ऋग्वेदः सूक्तं ६.१२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.११ ऋग्वेदः - मण्डल ६
सूक्तं ६.१२
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.१३ →
दे. अग्निः। त्रिष्ष्टुप् (६ पुरस्ताज्ज्योतिर्वा )


मध्ये होता दुरोणे बर्हिषो राळग्निस्तोदस्य रोदसी यजध्यै ।
अयं स सूनुः सहस ऋतावा दूरात्सूर्यो न शोचिषा ततान ॥१॥
आ यस्मिन्त्वे स्वपाके यजत्र यक्षद्राजन्सर्वतातेव नु द्यौः ।
त्रिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै ॥२॥
तेजिष्ठा यस्यारतिर्वनेराट् तोदो अध्वन्न वृधसानो अद्यौत् ।
अद्रोघो न द्रविता चेतति त्मन्नमर्त्योऽवर्त्र ओषधीषु ॥३॥
सास्माकेभिरेतरी न शूषैरग्नि ष्टवे दम आ जातवेदाः ।
द्र्वन्नो वन्वन्क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः ॥४॥
अध स्मास्य पनयन्ति भासो वृथा यत्तक्षदनुयाति पृथ्वीम् ।
सद्यो यः स्यन्द्रो विषितो धवीयानृणो न तायुरति धन्वा राट् ॥५॥
स त्वं नो अर्वन्निदाया विश्वेभिरग्ने अग्निभिरिधानः ।
वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः ॥६॥


सायणभाष्यम्

‘ मध्ये होता ' इति षड़ृचं द्वादशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयम् । ‘मध्ये ' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥


मध्ये॒ होता॑ दुरो॒णे ब॒र्हिषो॒ राळ॒ग्निस्तो॒दस्य॒ रोद॑सी॒ यज॑ध्यै ।

अ॒यं स सू॒नुः सह॑स ऋ॒तावा॑ दू॒रात्सूर्यो॒ न शो॒चिषा॑ ततान ॥१

मध्ये॑ । होता॑ । दु॒रो॒णे । ब॒र्हिषः॑ । राट् । अ॒ग्निः । तो॒दस्य॑ । रोद॑सी॒ इति॑ । यज॑ध्यै ।

अ॒यम् । सः । सू॒नुः । सह॑सः । ऋ॒तऽवा॑ । दू॒रात् । सूर्यः॑ । न । शो॒चिषा॑ । त॒ता॒न॒ ॥१

मध्ये । होता । दुरोणे । बर्हिषः । राट् । अग्निः । तोदस्य । रोदसी इति । यजध्यै ।

अयम् । सः । सूनुः । सहसः । ऋतऽवा । दूरात् । सूर्यः । न । शोचिषा । ततान ॥१

“होता देवानामाह्वाता “बर्हिषः यज्ञस्य “राट् राजा "अग्निः “तोदस्य । तुद्यते तपसा पीड्यत इति तोदो यजमानः । तस्य “दुरोणे गृहे “मध्ये निषीदतीति शेषः। किमर्थम् । “रोदसी द्यावापृथिव्यौ “यजध्यै यष्टुम् । “सः तादृशः "अयं “सहसः “सूनुः सहसस्पुत्रः “ऋतावा सत्यवान् यज्ञवान् वाग्निः “सूर्यो “न सूर्य इव “दूरात् दूरत एव “शोचिषा तेजसा “ततान आतनोति विस्तारयति । दूरदेशे वर्तमानोऽपि सूर्य इव सर्वं जगद्भासयतीत्यर्थः ।।


आ यस्मि॒न्त्वे स्वपा॑के यजत्र॒ यक्ष॑द्राजन्स॒र्वता॑तेव॒ नु द्यौः ।

त्रि॒ष॒धस्थ॑स्तत॒रुषो॒ न जंहो॑ ह॒व्या म॒घानि॒ मानु॑षा॒ यज॑ध्यै ॥२

आ । यस्मि॑न् । त्वे इति॑ । सु । अपा॑के । य॒ज॒त्र॒ । यक्ष॑त् । रा॒ज॒न् । स॒र्वता॑ताऽइव । नु । द्यौः ।

त्रि॒ऽस॒धस्थः॑ । त॒त॒रुषः॑ । न । जंहः॑ । ह॒व्या । म॒घानि॑ । मानु॑षा । यज॑ध्यै ॥२

आ । यस्मिन् । त्वे इति । सु । अपाके । यजत्र । यक्षत् । राजन् । सर्वताताऽइव । नु । द्यौः ।

त्रिऽसधस्थः । ततरुषः । न । जंहः । हव्या । मघानि । मानुषा । यजध्यै ॥२

“द्यौः स्तोता “सर्वतातेव । इवशब्दः पूरकः । यज्ञनामैतत् । सर्वतातौ सर्वैस्तायमाने यज्ञे । यद्वा । सर्वशब्दात् स्वार्थिकस्तातिप्रत्ययः । सर्वः स्तोता हे “यजत्र यष्टव्य “राजन् राजमानाग्ने “अपाके प्राज्ञे “त्वे “यस्मिन् त्वे त्वयि “सु अत्यन्तं “नु क्षिप्रम् "आ “यक्षत् आयजति हवींषि जुहोति “त्रिषधस्थः त्रिषु लोकेषु सहं स्थितः । यद्वा । गार्हपत्यादिरूपेण त्रिधावस्थितः । तादृशस्त्वं “ततरुषो “न तरिता सूर्य इव “जंहः शीघ्रं गन्ता भव । जंह इति हन्तेर्गतिकर्मणो रूपम् । यद्वा । ‘ तॄ प्लवनतरणयोः ' इत्यस्मात् क्वसौ रूपं ततर्वानिति । तस्य षष्ठ्यां रूपमेतत् ततरुष इति ॥ तरितुः सूर्यस्येव जंहो वेगः तव भवत्वित्यर्थः । किमर्थम् । “मघानि मंहनीयानि प्रशस्यानि “मानुषा मनुष्याणां संबन्धीनि “हव्या हव्यानि हवींषि “यजध्यै यष्टुं देवेभ्यो दातुम् ॥


तेजि॑ष्ठा॒ यस्या॑र॒तिर्व॑ने॒राट् तो॒दो अध्व॒न्न वृ॑धसा॒नो अ॑द्यौत् ।

अ॒द्रो॒घो न द्र॑वि॒ता चे॑तति॒ त्मन्नम॑र्त्योऽव॒र्त्र ओष॑धीषु ॥३

तेजि॑ष्ठा । यस्य॑ । अ॒र॒तिः । व॒ने॒ऽराट् । तो॒दः । अध्व॑न् । न । वृ॒ध॒सा॒नः । अ॒द्यौ॒त् ।

अ॒द्रो॒घः । न । द्र॒वि॒ता । चे॒त॒ति॒ । त्मन् । अम॑र्त्यः । अ॒व॒र्त्रः । ओष॑धीषु ॥३

तेजिष्ठा । यस्य । अरतिः । वनेऽराट् । तोदः । अध्वन् । न । वृधसानः । अद्यौत् ।

अद्रोघः । न । द्रविता । चेतति । त्मन् । अमर्त्यः । अवर्त्रः । ओषधीषु ॥३

“यस्य अग्नेः “अरतिः गन्त्री ज्वाला "तेजिष्ठा अतिशयेन तेजस्विनी सती “वनेराट् दावरूपेण अरण्ये राजमाना वर्तते “वृधसानः वर्धमानः सोऽग्निः “तोदो “अध्वन्न । तोदः सर्वस्य प्रेरकः सूर्यः । स इवाध्वनि स्वमार्गेऽन्तरिक्षे अद्यौत् द्योतते प्रकाशते । अपि च "अद्रोघो न अद्रोग्धव्यः । यद्वा । प्राणरूपेण सर्वेषामद्रोग्धा वायुरिव तादृशः “अमर्त्यः मरणरहितः सोऽग्निः “ओषधीषु । औषः पाक एषु धीयत इत्योषधयो वनानि । तेषु “द्रविता शीघ्रगामी सन् “अवर्त्रः केनाप्यवारणीयश्च भवन् “त्मन् आत्मना स्वप्रकाशेनैव “चेतति चेतयति सर्वं जगत् ज्ञापयति ।।


सास्माके॑भिरे॒तरी॒ न शू॒षैर॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः ।

द्र्व॑न्नो व॒न्वन्क्रत्वा॒ नार्वो॒स्रः पि॒तेव॑ जार॒यायि॑ य॒ज्ञैः ॥४

सः । अ॒स्माके॑भिः । ए॒तरि॑ । न । शू॒षैः । अ॒ग्निः । स्त॒वे॒ । दमे॑ । आ । जा॒तऽवे॑दाः ।

द्रुऽअ॑न्नः । व॒न्वन् । क्रत्वा॑ । न । अर्वा॑ । उ॒स्रः । पि॒ताऽइ॑व । जा॒र॒यायि॑ । य॒ज्ञैः ॥४

सः । अस्माकेभिः । एतरि । न । शूषैः । अग्निः । स्तवे । दमे । आ । जातऽवेदाः ।

द्रुऽअन्नः । वन्वन् । क्रत्वा । न । अर्वा । उस्रः । पिताऽइव । जारयायि । यज्ञैः ॥४

“जातवेदाः जातधनो जातप्रज्ञो वा “सः “अग्निः “अस्माकेभिः अस्मदीयैः स्तोतृभिः “एतरी “न । एतरि गन्तरि याचमाने पुरुषे विद्यमानानि स्तोत्राणि यथात्यन्तं सुखकराणि तथा “शूषैः सुखकरैः स्तोत्रैः "दमे अस्मदीये यज्ञगृहे “आ आभिमुख्येन “स्तवे स्तूयते । अपि च “द्र्वन्नः । द्रुर्द्रुमः । स एवान्नं यस्य स तथोक्तः । अत एव “वन्वन् वनानि संभजन “क्रत्वा “न क्रतुना आत्मीयेन कर्मणा च “अर्वा गन्ता च भवति । तत्र दृष्टान्तः । “उस्रः “पितेव । पिता पालयिता वत्सानां जनको वोस्रो वृषभ इव । स यथा मैथुनार्थं शीघ्रं गच्छति तद्वत् । “यज्ञैः यज्ञवद्भिर्यजमानैश्च “जारयायि स्तूयते । जरतेः स्तुतिकर्मणः एतद्रूपम् ।।


अध॑ स्मास्य पनयन्ति॒ भासो॒ वृथा॒ यत्तक्ष॑दनु॒याति॑ पृ॒थ्वीम् ।

स॒द्यो यः स्य॒न्द्रो विषि॑तो॒ धवी॑यानृ॒णो न ता॒युरति॒ धन्वा॑ राट् ॥५

अध॑ । स्म॒ । अ॒स्य॒ । प॒न॒य॒न्ति॒ । भासः॑ । वृथा॑ । यत् । तक्ष॑त् । अ॒नु॒ऽयाति॑ । पृ॒थ्वीम् ।

स॒द्यः । यः । स्य॒न्द्रः । विऽसि॑तः । धवी॑यान् । ऋ॒णः । न । ता॒युः । अति॑ । धन्व॑ । राट् ॥५

अध । स्म । अस्य । पनयन्ति । भासः । वृथा । यत् । तक्षत् । अनुऽयाति । पृथ्वीम् ।

सद्यः । यः । स्यन्द्रः । विऽसितः । धवीयान् । ऋणः । न । तायुः । अति । धन्व । राट् ॥५

“अध अस्मिँल्लोके । “स्म इति पूरकः । “अस्य अग्नेः “भासः रश्मीन् “पनयन्ति स्तोतारः स्तुवन्ति । “यत् यदा “वृथा अनायासेन “तक्षत् तक्षन् तनूकुर्वन् वनानि सम्यग्दहन् "पृथ्वीं विस्तीर्णामरण्यभुवम् “अनुयाति अनुगच्छति तदानीं पनयन्ति इत्यन्वयः । "यः अग्निः “स्पन्द्रः स्पन्दनवान् “विषितः विमुक्तः प्रतिबन्धरहितः अत एव “सद्यः शीघ्रं “धवीयान् गन्तृतमो भवति । क इव । “ऋणो “न “तायुः । ऋणोतिर्गतिकर्मा । तायुरिति स्तेननाम । यथा स्तेनः शीघ्रं गन्ता भवति तद्वत् सोऽयमग्निः “धन्व मरुभूमिमतिक्रम्य “राट् राजते । यद्वा । धन्वन्त्यस्मादाप इति धन्वान्तरिक्षम् । अतिशयेनान्तरिक्षम् आक्रम्य राजते ॥


स त्वं नो॑ अर्व॒न्निदा॑या॒ विश्वे॑भिरग्ने अ॒ग्निभि॑रिधा॒नः ।

वेषि॑ रा॒यो वि या॑सि दु॒च्छुना॒ मदे॑म श॒तहि॑माः सु॒वीरा॑ः ॥६

सः । त्वम् । नः॒ । अ॒र्व॒न् । निदा॑याः । विश्वे॑भिः । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । इ॒धा॒नः ।

वेषि॑ । रा॒यः । वि । या॒सि॒ । दु॒च्छुनाः॑ । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥६

सः । त्वम् । नः । अर्वन् । निदायाः । विश्वेभिः । अग्ने । अग्निऽभिः । इधानः ।

वेषि । रायः । वि । यासि । दुच्छुनाः । मदेम । शतऽहिमाः । सुऽवीराः ॥६

हे "अर्वन् गन्तः “अग्ने “सः तादृशः “त्वं “निदायाः निन्दित्र्याः प्रजाया निन्दाया एव वा पाहीति शेषः । कथंभूतः सन् । “विश्वेभिः सर्वैः “अग्निभिः त्वच्छाखाभूतैः “इधानः' इध्यमानः सन् । “रायः धनानि चास्मान् “वेषि गमय प्रापय । यद्वा । हविर्लक्षणानि धनानि वेषि कामयसे । “दुच्छुनाः दुःखकारिणीः शत्रुसेनाः “वि “यासि च विविधं गमयसि च । वयं च "सुवीराः शोभनपुत्रपौत्राः सन्तः “शतहिमाः शतं संवत्सरान् “मदेम मोदेम ॥ ॥ १४ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.१२&oldid=199853" इत्यस्माद् पुनः प्राप्तिः