ऋग्वेदः सूक्तं ६.४७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.४६ ऋग्वेदः - मण्डल ६
सूक्तं ६.४७
गर्गो भारद्वाजः
सूक्तं ६.४८ →
दे. इन्द्रः, १-५ सोमः, २० देव-भूमि-बृहस्पतीन्द्राः, २२-२५ सार्ञ्जयः प्रस्तोकः (दानस्तुतिः), २६-२८ रथः, २९-३० दुंदुभिः, ३१ दुंदुभीन्द्रौ। त्रिष्टुप्, १५ द्विपदा त्रिष्टुप् , १९ बृहती, २३ अनुष्टुप्, २४ गायत्री, २५ द्विपदा त्रिष्टुप्, २७ जगती


स्वादुष्किलायं मधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम् ।
उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥१॥
अयं स्वादुरिह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद ।
पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन् ॥२॥
अयं मे पीत उदियर्ति वाचमयं मनीषामुशतीमजीगः ।
अयं षळुर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे ॥३॥
अयं स यो वरिमाणं पृथिव्या वर्ष्माणं दिवो अकृणोदयं सः ।
अयं पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्वन्तरिक्षम् ॥४॥
अयं विदच्चित्रदृशीकमर्णः शुक्रसद्मनामुषसामनीके ।
अयं महान्महता स्कम्भनेनोद्द्यामस्तभ्नाद्वृषभो मरुत्वान् ॥५॥
धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् ।
माध्यंदिने सवन आ वृषस्व रयिस्थानो रयिमस्मासु धेहि ॥६॥
इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ ।
भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः ॥७॥
उरुं नो लोकमनु नेषि विद्वान्स्वर्वज्ज्योतिरभयं स्वस्ति ।
ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता ॥८॥
वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा ।
इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन्मघवन्रायो अर्यः ॥९॥
इन्द्र मृळ मह्यं जीवातुमिच्छ चोदय धियमयसो न धाराम् ।
यत्किं चाहं त्वायुरिदं वदामि तज्जुषस्व कृधि मा देववन्तम् ॥१०॥
त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् ।
ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥११॥
इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृळीको भवतु विश्ववेदाः ।
बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥१२॥
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
स सुत्रामा स्ववाँ इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु ॥१३॥
अव त्वे इन्द्र प्रवतो नोर्मिर्गिरो ब्रह्माणि नियुतो धवन्ते ।
उरू न राधः सवना पुरूण्यपो गा वज्रिन्युवसे समिन्दून् ॥१४॥
क ईं स्तवत्कः पृणात्को यजाते यदुग्रमिन्मघवा विश्वहावेत् ।
पादाविव प्रहरन्नन्यमन्यं कृणोति पूर्वमपरं शचीभिः ॥१५॥
शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।
एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥१६॥
परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।
अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ॥१७॥
रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ।
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश ॥१८॥
युजानो हरिता रथे भूरि त्वष्टेह राजति ।
को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु ॥१९॥
अगव्यूति क्षेत्रमागन्म देवा उर्वी सती भूमिरंहूरणाभूत् ।
बृहस्पते प्र चिकित्सा गविष्टावित्था सते जरित्र इन्द्र पन्थाम् ॥२०॥
दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः ।
अहन्दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥२१॥
प्रस्तोक इन्नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनोऽदात् ।
दिवोदासादतिथिग्वस्य राधः शाम्बरं वसु प्रत्यग्रभीष्म ॥२२॥
दशाश्वान्दश कोशान्दश वस्त्राधिभोजना ।
दशो हिरण्यपिण्डान्दिवोदासादसानिषम् ॥२३॥
दश रथान्प्रष्टिमतः शतं गा अथर्वभ्यः ।
अश्वथः पायवेऽदात् ॥२४॥
महि राधो विश्वजन्यं दधानान्भरद्वाजान्सार्ञ्जयो अभ्ययष्ट ॥२५॥
वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥२६॥
दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः ।
अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥२७॥
इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥२८॥
उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।
स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥२९॥
आ क्रन्दय बलमोजो न आ धा नि ष्टनिहि दुरिता बाधमानः ।
अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिरसि वीळयस्व ॥३०॥
आमूरज प्रत्यावर्तयेमाः केतुमद्दुन्दुभिर्वावदीति ।
समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥३१॥


सायणभाष्यम्

“स्वादुः' इत्येकत्रिंशदृचं चतुर्थं सूक्तं भरद्वाजपुत्रस्य गर्गस्यार्षम् । प्रस्तोक इन्नु' इत्येषा त्रिष्टुप् , “ दशाश्वान्' इत्यनुष्टुप् , ‘दश रथान्' इति गायत्री, ‘महि राधः' इति द्विपदा द्व्येकादशका, ‘युजानो हरिता' इत्येषा बृहती, ‘दिवस्पृथिव्याः' इति जगती शिष्टास्त्रिप्टुभः । आदितः पञ्चानामृचां सोमो देवता । ‘अगव्यूति क्षेत्रम्' इत्यर्धर्चप्रथमपादे देवा उत्तरस्य भूमिस्तृतीयस्य बृहस्पतिश्चतुर्थस्येन्द्रः । 'प्रस्तोकः' इत्याद्याश्चतस्रः सृञ्जयपुत्रस्य राज्ञो दानस्तुतिरूपत्वात् तद्देवताकाः । वनस्पते वीड्वङ्गः' इत्ययं तृचो रथदेवत्यः । ‘उप श्वासय' इति तृचो दुन्दुभिदेवत्यः। ‘ समश्वपर्णाः' इत्यर्धर्च ऐन्द्रः । शिष्टा इन्द्रदेवताकाः । तथा चानुक्रान्तं-‘स्वादुरेकत्रिंशद्गर्ग: पञ्चादौ सौम्योऽगव्यूत्यर्धर्चो लिङ्गोक्तदेवतः प्रस्तोक इति त्रिष्टुबनुष्टुब्गायत्री द्विपदा सार्ञ्जयस्य प्रस्तोकस्य दानस्तुतिः परौ तृचौ रथदुन्दुभिदेवत्यावैन्द्रोऽन्त्योऽर्धर्चो युजानो बृहती त्रिष्टुम्महि द्विपदा दिवस्पृथिव्या जगती ' इति । आग्निमारुत आदितश्चतस्रः शंसनीयाः । सूत्रितं च- स्वादुष्किलायमिति चतस्रो मध्ये चाह्वानम्' (आश्व. श्रौ. ५. २०) इति ॥


स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम् ।

उ॒तो न्व१॒॑स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥१

स्वा॒दुः । किल॑ । अ॒यम् । मधु॑ऽमान् । उ॒त । अ॒यम् । ती॒व्रः । किल॑ । अ॒यम् । रस॑ऽवान् । उ॒त । अ॒यम् ।

उ॒तो इति॑ । नु । अ॒स्य । प॒पि॒ऽवांस॑म् । इन्द्र॑म् । न । कः । च॒न । स॒ह॒ते॒ । आ॒ऽह॒वेषु॑ ॥१

स्वादुः । किल । अयम् । मधुऽमान् । उत । अयम् । तीव्रः । किल । अयम् । रसऽवान् । उत । अयम् ।

उतो इति । नु । अस्य । पपिऽवांसम् । इन्द्रम् । न । कः । चन । सहते । आऽहवेषु ॥१

“अयम् अभिषुतः सोमः "स्वादुः आस्वादनीयः "किल भवति । “उत अपि च "मधुमान् माधुर्यवांश्च “अयं सोमो भवति । तथा "अयं सोमः "तीव्रः "किल मदोत्पादने तीक्ष्णः खलु भवति । “उत अपि च "अयं सोमः "रसवान् सारवांश्च भवति । अनेन वाक्यचतुष्टयेन सोमस्य माधुर्यातिशयत्वं च प्रतिपादितम् । "उतो अपि च “अस्य सोमस्य । द्वितीयार्थे षष्ठी । इमं सोमं “पपिवांसं पीतवन्तम् “इन्द्रम् "आहवेषु संग्रामेषु "न “कश्चन न कोऽपि "सहते अभिभवति । “नु इति पूरकः ॥


अ॒यं स्वा॒दुरि॒ह मदि॑ष्ठ आस॒ यस्येन्द्रो॑ वृत्र॒हत्ये॑ म॒माद॑ ।

पु॒रूणि॒ यश्च्यौ॒त्ना शम्ब॑रस्य॒ वि न॑व॒तिं नव॑ च दे॒ह्यो॒३॒॑ हन् ॥२

अ॒यम् । स्वा॒दुः । इ॒ह । मदि॑ष्ठः । आ॒स॒ । यस्य॑ । इन्द्रः॑ । वृ॒त्र॒ऽहत्ये॑ । म॒माद॑ ।

पु॒रूणि॑ । यः । च्यौ॒त्ना । शम्ब॑रस्य । वि । न॒व॒तिम् । नव॑ । च॒ । दे॒ह्यः॑ । हन् ॥२

अयम् । स्वादुः । इह । मदिष्ठः । आस । यस्य । इन्द्रः । वृत्रऽहत्ये । ममाद ।

पुरूणि । यः । च्यौत्ना । शम्बरस्य । वि । नवतिम् । नव । च । देह्यः । हन् ॥२

“इह अस्मिन् यज्ञे “अयं सोमः "स्वादुः आस्वादितः पीतः सन् "मदिष्ठः अतिशयेन मदयिता “आस बभूव। "यस्य सोमस्य पानेन “इन्द्रो "वृत्रहत्ये वृत्रहननकाले “ममाद मत्तो बभूव । "यः सोमः "शम्बरस्य असुरस्य "पुरूणि बहूनि "च्यौत्ना च्यौत्नानि बलानि जघान । तथा “देह्यः दिग्धा उपचिता आसुरी पुरीः तदीयान् देहान् वा "नवतिं "नव “च नवोत्तरनवतिसंख्याका यः सोमः "वि “हन् व्यहन् अयं सोम इति प्रथमपादेन संबन्धः ॥


अ॒यं मे॑ पी॒त उदि॑यर्ति॒ वाच॑म॒यं म॑नी॒षामु॑श॒तीम॑जीगः ।

अ॒यं षळु॒र्वीर॑मिमीत॒ धीरो॒ न याभ्यो॒ भुव॑नं॒ कच्च॒नारे ॥३

अ॒यम् । मे॒ । पी॒तः । उत् । इ॒य॒र्ति॒ । वाच॑म् । अ॒यम् । म॒नी॒षाम् । उ॒श॒तीम् । अ॒जी॒ग॒रिति॑ ।

अ॒यम् । षट् । उ॒र्वीः । अ॒मि॒मी॒त॒ । धीरः॑ । न । याभ्यः॑ । भुव॑नम् । कत् । च॒न । आ॒रे ॥३

अयम् । मे । पीतः । उत् । इयर्ति । वाचम् । अयम् । मनीषाम् । उशतीम् । अजीगरिति ।

अयम् । षट् । उर्वीः । अमिमीत । धीरः । न । याभ्यः । भुवनम् । कत् । चन । आरे ॥३

“अयं सोमः "पीतः सन् “मे मम “वाचम् “उदयर्ति उद्गमयति । "अयम् एव सोमः “उशतीं कान्तां "मनीषां बुद्धिम् उत् "अजीगः उद्गारयति । प्रकाशयति ॥ ‘गॄ निगरणे' इत्यस्माण्ण्यन्ताल्लुङि चङि रूपम् ॥ अपि च "अयं “धीरः धीमान् सोमः “षळुर्वीः ‘षण्मोर्वीरंहसस्पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चापश्चौषधयश्च ' इति प्रतिपादिता द्युपृथिव्याद्याः षट् "अमिमीत निर्मितवान् । “याभ्यः उर्वीभ्यः "आरे दूरे विप्रकृष्टे देशे "कच्चन किंचन “भुवनं भूतजातं "न भवति अपि तु आस्वेव सर्वं भूतजातं वर्तते तादृशीरुर्वीर्निर्मितवान् ।।


अ॒यं स यो व॑रि॒माणं॑ पृथि॒व्या व॒र्ष्माणं॑ दि॒वो अकृ॑णोद॒यं सः ।

अ॒यं पी॒यूषं॑ ति॒सृषु॑ प्र॒वत्सु॒ सोमो॑ दाधारो॒र्व१॒॑न्तरि॑क्षम् ॥४

अ॒यम् । सः । यः । व॒रि॒माण॑म् । पृ॒थि॒व्याः । व॒र्ष्माण॑म् । दि॒वः । अकृ॑णोत् । अ॒यम् । सः ।

अ॒यम् । पी॒यूष॑म् । ति॒सृषु॑ । प्र॒वत्ऽसु॑ । सोमः॑ । दा॒धा॒र॒ । उ॒रु । अ॒न्तरि॑क्षम् ॥४

अयम् । सः । यः । वरिमाणम् । पृथिव्याः । वर्ष्माणम् । दिवः । अकृणोत् । अयम् । सः ।

अयम् । पीयूषम् । तिसृषु । प्रवत्ऽसु । सोमः । दाधार । उरु । अन्तरिक्षम् ॥४

“सः खलु "अयं "सोमः "यः "पृथिव्याः “वरिमाणम् उरुरवं विस्तृतत्वम् "अकृणोत् अकरोत् । तथायं सोमः "दिवः द्युलोकस्य “वर्ष्माणं संहतत्वं दृढत्वमकृणोदकरोत् । "अयं सोमः "सः हि भवति । अपि च "अयं सोमः "तिसृषु ओषधीष्वप्सु गोषु च "प्रवत्सु प्रकृष्टास्वेतासु "पीयूषं रसं "दाधार धारयति । तथा “उरु विस्तीर्णम् "अन्तरिक्षं च धारयति । तथा च मन्त्रान्तरं- त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः । त्वमा ततन्थोर्वन्तरिक्षम् ' ( ऋ. सं. १. ९१. २२ ) इति ॥


अ॒यं वि॑दच्चित्र॒दृशी॑क॒मर्ण॑ः शु॒क्रस॑द्मनामु॒षसा॒मनी॑के ।

अ॒यं म॒हान्म॑ह॒ता स्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भो म॒रुत्वा॑न् ॥५

अ॒यम् । वि॒द॒त् । चि॒त्र॒ऽदृशी॑कम् । अर्णः॑ । शु॒क्रऽस॑द्मनाम् । उ॒षसा॑म् । अनी॑के ।

अ॒यम् । म॒हान् । म॒ह॒ता । स्कम्भ॑नेन । उत् । द्याम् । अ॒स्त॒भ्ना॒त् । वृ॒ष॒भः । म॒रुत्वा॑न् ॥५

अयम् । विदत् । चित्रऽदृशीकम् । अर्णः । शुक्रऽसद्मनाम् । उषसाम् । अनीके ।

अयम् । महान् । महता । स्कम्भनेन । उत् । द्याम् । अस्तभ्नात् । वृषभः । मरुत्वान् ॥५

"अयं सोमः "चित्रदृशीकं विचित्रदर्शनं यद्वा आश्चर्यत्वेन दर्शनीयम् "अर्णः सर्वस्य प्रेरकं सौरं ज्योतिः “विदत् लम्भयति । क स्मन् काले। "शुक्रसद्मनां शुक्रं निर्मलमन्तरिक्षं सद्म सदनं यासां तासाम् "उषसाम् "अनीके प्रमुखे । उष:काल इत्यर्थः । अपि च "महान् प्रवृद्धः "अयं सोमः “महता स्थविष्ठेन "स्कम्भनेन स्तम्भनसाधनेन मध्यवर्तिनान्तरिक्षेण "द्यां द्युलोकम् "उत् "अस्तभ्नात् ऊर्ध्वमस्थापयत् । यथाधो न पतति तथान्तरिक्षं तस्याधारत्वेन कृतवानित्यर्थः । कीदृशः सोमः । "वृषभः वृष्टेर्जनयिता। सोमाहुत्या हि वृष्टिर्जन्यते । "मरुत्वान् मरुद्भिर्युक्तः ॥ ॥ ३० ॥


धृ॒षत्पि॑ब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शू॑र सम॒रे वसू॑नाम् ।

माध्यं॑दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒स्थानो॑ र॒यिम॒स्मासु॑ धेहि ॥६

धृ॒षत् । पि॒ब॒ । क॒लशे॑ । सोम॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहा । शू॒र॒ । स॒म्ऽअ॒रे । वसू॑नाम् ।

माध्य॑न्दिने । सव॑ने । आ । वृ॒ष॒स्व॒ । र॒यि॒ऽस्थानः॑ । र॒यिम् । अ॒स्मासु॑ । धे॒हि॒ ॥६

धृषत् । पिब । कलशे । सोमम् । इन्द्र । वृत्रऽहा । शूर । सम्ऽअरे । वसूनाम् ।

माध्यन्दिने । सवने । आ । वृषस्व । रयिऽस्थानः । रयिम् । अस्मासु । धेहि ॥६

हे “शूर शौर्यवन् “इन्द्र “वृत्रहा वृत्राणामावरकाणां शत्रूणां हन्ता त्वं "वसूनां धनानां "समरे संग्रामे निमित्तभूते सति "कलशे द्रोणकलशेऽवस्थितं "सोमं “धृषत् धृष्टं यथा भवति तथा “पिब । अपि च "माध्यंदिने "सवने “आ “वृषस्व आसिञ्चस्व । जठरं सोमेन पूरय । सर्वैन्द्रं हि माध्यंदिनं सवनम् । किंच "रयिस्थानः रयीणां "धनानां स्थानभूतस्त्वं "रयिं धनम् "अस्मासु “धेहि धारय ॥


इन्द्र॒ प्र ण॑ः पुरए॒तेव॑ पश्य॒ प्र नो॑ नय प्रत॒रं वस्यो॒ अच्छ॑ ।

भवा॑ सुपा॒रो अ॑तिपार॒यो नो॒ भवा॒ सुनी॑तिरु॒त वा॒मनी॑तिः ॥७

इन्द्र॑ । प्र । नः॒ । पु॒र॒ए॒ताऽइ॑व । पश्य॑ । प्र । नः॒ । न॒य॒ । प्र॒ऽत॒रम् । वस्यः॑ । अच्छ॑ ।

भव॑ । सु॒ऽपा॒रः । अ॒ति॒ऽपा॒र॒यः । नः॒ । भव॑ । सुऽनी॑तिः । उ॒त । वा॒मऽनी॑तिः ॥७

इन्द्र । प्र । नः । पुरएताऽइव । पश्य । प्र । नः । नय । प्रऽतरम् । वस्यः । अच्छ ।

भव । सुऽपारः । अतिऽपारयः । नः । भव । सुऽनीतिः । उत । वामऽनीतिः ॥७

हे “इन्द्र त्वं "पुरएतेव पुरतो गन्तेव "नः अस्मान् "प्र "पश्य प्रकर्षेणेक्षस्व । यथा मार्गरक्षकः स्वयं पुरतो गच्छन्ननुगच्छतो रक्षणीयान् पथिकान् पश्यति तथा पश्येत्यर्थः । तथा “वस्यः वसीयः श्रेष्ठं धनम् "अच्छ आभिमुख्येन "प्रतरं प्रकृष्टतरमतिशयेन “प्र “णय अस्मान् प्रापय । तथा “सुपारः सुष्ठु पारयिता दुःखेभ्यस्तारयिता "भव । तथा “नः अस्मान् स्तोतॄन् "अतिपारयः शत्रूनतिक्रामय । “सुनीतिः शोभननयनश्चास्माकं “भव। “उत अपि च “वामनीतिः वामानां वननीयानां धनानां नेता भव । यद्वा । अस्मदर्थं श्रेष्ठप्रापणो भव ॥


ऐन्द्रे पशौ ' उरुं नः' इत्येषा वपाया याज्या । सूत्रितं च- ’ उरुं नो लोकमनु नेषि विद्वान् प्र ससाहिषे पुरुहूत शत्रून् ' ( आश्व. श्रौ. ३. ७ ) इति । होत्रकैः सदःप्रसर्पणसमयेऽप्येषा जप्या । सूत्रितं च - उरुं नो लोकमनु नेषि विद्वानिति जपन्तः ' ( आश्व. श्रौ. ५. ३ ) इति । चतुर्विंशिकेऽहन्यहर्गणेषु च द्वितीयादिष्वहःसु माध्यंदिनसवनेऽच्छावाकस्यैषा चारम्भणीया । सूत्रितं च--- ‘ उरुं नो लोकमनु नेषि विद्वानिति कद्वद्भ्य आरम्भणीयाः' ( आश्व. श्रौ. ७. ४ ) इति ॥)

उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान्स्व॑र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति ।

ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू उप॑ स्थेयाम शर॒णा बृ॒हन्ता॑ ॥८

उ॒रुम् । नः॒ । लो॒कम् । अनु॑ । ने॒षि॒ । वि॒द्वान् । स्वः॑ऽवत् । ज्योतिः॑ । अभ॑यम् । स्व॒स्ति ।

ऋ॒ष्वा । ते॒ । इ॒न्द्र॒ । स्थवि॑रस्य । बा॒हू इति॑ । उप॑ । स्थे॒या॒म॒ । श॒र॒णा । बृ॒हन्ता॑ ॥८

उरुम् । नः । लोकम् । अनु । नेषि । विद्वान् । स्वःऽवत् । ज्योतिः । अभयम् । स्वस्ति ।

ऋष्वा । ते । इन्द्र । स्थविरस्य । बाहू इति । उप । स्थेयाम । शरणा । बृहन्ता ॥८

हे इन्द्र "विद्वान् जानंस्त्वम् "उरुं विस्तीर्णं “लोकं स्थानं स्वर्गाख्यं "नः अस्मान् "अनु "नेषि अनुगमय । तथा “स्वर्वत् सुखवत् "अभयं भयरहितं “ज्योतिः च "स्वस्ति क्षेमेणानु नेषि अस्माननुगमय । हे “इन्द्र "स्थविरस्य स्थूलस्य वृद्धस्य “ते तव संबन्धिनौ “ऋष्वा दर्शनीयौ “बृहन्ता महान्तौ "बाहू त्वदीयौ हस्तौ "शरणा शरणौ रक्षकौ रक्षकतया “उप "स्थेयाम उपतिष्ठेम । सेवेमहि ॥


वरि॑ष्ठे न इन्द्र व॒न्धुरे॑ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा ।

इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न्रायो॑ अ॒र्यः ॥९

वरि॑ष्ठे । नः॒ । इ॒न्द्र॒ । व॒न्धुरे॑ । धाः॒ । वहि॑ष्ठयोः । श॒त॒ऽव॒न् । अश्व॑योः । आ ।

इष॑म् । आ । व॒क्षि॒ । इ॒षाम् । वर्षि॑ष्ठाम् । मा । नः॒ । ता॒री॒त् । म॒घ॒ऽव॒न् । रायः॑ । अ॒र्यः ॥९

वरिष्ठे । नः । इन्द्र । वन्धुरे । धाः । वहिष्ठयोः । शतऽवन् । अश्वयोः । आ ।

इषम् । आ । वक्षि । इषाम् । वर्षिष्ठाम् । मा । नः । तारीत् । मघऽवन् । रायः । अर्यः ॥९

हे "इन्द्र "वरिष्ठे उरुतमे विस्तीर्णतमे "वन्धुरे आत्मीये रथे "नः अस्मान् “धाः धेहि । धारय । अपि च हे “शतावन् शतसंख्यधनेन्द्र "वहिष्ठयोः वोढ़ृतमयोः । आकारः समुच्चये । "अश्वयोरा त्वदीययोरश्वयोश्चास्मान् धारय । तथा “इषाम् अन्नानां मध्ये “वर्षिष्ठां वृद्धतमाम् "इषम् अन्नम् “आ “वक्षि अस्मदर्थमावह । आनय । हे "मघवन् धनवन्निन्द्र "अर्यः धनस्य स्वामी अन्यः कश्चित् "नः अस्माकं "रायः धनानि "मा “तारीत् मा हिंसीत् ॥


इन्द्र॑ मृ॒ळ मह्यं॑ जी॒वातु॑मिच्छ चो॒दय॒ धिय॒मय॑सो॒ न धारा॑म् ।

यत्किं चा॒हं त्वा॒युरि॒दं वदा॑मि॒ तज्जु॑षस्व कृ॒धि मा॑ दे॒वव॑न्तम् ॥१०

इन्द्र॑ । मृ॒ळ । मह्य॑म् । जी॒वातु॑म् । इ॒च्छ॒ । चो॒दय॑ । धिय॑म् । अय॑सः । न । धारा॑म् ।

यत् । किम् । च॒ । अ॒हम् । त्वा॒ऽयुः । इ॒दम् । वदा॑मि । तत् । जु॒ष॒स्व॒ । कृ॒धि । मा॒ । दे॒वऽव॑न्तम् ॥१०

इन्द्र । मृळ । मह्यम् । जीवातुम् । इच्छ । चोदय । धियम् । अयसः । न । धाराम् ।

यत् । किम् । च । अहम् । त्वाऽयुः । इदम् । वदामि । तत् । जुषस्व । कृधि । मा । देवऽवन्तम् ॥१०

हे “इन्द्र “मृळ मृळय । अस्मान् सुखय । "जीवातुं जीवनौषधं च "मह्यं दातुम् "इच्छ । तथा “धियं बुद्धिं “चोदय । स्तुतिविषयां कर्मविषयां वा प्रेरय । तीक्ष्णीकुरु । "अयसो “न “धाराम् अयोमयस्य खड्गादेर्धारामिव । सा यथा सूक्ष्मा तद्वत् सूक्ष्मविषयां धियं चोदयेत्यर्थः ।। किंच “त्वायुः त्वामात्मन इच्छन् "इदम् इदानीं यत्किंचन “अहं "वदामि समीचीनमसमीचीनं वा “तज्जुषस्व सेवस्व । “मा मां च “देववन्तं रक्षकैर्देवैरुपेतं "कृधि कुरु ॥ ॥ ३१ ॥


आयुष्कामेष्ट्यामिन्द्रस्य त्रातुः ‘त्रातारम्' इत्यनुवाक्या । सूत्रितं च - त्रातारमिन्द्रमवितारमिन्द्रं मा ते अस्यां सहसावन्परिष्टौ ' ( आश्व. श्रौ. २. १०) इति ॥

त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म् ।

ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्र॑ः ॥११

त्रा॒तार॑म् । इन्द्र॑म् । अ॒वि॒तार॑म् । इन्द्र॑म् । हवे॑ऽहवे । सु॒ऽहव॑म् । शूर॑म् । इन्द्र॑म् ।

ह्वया॑मि । श॒क्रम् । पु॒रु॒ऽहू॒तम् । इन्द्र॑म् । स्व॒स्ति । नः॒ । म॒घऽवा॑ । धा॒तु॒ । इन्द्रः॑ ॥११

त्रातारम् । इन्द्रम् । अवितारम् । इन्द्रम् । हवेऽहवे । सुऽहवम् । शूरम् । इन्द्रम् ।

ह्वयामि । शक्रम् । पुरुऽहूतम् । इन्द्रम् । स्वस्ति । नः । मघऽवा । धातु । इन्द्रः ॥११

“त्रातारं शत्रुभ्यः पालयितारम् "इन्द्रम् आह्वयामि । तथा "अवितारं कामैस्तर्पयितारम् "इन्द्रम् आह्वयामि । "हवेहवे सर्वेष्वाहवनेषु "सुहवं सुखेनाह्वातुं शक्यं "शूरं शौर्यवन्तं "शक्रं सर्वकार्येषु शक्तं “पुरुहूतं पुरुभिर्बहुभिः पालनार्थमाहूतमेवंविधम् "इन्द्रं "ह्वयामि आह्वयामि । एवमाहूतः "मघवा धनवान् सः "इन्द्रः "स्वस्ति अविनाशं "नः अस्मभ्यं “धातु ददातु । यद्वा । अस्माकं विदधातु ॥


इन्द्र॑ः सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः ।

बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥१२

इन्द्रः॑ । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अवः॑ऽभिः । सु॒ऽमृ॒ळी॒कः । भ॒व॒तु॒ । वि॒श्वऽवे॑दाः ।

बाध॑ताम् । द्वेषः॑ । अभ॑यम् । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥१२

इन्द्रः । सुऽत्रामा । स्वऽवान् । अवःऽभिः । सुऽमृळीकः । भवतु । विश्वऽवेदाः ।

बाधताम् । द्वेषः । अभयम् । कृणोतु । सुऽवीर्यस्य । पतयः । स्याम ॥१२

"सुत्रामा सुष्ठु त्राता "स्ववान् धनवान् सः "इन्द्रः "अवोभिः रक्षणैः "सुमृळीकः सुष्ठु सुखयिता "भवतु । तथा च "विश्ववेदाः सर्वधनः सर्वविद्वान् वा स इन्द्रः “द्वेषः द्वेष्टॄन शत्रून् “बाधतां हिनस्तु । "अभयं भयरहितं चास्माकं "कृणोतु करोतु । वयं च तत्प्रसादात् “सुवीर्यस्य शोभनवीर्यस्य "पतयः "स्याम भवेम ॥


तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।

स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेष॑ः सनु॒तर्यु॑योतु ॥१३

तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ।

सः । सु॒ऽत्रामा॑ । स्वऽवा॑न् । इन्द्रः॑ । अ॒स्मे इति॑ । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒तु॒ ॥१३

तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ।

सः । सुऽत्रामा । स्वऽवान् । इन्द्रः । अस्मे इति । आरात् । चित् । द्वेषः । सनुतः । युयोतु ॥१३

"यज्ञियस्य यज्ञार्हस्य “सुमतौ शोभनायामनुग्रहात्मिकायां बुद्धौ "वयं "स्याम । तद्विषयभूताः भवेम । तथा “भद्रे कल्याणे “सौमनसे सुमनसो भावे "अपि तदीये स्याम भवेम । स इन्द्रोऽस्मास्वनुग्रहात्मिकां बुद्धिं सौमनस्यं च करोत्वित्यर्थः । "सुत्रामा सुष्ठु त्राता "स्ववान् धनवान् “सः "इन्द्रः च "अस्मे अस्मत्त: "आराच्चित् दूरदेश एव "द्वेषः द्वेष्टॄन् "सनुतः । अन्तर्हितनामैतत् । अन्तर्हितान् "युयोतु पृथक्करोतु ॥


अव॒ त्वे इ॑न्द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा॑णि नि॒युतो॑ धवन्ते ।

उ॒रू न राध॒ः सव॑ना पु॒रूण्य॒पो गा व॑ज्रिन्युवसे॒ समिन्दू॑न् ॥१४

अव॑ । त्वे इति॑ । इ॒न्द्र॒ । प्र॒ऽवतः॑ । न । ऊ॒र्मिः । गिरः॑ । ब्रह्मा॑णि । नि॒ऽयुतः॑ । ध॒व॒न्ते॒ ।

उ॒रु । न । राधः॑ । सव॑ना । पु॒रूणि॑ । अ॒पः । गाः । व॒ज्रि॒न् । यु॒व॒से॒ । सम् । इन्दू॑न् ॥१४

अव । त्वे इति । इन्द्र । प्रऽवतः । न । ऊर्मिः । गिरः । ब्रह्माणि । निऽयुतः । धवन्ते ।

उरु । न । राधः । सवना । पुरूणि । अपः । गाः । वज्रिन् । युवसे । सम् । इन्दून् ॥१४

हे “इन्द्र "त्वे त्वां "नियुतः स्तोतुः "गिरः उक्थात्मिका वाच: “ब्रह्माणि सामरूपाणि स्तोत्राणि च "अव “धवन्ते अभिगच्छन्ति । तत्र दृष्टान्तः। “ऊर्मिः जलसंघः "प्रवतो "न प्रवणदेशानिव। यथोच्छ्रितात् स्थलात् निम्नदेशं शीघ्रं गच्छति तद्वत् । नशब्दः समुच्चये । "उरु उरूणि बहु “राधः राधांसि च हविर्लक्षणानि धनानि “पुरूणि बहूनि "सवना सवनानि बहवोऽभिषुताः सोमाश्च त्वामेवाभिगच्छन्ति । हे “वज्रिन् वज्रवन्निन्द्र “अपः वसतीवर्याख्याः “गाः गोविकारान् ऋतदध्यादीन् श्रपणार्थान् "इन्दून् सोमांश्च “सं "युवसे सम्यक् मिश्रयसि । त्वां यष्टुं वसतीवरीभिरभिषुत्य तं सोममाशिरादिभिः श्रपणद्रव्यैः संस्कुर्वन्तीत्यर्थः ।।


क ईं॑ स्तव॒त्कः पृ॑णा॒त्को य॑जाते॒ यदु॒ग्रमिन्म॒घवा॑ वि॒श्वहावे॑त् ।

पादा॑विव प्र॒हर॑न्न॒न्यम॑न्यं कृ॒णोति॒ पूर्व॒मप॑रं॒ शची॑भिः ॥१५

कः । ई॒म् । स्त॒व॒त् । कः । पृ॒णा॒त् । कः । य॒जा॒ते॒ । यत् । उ॒ग्रम् । इत् । म॒घऽवा॑ । वि॒श्वहा॑ । अवे॑त् ।

पादौ॑ऽइव । प्र॒ऽहर॑न् । अ॒न्यम्ऽअ॑न्यम् । कृ॒णोति॑ । पूर्व॑म् । अप॑रम् । शची॑भिः ॥१५

कः । ईम् । स्तवत् । कः । पृणात् । कः । यजाते । यत् । उग्रम् । इत् । मघऽवा । विश्वहा । अवेत् ।

पादौऽइव । प्रऽहरन् । अन्यम्ऽअन्यम् । कृणोति । पूर्वम् । अपरम् । शचीभिः ॥१५

“कः स्तोता “ईम् एनमिन्द्रं "स्तवत् स्तुयात् । स्तोतुं शक्नुयात् । "कः वा “पृणात् एनं प्रीणयेत् । "कः च "यजाते एनं हविर्भिर्यजेत। "यत् यस्मात् अयं "मघवा धनवानिन्द्रः “उग्रमित् उद्गूर्णमेव "विश्वहा सर्वदा "अवेत् आत्मानं वेत्ति जानाति सर्वदा उग्र एव भवति तस्मात् कारणात् न कोऽप्येनं स्तोतुं प्रीणयितुं यष्टुं वा शक्नोतीति भावः । इतोऽपि स्तुत्यादेरविषय इत्याह । यस्मादयमिन्द्रः "शचीभिः आत्मीयाभिः प्रज्ञाभिः "पूर्वं प्रथमभाविनं सन्तं स्तोतारम् "अपरं पश्चाद्भाविनं च “अन्यमन्यं परस्परव्यतिहारेण "कृणोति करोति । यः प्रथमभावी मुख्यः स्तोता तं जघन्यं करोति यश्च जघन्यः स्तोता तं मुख्यं करोति । तत्र दृष्टान्तः । "प्रहरन् "पादाविव । यथा पादौ प्रहरन् मार्गे प्रक्षिपन् पुरुषः पूर्वं पादमपरं करोत्यपरं च पूर्वं तद्वत् । अतोऽपि कारणात् इन्द्रः स्तुत्यादेरविषय इति भावः । एतदादिकेन पञ्चर्चेन इन्द्रस्यातिस्वातन्त्र्यं प्रतिपाद्यते ॥ ॥ ३२ ॥


शृ॒ण्वे वी॒र उ॒ग्रमु॑ग्रं दमा॒यन्न॒न्यम॑न्यमतिनेनी॒यमा॑नः ।

ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒ राजा॑ चोष्कू॒यते॒ विश॒ इन्द्रो॑ मनु॒ष्या॑न् ॥१६

शृ॒ण्वे । वी॒रः । उ॒ग्रम्ऽउ॑ग्रम् । द॒म॒ऽयन् । अ॒न्यम्ऽअ॑न्यम् । अ॒ति॒ऽने॒नी॒यमा॑नः ।

ए॒ध॒मा॒न॒ऽद्विट् । उ॒भय॑स्य । राजा॑ । चो॒ष्कू॒यते॑ । विशः॑ । इन्द्रः॑ । म॒नु॒ष्या॑न् ॥१६

शृण्वे । वीरः । उग्रम्ऽउग्रम् । दमऽयन् । अन्यम्ऽअन्यम् । अतिऽनेनीयमानः ।

एधमानऽद्विट् । उभयस्य । राजा । चोष्कूयते । विशः । इन्द्रः । मनुष्यान् ॥१६

अयमिन्द्रः "वीरः वीर्यवानिति “शृण्वे श्रूयते । किं कुर्वन् । "उग्रमुग्रम् उद्गूर्णमुद्गूर्णं बलिनं शत्रुं प्रति "दमायन् । दमः दमनम् । बाधनमिच्छन् । "अन्यमन्यं प्रथमं नेतव्यमन्यं पश्चान्नेतव्यं चान्यं पूर्वमपरं परस्परव्यतिहारेण स्तोतॄन् "अतिनेनीयमानः अत्यन्तं पुनःपुनर्नयन् । अपि च “एधमानद्विट् एधमानानां वर्धमानानामसुन्वतां द्वेष्टा “उभयस्य दिव्यस्य पार्थिवस्य च धनस्य “राजा ईश्वरोऽयम् इन्द्रः “विशः निवेशयितॄन् स्वस्य परिचारकान् "मनुष्यान् "चोष्कूयते रक्षणार्थं पुनःपुनराह्वयति ॥


परा॒ पूर्वे॑षां स॒ख्या वृ॑णक्ति वि॒तर्तु॑राणो॒ अप॑रेभिरेति ।

अना॑नुभूतीरवधून्वा॒नः पू॒र्वीरिन्द्र॑ः श॒रद॑स्तर्तरीति ॥१७

परा॑ । पूर्वे॑षाम् । स॒ख्या । वृ॒ण॒क्ति॒ । वि॒ऽतर्तु॑राणः । अप॑रेभिः । ए॒ति॒ ।

अन॑नुऽभूतीः । अ॒व॒ऽधू॒न्वा॒नः । पू॒र्वीः । इन्द्रः॑ । श॒रदः॑ । त॒र्त॒री॒ति॒ ॥१७

परा । पूर्वेषाम् । सख्या । वृणक्ति । विऽतर्तुराणः । अपरेभिः । एति ।

अननुऽभूतीः । अवऽधून्वानः । पूर्वीः । इन्द्रः । शरदः । तर्तरीति ॥१७

अयमिन्द्रः "पूर्वेषां पूर्वभाविनां प्रशस्तानां कर्मणां कुर्वतां पुरुषाणां "सख्या सखित्वानि “परा “वृणक्ति वर्जयति । अपि च "वितर्तुराणः तान् हिंसन् 'अपरेभिः अपरैः अमुख्यैरप्रशस्तैरपि कर्मानुष्ठातृभिः “एति सख्यं प्राप्नोति । तथा “अनानुभूतीः अपरिचरणाः प्रजाः “अवधून्वानः परित्यजन् “पूर्वीः बह्वीः “शरदः संवत्सरान् अयम् "इन्द्रः “तर्तरीति भृशमतिक्रामति । स्तोतृभिः सह सख्यं कुर्वन् चिरकालं वसतीत्यर्थः ।।


रू॒पंरू॑पं॒ प्रति॑रूपो बभूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय ।

इन्द्रो॑ मा॒याभि॑ः पुरु॒रूप॑ ईयते यु॒क्ता ह्य॑स्य॒ हर॑यः श॒ता दश॑ ॥१८

रू॒पम्ऽरू॑पम् । प्रति॑ऽरूपः । ब॒भू॒व॒ । तत् । अ॒स्य॒ । रू॒पम् । प्र॒ति॒ऽचक्ष॑णाय ।

इन्द्रः॑ । मा॒याभिः॑ । पु॒रु॒ऽरूपः॑ । ई॒य॒ते॒ । यु॒क्ताः । हि । अ॒स्य॒ । हर॑यः । श॒ता । दश॑ ॥१८

रूपम्ऽरूपम् । प्रतिऽरूपः । बभूव । तत् । अस्य । रूपम् । प्रतिऽचक्षणाय ।

इन्द्रः । मायाभिः । पुरुऽरूपः । ईयते । युक्ताः । हि । अस्य । हरयः । शता । दश ॥१८

अयमिन्द्रः "प्रतिरूपः रूपाणां प्रतिनिधिः सन् "रूपंरूपं तत्तदग्न्यादिदेवतास्वरूपं “बभूव । प्राप्नोति । ‘भू प्राप्तौ ' इति धातुः । इन्द्रः स्वमाहात्म्येन तत्तद्देवतारूपो भवतीत्यर्थः । "अस्य चेन्द्रस्य “तत् प्राप्तमग्न्यादिदेवतास्वरूपं "प्रतिचक्षणाय प्रतिनियतदर्शनाय अयमग्निरयं विष्णुरयं रुद्र इत्येवमसंकीर्णदर्शनाय भवति । अपि चायम् "इन्द्रो "मायाभिः । ज्ञाननामैतत् । ज्ञानैः आत्मीयैः संकल्पैः "पुरुरूपः बहुविधशरीरः सन् “ईयते बहून् यजमानान् गच्छति । ननु द्वावेवास्याश्वावेकश्च रथः कथमनेन युगपद्बहून् गच्छतीत्यत आह । "अस्य इन्द्रस्य “हरयः अश्वाः “युक्ताः रथे योजिताः “शता "दश सहस्रसंख्याका अपरिमिताः सन्ति । “हि यस्मादेवं तस्माद्बहुशरीराणि स्वीकृत्य युगपत् हविष्मतो यजमानान् गच्छतीत्यर्थः ॥ अन्ये मन्यन्ते । ‘इदि परमैश्वर्ये ' इत्यस्य धातोरर्थानुगमात् इन्द्रः परमात्मा । स चाकाशवत् सर्वगतः सदानन्दरूपः । स एव उपाधिभिरन्तःकरणैः प्रतिशरीरमवच्छिन्न: सन् जीवात्मेति व्यपदिश्यते । स एव अनादिमायाशक्तिभिः वियदादिजगदात्मना विवर्तते शब्दादिविषयहरणशीला इन्द्रियवृत्तयश्च तेनैव संबद्धाः । एतत्सर्वं तस्य परमात्मनो यद्वास्तवं रूपं तस्य दर्शनायेति । अयमर्थोऽनया प्रतिपाद्यते । रूपंरूपम् । रूप्यत इति रूपं शरीरादि । प्रतिशरीरं चिद्रूपः सर्वगतः परमात्मा प्रतिरूपः प्रतिबिम्बरूपः सन् सर्वाणि शरीराणि बभूव । प्राप्नोत् । तच्च प्राप्तं प्रतिबिम्बरूपमस्य परमात्मनः प्रतिचक्षणाय प्रतिनियताकारस्य दर्शनाय भवति । स चेन्द्रः परमेश्वरो मायाभिर्मायाशक्तिभिः पुरुरूपो वियदादिभिर्बहुविधरूपैरुपेतः सन् ईयते चेष्टते । एतदप्यस्य परमात्मनः प्रतिचक्षणाय भवति । अस्य च दश शता सहस्रसंख्याका हरय इन्द्रियवृत्तयः युक्ता विषयग्रहणायोद्युक्ताः सन्ति । तदप्यस्य वास्तवरूपस्य दर्शनाय भवतीति । एवं स्थूलसूक्ष्मशरीरयोर्वियदादिमहाप्रपञ्चस्य च तत्वज्ञानहेतुत्वमनया प्रत्यपादीति ॥


यु॒जा॒नो ह॒रिता॒ रथे॒ भूरि॒ त्वष्टे॒ह रा॑जति ।

को वि॒श्वाहा॑ द्विष॒तः पक्ष॑ आसत उ॒तासी॑नेषु सू॒रिषु॑ ॥१९

यु॒जा॒नः । ह॒रिता॑ । रथे॑ । भूरि॑ । त्वष्टा॑ । इ॒ह । रा॒ज॒ति॒ ।

कः । वि॒श्वाहा॑ । द्वि॒ष॒तः । पक्षः॑ । आ॒स॒ते॒ । उ॒त । आसी॑नेषु । सू॒रिषु॑ ॥१९

युजानः । हरिता । रथे । भूरि । त्वष्टा । इह । राजति ।

कः । विश्वाहा । द्विषतः । पक्षः । आसते । उत । आसीनेषु । सूरिषु ॥१९

“हरिता हरितावश्वौ "रथे "युजानः युञ्जन् "त्वष्टा दीप्त इन्द्रः “इह त्रैलोक्ये "भूरि भूरिषु बहुषु प्रदेशेषु "राजति दीप्यते । “उत अपि च "सूरिषु स्तोतृष्वस्मादृशेषु "आसीनेषु सत्सु “विश्वाहा सर्वदा इन्द्रादन्यः "कः नाम द्विषतः शत्रोः "पक्षः पाचको बाधकः सन् "आसते आस्ते । इन्द्र एव सर्वदा शत्रून् बाधत इत्यर्थः । यद्वा । पक्ष इति सकारान्तं समीपवचनम् । इन्द्रादन्यः को नाम द्विषतः शत्रोः समीप आसते आस्ते । इन्द्र एव निर्भयः सन् शत्रुसमीपे स्थातुं शक्नोतीति भावः ॥


अ॒ग॒व्यू॒ति क्षेत्र॒माग॑न्म देवा उ॒र्वी स॒ती भूमि॑रंहूर॒णाभू॑त् ।

बृह॑स्पते॒ प्र चि॑कित्सा॒ गवि॑ष्टावि॒त्था स॒ते ज॑रि॒त्र इ॑न्द्र॒ पन्था॑म् ॥२०

अ॒ग॒व्यू॒ति । क्षेत्र॑म् । आ । अ॒ग॒न्म॒ । दे॒वाः॒ । उ॒र्वी । स॒ती । भूमिः॑ । अं॒हू॒र॒णा । अ॒भू॒त् ।

बृह॑स्पते । प्र । चि॒कि॒त्स॒ । गोऽइ॑ष्टौ । इ॒त्था । स॒ते । ज॒रि॒त्रे । इ॒न्द्र॒ । पन्था॑म् ॥२०

अगव्यूति । क्षेत्रम् । आ । अगन्म । देवाः । उर्वी । सती । भूमिः । अंहूरणा । अभूत् ।

बृहस्पते । प्र । चिकित्स । गोऽइष्टौ । इत्था । सते । जरित्रे । इन्द्र । पन्थाम् ॥२०

अत्रोक्तम्- अरण्ये निर्जने गर्गो देवान् भूमिं बृहस्पतिम् । इन्द्रं चास्तौत् स्वरक्षार्थमृचा मार्गच्युतोऽनया' इति, ‘अगव्यूतीत्यत्र देवान् पादे भूमिमथोत्तरे। बृहस्पतिं तृतीये तु इन्द्र एवोत्तमे स्तुतः ' इति च ॥ हे “देवाः “अगव्यूति अगोचरं गोसंचाररहितं निर्जनं "क्षेत्रं देशम् "आगन्म आगताः स्मः । अतो मां रक्षतेति शेषः । "उर्वी विस्तीर्णा "सती “भूमिः च "अंहूरणा। अंहव आहन्तारो दस्यवः तेषां रमणा रमयित्री “अभूत् भवति । अस्मानतः सापि रक्षतु । हे “बृहस्पते त्वं "गविष्टौ गवामन्वेषण उपाये “प्र “चिकित्स प्रवेदय। “इत्था इत्थमनेन प्रकारेण "सते भवते दुःखमनुभवते "जरित्रे स्तोत्रे मह्यं हे “इन्द्र "पन्थां पन्थानं मार्ग प्र चिकित्स प्रज्ञापय ॥ ॥ ३३ ॥


दि॒वेदि॑वे स॒दृशी॑र॒न्यमर्धं॑ कृ॒ष्णा अ॑सेध॒दप॒ सद्म॑नो॒ जाः ।

अह॑न्दा॒सा वृ॑ष॒भो व॑स्न॒यन्तो॒दव्र॑जे व॒र्चिनं॒ शम्ब॑रं च ॥२१

दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । अ॒न्यम् । अर्ध॑म् । कृ॒ष्णाः । अ॒से॒ध॒त् । अप॑ । सद्म॑नः । जाः ।

अह॑न् । दा॒सा । वृ॒ष॒भः । व॒स्न॒यन्ता॑ । उ॒दऽव्र॑जे । व॒र्चिन॑म् । शम्ब॑रम् । च॒ ॥२१

दिवेऽदिवे । सऽदृशीः । अन्यम् । अर्धम् । कृष्णाः । असेधत् । अप । सद्मनः । जाः ।

अहन् । दासा । वृषभः । वस्नयन्ता । उदऽव्रजे । वर्चिनम् । शम्बरम् । च ॥२१

अयमिन्द्रः “सद्मनः सदनात् स्वकीयादन्तरिक्षैकदेशात् स्थानात् "जाः जायमानः सूर्यात्मना प्रादुर्भवन् 'सदृशीः तुल्यरूपाः "कृष्णाः कृष्णवर्णां रात्रीः “दिवेदिवे प्रतिदिवसम् "अप "असेधत् निवर्तयति । किमर्थम् । "अन्यम् "अर्धम् अहरर्धम् अपरं भागं प्रकाशयितुम् । अहोरात्रात्मकस्य दिवसस्य हि रात्रिरेको भागः । अपि च “वृषभः वर्षयिता स इन्द्रः “दासा दासौ उपक्षपयितारौ यज्ञकर्मणां “वस्रयन्ता । वस्त्रं निवासहेतुभूतं धनम् । तदिच्छन्तौ “वर्चिनं "शम्बरं "च एतत्संज्ञावसुरौ “उदव्रजे । उदकानि व्रजन्त्यस्मिन्नित्युदव्रजो देशविशेषः । तस्मिन् "अहन् हतवान् ॥


प्र॒स्तो॒क इन्नु राध॑सस्त इन्द्र॒ दश॒ कोश॑यी॒र्दश॑ वा॒जिनो॑ऽदात् ।

दिवो॑दासादतिथि॒ग्वस्य॒ राध॑ः शाम्ब॒रं वसु॒ प्रत्य॑ग्रभीष्म ॥२२

प्र॒स्तो॒कः । इत् । नु । राध॑सः । ते॒ । इ॒न्द्र॒ । दश॑ । कोश॑यीः । दश॑ । वा॒जिनः॑ । अ॒दा॒त् ।

दिवः॑ऽदासात् । अ॒ति॒थि॒ऽग्वस्य॑ । राधः॑ । शा॒म्ब॒रम् । वसु॑ । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ ॥२२

प्रस्तोकः । इत् । नु । राधसः । ते । इन्द्र । दश । कोशयीः । दश । वाजिनः । अदात् ।

दिवःऽदासात् । अतिथिऽग्वस्य । राधः । शाम्बरम् । वसु । प्रति । अग्रभीष्म ॥२२

एतदाद्यासु चतसृषु सृञ्जयपुत्रस्य प्रस्तोकस्य राज्ञो दानस्तुतिः। स एव दिवोदासोऽश्वथोऽतिथिग्व इति चाख्यायते । हे “इन्द्र “ते तव "राधसः आराधयितुः स्तोतुः । चतुर्थ्यर्थे षष्ठी । त्वां स्तुवते मह्यं गर्गाय “प्रस्तोकः राजा "दश “कोशयीः सुवर्णपूर्णान् दशसंख्याकान् कोशान् "दश “वाजिनः अश्वांश्च “नु क्षिप्रम् "अदात् प्रायच्छत् । "इत् इति पूरणः । वयं च तस्मात् "दिवोदासात् एतत्संज्ञात् प्रस्तोकात् "वसु धनं "प्रत्यग्रभीष्म प्रतिगृहीतवन्तः । कीदृशम्। "अतिथिग्वस्य तस्यैव प्रस्तोकस्य स्वभूतं "राधः राधकं "शाम्बरं शम्बरदसुरादागतम् । शम्बरं हत्वा त्वया दत्तं तदीयमित्यर्थः ॥


दशाश्वा॒न्दश॒ कोशा॒न्दश॒ वस्त्राधि॑भोजना ।

दशो॑ हिरण्यपि॒ण्डान्दिवो॑दासादसानिषम् ॥२३

दश॑ । अश्वा॑न् । दश॑ । कोशा॑न् । दश॑ । वस्त्रा॑ । अधि॑ऽभोजना ।

दशो॒ इति॑ । हि॒र॒ण्य॒ऽपि॒ण्डान् । दिवः॑ऽदासात् । अ॒सा॒नि॒ष॒म् ॥२३

दश । अश्वान् । दश । कोशान् । दश । वस्त्रा । अधिऽभोजना ।

दशो इति । हिरण्यऽपिण्डान् । दिवःऽदासात् । असानिषम् ॥२३

“दश दशसंख्याकान् "अश्वान् दशसंख्याकान् हिरण्यपूर्णान् "कोशान् "अधिभोजना। भोजनमिति धननाम । अधिकं धनं येषां मूल्यम् । तादृशानि दशसंख्याकानि वस्त्राणि च । "दशो दश च दशसंख्याकांश्च "हिरण्यपिण्डान् सुवर्णपिण्डानेतान् सर्वान् "दिवोदासात् प्रस्तोकादहम् “असानिषं समभजम् । लब्धवानस्मि ॥


दश॒ रथा॒न्प्रष्टि॑मतः श॒तं गा अथ॑र्वभ्यः ।

अ॒श्व॒थः पा॒यवे॑ऽदात् ॥२४

दश॑ । रथा॑न् । प्रष्टि॑ऽमतः । श॒तम् । गाः । अथ॑र्वऽभ्यः ।

अ॒श्व॒थः । पा॒यवे॑ । अ॒दा॒त् ॥२४

दश । रथान् । प्रष्टिऽमतः । शतम् । गाः । अथर्वऽभ्यः ।

अश्वथः । पायवे । अदात् ॥२४

"दश दशसंख्याकान् "प्रष्टिमतः । प्रष्टिस्त्रिपद आधारः । तद्वद्वहन्तीति प्रष्टयोऽश्वाः । तद्युक्तान् “रथान् "शतं शतसंख्याकाः “गाः च "अथर्वभ्यः अथर्वगोत्रेभ्य ऋषिभ्यः “पायवे भरद्वाजपुत्राय एतत्संज्ञायास्मद्भ्रात्रे च "अश्वथः अश्ववानेतत्संज्ञः प्रस्तोकः "अदात् दत्तवान् ।


महि॒ राधो॑ वि॒श्वज॑न्यं॒ दधा॑नान्भ॒रद्वा॑जान्सार्ञ्ज॒यो अ॒भ्य॑यष्ट ॥२५

महि॑ । राधः॑ । वि॒श्वऽज॑न्यम् । दधा॑नान् । भ॒रत्ऽवा॑जान् । सा॒र्ञ्ज॒यः । अ॒भि । अ॒य॒ष्ट॒ ॥२५

महि । राधः । विश्वऽजन्यम् । दधानान् । भरत्ऽवाजान् । सार्ञ्जयः । अभि । अयष्ट ॥२५

“विश्वजन्यं सर्वजनहितं "महि महत् राधः धनं दधानान् धारयतः “भरद्वाजान् भरद्वाजपुत्रानस्मान् साञ्जयः सृञ्जयपुत्रः प्रस्तोकः "अभ्ययष्ट अपूजयत् ॥ ॥ ३४ ॥


वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीर॑ः ।

गोभि॒ः संन॑द्धो असि वी॒ळय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥२६

वन॑स्पते । वी॒ळुऽअ॑ङ्गः । हि । भू॒याः । अ॒स्मत्ऽस॑खा । प्र॒ऽतर॑णः । सु॒ऽवीरः॑ ।

गोभिः॑ । सम्ऽन॑द्धः । अ॒सि॒ । वी॒ळय॑स्व । आ॒ऽस्था॒ता । ते॒ । ज॒य॒तु॒ । जेत्वा॑नि ॥२६

वनस्पते । वीळुऽअङ्गः । हि । भूयाः । अस्मत्ऽसखा । प्रऽतरणः । सुऽवीरः ।

गोभिः । सम्ऽनद्धः । असि । वीळयस्व । आऽस्थाता । ते । जयतु । जेत्वानि ॥२६

हे "वनस्पते वनस्पतिविकार रथ त्वं वीड्वङ्गः दृढावयवः "भूयाः भव । "अस्मत्सखा वयं सखायो यस्य स तादृशश्च भव । "प्रतरणः प्रवर्धयिता "सुवीरः शोभनैर्वीरैः शूरभटैः पुत्रादिभिर्वा युक्तश्च भव । अपि च त्वं "गोभिः गोविकारैश्चर्मभिः "संनद्धो "असि सम्यक् बद्धो भवसि । तादृशस्त्वं “वीळयस्व अस्मान् दृढीकुरु । “ते तव "आस्थाता त्वयि अवस्थितो रथी च “जेत्वानि जेतव्यानि शत्रुसैन्यानि "जयतु ।।


दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्य॒ः पर्याभृ॑तं॒ सह॑ः ।

अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रं॑ ह॒विषा॒ रथं॑ यज ॥२७

दि॒वः । पृ॒थि॒व्याः । परि॑ । ओजः॑ । उत्ऽभृ॑तम् । वन॒स्पति॑ऽभ्यः । परि॑ । आऽभृ॑तम् । सहः॑ ।

अ॒पाम् । ओ॒ज्मान॑म् । परि॑ । गोभिः॑ । आऽवृ॑तम् । इन्द्र॑स्य । वज्र॑म् । ह॒विषा॑ । रथ॑म् । य॒ज॒ ॥२७

दिवः । पृथिव्याः । परि । ओजः । उत्ऽभृतम् । वनस्पतिऽभ्यः । परि । आऽभृतम् । सहः ।

अपाम् । ओज्मानम् । परि । गोभिः । आऽवृतम् । इन्द्रस्य । वज्रम् । हविषा । रथम् । यज ॥२७

"दिवः द्युलोकात् "पृथिव्याः भूमेश्च "उद्भृतम् उद्धृतं सारत्वेनोपात्तं यत् "ओजः बलमस्ति तद्रूपम् । वनस्पतिविकारत्वाद्रथस्य । वनस्पतयो हि पृथिव्याः सारभूताः ते च द्युसंबन्धिभिरुदकैः प्रवृद्धाः । अतो रथस्य लोकद्वयसारत्वमुपपन्नम्। “परि पञ्चम्यर्थानुवादी । अपि च “वनस्पतिभ्यः वृक्षेभ्यः। “परि पूर्ववत् । आभृतम् आहृतं "सहः बलरूपम् "अपाम् उदकानाम् “ओज्मानं प्रेरकम् ।। यद्वा । ओज्मा वेगः । अपां वेग इव वेगवन्तं "गोभिः गोविकारैश्चर्मभिः "परि परितः "आवृतम् आवेष्टितम् "इन्द्रस्य “वज्रं वज्रैकदेशम् । श्रूयते हि -- इन्द्रो वृत्राय वज्रमुदयच्छत् स त्रेधा व्यभवत् स्फ्यस्तृतीयं रथस्तृतीयं यूपस्तृतीयम्' इति । एवंगुणविशिष्टं "रथं "हविषा पुरोडाशादिना हे अध्वर्यो "यज ॥ नूनमेषोत्तरा च रथदेवत्यस्य हविषो याज्यानुवाक्ये लिङ्गादवगन्तव्ये ॥


इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभि॑ः ।

सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥२८

इन्द्र॑स्य । वज्रः॑ । म॒रुता॑म् । अनी॑कम् । मि॒त्रस्य॑ । गर्भः॑ । वरु॑णस्य । नाभिः॑ ।

सः । इ॒माम् । नः॒ । ह॒व्यऽदा॑तिम् । जु॒षा॒णः । देव॑ । र॒थ॒ । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ ॥२८

इन्द्रस्य । वज्रः । मरुताम् । अनीकम् । मित्रस्य । गर्भः । वरुणस्य । नाभिः ।

सः । इमाम् । नः । हव्यऽदातिम् । जुषाणः । देव । रथ । प्रति । हव्या । गृभाय ॥२८

यो रथः “इन्द्रस्य "वज्रः उक्तप्रकारेण वज्रैकदेशः "मरुताम् एतत्संज्ञानां देवगणानाम् “अनीकम् अग्रभूतं तद्वच्छीघ्रगामी “मित्रस्य अहरभिमानिनो देवस्य “गर्भः गर्भवदन्तर्वर्तमानः ।। अहनि हि रथः संचरति । "वरुणस्य रात्र्यभिमानिदेवस्य "नाभिः नाभिस्थानीयः । नाभिर्यथा देहमध्ये नैश्चल्येनावतिष्ठते तद्वत् रात्रौ क्वचिदवस्थितः । हे "देव द्योतमान "रथ य उक्तगुणः "सः तादृशस्त्वम् “इमां "नः अस्मदीयां “हव्यदातिं हविर्दानवतीं यागक्रियां "जुषाणः सेवमानः सन् “हव्या हव्यान्यस्मदीयानि हवींषि "प्रति “गृभाय प्रतिगृहाण ॥


परेण तृचेन संग्रामे दुन्दुभिरभिमर्शनीयः । सूत्रितं च- उप श्वासय पृथिवीमुत द्यामिति तृचेन दुन्दुभिमभिमृशेत् ' (आश्व. गृ. ३. १२. १७) इति ॥

उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् ।

स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ॥२९

उप॑ । श्वा॒स॒य॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । पु॒रु॒ऽत्रा । ते॒ । म॒नु॒ता॒म् । विऽस्थि॑तम् । जग॑त् ।

सः । दु॒न्दु॒भे॒ । स॒ऽजूः । इन्द्रे॑ण । दे॒वैः । दू॒रात् । दवी॑यः । अप॑ । से॒ध॒ । शत्रू॑न् ॥२९

उप । श्वासय । पृथिवीम् । उत । द्याम् । पुरुऽत्रा । ते । मनुताम् । विऽस्थितम् । जगत् ।

सः । दुन्दुभे । सऽजूः । इन्द्रेण । देवैः । दूरात् । दवीयः । अप । सेध । शत्रून् ॥२९

हे दुन्दुभे "पृथिवीमुत अपि च "द्यां दिवम् "उप “श्वासय आत्मीयेन जयघोषणाश्वासय । यथा लोकद्वयं त्वदीयेन शब्देनापूरितं भवति तादृशं शब्दं कुर्वित्यर्थः । अपि च "विस्थितं विशेषेण स्थितं "जगत् स्थावरं जङ्गमं चोभयविधं प्राणिजातं "ते त्वदीयं शब्दं "पुरुत्रा बहुधा “मनुतां । मन्यताम् । जानातु । हे "दुन्दुभे "सः त्वम् "इन्द्रेण अन्यैः "देवैः च "सजूः सह "दूराद्दवीयः दूरादपि दूरतरं "शत्रून् अस्मदीयान् "अप “सेध अपगमय । अत्र निरुक्तं - दुन्दुभिरिति शब्दानुकरणं दुमो भिन्न इति वा दुन्दुभ्यतेर्वा स्याद्वधकर्मणः' (निरु. ९. १२) इत्यादि ।


आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॒ निः ष्ट॑निहि दुरि॒ता बाध॑मानः ।

अप॑ प्रोथ दुन्दुभे दु॒च्छुना॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒ळय॑स्व ॥३०

आ । क्र॒न्द॒य॒ । बल॑म् । ओजः॑ । नः॒ । आ । धाः॒ । निः । स्त॒नि॒हि॒ । दुः॒ऽइ॒ता । बाध॑मानः ।

अप॑ । प्रो॒थ॒ । दु॒न्दु॒भे॒ । दु॒च्छुनाः॑ । इ॒तः । इन्द्र॑स्य । मु॒ष्टिः । अ॒सि॒ । वी॒ळय॑स्व ॥३०

आ । क्रन्दय । बलम् । ओजः । नः । आ । धाः । निः । स्तनिहि । दुःऽइता । बाधमानः ।

अप । प्रोथ । दुन्दुभे । दुच्छुनाः । इतः । इन्द्रस्य । मुष्टिः । असि । वीळयस्व ॥३०

हे दुन्दुभे "आ "क्रन्दय अस्मच्छत्रून् रोदय । “बलं सेनारूपम् "ओजः शरीरबलं च "नः अस्मभ्यम् "आ “धाः आधेहि । प्रयच्छ । तथा “दुरिता दुरितानि दुर्गमनानि "बाधमानः हिंसंस्त्वं “निः "स्तनिहि नितरां शब्दं कुरु ।' स्तन शब्दे' इति धातुः । हे "दुन्दुभे "दुच्छुनाः अस्मद्दुःखहेतुभूतं शुनं सुखं यासां तादृशीः शत्रुसेनाः "इतः अस्मत्स्थानात “अप "प्रोथ बाधस्व । त्वं च “इन्द्रस्य "मुष्टिरसि । मुष्टिरिव शत्रूणां हन्ता भवसि । अतोऽस्मान् वीळयस्व दृढीकुरु ॥


आमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति ।

समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥३१

आ । अ॒मूः । अ॒ज॒ । प्र॒ति॒ऽआव॑र्तय । इ॒माः । के॒तु॒ऽमत् । दु॒न्दु॒भिः । वा॒व॒दी॒ति॒ ।

सम् । अश्व॑ऽपर्णाः । चर॑न्ति । नः॒ । नरः॑ । अ॒स्माक॑म् । इ॒न्द्र॒ । र॒थिनः॑ । ज॒य॒न्तु॒ ॥३१

आ । अमूः । अज । प्रतिऽआवर्तय । इमाः । केतुऽमत् । दुन्दुभिः । वावदीति ।

सम् । अश्वऽपर्णाः । चरन्ति । नः । नरः । अस्माकम् । इन्द्र । रथिनः । जयन्तु ॥३१

अस्याः पूर्वार्धो दुन्दुभिदेवत्य उत्तरार्धश्चैन्द्रः । यद्वा । उभावप्यर्धर्चावेन्द्रौ। हे इन्द्र "अमूः शत्रुषु स्थितास्ता गाः “आ “अज अस्मान् प्रत्यागमय । "इमाः अस्मदीया गाः शत्रुभिर्जिघृक्षिताः “प्रत्यावर्तय प्रतिनिवर्तय । अयं च "दुन्दुभिः "केतुमत् प्रज्ञानवत् यथा सर्वैर्ज्ञायते तथा “वावदीति भृशं शब्दं करोति । "अश्वपर्णाः अश्वपतना अश्ववाहाश्च “नः अस्मदीयाश्च "नरः पुरुषाः “सं “चरन्ति शत्रुभिर्युध्यमाना वर्तन्ते । तथा सति हे “इन्द्र “अस्माकं "रथिनः रथारूढाः पुरुषाः शत्रून् "जयन्तु ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये चतुर्थाष्टके सप्तमोऽध्यायः समाप्तः ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.४७&oldid=188714" इत्यस्माद् पुनः प्राप्तिः