ऋग्वेदः सूक्तं ६.१७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.१६ ऋग्वेदः - मण्डल ६
सूक्तं ६.१७
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.१८ →
दे. इन्द्रः। त्रिष्टुप्, १५ द्विपदा त्रिष्टुप्


पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गृणान इन्द्र ।
वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रममित्रिया शवोभिः ॥१॥
स ईं पाहि य ऋजीषी तरुत्रो यः शिप्रवान्वृषभो यो मतीनाम् ।
यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः स इन्द्र चित्राँ अभि तृन्धि वाजान् ॥२॥
एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः ।
आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूँरभि गा इन्द्र तृन्धि ॥३॥
ते त्वा मदा बृहदिन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम् ।
महामनूनं तवसं विभूतिं मत्सरासो जर्हृषन्त प्रसाहम् ॥४॥
येभिः सूर्यमुषसं मन्दसानोऽवासयोऽप दृळ्हानि दर्द्रत् ।
महामद्रिं परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस्परि स्वात् ॥५॥
तव क्रत्वा तव तद्दंसनाभिरामासु पक्वं शच्या नि दीधः ।
और्णोर्दुर उस्रियाभ्यो वि दृळ्होदूर्वाद्गा असृजो अङ्गिरस्वान् ॥६॥
पप्राथ क्षां महि दंसो व्युर्वीमुप द्यामृष्वो बृहदिन्द्र स्तभायः ।
अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य ॥७॥
अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय ।
अदेवो यदभ्यौहिष्ट देवान्स्वर्षाता वृणत इन्द्रमत्र ॥८॥
अध द्यौश्चित्ते अप सा नु वज्राद्द्वितानमद्भियसा स्वस्य मन्योः ।
अहिं यदिन्द्रो अभ्योहसानं नि चिद्विश्वायुः शयथे जघान ॥९॥
अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्छताश्रिम् ।
निकाममरमणसं येन नवन्तमहिं सं पिणगृजीषिन् ॥१०॥
वर्धान्यं विश्वे मरुतः सजोषाः पचच्छतं महिषाँ इन्द्र तुभ्यम् ।
पूषा विष्णुस्त्रीणि सरांसि धावन्वृत्रहणं मदिरमंशुमस्मै ॥११॥
आ क्षोदो महि वृतं नदीनां परिष्ठितमसृज ऊर्मिमपाम् ।
तासामनु प्रवत इन्द्र पन्थां प्रार्दयो नीचीरपसः समुद्रम् ॥१२॥
एवा ता विश्वा चकृवांसमिन्द्रं महामुग्रमजुर्यं सहोदाम् ।
सुवीरं त्वा स्वायुधं सुवज्रमा ब्रह्म नव्यमवसे ववृत्यात् ॥१३॥
स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् ।
भरद्वाजे नृवत इन्द्र सूरीन्दिवि च स्मैधि पार्ये न इन्द्र ॥१४॥
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥१५॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

चतुर्थाष्टके षष्ठोऽध्याय आरभ्यते । षष्ठे मण्डले द्वितीयेऽनुवाके प्रथमं सूक्तं व्याख्यातम् । तत्र ‘ पिबा सोमम् ' इति पञ्चदशर्चं द्वितीयं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभम् । अन्त्या द्विपदा त्रिष्टुप् । तथा चानुक्रान्तं-- पिब पञ्चोनैन्द्रं त्रैष्टुभं द्विपदान्तम्' इति । अभिजिति मरुत्वतीयशस्त्रे एतन्निविद्धानम्। सूत्रितं च- पिबा सोमं तमु ष्टुहीति मध्यंदिनः ' ( आश्व. श्रौ. ८. ५) इति । समूळ्हे दशरात्रेऽष्टमेऽहनि मरुस्वतीयशस्त्रे एतत्सूक्तम् । सूत्रितं च- ’ पिबा सोममभि तमस्य द्यावापृथिवी' (आश्व. श्रौ. ८. ७) इति । सूर्यस्तुन्नाम्न्येकाहे मरुत्वतीये एतत्सूक्तं निविद्धानम् । सूत्र्यते हि-’ सूर्यस्तुता यशस्कामः पिबा सोममभि' (अश्व. श्रौ. ९. ८) इति । महाव्रतेऽपि मरुत्वतीये एतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितं- पिबा सोममभि यमुग्र तर्दः कया शुभा सवयसः सनीळाः ' ( ऐ. आ. ५. १. १) इति । माध्यंदिने सवने आद्यास्तिस्रो होतृमैत्रावरुणब्राह्मणाच्छंसिनां प्रस्थितयाज्याः । सूत्रितं च-’ पिबा सोममभि यमुग्र तर्द इति तिस्रोऽर्वाङेहि सोमकामं त्वाहुः' (आश्व. श्रौ. ५. ५) इति ॥ ।


पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इ॑न्द्र ।

वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा॑ वृ॒त्रम॑मि॒त्रिया॒ शवो॑भिः ॥१

पिब॑ । सोम॑म् । अ॒भि । यम् । उ॒ग्र॒ । तर्दः॑ । ऊ॒र्वम् । गव्य॑म् । महि॑ । गृ॒णा॒नः । इ॒न्द्र॒ ।

वि । यः । धृ॒ष्णो॒ इति॑ । वधि॑षः । व॒ज्र॒ऽह॒स्त॒ । विश्वा॑ । वृ॒त्रम् । अ॒मि॒त्रिया॑ । शवः॑ऽभिः ॥१

पिब । सोमम् । अभि । यम् । उग्र । तर्दः । ऊर्वम् । गव्यम् । महि । गृणानः । इन्द्र ।

वि । यः । धृष्णो इति । वधिषः । वज्रऽहस्त । विश्वा । वृत्रम् । अमित्रिया । शवःऽभिः ॥१

हे "उग्र उद्गूर्णबल "इन्द्र “गृणानः अङ्गिरोभिः स्तूयमानस्त्वं "यं सोमम् "अभि उद्दिश्य । पातुमित्यर्थः । "महि महत् “गव्यं गोसंबन्धि “ऊर्वं पणिभिरपहृतं समूहं “तर्दः प्रकाशितवानसि । तृदिर्हिंसाकर्मात्र प्रकाशनार्थः । तं "सोमं "पिब पानं कुरु । हे “धृष्णो शत्रूणां धर्षक “वज्रहस्त वज्रपाणे हे इन्द्र “यः त्वं "शवोभिः बलैः सहितः सन् "विश्वा विश्वं “वृत्रम् आवरकम् "अमित्रिया अमित्रं शत्रुम् ॥ अमित्रशब्दात् द्वितीयैकवचनस्येयादेशः ॥ “वि “वधिषः व्यवधीः स त्वं सोमं पिबेति संबन्धः ॥


स ईं॑ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान्वृष॒भो यो म॑ती॒नाम् ।

यो गो॑त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः स इ॑न्द्र चि॒त्राँ अ॒भि तृ॑न्धि॒ वाजा॑न् ॥२

सः । ई॒म् । पा॒हि॒ । यः । ऋ॒जी॒षी । तरु॑त्रः । यः । शिप्र॑ऽवान् । वृ॒ष॒भः । यः । म॒ती॒नाम् ।

यः । गो॒त्र॒ऽभित् । व॒ज्र॒ऽभृत् । यः । ह॒रि॒ऽस्थाः । सः । इ॒न्द्र॒ । चि॒त्रान् । अ॒भि । तृ॒न्धि॒ । वाजा॑न् ॥२

सः । ईम् । पाहि । यः । ऋजीषी । तरुत्रः । यः । शिप्रऽवान् । वृषभः । यः । मतीनाम् ।

यः । गोत्रऽभित् । वज्रऽभृत् । यः । हरिऽस्थाः । सः । इन्द्र । चित्रान् । अभि । तृन्धि । वाजान् ॥२

हे इन्द्र “ऋजीषी । ऋजीषशब्देन गतरसः सोमोऽभिधीयते । तद्वान् “यः त्वं “तरुत्रः शत्रूणां तारकोऽसि “यः त्वं "शिप्रवान् शोभनहनुरसि “यः त्वं “मतीनां स्तोतॄणाम् ॥ मन्यतेः स्तुतिकर्मणः कर्तरि क्तिच् ॥ “वृषभः कामानां वर्षितासि “सः त्वम् "ईम् एनं सोमं "पाहि पिब । हे इन्द्र यस्त्वं “वज्रभृत् वज्रधरः "यः त्वं "गोत्रभित् गोत्राणां पर्वतानां मेघानां वा भेत्तासि “यः त्वं "हरिष्ठाः हर्योः स्थातासि हे “इन्द्र "सः त्वं "चित्रान् विचित्रान् “वाजान् अन्नानि “अभि “तृन्धि अस्मभ्यं प्रकाशय ॥


ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः ।

आ॒विः सूर्यं॑ कृणु॒हि पी॑पि॒हीषो॑ ज॒हि शत्रूँ॑र॒भि गा इ॑न्द्र तृन्धि ॥३

ए॒व । पा॒हि॒ । प्र॒त्नऽथा॑ । मन्द॑तु । त्वा॒ । श्रु॒धि । ब्रह्म॑ । व॒वृ॒धस्व॑ । उ॒त । गीः॒ऽभिः ।

आ॒विः । सूर्य॑म् । कृ॒णु॒हि । पी॒पि॒हि । इषः॑ । ज॒हि । शत्रू॑न् । अ॒भि । गाः । इ॒न्द्र॒ । तृ॒न्धि॒ ॥३

एव । पाहि । प्रत्नऽथा । मन्दतु । त्वा । श्रुधि । ब्रह्म । ववृधस्व । उत । गीःऽभिः ।

आविः । सूर्यम् । कृणुहि । पीपिहि । इषः । जहि । शत्रून् । अभि । गाः । इन्द्र । तृन्धि ॥३

हे इन्द्र त्वं "प्रत्नथा प्रत्नान् पुराणान् सोमान् यथापिबः तथा “एव एवम् इममस्मदीयं सोमं “पाहि पिब । स च सोमस्त्वया पीतः सन् “त्वा त्वां “मन्दतु मदयतु । “ब्रह्म अस्माभिः कृतं स्तोत्रं “श्रुधि शृणु । “उत अपि च “गीर्भिः स्तुतिरूपाभिर्वाग्भिः “ववृधस्व त्वं वर्धस्व । अपि च "सूर्यं सर्वस्य प्रेरकं देवम् "आविः कृणुहि आविष्कुरु । वयं सूर्यं यथा पश्येम तथा कुर्वित्यर्थः । "इषः अन्नानि च “पीपिहि अस्मभ्यं प्यायय" । "शत्रून् अस्मत्सपत्नान् "जहि नाशय । हे “इन्द्र त्वं पणिभिरपहृताः “गाः "अभि “तृन्धि प्रकाशय ॥


ते त्वा॒ मदा॑ बृ॒हदि॑न्द्र स्वधाव इ॒मे पी॒ता उ॑क्षयन्त द्यु॒मन्त॑म् ।

म॒हामनू॑नं त॒वसं॒ विभू॑तिं मत्स॒रासो॑ जर्हृषन्त प्र॒साह॑म् ॥४

ते । त्वा॒ । मदाः॑ । बृ॒हत् । इ॒न्द्र॒ । स्व॒धा॒ऽवः॒ । इ॒मे । पी॒ताः । उ॒क्ष॒य॒न्त॒ । द्यु॒ऽमन्त॑म् ।

म॒हाम् । अनू॑नम् । त॒वस॑म् । विऽभू॑तिम् । म॒त्स॒रासः॑ । ज॒र्हृ॒ष॒न्त॒ । प्र॒ऽसह॑म् ॥४

ते । त्वा । मदाः । बृहत् । इन्द्र । स्वधाऽवः । इमे । पीताः । उक्षयन्त । द्युऽमन्तम् ।

महाम् । अनूनम् । तवसम् । विऽभूतिम् । मत्सरासः । जर्हृषन्त । प्रऽसहम् ॥४

हे "स्वधावः अन्नवन् "इन्द्र “मदाः मदकराः “ते “इमे "पीताः सोमाः "द्युमन्तं दीप्तिमन्तं “त्वा त्वां "बृहत् अत्यन्तम् "उक्षयन्त सेचयन्तु । अपि च हे इन्द्र त्वां "मत्सरासः मदकराः सोमाः “जर्हृषन्त भृशं हर्षयन्तु । कीदृशम् । "महां महान्तं प्रभूतम् "अनूनं सर्वगुणैर्न्यूनतारहितम् । संपूर्णगुणमित्यर्थः । “तवसं प्रवृद्धं "विभूतिं विभवन्तं "प्रसाहं शत्रूणामभिभवितारम् ।।


येभि॒ः सूर्य॑मु॒षसं॑ मन्दसा॒नोऽवा॑स॒योऽप॑ दृ॒ळ्हानि॒ दर्द्र॑त् ।

म॒हामद्रिं॒ परि॒ गा इ॑न्द्र॒ सन्तं॑ नु॒त्था अच्यु॑तं॒ सद॑स॒स्परि॒ स्वात् ॥५

येभिः॑ । सूर्य॑म् । उ॒षस॑म् । म॒न्द॒सा॒नः । अवा॑सयः । अप॑ । दृ॒ळ्हानि॑ । दर्द्र॑त् ।

म॒हाम् । अद्रि॑म् । परि॑ । गाः । इ॒न्द्र॒ । सन्त॑म् । नु॒त्थाः । अच्यु॑तम् । सद॑सः । परि॑ । स्वात् ॥५

येभिः । सूर्यम् । उषसम् । मन्दसानः । अवासयः । अप । दृळ्हानि । दर्द्रत् ।

महाम् । अद्रिम् । परि । गाः । इन्द्र । सन्तम् । नुत्थाः । अच्युतम् । सदसः । परि । स्वात् ॥५

हे इन्द्र "येभिः यैः सोमैः "मन्दसानः मोदमानस्त्वं "सूर्यं सर्वस्य प्रेरकं देवम् "उषसम् उषोदेवतां च “अवासयः स्वस्थाने न्यवासयः । अथवा सूर्योषसौ यथा तमांसि विवासयतस्तथाकार्षीः । किं कुर्वन् । "दृळ्हानि दृढानि तमांसि “अप "दर्द्रत् अपदारयन् । किंच हे “इन्द्र त्वं पणिभिः अपहृताः “गाः "परि "सन्तं परितो विद्यमानं "महां महान्तम् "अद्रिं पर्वतं “नुत्थाः अनुदः। कीदृशम् । "स्वात् स्वकीयात् "सदसः स्थानात् "परि परितः “अच्युतम् अविचालितं विनाशरहितम् । स्थिरमित्यर्थः ॥ ॥ १ ॥


तव॒ क्रत्वा॒ तव॒ तद्दं॒सना॑भिरा॒मासु॑ प॒क्वं शच्या॒ नि दी॑धः ।

और्णो॒र्दुर॑ उ॒स्रिया॑भ्यो॒ वि दृ॒ळ्होदू॒र्वाद्गा अ॑सृजो॒ अङ्गि॑रस्वान् ॥६

तव॑ । क्रत्वा॑ । तव॑ । तत् । दं॒सना॑भिः । आ॒मासु॑ । प॒क्वम् । शच्या॑ । नि । दी॒ध॒रिति॑ दीधः ।

और्णोः॑ । दुरः॑ । उ॒स्रिया॑भ्यः । वि । दृ॒ळ्हा । उत् । ऊ॒र्वात् । गाः । अ॒सृ॒जः॒ । अङ्गि॑रस्वान् ॥६

तव । क्रत्वा । तव । तत् । दंसनाभिः । आमासु । पक्वम् । शच्या । नि । दीधरिति दीधः ।

और्णोः । दुरः । उस्रियाभ्यः । वि । दृळ्हा । उत् । ऊर्वात् । गाः । असृजः । अङ्गिरस्वान् ॥६

हे इन्द्र “तव “क्रत्वा त्वदीयया प्रज्ञया “तव “दंसनाभिः त्वदीयैः कर्मभिः "शच्या सामर्थ्येन "आमासु अपक्वासु गोषु "पक्वं परिणतं "तत् प्रसिद्धं पयः “नि “दीधः नितरां धास्यसि । अपि च हे इन्द्र त्वम् "उस्रियाभ्यः गोभ्यः। गा निर्गमयितुमित्यर्थः । “दृळ्हा दृढानि । वलेन पाषाणादिभिर्दृढीकृतानीत्यर्थः । "दुरः द्वाराणि "वि “और्णोः उद्घाटितवानसि । "अङ्गिरस्वान् अङ्गिरोभिर्युक्तस्त्वम् “ऊर्वात् समूहात् । गोष्ठादित्यर्थः । "गाः “उत् असृजः उदगमयः ॥


प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॒॑र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदि॑न्द्र स्तभायः ।

अधा॑रयो॒ रोद॑सी दे॒वपु॑त्रे प्र॒त्ने मा॒तरा॑ य॒ह्वी ऋ॒तस्य॑ ॥७

प॒प्राथ॑ । क्षाम् । महि॑ । दंसः॑ । वि । उ॒र्वीम् । उप॑ । द्याम् । ऋ॒ष्वः । बृ॒हत् । इ॒न्द्र॒ । स्त॒भा॒यः॒ ।

अधा॑रयः । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । प्र॒त्ने इति॑ । मा॒तरा॑ । य॒ह्वी इति॑ । ऋ॒तस्य॑ ॥७

पप्राथ । क्षाम् । महि । दंसः । वि । उर्वीम् । उप । द्याम् । ऋष्वः । बृहत् । इन्द्र । स्तभायः ।

अधारयः । रोदसी इति । देवपुत्रे इति देवऽपुत्रे । प्रत्ने इति । मातरा । यह्वी इति । ऋतस्य ॥७

हे इन्द्र त्वं "महि महता "दंसः दंससा कर्मणा "उर्वीं विस्तीर्णां "क्षां भूमिं “वि “पप्राथ विशेषेण पूरितवानसि । ‘प्रा पूरणे' इति धातुः । हे "इन्द्र "ऋष्वः महांस्त्वं "बृहत् बृहतीं "द्यां दिवम् "उप "स्तभायः उपस्तभ्नासि । निरालम्बं वितिष्ठन्ती द्यौर्यथा न पततीन्द्रस्तथा करोतीत्यर्थः । अपि च त्वं "रोदसी द्यावापृथिव्यौ "अधारयः पोषणैर्धारयसि । कीदृश्यौ । “देवपुत्रे । देवाः पुत्रा ययोस्ते । “प्रत्ने पुराणे "मातरा मातरौ निर्मात्र्यौ “ऋतस्य उदकस्य यज्ञस्य वा “यह्वी यह्व्यौ महत्यौ । यद्वा । विश्वस्य मातरौ ऋतस्य ब्रह्मणो यह्वी पुत्र्यौ । यहुरित्यपत्यनामैतत् ।।


अध॑ त्वा॒ विश्वे॑ पु॒र इ॑न्द्र दे॒वा एकं॑ त॒वसं॑ दधिरे॒ भरा॑य ।

अदे॑वो॒ यद॒भ्यौहि॑ष्ट दे॒वान्स्व॑र्षाता वृणत॒ इन्द्र॒मत्र॑ ॥८

अध॑ । त्वा॒ । विश्वे॑ । पु॒रः । इ॒न्द्र॒ । दे॒वाः । एक॑म् । त॒वस॑म् । द॒धि॒रे॒ । भरा॑य ।

अदे॑वः । यत् । अ॒भि । औहि॑ष्ट । दे॒वान् । स्वः॑ऽसाता । वृ॒ण॒ते॒ । इन्द्र॑म् । अत्र॑ ॥८

अध । त्वा । विश्वे । पुरः । इन्द्र । देवाः । एकम् । तवसम् । दधिरे । भराय ।

अदेवः । यत् । अभि । औहिष्ट । देवान् । स्वःऽसाता । वृणते । इन्द्रम् । अत्र ॥८

“अध अधुना अस्मिन् काले "विश्वे "देवाः सर्वे वह्न्यादयो हे “इन्द्र “एकं मुख्यं "तवसं प्रवृद्धं बलवन्तं "त्वा त्वां "भराय संग्रामाय "पुरः "दधिरे पुरस्तात् चक्रिरे । "यत् यदा "अदेवः वृत्रोऽसुरः “देवान् “अभ्यौहिष्ट संग्रामार्थमभिगतवान् । ओहतिर्गतिकर्मा । किंचास्मिन् काले "स्वर्षाता स्वर्षातौ संग्रामे "इन्द्रं "वृणते संभजन्ते स्म । मरुत इति शेषः । मरुतो हीन्दं देवेषु पलायितेषु समभजन्नित्यर्थः। अधुना पुरो दधिरे इति संबन्धः ।।


अध॒ द्यौश्चि॑त्ते॒ अप॒ सा नु वज्रा॑द्द्वि॒तान॑मद्भि॒यसा॒ स्वस्य॑ म॒न्योः ।

अहिं॒ यदिन्द्रो॑ अ॒भ्योह॑सानं॒ नि चि॑द्वि॒श्वायु॑ः श॒यथे॑ ज॒घान॑ ॥९

अध॑ । द्यौः । चि॒त् । ते॒ । अप॑ । सा । नु । वज्रा॑त् । द्वि॒ता । अ॒न॒म॒त् । भि॒यसा॑ । स्वस्य॑ । म॒न्योः ।

अहि॑म् । यत् । इन्द्रः॑ । अ॒भि । ओह॑सानम् । नि । चि॒त् । वि॒श्वऽआ॑युः । श॒यथे॑ । ज॒घान॑ ॥९

अध । द्यौः । चित् । ते । अप । सा । नु । वज्रात् । द्विता । अनमत् । भियसा । स्वस्य । मन्योः ।

अहिम् । यत् । इन्द्रः । अभि । ओहसानम् । नि । चित् । विश्वऽआयुः । शयथे । जघान ॥९

“सा प्रसिद्धा देवानामाश्रयत्वेन “द्यौश्चित् द्युलोकोऽपि हे इन्द्र “अध अधुनास्मिन् काले "द्विता द्विधा द्विप्रकारात् "ते त्वदीयात् "वज्रात् "स्वस्य आत्मीयात् "मन्योः क्रोधाच्च “भियसा भयेन “अप “अनमत् अपननाम। "नु इति पूरणः । "विश्वायुः बह्वन्नः “इन्द्रः "यत् यदा "अभ्योहसानम् अभिगच्छन्तम् "अहिं वृत्रं “शयथे शयननिमित्ते । मरणायेत्यर्थः । “नि “जघान न्यवधीत् । “चित् इति पूरणः । यदा वृत्रं जघानास्मिन् काले द्यौर्ननामेति संबन्धः ।।


अध॒ त्वष्टा॑ ते म॒ह उ॑ग्र॒ वज्रं॑ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि॑म् ।

निका॑मम॒रम॑णसं॒ येन॒ नव॑न्त॒महिं॒ सं पि॑णगृजीषिन् ॥१०

अध॑ । त्वष्टा॑ । ते॒ । म॒हः । उ॒ग्र॒ । वज्र॑म् । स॒हस्र॑ऽभृष्टिम् । व॒वृ॒त॒त् । श॒तऽअ॑श्रिम् ।

निऽका॑मम् । अ॒रऽम॑नसम् । येन॑ । नव॑न्तम् । अहि॑म् । सम् । पि॒ण॒क् । ऋ॒जी॒षि॒न् ॥१०

अध । त्वष्टा । ते । महः । उग्र । वज्रम् । सहस्रऽभृष्टिम् । ववृतत् । शतऽअश्रिम् ।

निऽकामम् । अरऽमनसम् । येन । नवन्तम् । अहिम् । सम् । पिणक् । ऋजीषिन् ॥१०

“अध अधुना हे “उग्र उद्गूर्णबलेन्द्र "महः महतः “ते तव “त्वष्टा देवशिल्पी “वज्रं “ववृतत् न्यवर्तयत् निष्पन्नं कृतवान् । कीदृशम् । "सहस्रभृष्टिं सहस्रधारं “शताश्रिं शतपर्वाणम् । हे “ऋजीषिन् गतरससोमवन्निन्द्र "येन वज्रेण "निकामम् । नियतः कामो यस्य तम् । "अरमणसम् । शत्रूणामरमभिगन्तृ मनो यस्य तम् । "नवन्तं शब्दायमानम् "अहिं वृत्रमसुरं "सं "पिणक् संपिष्टवानसि तं वज्रं कृतवानित्यर्थः । ॥ २ ॥


वर्धा॒न्यं विश्वे॑ म॒रुत॑ः स॒जोषा॒ः पच॑च्छ॒तं म॑हि॒षाँ इ॑न्द्र॒ तुभ्य॑म् ।

पू॒षा विष्णु॒स्त्रीणि॒ सरां॑सि धावन्वृत्र॒हणं॑ मदि॒रमं॒शुम॑स्मै ॥११

वर्धा॑न् । यम् । विश्वे॑ । म॒रुतः॑ । स॒ऽजोषाः॑ । पच॑त् । श॒तम् । म॒हि॒षान् । इ॒न्द्र॒ । तुभ्य॑म् ।

पू॒षा । विष्णुः॑ । त्रीणि॑ । सरां॑सि । धा॒व॒न् । वृ॒त्र॒ऽहन॑म् । म॒दि॒रम् । अं॒शुम् । अ॒स्मै॒ ॥११

वर्धान् । यम् । विश्वे । मरुतः । सऽजोषाः । पचत् । शतम् । महिषान् । इन्द्र । तुभ्यम् ।

पूषा । विष्णुः । त्रीणि । सरांसि । धावन् । वृत्रऽहनम् । मदिरम् । अंशुम् । अस्मै ॥११

“सजोषाः सह प्रीयमाणाः "विश्वे "मरुतः सर्वे देवा हे “इन्द्र "यं त्वां "वर्धान् स्तोत्रैर्वर्धयन्ति हे इन्द्र तस्मै "तुभ्यं "पूषा एतन्नामको देवः "विष्णुः एतन्नामकश्च "शतं शतसंख्याकान् "महिषान् पुंपशून् "पचत् पचेत् । अपि च “अस्मै तुभ्यं "सरांसि द्रोणकलशपूतभृदाधवनीयाख्यानि “त्रीणि पात्राणि “अंशुं सोमं “धावन् अगच्छन् । सोमैः पात्राणि पूर्यन्त इत्यर्थः । कीदृशं सोमम् । "मदिरं मदकरं “वृत्रहणं वृत्राणां शत्रूणां हन्तारम् । अत्र वृत्रहञ्छब्देन सोमोऽभिधीयते । पीते हि सति सोमे वृत्राणि हन्तुमिन्द्रः समर्थो भवतीति यावत् ॥


आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पाम् ।

तासा॒मनु॑ प्र॒वत॑ इन्द्र॒ पन्थां॒ प्रार्द॑यो॒ नीची॑र॒पस॑ः समु॒द्रम् ॥१२

आ । क्षोदः॑ । महि॑ । वृ॒तम् । न॒दीना॑म् । परि॑ऽस्थितम् । अ॒सृ॒जः॒ । ऊ॒र्मिम् । अ॒पाम् ।

तासा॑म् । अनु॑ । प्र॒ऽवतः॑ । इ॒न्द्र॒ । पन्था॑म् । प्र । आ॒र्द॒यः॒ । नीचीः॑ । अ॒पसः॑ । स॒मु॒द्रम् ॥१२

आ । क्षोदः । महि । वृतम् । नदीनाम् । परिऽस्थितम् । असृजः । ऊर्मिम् । अपाम् ।

तासाम् । अनु । प्रऽवतः । इन्द्र । पन्थाम् । प्र । आर्दयः । नीचीः । अपसः । समुद्रम् ॥१२

हे इन्द्र त्वं "महि महत् "वृतं वृत्रेण परिवृतमाच्छादितं "परिष्ठितं परितः स्थितं "नदीनां सिन्धूनां संबन्धि "क्षोदः उदकम् “आ “असृजः आ समन्तात् सृष्टवानसि । येन नद्यः पूर्णाः प्रवहेयुस्तदित्यर्थः । "अपाम् उदकानाम् "ऊर्मिं समूहं सृष्टवानसि । पुनर्वचनमादरार्थम् । हे “इन्द्र "तासां नदीनां संबन्धिनः "पन्थां पथो मार्गान् "प्रवतः प्रवणान् "अनु अकार्षीरिति शेषः । अन्वित्युपसर्गयोग्यक्रियाध्याहारः । किंच "नीचीः प्रवणाभिमुखीः । वेगयुक्ता इत्यर्थः । "अपसः अपः उदकानि । अपस इत्यप एवार्थे वर्तते । "समुद्रम् उदधिं "प्रार्दयः प्रागमयः । अत्रार्दयतिर्नयनकर्मा ॥


ए॒वा ता विश्वा॑ चकृ॒वांस॒मिन्द्रं॑ म॒हामु॒ग्रम॑जु॒र्यं स॑हो॒दाम् ।

सु॒वीरं॑ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव॑से ववृत्यात् ॥१३

ए॒व । ता । विश्वा॑ । च॒कृ॒ऽवांस॑म् । इन्द्र॑म् । म॒हाम् । उ॒ग्रम् । अ॒जु॒र्यम् । स॒हः॒ऽदाम् ।

सु॒ऽवीर॑म् । त्वा॒ । सु॒ऽआ॒यु॒धम् । सु॒ऽवज्र॑म् । आ । ब्रह्म॑ । नव्य॑म् । अव॑से । व॒वृ॒त्या॒त् ॥१३

एव । ता । विश्वा । चकृऽवांसम् । इन्द्रम् । महाम् । उग्रम् । अजुर्यम् । सहःऽदाम् ।

सुऽवीरम् । त्वा । सुऽआयुधम् । सुऽवज्रम् । आ । ब्रह्म । नव्यम् । अवसे । ववृत्यात् ॥१३

हे इन्द्र “त्वा त्वां "नव्यं नूतनमन्यैरकृतपूर्वं "ब्रह्म अस्माभिः कृतं स्तोत्रम् "अवसे अस्माकं रक्षणाय “आ “ववृत्यात् आवर्तयतु । कीदृशं त्वाम् । "एव एवमुक्तप्रकारेण “ता तानि प्रसिद्धानि "विश्वा विश्वानि सर्वाणि कर्माणि "चकृवांसं कृतवन्तम् "इन्द्रम् ईश्वरं "महां महान्तम् “उग्रम् ओजस्विनम् “अजुर्यम् अजरं "सहोदां सहसो बलस्य दातारं "सुवीरं शोभना वीरा मरुतो यस्य तं "स्वायुधं शोभनायुधं "सुवज्रं शोभनवज्रोपेतम् ॥


स नो॒ वाजा॑य॒ श्रव॑स इ॒षे च॑ रा॒ये धे॑हि द्यु॒मत॑ इन्द्र॒ विप्रा॑न् ।

भ॒रद्वा॑जे नृ॒वत॑ इन्द्र सू॒रीन्दि॒वि च॑ स्मैधि॒ पार्ये॑ न इन्द्र ॥१४

सः । नः॒ । वाजा॑य । श्रव॑से । इ॒षे । च॒ । रा॒ये । धे॒हि॒ । द्यु॒ऽमतः॑ । इ॒न्द्र॒ । विप्रा॑न् ।

भ॒रत्ऽवा॑जे । नृ॒ऽवतः॑ । इ॒न्द्र॒ । सू॒रीन् । दि॒वि । च॒ । स्म॒ । ए॒धि॒ । पार्ये॑ । नः॒ । इ॒न्द्र॒ ॥१४

सः । नः । वाजाय । श्रवसे । इषे । च । राये । धेहि । द्युऽमतः । इन्द्र । विप्रान् ।

भरत्ऽवाजे । नृऽवतः । इन्द्र । सूरीन् । दिवि । च । स्म । एधि । पार्ये । नः । इन्द्र ॥१४

हे “इन्द्र "सः त्वं "द्युमतः दीप्तिमतः "विप्रान् मेधाविनः "नः अस्मान् "वाजाय बलाय “श्रवसे यशसे “इषे “च अन्नाय च "राये धनाय “धेहि धारय। अपि च हे “इन्द्र “भरद्वाजे मयि "नृवत: मनुष्यवतः । परिचारकयुक्तानित्यर्थः । "सूरीन् तव स्तोतॄन् पुत्रपौत्रान् कुर्विति शेषः । हे “इन्द्र त्वं “पार्ये पारणीये आगामिनि "च “दिवि दिवसे “एधि "स्म “नः । अस्माकं रक्षिता खलु भवेत्यर्थः ॥


षष्ठेऽहनि तृतीयसवने ब्राह्मणाच्छंसिशस्त्रेऽनुरूपतृचस्य अया वाजम्' इति तृतीया । सूत्रितं च- अया वाजं देवहितं सनेमेति स्तोत्रियानुरूपौ ' (आश्व. श्रौ. ८. ३) इति ।

अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीरा॑ः ॥१५

अ॒या । वाज॑म् । दे॒वऽहि॑तम् । स॒ने॒म॒ । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥१५

अया । वाजम् । देवऽहितम् । सनेम । मदेम । शतऽहिमाः । सुऽवीराः ॥१५

“अया अनया स्तुत्या देवहितं देवेन द्योतमानेनेन्द्रेण दत्तं “वाजम् अन्नं "सनेम वयं संभजेम । अपि च "सुवीराः शोभनपुत्रोपेताः वयं “शतहिमाः शतसंवत्सरान् "मदेम हृष्याम ॥ ॥ ३ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.१७&oldid=186322" इत्यस्माद् पुनः प्राप्तिः