ऋग्वेदः सूक्तं ६.१९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.१८ ऋग्वेदः - मण्डल ६
सूक्तं ६.१९
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.२० →
दे. इन्द्रः। त्रिष्टुप्।


महाँ इन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः ।
अस्मद्र्यग्वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत् ॥१॥
इन्द्रमेव धिषणा सातये धाद्बृहन्तमृष्वमजरं युवानम् ।
अषाळ्हेन शवसा शूशुवांसं सद्यश्चिद्यो वावृधे असामि ॥२॥
पृथू करस्ना बहुला गभस्ती अस्मद्र्यक्सं मिमीहि श्रवांसि ।
यूथेव पश्वः पशुपा दमूना अस्माँ इन्द्राभ्या ववृत्स्वाजौ ॥३॥
तं व इन्द्रं चतिनमस्य शाकैरिह नूनं वाजयन्तो हुवेम ।
यथा चित्पूर्वे जरितार आसुरनेद्या अनवद्या अरिष्टाः ॥४॥
धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः ।
सं जग्मिरे पथ्या रायो अस्मिन्त्समुद्रे न सिन्धवो यादमानाः ॥५॥
शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूत उग्रम् ।
विश्वा द्युम्ना वृष्ण्या मानुषाणामस्मभ्यं दा हरिवो मादयध्यै ॥६॥
यस्ते मदः पृतनाषाळमृध्र इन्द्र तं न आ भर शूशुवांसम् ।
येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस्त्वोताः ॥७॥
आ नो भर वृषणं शुष्ममिन्द्र धनस्पृतं शूशुवांसं सुदक्षम् ।
येन वंसाम पृतनासु शत्रून्तवोतिभिरुत जामीँरजामीन् ॥८॥
आ ते शुष्मो वृषभ एतु पश्चादोत्तरादधरादा पुरस्तात् ।
आ विश्वतो अभि समेत्वर्वाङिन्द्र द्युम्नं स्वर्वद्धेह्यस्मे ॥९॥
नृवत्त इन्द्र नृतमाभिरूती वंसीमहि वामं श्रोमतेभिः ।
ईक्षे हि वस्व उभयस्य राजन्धा रत्नं महि स्थूरं बृहन्तम् ॥१०॥
मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् ।
विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम ॥११॥
जनं वज्रिन्महि चिन्मन्यमानमेभ्यो नृभ्यो रन्धया येष्वस्मि ।
अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्वप्सु ॥१२॥
वयं त एभिः पुरुहूत सख्यैः शत्रोःशत्रोरुत्तर इत्स्याम ।
घ्नन्तो वृत्राण्युभयानि शूर राया मदेम बृहता त्वोताः ॥१३॥


सायणभाष्यम्

‘ महाँ इन्द्रः' इति त्रयोदशर्चं चतुर्थं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च--- 'महान्त्सप्तोना' इति । माध्यंदिने सवने सोमातिरेके शस्त्रं भवति । तत्रेदं सूक्तम् । सूत्रितं च - महाँ इन्द्रो नृवद्विष्णोर्नु कम्' ( आश्व, श्रौ. ६. ७ ) इति । समूळ्हे द्वितीये छन्दोमे मरुस्वतीयशस्त्र एतत्सूक्तम् । सूत्रितं च - महाँ इन्द्रो नृवदिति मरुत्वतीयम्' (आश्व. श्रौ. ८. ७) इति ।


म॒हाँ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः ।

अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥१

म॒हान् । इन्द्रः॑ । नृ॒ऽवत् । आ । च॒र्ष॒णि॒ऽप्राः । उ॒त । द्वि॒ऽबर्हाः॑ । अ॒मि॒नः । सहः॑ऽभिः ।

अ॒स्म॒द्र्य॑क् । व॒वृ॒धे॒ । वी॒र्या॑य । उ॒रुः । पृ॒थुः । सुऽकृ॑तः । क॒र्तृऽभिः॑ । भू॒त् ॥१

महान् । इन्द्रः । नृऽवत् । आ । चर्षणिऽप्राः । उत । द्विऽबर्हाः । अमिनः । सहःऽभिः ।

अस्मद्र्यक् । ववृधे । वीर्याय । उरुः । पृथुः । सुऽकृतः । कर्तृऽभिः । भूत् ॥१

“नृवत् यथा नेता राजा भृत्यादीनां कामानां पूरयिता तद्वत् “चर्षणिप्राः चर्षणीनां स्तोतृजनानां कामानां पूरकः “महान् प्रभूतः “इन्द्रः “आ गच्छतु । आ इत्युपसर्गदर्शनात् गच्छत्वित्याख्यातस्याध्याहारः । “उत अपि च “द्विबर्हाः द्वयोर्लोकयोः परिवृढः “सहोभिः शत्रुबलैः “अमिनः अहिंसनीयः इन्द्रः “अस्मद्य् क् अस्मदभिमुखं यथा भवति तथा “वीर्याय वीरकर्मकरणाय “ववृधे वर्धते । “उरुः शरीरेण विस्तीर्णः “पृथुः गुणैः प्रथितः “कर्तृभिः यजमानैः “सुकृतः “भूत् सुष्ठु परिचरितो भवति ॥


इन्द्र॑मे॒व धि॒षणा॑ सा॒तये॑ धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम् ।

अषा॑ळ्हेन॒ शव॑सा शूशु॒वांसं॑ स॒द्यश्चि॒द्यो वा॑वृ॒धे असा॑मि ॥२

इन्द्र॑म् । ए॒व । धि॒षणा॑ । सा॒तये॑ । धा॒त् । बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । युवा॑नम् ।

अषा॑ळ्हेन । शव॑सा । शू॒शु॒ऽवांस॑म् । स॒द्यः । चि॒त् । यः । व॒वृ॒धे । असा॑मि ॥२

इन्द्रम् । एव । धिषणा । सातये । धात् । बृहन्तम् । ऋष्वम् । अजरम् । युवानम् ।

अषाळ्हेन । शवसा । शूशुऽवांसम् । सद्यः । चित् । यः । ववृधे । असामि ॥२

“धिषणा अस्मदीया स्तुतिः “सातये दानाय “इन्द्रमेव “धात् धारयति । कीदृशम् । “बृहन्तं महान्तम् “ऋष्वं गन्तारम् “अजरं जरारहितं “युवानं नित्यतरुणम् “अषाळ्हेन शत्रुभिरनभिभूतेन “शवसा बलेन “शूशुवांसं प्रवृद्धम् । श्वयतेरिदं रूपम् । “यः इन्द्रः “सद्यश्चित् सद्य एव जातमात्रः सन् "असामि अनल्पमधिकं यथा भवति तथा “ववृधे वर्धते ॥


पृ॒थू क॒रस्ना॑ बहु॒ला गभ॑स्ती अस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ।

यू॒थेव॑ प॒श्वः प॑शु॒पा दमू॑ना अ॒स्माँ इ॑न्द्रा॒भ्या व॑वृत्स्वा॒जौ ॥३

पृ॒थू इति॑ । क॒रस्ना॑ । ब॒हु॒ला । गभ॑स्ती॒ इति॑ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि ।

यू॒थाऽइ॑व । प॒श्वः । प॒शु॒ऽपाः । दमू॑नाः । अ॒स्मान् । इ॒न्द्र॒ । अ॒भि । आ । व॒वृ॒त्स्व॒ । आ॒जौ ॥३

पृथू इति । करस्ना । बहुला । गभस्ती इति । अस्मद्र्यक् । सम् । मिमीहि । श्रवांसि ।

यूथाऽइव । पश्वः । पशुऽपाः । दमूनाः । अस्मान् । इन्द्र । अभि । आ । ववृत्स्व । आजौ ॥३

हे इन्द्र त्वं “पृथू विस्तीर्णो “करस्ना कर्मणां कर्तारौ “बहुला बहुप्रदौ “गभस्ती त्वदीयौ बाहू “श्रवांसि अन्नानि । दातुमिति शेषः। “अस्मद्र्यक् अस्मदभिमुखं “सं “मिमीहि कुरु । किंच हे “इन्द्र “दमूनाः दान्तमनास्त्वम् “आजौ संग्रामे “अस्मान् “अभि ”आ “ववृत्स्व अभ्यावर्तस्व । तत्र दृष्टान्तः । “पशुपाः पशूनां पालकः “पश्वः पशूनां “यूथेव यूथानि यथा आवर्तयति तद्वत् ॥


तं व॒ इन्द्रं॑ च॒तिन॑मस्य शा॒कैरि॒ह नू॒नं वा॑ज॒यन्तो॑ हुवेम ।

यथा॑ चि॒त्पूर्वे॑ जरि॒तार॑ आ॒सुरने॑द्या अनव॒द्या अरि॑ष्टाः ॥४

तम् । वः॒ । इन्द्र॑म् । च॒तिन॑म् । अ॒स्य॒ । शा॒कैः । इ॒ह । नू॒नम् । वा॒ज॒ऽयन्तः॑ । हु॒वे॒म॒ ।

यथा॑ । चि॒त् । पूर्वे॑ । ज॒रि॒तारः॑ । आ॒सुः । अने॑द्याः । अ॒न॒व॒द्याः । अरि॑ष्टाः ॥४

तम् । वः । इन्द्रम् । चतिनम् । अस्य । शाकैः । इह । नूनम् । वाजऽयन्तः । हुवेम ।

यथा । चित् । पूर्वे । जरितारः । आसुः । अनेद्याः । अनवद्याः । अरिष्टाः ॥४

"नूनम् अद्य “इह अस्मिन् यज्ञे “वाजयन्तः अन्नमिच्छन्तो वयं स्तोतारः “शाकैः शक्तैः समर्थैः “अस्य तव सहायैर्मरुद्भिः सहितं “चतिनं शत्रूणां चातकम् । नाशकमित्यर्थः । “इन्द्रं परमेश्वरं “तं “वः प्रसिद्धं त्वां “हुवेम स्तुमः । “यथा “चित् यथैव “पूर्वे पुरातनाः “जरितारः स्तोतारः “अनेद्याः अनिन्द्याः "अनवद्याः पापरहिताः “अरिष्टाः अहिंसिताश्च “आसुः बभूवुः हे इन्द्र त्वत्प्रसादात् वयमपि तथैव भवेमेत्यर्थः ॥


धृ॒तव्र॑तो धन॒दाः सोम॑वृद्ध॒ः स हि वा॒मस्य॒ वसु॑नः पुरु॒क्षुः ।

सं ज॑ग्मिरे प॒थ्या॒३॒॑ रायो॑ अस्मिन्त्समु॒द्रे न सिन्ध॑वो॒ याद॑मानाः ॥५

धृ॒तऽव्र॑तः । ध॒न॒ऽदाः । सोम॑ऽवृद्धः । सः । हि । वा॒मस्य॑ । वसु॑नः । पु॒रु॒ऽक्षुः ।

सम् । ज॒ग्मि॒रे॒ । प॒थ्याः॑ । रायः॑ । अ॒स्मि॒न् । स॒मु॒द्रे । न । सिन्ध॑वः । याद॑मानाः ॥५

धृतऽव्रतः । धनऽदाः । सोमऽवृद्धः । सः । हि । वामस्य । वसुनः । पुरुऽक्षुः ।

सम् । जग्मिरे । पथ्याः । रायः । अस्मिन् । समुद्रे । न । सिन्धवः । यादमानाः ॥५

“स “हि स खलु इन्द्रः “धृतव्रतः धृतकर्मा । “धनदाः स एव धनप्रदः । कीदृशस्य धनस्येत्याकाङ्क्षायामुपसर्जनीभूतस्यापि धनस्य विशेषणे वामस्य वसुन इति । “वामस्य वननीयस्य “वसुनः श्रेष्ठस्य । यद्वा वसुनो धनस्य स्वामीति शेषः। “सोमवृद्धः स एव सोमेन प्रवृद्धः । “पुरुक्षुः बह्वन्नः स एव । “अस्मिन् इन्द्रे एव “पथ्याः स्तोतॄणां हितानि “रायः धनानि “सं “जग्मिरे संगच्छन्ते । तत्र दृष्टान्तः । “सिन्धवः नद्यः “समुद्रे “न यथा समुद्रे “यादमानाः अभिगच्छन्त्यस्तद्वत् ॥ ॥ ७ ॥


शवि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो॑ अभिभूत उ॒ग्रम् ।

विश्वा॑ द्यु॒म्ना वृष्ण्या॒ मानु॑षाणाम॒स्मभ्यं॑ दा हरिवो माद॒यध्यै॑ ॥६

शवि॑ष्ठम् । नः॒ । आ । भ॒र॒ । शू॒र॒ । शवः॑ । ओजि॑ष्ठम् । ओजः॑ । अ॒भि॒ऽभू॒ते॒ । उ॒ग्रम् ।

विश्वा॑ । द्यु॒म्ना । वृष्ण्या॑ । मानु॑षाणाम् । अ॒स्मभ्य॑म् । दाः॒ । ह॒रि॒ऽवः॒ । मा॒द॒यध्यै॑ ॥६

शविष्ठम् । नः । आ । भर । शूर । शवः । ओजिष्ठम् । ओजः । अभिऽभूते । उग्रम् ।

विश्वा । द्युम्ना । वृष्ण्या । मानुषाणाम् । अस्मभ्यम् । दाः । हरिऽवः । मादयध्यै ॥६

हे “शूर विक्रान्तेन्द्र “शविष्ठं बलवत्तमं “शवः बलं “नः अस्मभ्यम् “आ “भर आहर । हे “अभिभूते शत्रूणामभिभावुकेन्द्र “उग्रम् अप्रसह्यम् “ओजिष्ठम् ओजस्वितमम् “ओजः दीप्तिमस्मभ्यमा भर । “विश्वा विश्वानि सर्वाणि “वृष्ण्या वृष्ण्यानि सेचनसमर्थानि “द्युम्ना द्युम्नानि द्योतमानानि यानि धनानि “मानुषाणां मनुष्याणां भोग्यतया कल्पितानि हे “हरिवः हरिवन्निन्द्र तानि धनानि “मादयध्यै अस्मान् मादयितुम् “अस्मभ्यं "दाः प्रयच्छ ॥


यस्ते॒ मद॑ः पृतना॒षाळमृ॑ध्र॒ इन्द्र॒ तं न॒ आ भ॑र शूशु॒वांस॑म् ।

येन॑ तो॒कस्य॒ तन॑यस्य सा॒तौ मं॑सी॒महि॑ जिगी॒वांस॒स्त्वोता॑ः ॥७

यः । ते॒ । मदः॑ । पृ॒त॒ना॒षाट् । अमृ॑ध्रः । इन्द्र॑ । तम् । नः॒ । आ । भ॒र॒ । शू॒शु॒ऽवांस॑म् ।

येन॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तौ । मं॒सी॒महि॑ । जि॒गी॒वांसः॑ । त्वाऽऊ॑ताः ॥७

यः । ते । मदः । पृतनाषाट् । अमृध्रः । इन्द्र । तम् । नः । आ । भर । शूशुऽवांसम् ।

येन । तोकस्य । तनयस्य । सातौ । मंसीमहि । जिगीवांसः । त्वाऽऊताः ॥७

“पृतनाषाट् शत्रुसेनानामभिभविता “अमृध्रः अहिंसितः “यः “मदः हर्षः हे “इन्द्र “ते त्वया देयः “शूशुवांसं प्रवृद्धं “तं मदं “नः अस्मभ्यम् “आ “भर आहर । “त्वोताः त्वया रक्षिताः “जिगीवांसः जितवन्तो वयं “तोकस्य पुत्रस्य “तनयस्य तत्पुत्रस्य च “सातौ लाभे निमित्तभूते सति “येन हर्षेण “मंसीमहि त्वां स्तुवीमहि तमा भरेति पूर्वेणान्वयः ॥


आ नो॑ भर॒ वृष॑णं॒ शुष्म॑मिन्द्र धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्ष॑म् ।

येन॒ वंसा॑म॒ पृत॑नासु॒ शत्रू॒न्तवो॒तिभि॑रु॒त जा॒मीँरजा॑मीन् ॥८

आ । नः॒ । भ॒र॒ । वृष॑णम् । शुष्म॑म् । इ॒न्द्र॒ । ध॒न॒ऽस्पृत॑म् । शू॒शु॒ऽवांस॑म् । सु॒ऽदक्ष॑म् ।

येन॑ । वंसा॑म । पृत॑नासु । शत्रू॑न् । तव॑ । ऊ॒तिऽभिः॑ । उ॒त । जा॒मीन् । अजा॑मीन् ॥८

आ । नः । भर । वृषणम् । शुष्मम् । इन्द्र । धनऽस्पृतम् । शूशुऽवांसम् । सुऽदक्षम् ।

येन । वंसाम । पृतनासु । शत्रून् । तव । ऊतिऽभिः । उत । जामीन् । अजामीन् ॥८

हे “इन्द्र त्वं “वृषणं वर्षितारं “शुष्मं सेनालक्षणं बलं “नः अस्मभ्यम् “आ “भर आहर । कीदृशम् । “धनस्पृतं धनस्य पालकं “शूशुवांसं प्रवृद्धं “सुदक्षं शोभनबलम् । हे इन्द्र “तवोतिभिः त्वदीयाभी रक्षाभिः “पृतनासु संग्रामेषु । पृतना इति संग्रामनाम । “येन बलेन “शत्रून् “वंसाम हनाम। उतेत्यत्र भिन्नक्रमः । “जामीन् बन्धून् “उत अपि च “अजामीन् शत्रूंश्च येन शुष्मेण वंसाम तं शुष्ममा भरेति पूर्वेण संबन्धः ॥


आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता॑त् ।

आ वि॒श्वतो॑ अ॒भि समे॑त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥९

आ । ते॒ । शुष्मः॑ । वृ॒ष॒भः । ए॒तु॒ । प॒श्चात् । आ । उ॒त्त॒रात् । अ॒ध॒रात् । आ । पु॒रस्ता॑त् ।

आ । वि॒श्वतः॑ । अ॒भि । सम् । ए॒तु॒ । अ॒र्वाङ् । इन्द्र॑ । द्यु॒म्नम् । स्वः॑ऽवत् । धे॒हि॒ । अ॒स्मे इति॑ ॥९

आ । ते । शुष्मः । वृषभः । एतु । पश्चात् । आ । उत्तरात् । अधरात् । आ । पुरस्तात् ।

आ । विश्वतः । अभि । सम् । एतु । अर्वाङ् । इन्द्र । द्युम्नम् । स्वःऽवत् । धेहि । अस्मे इति ॥९

हे इन्द्र “वृषभः वर्षिता “ते त्वदीयं “शुष्मः बलम् “अर्वाङ् अस्मदभिमुखः सन् "पश्चात् पश्चिमभागात् “आ “एतु आगच्छतु । “उत्तरात् उत्तरभागात् “आ गच्छतु । अधरात् दक्षिणभागाच्चैतु। “पुरस्तात् पूर्वभागाच्च “आ गच्छतु । “विश्वतः सर्वस्माद्दिग्भागात् “अभि अस्मानभिलक्ष्य “आ “समेतु सम्यगागच्छतु । हे “इन्द्र त्वं “स्वर्वत् सुखयुक्तं “द्युम्नं धनम् “अस्मे अस्मभ्यं “धेहि प्रयच्छ ॥


नृ॒वत्त॑ इन्द्र॒ नृत॑माभिरू॒ती वं॑सी॒महि॑ वा॒मं श्रोम॑तेभिः ।

ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राज॒न्धा रत्नं॒ महि॑ स्थू॒रं बृ॒हन्त॑म् ॥१०

नृ॒ऽवत् । ते॒ । इ॒न्द्र॒ । नृऽत॑माभिः । ऊ॒ती । वं॒सी॒महि॑ । वा॒मम् । श्रोम॑तेभिः ।

ईक्षे॑ । हि । वस्वः॑ । उ॒भय॑स्य । रा॒ज॒न् । धाः । रत्न॑म् । महि॑ । स्थू॒रम् । बृ॒हन्त॑म् ॥१०

नृऽवत् । ते । इन्द्र । नृऽतमाभिः । ऊती । वंसीमहि । वामम् । श्रोमतेभिः ।

ईक्षे । हि । वस्वः । उभयस्य । राजन् । धाः । रत्नम् । महि । स्थूरम् । बृहन्तम् ॥१०

“नृवत् मनुष्यैः परिचारकजनैर्युक्तं "श्रोमतेभिः श्रोतव्यैर्यशोभिः सहितं "वामं वननीयं धनं हे “इन्द्र “ते त्वत्तः “नृतमाभिः नेतृतमाभिः “ऊती ऊतिभी रक्षाभिः “वंसीमहि वयं संभजेमहि । “हि यस्मात् कारणात् हे “राजन् राजमानेन्द्र त्वम् “उभयस्य पार्थिवस्य दिव्यस्य च “वस्वः धनस्य “ईक्षे ईशिषे तस्मात् कारणात् "महि महान्तं “स्थूरं विपुलं "बृहन्तं गुणैः परिवृढं "रत्नं रमणीयं धनम् । अत्र रत्नशब्दः पुल्लिँङ्गः । “धाः धेहि ॥


म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र॑म् ।

वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ॥११

म॒रुत्व॑न्तम् । वृ॒ष॒भम् । व॒वृ॒धा॒नम् । अक॑वऽअरिम् । दि॒व्यम् । शा॒सम् । इन्द्र॑म् ।

वि॒श्व॒ऽसह॑म् । अव॑से । नूत॑नाय । उ॒ग्रम् । स॒हः॒ऽदाम् । इ॒ह । तम् । हु॒वे॒म॒ ॥११

मरुत्वन्तम् । वृषभम् । ववृधानम् । अकवऽअरिम् । दिव्यम् । शासम् । इन्द्रम् ।

विश्वऽसहम् । अवसे । नूतनाय । उग्रम् । सहःऽदाम् । इह । तम् । हुवेम ॥११

“इह अस्मिन् यज्ञे "नूतनाय अभिनवाय “अवसे रक्षणाय “तं प्रसिद्धम् “इन्द्रं "हुवेम स्तुमः। आह्वयामो वा । कीदृशम् । “मरुत्वन्तं मरुद्भिर्युक्तं “वृषभं कामानां वर्षितारं “ववृधानं प्रवृद्धम् “अकवारिम् अकुत्सितशत्रुं “दिव्यं द्योतमानं “शासं शासितारं “विश्वसहं विश्वस्य लोकस्य अभिभवितारम् “उग्रम् ओजस्विनं “सहोदां बलप्रदम्।


जनं॑ वज्रि॒न्महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो॑ रन्धया॒ येष्वस्मि॑ ।

अधा॒ हि त्वा॑ पृथि॒व्यां शूर॑सातौ॒ हवा॑महे॒ तन॑ये॒ गोष्व॒प्सु ॥१२

जन॑म् । व॒ज्रि॒न् । महि॑ । चि॒त् । मन्य॑मानम् । ए॒भ्यः । नृऽभ्यः॑ । र॒न्ध॒य॒ । येषु॑ । अस्मि॑ ।

अध॑ । हि । त्वा॒ । पृ॒थि॒व्याम् । शूर॑ऽसातौ । हवा॑महे । तन॑ये । गोषु॑ । अ॒प्ऽसु ॥१२

जनम् । वज्रिन् । महि । चित् । मन्यमानम् । एभ्यः । नृऽभ्यः । रन्धय । येषु । अस्मि ।

अध । हि । त्वा । पृथिव्याम् । शूरऽसातौ । हवामहे । तनये । गोषु । अप्ऽसु ॥१२

"येषु येषां नृणां मध्येऽहम् “अस्मि एको भवामि हे "वज्रिन् वज्रवन् इन्द्र त्वम् “एभ्यो “नृभ्य मनुष्येभ्यः “महि महदत्यन्तमात्मानं “मन्यमानं “जनम् । बहुमन्यमानमित्यर्थः । “रन्धय वशीकुरु “चित् इति पादपूरणः । “अध अधुना "पृथिव्यां भूम्यां “शूरसातौ युद्धे प्रवृत्ते सति “तनये पुत्रे निमित्तं च “गोषु पशुषु “अप्सु उदकेषु च निमित्तेषु हे इन्द्र “त्वा द्युलोके स्थितं त्वां “हवामहे वयमाह्वयामः ।


व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रो॑ःशत्रो॒रुत्त॑र॒ इत्स्या॑म ।

घ्नन्तो॑ वृ॒त्राण्यु॒भया॑नि शूर रा॒या म॑देम बृह॒ता त्वोता॑ः ॥१३

व॒यम् । ते॒ । ए॒भिः । पु॒रु॒ऽहू॒त॒ । स॒ख्यैः । शत्रोः॑ऽशत्रोः । उत्ऽत॑रे । इत् । स्या॒म॒ ।

घ्नन्तः॑ । वृ॒त्राणि॑ । उ॒भया॑नि । शू॒र॒ । रा॒या । म॒दे॒म॒ । बृ॒ह॒ता । त्वाऽऊ॑ताः ॥१३

वयम् । ते । एभिः । पुरुऽहूत । सख्यैः । शत्रोःऽशत्रोः । उत्ऽतरे । इत् । स्याम ।

घ्नन्तः । वृत्राणि । उभयानि । शूर । राया । मदेम । बृहता । त्वाऽऊताः ॥१३

हे “पुरुहूत बहुभिराहूतेन्द्र “एभिः प्रसिद्धैः “सख्यैः स्तोत्रलक्षणैः सखिकर्मभिः “ते त्वया सह “वयम् “उभयानि जामिरूपाण्यजामिरूपाणि “वृत्राणि अमित्राणि “घ्नन्तः हिंसन्तः “शत्रोःशत्रो सर्वस्माच्छत्रोः "उत्तरे “इत् “स्याम अधिका एव भवेम । हे “शूर विक्रान्तेन्द्र “त्वोताः वयं त्वया रक्षिताः सन्तः “बृहता महता “राया धनेन “मदेम हृष्यामः ॥ ॥ ८ ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.१९&oldid=315349" इत्यस्माद् प्रतिप्राप्तम्