ऋग्वेदः सूक्तं ६.२२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.२१ ऋग्वेदः - मण्डल ६
सूक्तं ६.२२
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.२३ →
दे. इन्द्रः। त्रिष्टुप् ।


य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः ।
यः पत्यते वृषभो वृष्ण्यावान्सत्यः सत्वा पुरुमायः सहस्वान् ॥१॥
तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः ।
नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥२॥
तमीमह इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः ।
यो अस्कृधोयुरजरः स्वर्वान्तमा भर हरिवो मादयध्यै ॥३॥
तन्नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र ।
कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसोऽसुरघ्नः ॥४॥
तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः ।
तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥५॥
अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन ।
अच्युता चिद्वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन् ॥६॥
तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै ।
स नो वक्षदनिमानः सुवह्मेन्द्रो विश्वान्यति दुर्गहाणि ॥७॥
आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा ।
तपा वृषन्विश्वतः शोचिषा तान्ब्रह्मद्विषे शोचय क्षामपश्च ॥८॥
भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक् ।
धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥९॥
आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम् ।
यया दासान्यार्याणि वृत्रा करो वज्रिन्सुतुका नाहुषाणि ॥१०॥
स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो ।
न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक् ॥११॥


सायणभाष्यम्

“य एक इत्' इत्येकादशर्चं सप्तमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं-- ‘ य एक एकादश इति । आभिप्लविके प्रथमेऽहनि दशरात्रस्य प्रथमेऽहनि च माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रेऽहीनसूक्तस्य स्थाने त्रीणि संपातसूक्तानि । तेष्विदं द्वितीयं सूक्तम् । सूत्रितं च-- य एक इद्यस्तिग्मशृङ्गः' (आश्व. श्रौ. ७. ५) इति । उपहव्यनाम्न्येकाहेऽपीदं निष्केवल्यनिविद्धानम् । सूत्रितं च-’ य एक इदिति मध्यंदिनः ' ( आश्व. श्रौ. ९. ७) इति ॥


य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः ।

यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥१

यः । एकः॑ । इत् । हव्यः॑ । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । तम् । गीः॒ऽभिः । अ॒भि । अ॒र्चे॒ । आ॒भिः ।

यः । पत्य॑ते । वृ॒ष॒भः । वृष्ण्य॑ऽवान् । स॒त्यः । सत्वा॑ । पु॒रु॒ऽमा॒यः । सह॑स्वान् ॥१

यः । एकः । इत् । हव्यः । चर्षणीनाम् । इन्द्रम् । तम् । गीःऽभिः । अभि । अर्चे । आभिः ।

यः । पत्यते । वृषभः । वृष्ण्यऽवान् । सत्यः । सत्वा । पुरुऽमायः । सहस्वान् ॥१

“यः इन्द्रः “चर्षणीनां प्रजानामापत्सु “एक “इत् एक एव “हव्यः ह्वातव्यः “आभिः “गीर्भिः स्तुतिरूपाभिर्वाग्भिः “तम् “इन्द्रम् “अभ्यर्चे अभिष्टौमि । “यः इन्द्रः “पत्यते स्तोतॄनभिगच्छति । यद्वा । पत्यते लोकानामीष्टे । कीदृशः । “वृषभः कामानां वर्षिता “वृष्ण्यावान् बलवान् “सत्यः अविसंवादी “सत्वा शत्रूणां सादयिता कामानां दाता वा । सदेर्वा सनोतेवेंदं रूपम् । “पुरुमायः बहुप्रज्ञः “सहस्वान् अभिभवनवान् तमिन्द्रमभिष्टौमीति संबन्धः ।।


तमु॑ न॒ः पूर्वे॑ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा॑सो अ॒भि वा॒जय॑न्तः ।

न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो॑घवाचं म॒तिभि॒ः शवि॑ष्ठम् ॥२

तम् । ऊं॒ इति॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । नव॑ऽग्वाः । स॒प्त । विप्रा॑सः । अ॒भि । वा॒जय॑न्तः ।

न॒क्ष॒त्ऽदा॒भम् । ततु॑रिम् । प॒र्व॒ते॒ऽस्थाम् । अद्रो॑घऽवाचम् । म॒तिऽभिः॑ । शवि॑ष्ठम् ॥२

तम् । ऊं इति । नः । पूर्वे । पितरः । नवऽग्वाः । सप्त । विप्रासः । अभि । वाजयन्तः ।

नक्षत्ऽदाभम् । ततुरिम् । पर्वतेऽस्थाम् । अद्रोघऽवाचम् । मतिऽभिः । शविष्ठम् ॥२

“पूर्वे प्रत्नाः “नवग्वाः नवभिर्मासैः सत्रमनुष्ठितवन्तः “सप्त सप्तसंख्याकाः “विप्रासः विप्रा मेधाविनः “वाजयन्तः वाजमन्नं हविर्लक्षणमिन्द्रस्य कुर्वन्तः । इन्द्रं वा वाजिनं बलिनं कुर्वन्तः । तत्करोतीति णिच् । एवंभूताः “नः अस्माकं “पितरः अङ्गिरसः “तमु तमेवेन्द्रं “मतिभिः स्तुतिभिः “अभि। तुष्टुवुरिति शेषः । कीदृशम् । “नक्षद्दाभम् । नक्षतिर्गतिकर्मा । अभिगच्छतां शत्रूणां दम्भितारं हिंसितारं “ततुरिं तरितारं "पर्वतेष्ठां पर्वतेष्ववस्थितम् अद्रोघवाचम् । अद्रोग्धव्या अनतिक्रमणीया वागाज्ञारूपा यस्य तम् । “शविष्ठं बलवत्तमम् ॥


तमी॑मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वत॑ः पुरु॒क्षोः ।

यो अस्कृ॑धोयुर॒जर॒ः स्व॑र्वा॒न्तमा भ॑र हरिवो माद॒यध्यै॑ ॥३

तम् । ई॒म॒हे॒ । इन्द्र॑म् । अ॒स्य॒ । रा॒यः । पु॒रु॒ऽवीर॑स्य । नृ॒ऽवतः॑ । पु॒रु॒ऽक्षोः ।

यः । अस्कृ॑धोयुः । अ॒जरः॑ । स्वः॑ऽवान् । तम् । आ । भ॒र॒ । ह॒रि॒ऽवः॒ । मा॒द॒यध्यै॑ ॥३

तम् । ईमहे । इन्द्रम् । अस्य । रायः । पुरुऽवीरस्य । नृऽवतः । पुरुऽक्षोः ।

यः । अस्कृधोयुः । अजरः । स्वःऽवान् । तम् । आ । भर । हरिऽवः । मादयध्यै ॥३

“पुरुवीरस्य बहुपुत्रपौत्रयुक्तस्य “नृवतः परिचारकजनसहितस्य “पुरुक्षोः बह्वन्नस्य बहुयशसो वा “अस्य “रायः इदं धनम् । द्वितीयार्थे षष्ठी । “तम् “इन्द्रम् “ईमहे याचामहे । “यः रयिः “अस्कृधोयुः अविच्छिन्नः “अजरः जराहानिरहितः “स्वर्वान् सुखयुक्तो हे “हरिवः हरिवन स्वकीयाश्वोपेतेन्द्र त्वं “तं रयिं “मादयध्यै अस्मान् मादयितुम् “आ “भर आहर ।।


तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि॑न्द्र ।

कस्ते॑ भा॒गः किं वयो॑ दुध्र खिद्व॒ः पुरु॑हूत पुरूवसोऽसुर॒घ्नः ॥४

तत् । नः॒ । वि । वो॒चः॒ । यदि॑ । ते॒ । पु॒रा । चि॒त् । ज॒रि॒तारः॑ । आ॒न॒शुः । सु॒म्नम् । इ॒न्द्र॒ ।

कः । ते॒ । भा॒गः । किम् । वयः॑ । दु॒ध्र॒ । खि॒द्वः॒ । पुरु॑ऽहूत । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । अ॒सु॒र॒ऽघ्नः ॥४

तत् । नः । वि । वोचः । यदि । ते । पुरा । चित् । जरितारः । आनशुः । सुम्नम् । इन्द्र ।

कः । ते । भागः । किम् । वयः । दुध्र । खिद्वः । पुरुऽहूत । पुरुवसो इति पुरुऽवसो । असुरऽघ्नः ॥४

हे "इन्द्र “यदि “ते तव “पुरा “चित् पूर्वस्मिन् काले “जरितारः स्तोतारः “सुम्नं सुखम् “आनशुः “तत तत्सुखं “नः अस्माकं “वि “वोचः विब्रूहि । “दुध्र दुर्धर हे “खिद्वः शत्रूणां खेदयितर्हे पुरुहूत हे “पुरूवसो इन्द्र “असुरघ्नः असुराणां हन्तुः “ते तव यज्ञेषु “कः “भागः क्लृप्तः । “वयः हविर्लक्षणमन्नं “किं क्लृप्तम् । यदि केचित् चिरंतना: पूर्वकालेऽपि त्वत्तः सकाशात् सुखं लेभिरे तर्ह्यहमपि तत् सुखं लप्स्ये इति विचार्य सुखप्राप्तिविलम्बो ममासोढव्यो भवेदित्यर्थः ।।


तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः ।

तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥५

तम् । पृ॒च्छन्ती॑ । वज्र॑ऽहस्तम् । र॒थे॒ऽस्थाम् । इन्द्र॑म् । वेपी॑ । वक्व॑री । यस्य॑ । नु । गीः ।

तु॒वि॒ऽग्रा॒भम् । तु॒वि॒ऽकू॒र्मिम् । र॒भः॒ऽदाम् । गा॒तुम् । इ॒षे॒ । नक्ष॑ते । तुम्र॑म् । अच्छ॑ ॥५

तम् । पृच्छन्ती । वज्रऽहस्तम् । रथेऽस्थाम् । इन्द्रम् । वेपी । वक्वरी । यस्य । नु । गीः ।

तुविऽग्राभम् । तुविऽकूर्मिम् । रभःऽदाम् । गातुम् । इषे । नक्षते । तुम्रम् । अच्छ ॥५

पूर्वयोपालब्ध इन्द्र ऋषये कामान् प्रायच्छत् ततः स कामपूर्ण ऋषिराह । “वज्रहस्तं वज्रपाणिं “रथेष्ठां रथे स्थितं “तम् “इन्द्रं पृच्छन्ती अर्चयन्ती । पृच्छतिरर्चतिकर्मा । “वेपी । वेपो यागादिलक्षणं कर्म । तद्वती “वक्वरी गुणानां वक्त्री “गीः ईदृशी स्तुतिः “यस्य यजमानस्य भवति । कीदृशमिन्द्रं पृच्छन्ती। "तुविग्राभं तुवीनां बहूनां ग्रहीतारं तुविकूर्मिं बहुकर्माणं “रभोदां रभसो बलस्य दातारम् । “नु इति पूरणः । स यजमानः “गातुं सुखम् “इषे गच्छति । किंच “तुम्रं ग्लापयितारं शत्रुम् "अच्छ अभिमुखं “नक्षते गच्छति ॥ ॥ १३ ॥


अ॒या ह॒ त्यं मा॒यया॑ वावृधा॒नं म॑नो॒जुवा॑ स्वतव॒ः पर्व॑तेन ।

अच्यु॑ता चिद्वीळि॒ता स्वो॑जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन् ॥६

अ॒या । ह॒ । त्यम् । मा॒यया॑ । व॒वृ॒धा॒नम् । म॒नः॒ऽजुवा॑ । स्व॒ऽत॒वः॒ । पर्व॑तेन ।

अच्यु॑ता । चि॒त् । वी॒ळि॒ता । सु॒ऽओ॒जः॒ । रु॒जः । वि । दृ॒ळ्हा । धृ॒ष॒ता । वि॒ऽर॒प्शि॒न् ॥६

अया । ह । त्यम् । मायया । ववृधानम् । मनःऽजुवा । स्वऽतवः । पर्वतेन ।

अच्युता । चित् । वीळिता । सुऽओजः । रुजः । वि । दृळ्हा । धृषता । विऽरप्शिन् ॥६

हे “स्वतवः स्वभूतबलेन्द्र त्वं “मनोजुवा मनोवद्गच्छता अनेन “पर्वतेन बहुपर्वणा स्वकीयेनायुधेन वज्रेण । 'वज्रेण शतपर्वणा ' ( ऋ. सं. १. ८०. ६) इति दर्शनात् । “अया अनया “मायया “ववृधानं वर्धमानं “त्यं तं प्रसिद्धं वृत्रं “वि “रुजः विशेषेणाभाङ्क्षी: । तथा हे “स्वोजः शोभनतेजः हे “विरप्शिन् हे महन्निन्द्र त्वम् “अच्युता अच्युतानि “चित् विनाशरहितान्यपि “वीळिता वीळितानि अशिथिलीकृतानि “दृळ्हा दृढानि पुराणि “धृषता धर्षकेण वज्रेण व्यरुजः भग्नवानसि ।।


तं वो॑ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत्प॑रितंस॒यध्यै॑ ।

स नो॑ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा॑णि ॥७

तम् । वः॒ । धि॒या । नव्य॑स्या । शवि॑ष्ठम् । प्र॒त्नम् । प्र॒त्न॒ऽवत् । प॒रि॒ऽतं॒स॒यध्यै॑ ।

सः । नः॒ । व॒क्ष॒त् । अ॒नि॒ऽमा॒नः । सु॒ऽवह्ना॑ । इन्द्रः॑ । विश्वा॑नि । अति॑ । दुः॒ऽगहा॑नि ॥७

तम् । वः । धिया । नव्यस्या । शविष्ठम् । प्रत्नम् । प्रत्नऽवत् । परिऽतंसयध्यै ।

सः । नः । वक्षत् । अनिऽमानः । सुऽवह्ना । इन्द्रः । विश्वानि । अति । दुःऽगहानि ॥७

“नव्यस्या नवतरया “धिया स्तुत्या “शविष्ठं बलवत्तमं “प्रत्नं पुराणं हे इन्द्र “तं “वः त्वां “प्रत्नवत् चिरंतना ऋषयः इव “परितंसयध्यै परितो विस्तारयितुम् । अहं प्रवृत्तोऽस्मीति शेषः । “अनिमानः अपरिमाणः सुवह्मा शोभनवहनः “सः “इन्द्रः "विश्वानि समस्तानि “दुर्गहाणि दुर्गाणि “नः अस्मभ्यम् “अति “वक्षत् अतिवहतु ।।


आ जना॑य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा ।

तपा॑ वृषन्वि॒श्वत॑ः शो॒चिषा॒ तान्ब्र॑ह्म॒द्विषे॑ शोचय॒ क्षाम॒पश्च॑ ॥८

आ । जना॑य । द्रुह्व॑णे । पार्थि॑वानि । दि॒व्यानि॑ । दी॒प॒यः॒ । अ॒न्तरि॑क्षा ।

तप॑ । वृ॒ष॒न् । वि॒श्वतः॑ । शो॒चिषा॑ । तान् । ब्र॒ह्म॒ऽद्विषे॑ । शो॒च॒य॒ । क्षाम् । अ॒पः । च॒ ॥८

आ । जनाय । द्रुह्वणे । पार्थिवानि । दिव्यानि । दीपयः । अन्तरिक्षा ।

तप । वृषन् । विश्वतः । शोचिषा । तान् । ब्रह्मऽद्विषे । शोचय । क्षाम् । अपः । च ॥८

हे इन्द्र त्वं “द्रुह्वणे साधुजनानां द्रोग्धुः “जनाय जनस्य राक्षसादेः । षष्ठ्यर्थे चतुर्थी ॥ “पार्थिवानि पृथिव्यां भवानि “दिव्यानि दिवि भवानि “अन्तरिक्षा अन्तरिक्षे भवानि च स्थानानि “आ “दीपयः आ समन्तात् तापय । हे “वृषन् कामानां वर्षितरिन्द्र त्वं “विश्वतः सर्वतो विद्यमानान् “तान् राक्षसादीन् “शोचिषा त्वदीयया दीप्त्या “तप दह। किंच “ब्रह्मद्विषे ब्राह्मणद्वेष्ट्रे राक्षसादये । ब्रह्मद्विषं दग्धुमित्यर्थः। “क्षां पृथिवीम् “अपश्च अन्तरिक्षं च “शोचय दीपय । आप इत्यन्तरिक्षनामैतत् ॥


भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक् ।

धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥९

भुवः॑ । जन॑स्य । दि॒व्यस्य॑ । राजा॑ । पार्थि॑वस्य । जग॑तः । त्वे॒ष॒ऽस॒न्दृ॒क् ।

धि॒ष्व । वज्र॑म् । दक्षि॑णे । इ॒न्द्र॒ । हस्ते॑ । विश्वा॑ । अ॒जु॒र्य॒ । द॒य॒से॒ । वि । मा॒याः ॥९

भुवः । जनस्य । दिव्यस्य । राजा । पार्थिवस्य । जगतः । त्वेषऽसन्दृक् ।

धिष्व । वज्रम् । दक्षिणे । इन्द्र । हस्ते । विश्वा । अजुर्य । दयसे । वि । मायाः ॥९

हे “त्वेषसंदृक् दीप्तदर्शनेन्द्र “दिव्यस्य दिवि भवस्य “जनस्य “राजा ईश्वरः “भुवः भवसि । “जगतः जङ्गमस्य “पार्थिवस्य च राजा भवसि । “दक्षिणे “हस्ते “वज्रं “धिष्व निधेहि। तेन च निहितेन वज्रेण “विश्वाः सर्वा आसुरीः "मायाः “वि “दयसे विबाधसे । ‘ दयः दानहिंसागतिरक्षणेषु' इति धातुः । हे “इन्द्र “अजुर्य जरयितुमशक्येन्द्र त्वमिति ।।


आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या॑य बृह॒तीममृ॑ध्राम् ।

यया॒ दासा॒न्यार्या॑णि वृ॒त्रा करो॑ वज्रिन्सु॒तुका॒ नाहु॑षाणि ॥१०

आ । स॒म्ऽयत॑म् । इ॒न्द्र॒ । नः॒ । स्व॒स्तिम् । श॒त्रु॒ऽतूर्या॑य । बृ॒ह॒तीम् । अमृ॑ध्राम् ।

यया॑ । दासा॑नि । आर्या॑णि । वृ॒त्रा । करः॑ । व॒ज्रि॒न् । सु॒ऽतुका॑ । नाहु॑षाणि ॥१०

आ । सम्ऽयतम् । इन्द्र । नः । स्वस्तिम् । शत्रुऽतूर्याय । बृहतीम् । अमृध्राम् ।

यया । दासानि । आर्याणि । वृत्रा । करः । वज्रिन् । सुऽतुका । नाहुषाणि ॥१०

हे “इन्द्र “शत्रुतूर्याय शत्रूणां तारणाय "बृहतीं महतीम् “अमृध्राम् अहिंसितां “संयतं संयतीं संगच्छमानां “स्वस्तिं क्षेमलक्षणां संपदं हे इन्द्र “नः अस्मभ्यम् “आ भर । “वज्रिन् वज्रवन्निन्द्र “यया स्वस्त्या "दासानि कर्महीनानि मनुष्यजातानि “आर्याणि कर्मयुक्तानि “करः अकरोः । “नाहुषाणि मनुष्यसंबन्धीनि । नहुषा इति मनुष्यनामैतत् । “वृत्रा वृत्राणि शत्रून् “सुतुका सुतुकानि शोभनहिंसोपेतान्यकरोः ॥


स नो॑ नि॒युद्भि॑ः पुरुहूत वेधो वि॒श्ववा॑राभि॒रा ग॑हि प्रयज्यो ।

न या अदे॑वो॒ वर॑ते॒ न दे॒व आभि॑र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ॥११

सः । नः॒ । नि॒युत्ऽभिः॑ । पु॒रु॒ऽहू॒त॒ । वे॒धः॒ । वि॒श्वऽवा॑राभिः । आ । ग॒हि॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ।

न । याः । अदे॑वः । वर॑ते । न । दे॒वः । आ । आ॒भिः॒ । या॒हि॒ । तूय॑म् । आ । म॒द्र्य॒द्रिक् ॥११

सः । नः । नियुत्ऽभिः । पुरुऽहूत । वेधः । विश्वऽवाराभिः । आ । गहि । प्रयज्यो इति प्रऽयज्यो ।

न । याः । अदेवः । वरते । न । देवः । आ । आभिः । याहि । तूयम् । आ । मद्र्यद्रिक् ॥११

हे "पुरुहूत हे “वेधः विधातर्हे "प्रयज्यो प्रकृष्टेन यजनीयेन्द्र “सः त्वं विश्ववाराभिः विश्वैर्वरणीयाभिः संभजनीयाभि: “नियुद्भिः अश्वैः “नः अस्मान् “आ “गहि आगच्छ । “अदेवः असुरः “या नियुतो यानश्वान् “न “वरते न वारयति “देवः च “न वरते “आभिः नियुद्भिः “तूयम् "आ क्षिप्रमेव “मद्र्यद्रिक् मदभिमुखः सन् “आ “याहि आगच्छ। अद्र्यागमस्य द्विर्वचनं छान्दसम् ॥ ॥ १४ ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.२२&oldid=186350" इत्यस्माद् पुनः प्राप्तिः