि पिप्रोरहिमायस्य दृळ्हाः पुरो वज्रिञ्छवसा न दर्दः ।
सुदामन्तद्रेक्णो अप्रमृष्यमृजिश्वने दात्रं दाशुषे दाः ॥७॥
स वेतसुं दशमायं दशोणिं तूतुजिमिन्द्रः स्वभिष्टिसुम्नः ।
आ तुग्रं शश्वदिभं द्योतनाय मातुर्न सीमुप सृजा इयध्यै ॥८॥
स ईं स्पृधो वनते अप्रतीतो बिभ्रद्वज्रं वृत्रहणं गभस्तौ ।
तिष्ठद्धरी अध्यस्तेव गर्ते वचोयुजा वहत इन्द्रमृष्वम् ॥९॥
सनेम तेऽवसा नव्य इन्द्र प्र पूरव स्तवन्त एना यज्ञैः ।
सप्त यत्पुरः शर्म शारदीर्दर्द्धन्दासीः पुरुकुत्साय शिक्षन् ॥१०॥
त्वं वृध इन्द्र पूर्व्यो भूर्वरिवस्यन्नुशने काव्याय ।
परा नववास्त्वमनुदेयं महे पित्रे ददाथ स्वं नपातम् ॥११॥
त्वं धुनिरिन्द्र धुनिमतीरृणोरपः सीरा न स्रवन्तीः ।
प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥१२॥
तव ह त्यदिन्द्र विश्वमाजौ सस्तो धुनीचुमुरी या ह सिष्वप् ।
दीदयदित्तुभ्यं सोमेभिः सुन्वन्दभीतिरिध्मभृतिः पक्थ्यर्कैः ॥१३॥


सायणभाष्यम्

‘ द्यौर्न य इन्द्र' इति त्रयोदशर्चं पञ्चमं सूक्तं भरद्वाजस्यार्षमैन्द्रं त्रैष्टुभम् । ‘वि पिप्रोः इत्येषा सप्तमी दशाक्षरचतुष्टययुक्ता विराट् । अनुक्रम्यते च – ' द्यौर्न वि पिप्रोर्विराट' इति । पृष्ठ्यषडहस्य षष्ठेऽहनि तृतीयसवने उक्थ्यस्तोत्राणि यदि द्विपदासु स्तुवीरन् यदि वाग्निष्टोमसंस्थः स्यात् तदानीं माध्यंदिने सवनेऽच्छावाकः स्वशस्त्र आरम्भणीयाभ्य ऊर्ध्वमेतत्सूक्तं शंसेत् । सूत्रितं च--- द्यौर्न य इन्द्रेत्यच्छावाकः' ( आश्व. श्रौ. ८. ४ ) इति । इदमेव सूक्तम् इन्द्राविष्ण्वोरुत्क्रान्तिनाम्न्येकाहे निष्केवल्यनिविद्धानम् । ' द्यौर्न य इन्द्रेति मध्यंदिनः ' ( आश्व. श्रौ. ९. ७) इति ॥


द्यौर्न य इ॑न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् ।

तं न॑ः स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू॑नो सहसो वृत्र॒तुर॑म् ॥१

द्यौः । न । यः । इ॒न्द्र॒ । अ॒भि । भूम॑ । अ॒र्यः । त॒स्थौ । र॒यिः । शव॑सा । पृ॒त्ऽसु । जना॑न् ।

तम् । नः॒ । स॒हस्र॑ऽभरम् । उ॒र्व॒रा॒ऽसाम् । द॒द्धि । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वृ॒त्र॒ऽतुर॑म् ॥१

द्यौः । न । यः । इन्द्र । अभि । भूम । अर्यः । तस्थौ । रयिः । शवसा । पृत्ऽसु । जनान् ।

तम् । नः । सहस्रऽभरम् । उर्वराऽसाम् । दद्धि । सूनो इति । सहसः । वृत्रऽतुरम् ॥१

“यः “रयिः पुत्ररूपं धनं “शवसा बलेन “पृत्सु संग्रामेषु “अर्यः अरीन् शत्रून् “जनान् “अभि “तस्थौ आक्रामेत् । तत्र दृष्टान्तः। “द्यौर्न । द्योतमानः सूर्यो यथा "भूम भूतानि आक्रामति तद्वत् । हे “सहसः “सूनो बलस्य पुत्र “इन्द्र त्वं “तं पुत्रं “नः अस्मभ्यं “दद्धि देहि । कीदृशम् । सहस्रभरं सहस्रस्य धनस्य भर्तारम् “उर्वरासाम् उर्वराणां सस्याढ्यानां भूमीनां सनितारं संभक्तारं “वृत्रतुरं वृत्राणां शत्रूणां तरितारं तुर्वितारं वा ।।


दि॒वो न तुभ्य॒मन्वि॑न्द्र स॒त्रासु॒र्यं॑ दे॒वेभि॑र्धायि॒ विश्व॑म् ।

अहिं॒ यद्वृ॒त्रम॒पो व॑व्रि॒वांसं॒ हन्नृ॑जीषि॒न्विष्णु॑ना सचा॒नः ॥२

दि॒वः । न । तुभ्य॑म् । अनु॑ । इ॒न्द्र॒ । स॒त्रा । अ॒सु॒र्य॑म् । दे॒वेभिः॑ । धा॒यि॒ । विश्व॑म् ।

अहि॑म् । यत् । वृ॒त्रम् । अ॒पः । व॒व्रि॒ऽवांस॑म् । हन् । ऋ॒जी॒षि॒न् । विष्णु॑ना । स॒चा॒नः ॥२

दिवः । न । तुभ्यम् । अनु । इन्द्र । सत्रा । असुर्यम् । देवेभिः । धायि । विश्वम् ।

अहिम् । यत् । वृत्रम् । अपः । वव्रिऽवांसम् । हन् । ऋजीषिन् । विष्णुना । सचानः ॥२

“दिवो “न दिवे सूर्यायेव हे “इन्द्र “तुभ्यं “सत्रा सत्यमेव “विश्वं व्याप्तम् "असुर्यम् असुरत्वं बलं “देवेभिः देवैः स्तोतृभिः अनु “धायि व्यधायि । अकारि । स्तोत्रैः स्तूयमाना देवता बलवती भवतीत्यर्थः । हे “ऋजीषिन् विगतरससोमेन्द्र “विष्णुना “सचानः संगच्छमानस्त्वम् । ‘षच समवाये' इति धातो रूपम् । “यत् येनासुर्येण “अपः उदकानि “वव्रिवांसं परिवृण्वन्तम् “अहिम् आगत्य हन्तारं "वृत्रम् असुरं “हन् अहन् अवधीः तद्वलं व्यधायीति पूर्वेण संबन्धः ।।


तूर्व॒न्नोजी॑यान्त॒वस॒स्तवी॑यान्कृ॒तब्र॒ह्मेन्द्रो॑ वृ॒द्धम॑हाः ।

राजा॑भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा॑सां॒ यत्पु॒रां द॒र्त्नुमाव॑त् ॥३

तूर्व॑न् । ओजी॑यान् । त॒वसः॑ । तवी॑यान् । कृ॒तऽब्र॑ह्मा । इन्द्रः॑ । वृ॒द्धऽम॑हाः ।

राजा॑ । अ॒भ॒व॒त् । मधु॑नः । सो॒म्यस्य॑ । विश्वा॑साम् । यत् । पु॒राम् । द॒र्त्नुम् । आव॑त् ॥३

तूर्वन् । ओजीयान् । तवसः । तवीयान् । कृतऽब्रह्मा । इन्द्रः । वृद्धऽमहाः ।

राजा । अभवत् । मधुनः । सोम्यस्य । विश्वासाम् । यत् । पुराम् । दर्त्नुम् । आवत् ॥३

“यत् यदा “इन्द्रः “विश्वासां सर्वासां “पुरां पुरीणां “दर्त्नुं दारकं वज्रम् “आवत् प्रापत् तदा “सोम्यस्य सोममयस्य “मधुनः मधुररसस्य “राजा “अभवत् स्वामी आसीत् । कीदृशः । “तूर्वन् हिंसकान् हिंसन् “ओजीयान् अतिशयेनौजस्वी “तवसः बलवतः “तवीयान् बलवत्तरः कृतब्रह्मा ।। कृतं ब्रह्म स्तोत्रं यस्मै स्तोतृभिः सः । अथवा कृतं दत्तं ब्रह्म अन्नं येन स्तोतृभ्यः सः । “वृद्धमहाः वृद्धतेजाः । एवंभूत इन्द्रो राजाभवदिति ।।


श॒तैर॑पद्रन्प॒णय॑ इ॒न्द्रात्र॒ दशो॑णये क॒वये॒ऽर्कसा॑तौ ।

व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्किं च॒न प्र ॥४

श॒तैः । अ॒प॒द्र॒न् । प॒णयः॑ । इ॒न्द्र॒ । अत्र॑ । दश॑ऽओणये । क॒वये॑ । अ॒र्कऽसा॑तौ ।

व॒धैः । शुष्ण॑स्य । अ॒शुष॑स्य । मा॒याः । पि॒त्वः । न । अ॒रि॒रे॒ची॒त् । किम् । च॒न । प्र ॥४

शतैः । अपद्रन् । पणयः । इन्द्र । अत्र । दशऽओणये । कवये । अर्कऽसातौ ।

वधैः । शुष्णस्य । अशुषस्य । मायाः । पित्वः । न । अरिरेचीत् । किम् । चन । प्र ॥४

“अत्र अस्मिन् “अर्कसातौ । अर्कोऽन्नं प्राप्यतेऽस्मिन्नित्यर्कसातिर्युद्धम् । तस्मिन् “दशोणये बहुहविष्कात् “कवये मेधाविनः । पञ्चम्यर्थे चतुर्थी । हे “इन्द्र त्वत्सहायात् कुत्सात् बिभ्यतः “पणयः एतन्नामकासुराः “शतैः शतसंख्याकैः बलैः सार्धम् “अपद्रन् अपाद्रवन् । अपलायन्त । अपि चेन्द्रः “अशुषस्य अशुष्कस्य । संपूर्णबलस्येत्यर्थः । “शुष्णस्य एतन्नामकासुरस्य कुत्सस्य शत्रोः “मायाः कपटान् “वधैः हननसाधनैरायुधैः “न “प्र “अरिरेचीत् प्ररिक्तानतिरिक्तान्नाकरोत् । “पित्वः अन्नस्य । पितुरित्यन्ननामैतत् । “किं “चन किंचिदपि न प्रारिरेचीत् । तदीयमन्नं सर्वमप्यपाहारयत् ॥


म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्ण॑ः ।

उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्र॒ः कुत्सा॑य॒ सूर्य॑स्य सा॒तौ ॥५

म॒हः । द्रु॒हः । अप॑ । वि॒श्वऽआ॑यु । धा॒यि॒ । वज्र॑स्य । यत् । पत॑ने । पादि॑ । शुष्णः॑ ।

उ॒रु । सः । स॒ऽरथ॑म् । सार॑थये । कः॒ । इन्द्रः॑ । कुत्सा॑य । सूर्य॑स्य । सा॒तौ ॥५

महः । द्रुहः । अप । विश्वऽआयु । धायि । वज्रस्य । यत् । पतने । पादि । शुष्णः ।

उरु । सः । सऽरथम् । सारथये । कः । इन्द्रः । कुत्साय । सूर्यस्य । सातौ ॥५

“यत् यदा सः “शुष्णः असुरः “वज्रस्य “पतने पाते "पादि अगच्छत् । अम्रियतेत्यर्थः । तदा “महः महतः “द्रुहः द्रोग्धुः शुष्णस्य संबन्धि “विश्वायु सर्वगतम् । बलमिति शेषः । “अप “धायि अपहितमकारि। तिरस्कृतमित्यर्थः । “सः “इन्द्रः “सारथये सारथिभूताय “कुत्साय “सरथं समानरथं “सूर्यस्य “सातौ भजने निमित्तभूते “उरु विस्तीर्णं यथा भवति तथा “कः अकरोत् । तथा चोक्तं - कुत्सायेन्द्रोऽसुरं शुष्णं जिघांसुः कुत्समात्मनः । सारथिं कल्पयित्वास्य शत्रुं शुष्णमहंस्ततः । कुत्सस्य रक्षां बहुलां चकारेत्यनयोच्यते' इति ॥ ॥ ९ ॥


प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् ।

प्राव॒न्नमीं॑ सा॒प्यं स॒सन्तं॑ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ॥६

प्र । श्ये॒नः । न । म॒दि॒रम् । अं॒शुम् । अ॒स्मै॒ । शिरः॑ । दा॒सस्य॑ । नमु॑चेः । म॒था॒यन् ।

प्र । आ॒व॒त् । नमी॑म् । सा॒प्यम् । स॒सन्त॑म् । पृ॒णक् । रा॒या । सम् । इ॒षा । सम् । स्व॒स्ति ॥६

प्र । श्येनः । न । मदिरम् । अंशुम् । अस्मै । शिरः । दासस्य । नमुचेः । मथायन् ।

प्र । आवत् । नमीम् । साप्यम् । ससन्तम् । पृणक् । राया । सम् । इषा । सम् । स्वस्ति ॥६

“श्येनः सुपर्णश्च । “न इत्ययं शब्दः समुच्चये वर्तते । “अस्मै इन्द्राय “मदिरं मदकरम् “अंशुं सोमम् । “प्र इति आ इत्यस्यार्थे वर्तते । आहरत् । उपसर्गदर्शनाच्चाख्यात्मध्याह्रियते । किंचायमिन्द्रोऽपि “दासस्य प्राणिनामुपक्षपयितुः नमुचेः एतन्नाम्नोऽसुरस्य “शिरः शीर्षं "मथायन् मन्थनं कुर्वन् “साप्यं सपस्य पुत्रं “ससन्तं स्वपन्तं “नमीम् एतत्संज्ञकमृषिं “प्रावत् प्रारक्षत् । "स्वस्ति अविनाशेन "राया पश्वादिधनेन “इषा अन्नेन च तमृषिं "सं "पृणक् समयोजयत् ॥


वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो॑ वज्रि॒ञ्छव॑सा॒ न द॑र्दः ।

सुदा॑म॒न्तद्रेक्णो॑ अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे॑ दाः ॥७

वि । पिप्रोः॑ । अहि॑ऽमायस्य । दृ॒ळ्हाः । पुरः॑ । व॒ज्रि॒न् । शव॑सा । न । द॒र्द॒रिति॑ दर्दः ।

सुऽदा॑मन् । तत् । रेक्णः॑ । अ॒प्र॒ऽमृ॒ष्यम् । ऋ॒जिश्व॑ने । दा॒त्रम् । दा॒शुषे॑ । दाः॒ ॥७

वि । पिप्रोः । अहिऽमायस्य । दृळ्हाः । पुरः । वज्रिन् । शवसा । न । दर्दरिति दर्दः ।

सुऽदामन् । तत् । रेक्णः । अप्रऽमृष्यम् । ऋजिश्वने । दात्रम् । दाशुषे । दाः ॥७

हे “वज्रिन् वज्रवन्निन्द्र त्वम् “अहिमायस्य आहन्त्र्यो माया यस्य “पिप्रोः एतन्नाम्नोऽसुरस्य संबन्धिनीः “दृळ्हाः दृढानि “पुरः प्राकारादीनि दुर्गाणि “शवसा बलेन “वि "दर्दः विदारितवानसि । “न इति पादपूरणः । त्वं पिप्रोर्नृमणः प्रारुज: पुरः ' (ऋ. सं. १. ५१. ५); ‘शतं पूर्भिरायसीभिर्नि पाहि' (ऋ. सं. ७. ३. ७ ) इति दर्शनात् । अपि च हे सुदामन् शोभनदानेन्द्र त्वं “दात्रं हविर्लक्षणं धनं “दाशुषे दत्तवते “ऋजिश्वने एतन्नामकाय राजर्षये “अप्रमृष्यं केनाप्यबाध्यं “तत् तस्य स्वभूतं "रेक्णः धनं “दाः अदाः दत्तवानसि ।।


स वे॑त॒सुं दश॑मायं॒ दशो॑णिं॒ तूतु॑जि॒मिन्द्र॑ः स्वभि॒ष्टिसु॑म्नः ।

आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा इ॒यध्यै॑ ॥८

सः । वे॒त॒सुम् । दश॑ऽमायम् । दश॑ऽओणिम् । तूतु॑जिम् । इन्द्रः॑ । स्व॒भि॒ष्टिऽसु॑म्नः ।

आ । तुग्र॑म् । शश्व॑त् । इभ॑म् । द्योत॑नाय । मा॒तुः । न । सी॒म् । उप॑ । सृ॒ज॒ । इ॒यध्यै॑ ॥८

सः । वेतसुम् । दशऽमायम् । दशऽओणिम् । तूतुजिम् । इन्द्रः । स्वभिष्टिऽसुम्नः ।

आ । तुग्रम् । शश्वत् । इभम् । द्योतनाय । मातुः । न । सीम् । उप । सृज । इयध्यै ॥८

"स्वभिष्टिसुम्नः सुष्ठु अभ्येषणीयान्यभिगम्यानि सुम्नानि सुखानि येन देयानि “सः “इन्द्रः “दशमायं बहुवञ्चनं “वेतसुं वेतसुनामानमसुरं “दशोणिम् एतन्नामकं च "तूतुजिं तूतुजिनामकं च “आ अपि च “तुग्रं तुग्रनामकमसुरं तथा “इभम् एतन्नामकमसुरं च "इयध्यै एतुं “द्योतनाय एतत्संज्ञाय राज्ञे “शश्वत् “उप "सृज उपासृजत् । वशीचकार । तत्र दृष्टान्तः । “मातुर्न मातुर्जनन्या इव पुत्रम् । यथा मात्रे पुत्रो वशीभवति तद्वत् वशं चकारेत्यर्थः । “सीम् इति पादपूरणः ॥


स ईं॒ स्पृधो॑ वनते॒ अप्र॑तीतो॒ बिभ्र॒द्वज्रं॑ वृत्र॒हणं॒ गभ॑स्तौ ।

तिष्ठ॒द्धरी॒ अध्यस्ते॑व॒ गर्ते॑ वचो॒युजा॑ वहत॒ इन्द्र॑मृ॒ष्वम् ॥९

सः । ई॒म् । स्पृधः॑ । व॒न॒ते॒ । अप्र॑तिऽइतः । बिभ्र॑त् । वज्र॑म् । वृ॒त्र॒ऽहन॑म् । गभ॑स्तौ ।

तिष्ठ॑त् । हरी॒ इति॑ । अधि॑ । अस्ता॑ऽइव । गर्ते॑ । व॒चः॒ऽयुजा॑ । व॒ह॒तः॒ । इन्द्र॑म् । ऋ॒ष्वम् ॥९

सः । ईम् । स्पृधः । वनते । अप्रतिऽइतः । बिभ्रत् । वज्रम् । वृत्रऽहनम् । गभस्तौ ।

तिष्ठत् । हरी इति । अधि । अस्ताऽइव । गर्ते । वचःऽयुजा । वहतः । इन्द्रम् । ऋष्वम् ॥९

“गभस्तौ हस्ते “वृत्रहणं वृत्राणां शत्रूणां हन्तारं "वज्रं स्वकीयमायुधं “बिभ्रत् धारयन् “अप्रतीतः शत्रुभिरप्रतिगतः “सः इन्द्रः “स्पृधः स्पर्धमानान् “ईम् इमान् वृत्रप्रभृतीन शत्रून् “वनते हन्ति । “हरी स्वकीयावश्वौ “अधि “तिष्ठत् आरोहति । तत्र दृष्टान्तः । “अस्तेव “गर्ते । यथा क्षेप्ता शूरो रथेऽधितिष्ठति तद्वत् । तथा “वचोयुजा वचोमात्रेण युज्यमानौ । यद्वा । स्तोतॄणां स्तुतिभिर्युज्यमानौ तौ हरी च “ऋष्वं महान्तम् “इन्द्रं "वहतः ॥


स॒नेम॒ तेऽव॑सा॒ नव्य॑ इन्द्र॒ प्र पू॒रव॑ः स्तवन्त ए॒ना य॒ज्ञैः ।

स॒प्त यत्पुर॒ः शर्म॒ शार॑दी॒र्दर्द्धन्दासी॑ः पुरु॒कुत्सा॑य॒ शिक्ष॑न् ॥१०

स॒नेम॑ । ते॒ । अव॑सा । नव्यः॑ । इ॒न्द्र॒ । प्र । पू॒रवः॑ । स्त॒व॒न्ते॒ । ए॒ना । य॒ज्ञैः ।

स॒प्त । यत् । पुरः॑ । शर्म॑ । शार॑दीः । दर्त् । हन् । दासीः॑ । पु॒रु॒ऽकुत्सा॑य । शिक्ष॑न् ॥१०

सनेम । ते । अवसा । नव्यः । इन्द्र । प्र । पूरवः । स्तवन्ते । एना । यज्ञैः ।

सप्त । यत् । पुरः । शर्म । शारदीः । दर्त् । हन् । दासीः । पुरुऽकुत्साय । शिक्षन् ॥१०

हे “इन्द्र “ते त्वदीयेन “अवसा रक्षणेन “नव्यः नवीयः नवतरं त्वया दीयमानं धनं “सनेम वयं स्तोतारो भजेमहि । “पूरवः मनुष्याः स्तोतारः “एना अनेन स्तोत्रेण युक्तैः “यज्ञैः “प्र “स्तवन्ते त्वां स्तुवन्ति । “यत् यस्मात् कारणात् "दासीः कर्मणामुपक्षपयित्रीः शत्रुप्रजाः "हन् घ्नन् हिंसन् “पुरुकुत्साय एतन्नामकाय राज्ञे “शिक्षन् धनानि प्रयच्छन् हे इन्द्र त्वं “शारदीः शरन्नाम्नोऽसुरस्य संबन्धिनीः “सप्त सप्तसंख्याकाः “पुरः पुरीः “शर्म शर्मणा वज्रेण “दर्त् विदारितवानसि तस्मात् कारणात् त्वां स्तोतारः स्तुवन्तीत्यर्थः ॥


त्वं वृ॒ध इ॑न्द्र पू॒र्व्यो भू॑र्वरिव॒स्यन्नु॒शने॑ का॒व्याय॑ ।

परा॒ नव॑वास्त्वमनु॒देयं॑ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा॑तम् ॥११

त्वम् । वृ॒धः । इ॒न्द्र॒ । पू॒र्व्यः । भूः॒ । व॒रि॒व॒स्यन् । उ॒शने॑ । का॒व्याय॑ ।

परा॑ । नव॑ऽवास्त्वम् । अ॒नु॒ऽदेय॑म् । म॒हे । पि॒त्रे । द॒दा॒थ॒ । स्वम् । नपा॑तम् ॥११

त्वम् । वृधः । इन्द्र । पूर्व्यः । भूः । वरिवस्यन् । उशने । काव्याय ।

परा । नवऽवास्त्वम् । अनुऽदेयम् । महे । पित्रे । ददाथ । स्वम् । नपातम् ॥११

हे “इन्द्र “पूर्व्यः पुरातनः “त्वं “काव्याय कविपुत्राय “उशने उशनसे भार्गवाय “वरिवस्यन् धनमिच्छन् “वृधः “भूः स्तोतॄणां वर्धको भवसि । “अनुदेयम् अनुदातव्यं धनं “नववास्त्वम् एतन्नामकमसुरं पराहत्य “स्वं स्वकीयमौशनसं “नपातं युद्धे शत्रुभिर्गृहीतं पुत्रं “महे महते “पित्रे पालयितव्याय उशनसे “परा “ददाथ । तस्य शत्रुं हत्वा प्रकर्षेण दत्तवानसि ॥


त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव॑न्तीः ।

प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥१२

त्वम् । धुनिः॑ । इ॒न्द्र॒ । धुनि॑ऽमतीः । ऋ॒णोः । अ॒पः । सी॒राः । न । स्रव॑न्तीः ।

प्र । यत् । स॒मु॒द्रम् । अति॑ । शू॒र॒ । पर्षि॑ । पा॒रय॑ । तु॒र्वश॑म् । यदु॑म् । स्व॒स्ति ॥१२

त्वम् । धुनिः । इन्द्र । धुनिऽमतीः । ऋणोः । अपः । सीराः । न । स्रवन्तीः ।

प्र । यत् । समुद्रम् । अति । शूर । पर्षि । पारय । तुर्वशम् । यदुम् । स्वस्ति ॥१२

हे "इन्द्र “धुनिः शत्रूणां कम्पयिता “त्वं “धुनिमतीः धुनिर्नामासुरो यासु निरोधकतया विद्यते ताः “अपः उदकानि "सीरा “न नदीरिव “स्रवन्तीः प्रवहन्तीः “ऋणोः अगमयः । धुनिं हत्वा तेन निरोधितान्युदकानि प्रवाहयतीत्यर्थः । हे “शूर वीरेन्द्र “यत् यदा “समुद्रम् “अति अतिक्रम्य “प्र “पर्षि प्रतीर्णो भवसि तदा समुद्रपारे तिष्ठन्तौ “तुर्वशं “यदुं च "स्वस्ति क्षेमेण “पारय अपारयः । समुद्रमतारयः ।।


तव॑ ह॒ त्यदि॑न्द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प् ।

दी॒दय॒दित्तुभ्यं॒ सोमे॑भिः सु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॒॑र्कैः ॥१३

तव॑ । ह॒ । त्यत् । इ॒न्द्र॒ । विश्व॑म् । आ॒जौ । स॒स्तः । धुनी॒चुमु॑री॒ इति॑ । या । ह॒ । सिस्व॑प् ।

दी॒दय॑त् । इत् । तुभ्य॑म् । सोमे॑भिः । सु॒न्वन् । द॒भीतिः॑ । इ॒ध्मऽभृ॑तिः । प॒क्थी । अ॒र्कैः ॥१३

तव । ह । त्यत् । इन्द्र । विश्वम् । आजौ । सस्तः । धुनीचुमुरी इति । या । ह । सिस्वप् ।

दीदयत् । इत् । तुभ्यम् । सोमेभिः । सुन्वन् । दभीतिः । इध्मऽभृतिः । पक्थी । अर्कैः ॥१३

हे “इन्द्र “आजौ संग्रामे “तव “ह तवैव “विश्वं व्याप्तं “त्यत् तादृशं कर्म भवति । कीदृशमिति तदुच्यते । “या यौ “धुनीचुमुरी । धुनिश्च चुमुरिश्चेत्येतन्नामकावसुरौ । “सिष्वप् त्वमस्वापयः तावसुरौ “सन्तः संग्रामे सुप्तवन्तौ । मृतावित्यर्थः ॥ भूतार्थे व्यत्ययेन लट् । द्वितीयो हशब्दः पादपूरणः ॥ तदनन्तरं हे इन्द्र “तुभ्यं त्वदर्थं “सुन्वन् सोमानभिषुण्वन् “पक्थी पक्थवान् हवींषि पक्ववान् “इध्मभृतिः इध्मानां भर्ता आहर्ता वा “दभीतिः नाम राजर्षिः “सोमेभिः सोमैः “अर्कैः हविर्लक्षणैरन्नैः “दीदयदित् दीप्यत एव । धुनिं चुमुरिं तस्मै जघन्थेत्यर्थः । त्वं नि दस्युं चुमुरिं धुनिं च ' ( ऋ. सं. ७. १९. ४ ) इति हि दर्शनात् ॥ ॥ १० ॥



मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.२०&oldid=186334" इत्यस्माद् पुनः प्राप्तिः