ऋग्वेदः सूक्तं ६.१०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.९ ऋग्वेदः - मण्डल ६
सूक्तं ६.१०
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.११ →
दे. अग्निः। त्रिष्टुप्, ७ द्विपदा विराट्


पुरो वो मन्द्रं दिव्यं सुवृक्तिं प्रयति यज्ञे अग्निमध्वरे दधिध्वम् ।
पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः ॥१॥
तमु द्युमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः ।
स्तोमं यमस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते ॥२॥
पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः ।
चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति ॥३॥
आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा ।
अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः ॥४॥
नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि ।
ये राधसा श्रवसा चात्यन्यान्सुवीर्येभिश्चाभि सन्ति जनान् ॥५॥
इमं यज्ञं चनो धा अग्न उशन्यं त आसानो जुहुते हविष्मान् ।
भरद्वाजेषु दधिषे सुवृक्तिमवीर्वाजस्य गध्यस्य सातौ ॥६॥
वि द्वेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः ॥७॥


सायणभाष्यम्

‘पुरो वः' इति सप्तर्चं दशमं सूक्तं भरद्वाजस्यार्षमाग्नेयम् । सप्तमी विंशिका द्विपदा विराट् शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तं - ‘ पुरो वो द्विपदान्तम् ' इति । प्रातरनुवाक आग्नेये क्रतौ त्रैष्टुभे छन्दसीदमादीनि चत्वारि सूक्तानि । सूत्रितं च -पुरो वो मन्द्रमिति चत्वारि तं सुप्रतीकमिति षट्' (आश्व. श्रौ. ४. १३) इति ॥


पु॒रो वो॑ म॒न्द्रं दि॒व्यं सु॑वृ॒क्तिं प्र॑य॒ति य॒ज्ञे अ॒ग्निम॑ध्व॒रे द॑धिध्वम् ।

पु॒र उ॒क्थेभि॒ः स हि नो॑ वि॒भावा॑ स्वध्व॒रा क॑रति जा॒तवे॑दाः ॥१

पु॒रः । वः॒ । म॒न्द्रम् । दि॒व्यम् । सु॒ऽवृ॒क्तिम् । प्र॒ऽय॒ति । य॒ज्ञे । अ॒ग्निम् । अ॒ध्व॒रे । द॒धि॒ध्व॒म् ।

पु॒रः । उ॒क्थेभिः॑ । सः । हि । नः॒ । वि॒भाऽवा॑ । सु॒ऽअ॒ध्व॒रा । क॒र॒ति॒ । जा॒तऽवे॑दाः ॥१

पुरः । वः । मन्द्रम् । दिव्यम् । सुऽवृक्तिम् । प्रऽयति । यज्ञे । अग्निम् । अध्वरे । दधिध्वम् ।

पुरः । उक्थेभिः । सः । हि । नः । विभाऽवा । सुऽअध्वरा । करति । जातऽवेदाः ॥१

हे ऋत्विग्यजमानाः "वः यूयं "मन्द्रं मोदनं स्तुत्यं वा “दिव्यं दिवि भवं "सुवृक्तिं सुष्ठु दोषैर्वर्जितं सुखेनावर्जनीयं वा एवंगुणम् "अग्निं "प्रयति प्रगच्छति प्रवर्तमाने "अध्वरे रक्षःप्रभृतिभिरहिंस्ये हिंसाप्रत्यवायरहिते वास्मिन् "यज्ञे “पुरः "दधिध्वं पुरस्तादाहवनीयरूपेण धारयत । यद्वा । पुरोधसं कुरुत । "उक्थेभिः स्तुतशस्त्रैश्च “पुरः "दधिध्वम् । "विभावा विशेषेण दीप्यमानः "जातवेदाः जातानां वेदिता "सः अग्निः “हि यस्मात् "नः अस्मान् "स्वध्वरा शोभनयागान् "करति करोति तस्मात् पुरो दधिध्वमित्यन्वयः ॥


तमु॑ द्युमः पुर्वणीक होत॒रग्ने॑ अ॒ग्निभि॒र्मनु॑ष इधा॒नः ।

स्तोमं॒ यम॑स्मै म॒मते॑व शू॒षं घृ॒तं न शुचि॑ म॒तय॑ः पवन्ते ॥२

तम् । ऊं॒ इति॑ । द्यु॒ऽमः॒ । पु॒रु॒ऽअ॒नी॒क॒ । हो॒तः॒ । अग्ने॑ । अ॒ग्निऽभिः॑ । मनु॑षः । इ॒धा॒नः ।

स्तोम॑म् । यम् । अ॒स्मै॒ । म॒मता॑ऽइव । शू॒षम् । घृ॒तम् । न । शुचि॑ । म॒तयः॑ । प॒व॒न्ते॒ ॥२

तम् । ऊं इति । द्युऽमः । पुरुऽअनीक । होतः । अग्ने । अग्निऽभिः । मनुषः । इधानः ।

स्तोमम् । यम् । अस्मै । ममताऽइव । शूषम् । घृतम् । न । शुचि । मतयः । पवन्ते ॥२

हे “द्युमः दीप्तिमन् "पुर्वणीक बहुज्वाल "होतः देवानामाह्वातः "अग्ने "अग्निभिः तवावयवभूतैरन्यैरग्निभिः सार्धम् “इधानः समिध्यमानः दीप्तः सन् “मनुषः मनुष्यस्य स्तोतुः “तमु तं स्तोमं श्रृण्विति शेषः । उ इति पादपूरणम् । “यं "स्तोमं स्तोत्रं “शूषं सुखकरं “घृतं “न पवित्राभ्याम् उत्पूतं घृतमिव “शुचि शुद्धम् "अस्मै अग्नये “मतयः मन्तारः स्तोतारः "ममतेव । ममता नाम ब्रह्मवादिनी दीर्घतमसो माता । सेव “पवन्ते पुनन्ति संस्कुर्वन्ति दोषवर्जितमुच्चारयन्तीत्यर्थः । तं स्तोममित्यन्वयः ॥


पी॒पाय॒ स श्रव॑सा॒ मर्त्ये॑षु॒ यो अ॒ग्नये॑ द॒दाश॒ विप्र॑ उ॒क्थैः ।

चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो॑चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति ॥३

पी॒पाय॑ । सः । श्रव॑सा । मर्त्ये॑षु । यः । अ॒ग्नये॑ । द॒दाश॑ । विप्रः॑ । उ॒क्थैः ।

चि॒त्राभिः॑ । तम् । ऊ॒तिऽभिः॑ । चि॒त्रऽशो॑चिः । व्र॒जस्य॑ । सा॒ता । गोऽम॑तः । द॒धा॒ति॒ ॥३

पीपाय । सः । श्रवसा । मर्त्येषु । यः । अग्नये । ददाश । विप्रः । उक्थैः ।

चित्राभिः । तम् । ऊतिऽभिः । चित्रऽशोचिः । व्रजस्य । साता । गोऽमतः । दधाति ॥३

“सः यजमानः “मर्त्येषु मनुष्येषु मध्ये “श्रवसा अन्नेन “पीपाय वर्धते “विप्रः मेधावी "यः यजमानः "उक्थैः स्तुतिभि: सार्धं हवींषि "ददाश प्रयच्छति । “तं यजमानं “चित्रशोचिः विचित्रदीप्तिरग्निः “चित्राभिः आश्चर्यभूताभिः “ऊतिभिः रक्षाभिः “गोमतः गोभिर्युक्तस्य “व्रजस्य गोष्ठस्य “साता सातौ संभजने "दधाति धारयति ।।


आ यः प॒प्रौ जाय॑मान उ॒र्वी दू॑रे॒दृशा॑ भा॒सा कृ॒ष्णाध्वा॑ ।

अध॑ ब॒हु चि॒त्तम॒ ऊर्म्या॑यास्ति॒रः शो॒चिषा॑ ददृशे पाव॒कः ॥४

आ । यः । प॒प्रौ । जाय॑मानः । उ॒र्वी इति॑ । दू॒रे॒ऽदृशा॑ । भा॒सा । कृ॒ष्णऽअ॑ध्वा ।

अध॑ । ब॒हु । चि॒त् । तमः॑ । ऊर्म्या॑याः । ति॒रः । शो॒चिषा॑ । द॒दृ॒शे॒ । पा॒व॒कः ॥४

आ । यः । पप्रौ । जायमानः । उर्वी इति । दूरेऽदृशा । भासा । कृष्णऽअध्वा ।

अध । बहु । चित् । तमः । ऊर्म्यायाः । तिरः । शोचिषा । ददृशे । पावकः ॥४

“कृष्णाध्वा कृष्णवर्त्मा "यः अग्निः "जायमानः प्रादुर्भवन् "उर्वी विस्तीर्णे द्यावापृथिव्यौ "दूरेदृशा दूरे दृश्यमानया “भासा दीप्त्या “आ “पप्रौ आपूरयति सः "पावकः अग्निः "अध अनन्तरम् “ऊर्म्यायाः। रात्रिनामैतत् । रात्रेः संबन्धि “बहु "चित् बह्वपि “तमः अन्धकारं "शोचिषा दीप्त्या “तिरः तिरस्कुर्वन् "ददृशे दृश्यते ॥


नू न॑श्चि॒त्रं पु॑रु॒वाजा॑भिरू॒ती अग्ने॑ र॒यिं म॒घव॑द्भ्यश्च धेहि ।

ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यान्सु॒वीर्ये॑भिश्चा॒भि सन्ति॒ जना॑न् ॥५

नु । नः॒ । चि॒त्रम् । पु॒रु॒ऽवाजा॑भिः । ऊ॒ती । अग्ने॑ । र॒यिम् । म॒घव॑त्ऽभ्यः । च॒ । धे॒हि॒ ।

ये । राध॑सा । श्रव॑सा । च॒ । अति॑ । अ॒न्यान् । सु॒ऽवीर्ये॑भिः । च॒ । अ॒भि । सन्ति॑ । जना॑न् ॥५

नु । नः । चित्रम् । पुरुऽवाजाभिः । ऊती । अग्ने । रयिम् । मघवत्ऽभ्यः । च । धेहि ।

ये । राधसा । श्रवसा । च । अति । अन्यान् । सुऽवीर्येभिः । च । अभि । सन्ति । जनान् ॥५

हे "अग्ने "मघवद्भ्यः हविर्लक्षणधनयुक्तेभ्यः "नः अस्मभ्यं "पुरुवाजाभिः बह्वन्नैः “ऊती ऊतिभिः रक्षणैः सह “चित्रं चायनीयं "रयिं धनं "नु क्षिप्रं “धेहि देहि प्रयच्छ। चशब्दो वक्ष्यमाणेन समुच्चयार्थः । "ये "राधसा धनेन “श्रवसा अन्नेन च "सुवीर्येभिः शोभनैर्वीर्यैश्च “अन्यान् "जनान् मनुष्यान् “अति अतिशयेन "अभि "सन्ति अभिभवन्ति तादृशान् पुत्रांश्चास्मभ्यं देहीत्यर्थः ॥


इ॒मं य॒ज्ञं चनो॑ धा अग्न उ॒शन्यं त॑ आसा॒नो जु॑हु॒ते ह॒विष्मा॑न् ।

भ॒रद्वा॑जेषु दधिषे सुवृ॒क्तिमवी॒र्वाज॑स्य॒ गध्य॑स्य सा॒तौ ॥६

इ॒मम् । य॒ज्ञम् । चनः॑ । धाः॒ । अ॒ग्ने॒ । उ॒शन् । यम् । ते॒ । आ॒सा॒नः । जु॒हु॒ते । ह॒विष्मा॑न् ।

भ॒रत्ऽवा॑जेषु । द॒धि॒षे॒ । सु॒ऽवृ॒क्तिम् । अवीः॑ । वाज॑स्य । गध्य॑स्य । सा॒तौ ॥६

इमम् । यज्ञम् । चनः । धाः । अग्ने । उशन् । यम् । ते । आसानः । जुहुते । हविष्मान् ।

भरत्ऽवाजेषु । दधिषे । सुऽवृक्तिम् । अवीः । वाजस्य । गध्यस्य । सातौ ॥६

हे "अग्ने "उशन् कामयमानस्त्वम् “इमं पुरोवर्ति "यज्ञं यागसाधनं “चनः हविर्लक्षणमन्नं “धाः धेहि । स्वात्मनि धारय । “यं च पुरोडाशादिकम् "आसानः आसीन उपविशन् "हविष्मान् हविर्युक्तो यजमानः “ते तुभ्यं त्वदर्थं "जुहूते जुहोति तमिममित्यन्वयः । अपि च "भरद्वाजेषु ऋषिषु “सुवृक्तिं सुष्ठु दोषैर्वर्जितां स्तुतिं “दधिषे धारय । “गध्यस्य । गध्यतिर्मिश्रीभावकर्मा । मिश्रणीयस्य प्राप्यस्य "वाजस्य अन्नस्य “सातौ संभजने निमित्तभूते "अवीः तानृषीन् रक्ष च ॥


वि द्वेषां॑सीनु॒हि व॒र्धयेळां॒ मदे॑म श॒तहि॑माः सु॒वीरा॑ः ॥७

वि । द्वेषां॑सि । इ॒नु॒हि । व॒र्धय॑ । इळा॑म् । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥७

वि । द्वेषांसि । इनुहि । वर्धय । इळाम् । मदेम । शतऽहिमाः । सुऽवीराः ॥७

हे अग्ने "द्वेषांसि द्वेष्टॄन शत्रून् "वि “इनुहि विविधं गमय । “इळाम् अन्नं चास्मदीयं "वर्धय । वयं च "सुवीराः शोभनैर्वीरैः पुत्रपौत्रादिभिरुपेताः सन्तः "शतहिमाः शतं हेमन्तान् संवत्सरान् “मदेम मोदेम तृप्ता भूयास्म ॥ ॥ १२ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.१०&oldid=199850" इत्यस्माद् पुनः प्राप्तिः