ऋग्वेदः सूक्तं ६.११

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.१० ऋग्वेदः - मण्डल ६
सूक्तं ६.११
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.१२ →
दे. अग्निः। त्रिष्टुप् ।


यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न प्रयुक्ति ।
आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः ॥१॥
त्वं होता मन्द्रतमो नो अध्रुगन्तर्देवो विदथा मर्त्येषु ।
पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव स्वाम् ॥२॥
धन्या चिद्धि त्वे धिषणा वष्टि प्र देवाञ्जन्म गृणते यजध्यै ।
वेपिष्ठो अङ्गिरसां यद्ध विप्रो मधुच्छन्दो भनति रेभ इष्टौ ॥३॥
अदिद्युतत्स्वपाको विभावाग्ने यजस्व रोदसी उरूची ।
आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः ॥४॥
वृञ्जे ह यन्नमसा बर्हिरग्नावयामि स्रुग्घृतवती सुवृक्तिः ।
अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः ॥५॥
दशस्या नः पुर्वणीक होतर्देवेभिरग्ने अग्निभिरिधानः ।
रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः ॥६॥


सायणभाष्यम्

‘यजस्व होतः' इति षड़ृचमेकादशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयम् । अनुक्रम्यते च--- ‘ यजस्व षट्' इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥


यज॑स्व होतरिषि॒तो यजी॑या॒नग्ने॒ बाधो॑ म॒रुतां॒ न प्रयु॑क्ति ।

आ नो॑ मि॒त्रावरु॑णा॒ नास॑त्या॒ द्यावा॑ हो॒त्राय॑ पृथि॒वी व॑वृत्याः ॥१

यज॑स्व । हो॒तः॒ । इ॒षि॒तः । यजी॑यान् । अग्ने॑ । बाधः॑ । म॒रुता॑म् । न । प्रऽयु॑क्ति ।

आ । नः॒ । मि॒त्रावरु॑णा । नास॑त्या । द्यावा॑ । हो॒त्राय॑ । पृ॒थि॒वी इति॑ । व॒वृ॒त्याः॒ ॥१

यजस्व । होतः । इषितः । यजीयान् । अग्ने । बाधः । मरुताम् । न । प्रऽयुक्ति ।

आ । नः । मित्रावरुणा । नासत्या । द्यावा । होत्राय । पृथिवी इति । ववृत्याः ॥१

हे “होतः देवानामाह्वातः “अग्ने "यजीयान् यष्टृतमस्त्वम् "इषितः प्रेषितोऽस्माभिः प्रार्थितः सन् । ”न इति संप्रत्यर्थे । संप्रति "प्रयुक्ति प्रयुक्तौ प्रयुज्यमाने यज्ञे “मरुतां देवानां "बाधः शत्रूणां बाधकं गणं "यजस्व । यद्वैतद्वाक्यद्वयम् । हे होतरग्ने यजस्व देवानित्येकं वाक्यम् । प्रयुज्यत इति प्रयुक्ति बलम् । मरुतां न प्रयुक्ति मरुतां बलमिवास्मच्छत्रून् बाधः बाधस्वेति द्वितीयं वाक्यम् । अपि च “मित्रावरुणा । अहरभिमानी देवो मित्रो वरुणो रात्र्यभिमानी । तौ च "नासत्या सत्यस्य नेतारौ सत्यस्वभावावेव वा नासिकाप्रभवौ वाश्विनौ “द्यावापृथिवी दिवं च पृथिवीं च एतांश्च देवान् “होत्राय अस्मद्यज्ञाय तदर्थम् "आ “ववृत्याः आवर्तय आवहेत्यर्थः ।।


त्वं होता॑ म॒न्द्रत॑मो नो अ॒ध्रुग॒न्तर्दे॒वो वि॒दथा॒ मर्त्ये॑षु ।

पा॒व॒कया॑ जु॒ह्वा॒३॒॑ वह्नि॑रा॒साग्ने॒ यज॑स्व त॒न्वं१॒॑ तव॒ स्वाम् ॥२

त्वम् । होता॑ । म॒न्द्रऽत॑मः । नः॒ । अ॒ध्रुक् । अ॒न्तः । दे॒वः । वि॒दथा॑ । मर्ते॑षु ।

पा॒व॒कया॑ । जु॒ह्वा॑ । वह्निः॑ । आ॒सा । अग्ने॑ । यज॑स्व । त॒न्व॑म् । तव॑ । स्वाम् ॥२

त्वम् । होता । मन्द्रऽतमः । नः । अध्रुक् । अन्तः । देवः । विदथा । मर्तेषु ।

पावकया । जुह्वा । वह्निः । आसा । अग्ने । यजस्व । तन्वम् । तव । स्वाम् ॥२

हे अग्ने “त्वं "मर्त्येषु मनुष्येषु "अन्तः मध्ये वर्तमानः “विदथा विदथे यज्ञे "होता देवानामाह्वाता भवसि । कीदृशस्त्वम् । "मन्द्रतमः स्तुत्यतमः "नः अस्माकम् "अध्रुक् अद्रोग्धास्मदर्थं द्रोहरहितो वा। सर्वदा मित्रभूत इत्यर्थः ।"देवः दानादिगुणयुक्तः । अपि च हे "अग्ने "जुह्वा । हूयन्तेऽस्यामाहुतय इति जुहूर्ज्वाला । तया "पावकया शोधयित्र्या “आसा आस्येन देवानामास्यभूतया “वह्निः हविषां वोढा त्वं "तव "स्वां स्वभूतां स्विष्टकृदाख्यां "तन्वं तनूं "यजस्व ॥


धन्या॑ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म॑ गृण॒ते यज॑ध्यै ।

वेपि॑ष्ठो॒ अङ्गि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ च्छ॒न्दो भन॑ति रे॒भ इ॒ष्टौ ॥३

धन्या॑ । चि॒त् । हि । त्वे इति॑ । धि॒षणा॑ । वष्टि॑ । प्र । दे॒वान् । जन्म॑ । गृ॒ण॒ते । यज॑ध्यै ।

वेपि॑ष्ठः । अङ्गि॑रसाम् । यत् । ह॒ । विप्रः॑ । मधु॑ । छ॒न्दः । भन॑ति । रे॒भः । इ॒ष्टौ ॥३

धन्या । चित् । हि । त्वे इति । धिषणा । वष्टि । प्र । देवान् । जन्म । गृणते । यजध्यै ।

वेपिष्ठः । अङ्गिरसाम् । यत् । ह । विप्रः । मधु । छन्दः । भनति । रेभः । इष्टौ ॥३

“धन्या धनमिच्छन्ती धनहेतुभूता “धिषणा स्तुतिर्हे अग्ने “त्वे त्वां “वष्टि कामयते । "चिद्धि इत्येतत् पादपूरणम् । किमर्थम् । "देवान् यष्टव्यानिन्द्रादीन् "प्र "यजध्यै प्रकर्षेण यष्टुं त्वदीयं "जन्म प्रादुर्भावं “गृणते स्तुवते यजमानायेदृग्भूतयजमानार्थम् । "यद्ध यदा खलु “अङ्गिरसाम् ऋषीणां मध्ये “वेपिष्ठः अतिशयेन स्तुतेः प्रेरयिता "विप्रः मेधावी “रेभः स्तोता भरद्वाजः "इष्टौ यज्ञे "मधु मधुवत् मदकरं “छन्दः स्तोत्रं "भनति उच्चारयति तदा धिषणा वष्टीत्यन्वयः ।


अदि॑द्युत॒त्स्वपा॑को वि॒भावाग्ने॒ यज॑स्व॒ रोद॑सी उरू॒ची ।

आ॒युं न यं नम॑सा रा॒तह॑व्या अ॒ञ्जन्ति॑ सुप्र॒यसं॒ पञ्च॒ जना॑ः ॥४

अदि॑द्युतत् । सु । अपा॑कः । वि॒भाऽवा॑ । अग्ने॑ । यज॑स्व । रोद॑सी॒ इति॑ । उ॒रू॒ची इति॑ ।

आ॒युम् । न । यम् । नम॑सा । रा॒तऽह॑व्याः । अ॒ञ्जन्ति॑ । सु॒ऽप्र॒यस॑म् । पञ्च॑ । जनाः॑ ॥४

अदिद्युतत् । सु । अपाकः । विभाऽवा । अग्ने । यजस्व । रोदसी इति । उरूची इति ।

आयुम् । न । यम् । नमसा । रातऽहव्याः । अञ्जन्ति । सुऽप्रयसम् । पञ्च । जनाः ॥४

अयमग्निः “सु “अदिद्युतत् । सुष्ठु द्योतते दीप्यते । कथंभूतः । “अपाकः । पाकः पक्तव्यप्रज्ञो मूर्खः । तद्विलक्षणोऽपाकः । “विभावा दीप्तिमान् । शेषः प्रत्यक्षकृतः । हे “अग्ने स त्वम् "उरूची उरु विस्तीर्णमञ्चन्त्यौ विस्तृते “रोदसी द्यावापृथिव्यौ "यजस्व हविषा पूजय । “आयुं “न मनुष्यमतिथिमिव “यं “पञ्च “जनाः मनुष्या ऋत्विग्यजमानलक्षणाः “रातहव्याः दत्तहविष्काः सन्तः "सुप्रयसं शोभनहविर्लक्षणान्नमग्निं “नमसा अन्नेन हविर्लक्षणेन “अञ्जन्ति सिञ्चन्ति तर्पयन्ति स त्वं यजस्वेत्यन्वयः॥


वृ॒ञ्जे ह॒ यन्नम॑सा ब॒र्हिर॒ग्नावया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः ।

अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्या अश्रा॑यि य॒ज्ञः सूर्ये॒ न चक्षु॑ः ॥५

वृ॒ञ्जे । ह॒ । यत् । नम॑सा । ब॒र्हिः । अ॒ग्नौ । अया॑मि । स्रुक् । घृ॒तऽव॑ती । सु॒ऽवृ॒क्तिः ।

अम्य॑क्षि । सद्म॑ । सद॑ने । पृ॒थि॒व्याः । अश्रा॑यि । य॒ज्ञः । सूर्ये॑ । न । चक्षुः॑ ॥५

वृञ्जे । ह । यत् । नमसा । बर्हिः । अग्नौ । अयामि । स्रुक् । घृतऽवती । सुऽवृक्तिः ।

अम्यक्षि । सद्म । सदने । पृथिव्याः । अश्रायि । यज्ञः । सूर्ये । न । चक्षुः ॥५

“यत् "ह यदा खलु “नमसा हविषा सह “अग्नौ अग्निसमीपे “बर्हिः “वृञ्जे । वृजिश्छेदनार्थः । छिद्यते । आह्रियत इत्यर्थः । “सुवृक्तिः सुष्ठु दोषैर्वर्जिता “घृतवती घृतपूर्णा “स्रुक् “अयामि नियम्यते बर्हिष्यासाद्यते । तथा “पृथिव्याः भूमेः “सदने स्थाने “सद्म हविरासादनार्था वेदिः “अम्यक्षि । म्यक्षतिर्गतिकर्मा । गम्यते परिगृह्यते । तदानीं “यज्ञः “अश्रायि यजमाने आश्रितो भवति । तत्र दृष्टान्तः । “सूर्ये “न “चक्षुः । यथा सूर्ये सर्वस्य प्रेरक आदित्ये प्रकाशकं तेजः समवैति तद्वत् ॥


द॒श॒स्या न॑ः पुर्वणीक होतर्दे॒वेभि॑रग्ने अ॒ग्निभि॑रिधा॒नः ।

रा॒यः सू॑नो सहसो वावसा॒ना अति॑ स्रसेम वृ॒जनं॒ नांह॑ः ॥६

द॒श॒स्य । नः॒ । पु॒रु॒ऽअ॒नी॒क॒ । हो॒तः॒ । दे॒वेभिः॑ । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । इ॒धा॒नः ।

रा॒यः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । व॒व॒सा॒नाः । अति॑ । स्र॒से॒म॒ । वृ॒जन॑म् । न । अंहः॑ ॥६

दशस्य । नः । पुरुऽअनीक । होतः । देवेभिः । अग्ने । अग्निऽभिः । इधानः ।

रायः । सूनो इति । सहसः । ववसानाः । अति । स्रसेम । वृजनम् । न । अंहः ॥६

हे “पुर्वणीक बहुज्वाल “होतः देवानामाह्वातः “अग्ने “देवेभिः देवैर्द्योतमानैरन्यैः “अग्निभिः त्वद्विभूतिभूतैः सार्धम् “इधानः इध्यमानो दीप्यमानः सन् "नः अस्मभ्यं “रायः धनानि “दशस्य प्रयच्छ । हे “सहसः "सूनो बलस्य पुत्राग्ने “वावसानाः हविषा त्वामाच्छादयन्तो वयं “वृजनं “न शत्रुमिव "अंहः पापम् “अति “स्रसेम अतिगच्छेम । अतिक्रामेमेत्यर्थः ॥ ॥ १३ ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.११&oldid=199851" इत्यस्माद् पुनः प्राप्तिः