ऋग्वेदः सूक्तं ६.८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.७ ऋग्वेदः - मण्डल ६
सूक्तं ६.८
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.९ →
दे. वैश्वानरोऽग्निः। जगती, ७ त्रिष्टुप्


पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः ।
वैश्वानराय मतिर्नव्यसी शुचिः सोम इव पवते चारुरग्नये ॥१॥
स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत ।
व्यन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत् ॥२॥
व्यस्तभ्नाद्रोदसी मित्रो अद्भुतोऽन्तर्वावदकृणोज्ज्योतिषा तमः ।
वि चर्मणीव धिषणे अवर्तयद्वैश्वानरो विश्वमधत्त वृष्ण्यम् ॥३॥
अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुरृग्मियम् ।
आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः ॥४॥
युगेयुगे विदथ्यं गृणद्भ्योऽग्ने रयिं यशसं धेहि नव्यसीम् ।
पव्येव राजन्नघशंसमजर नीचा नि वृश्च वनिनं न तेजसा ॥५॥
अस्माकमग्ने मघवत्सु धारयाऽनामि क्षत्रमजरं सुवीर्यम् ।
वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः ॥६॥
अदब्धेभिस्तव गोपाभिरिष्टेऽस्माकं पाहि त्रिषधस्थ सूरीन् ।
रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारी स्तवानः ॥७॥


सायणभाष्यम्

‘पृक्षस्य' इति सप्तर्चमष्टमं सूक्तं भरद्वाजस्यार्षं वैश्वानराग्निदेवताकम् । आदितः षट् जगत्यः सप्तमी त्रिष्टुप् । तथा चानुक्रान्तं – पृक्षस्यान्त्या त्रिष्टुप्' इति । चातुर्विंशिकेऽहन्याग्निमारूते इदं सूक्तं वैश्वानरीयनिविद्धानम् । सूत्रितं च-' पृक्षस्य वृष्णो वृष्ण शर्धाय' (आश्व. श्रौ. ७. ४) इति । आभिप्लविके पृष्ठ्याभिप्लवषडहयोः पञ्चमेऽहनीदमेव सूक्तं वैश्वानरनिविद्धानम् । सूत्रितं च-’ पृक्षस्य वृष्णो वृष्णे शर्धाय नू चित्सहोजा इत्याग्निमारुतम्' (आश्व. श्रौ. ७. ७) इति । विषुवत्याग्निमारुत आद्यौ तृचौ स्तोत्रियानुरूपौ । सूत्रितं च - पृक्षस्य वृष्णो अरुषस्य नू सह इति स्तोत्रियानुरूपौ' (आश्व. श्रौ. ८. ६ ) इति ॥


पृ॒क्षस्य॒ वृष्णो॑ अरु॒षस्य॒ नू सहः॒ प्र नु वो॑चं वि॒दथा॑ जा॒तवे॑दसः ।

वै॒श्वा॒न॒राय॑ म॒तिर्नव्य॑सी॒ शुचिः॒ सोम॑ इव पवते॒ चारु॑र॒ग्नये॑ ॥१

पृ॒क्षस्य॑ । वृष्णः॑ । अ॒रु॒षस्य॑ । नु । सहः॑ । प्र । नु । वो॒च॒म् । वि॒दथा॑ । जा॒तऽवे॑दसः ।

वै॒श्वा॒न॒राय॑ । म॒तिः । नव्य॑सी । शुचिः॑ । सोमः॑ऽइव । प॒व॒ते॒ । चारुः॑ । अ॒ग्नये॑ ॥१

पृक्षस्य । वृष्णः । अरुषस्य । नु । सहः । प्र । नु । वोचम् । विदथा । जातऽवेदसः ।

वैश्वानराय । मतिः । नव्यसी । शुचिः । सोमःऽइव । पवते । चारुः । अग्नये ॥१

“पृक्षस्य संपृक्तस्य व्याप्तस्य । यद्वा । पृक्षं हविर्लक्षणमन्नम् । तद्वतः । “वृष्णः कामानां वर्षितुः “अरुषस्य आरोचमानस्य “जातवेदसः जातानां वेदितुर्वैश्वानराग्नेः "सहः बलमभिभवनसमर्थं “विदथा विदथे यज्ञे “नु क्षिप्रं “प्र “वोचं प्रब्रवीमि । प्रकर्षेण स्तौमीत्यर्थः । एको नुशब्दः पूरकः । “नव्यसी नवतरा “शुचिः निर्मला यद्वा स्तोतॄणां शोधयित्री “चारुः शोभना “मतिः मननीया स्तुतिश्चास्मै “वैश्वानराय "अग्नये “पवते । मत्सकाशात् स्रवति । स्वयमेव निर्गच्छतीत्यर्थः । “सोमइव। यथा सोमो दशापवित्रात् स्रवति तद्वत् ॥


स जाय॑मानः पर॒मे व्यो॑मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा अ॑रक्षत ।

व्यं१॒॑तरि॑क्षममिमीत सु॒क्रतु॑र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत् ॥२

सः । जाय॑मानः । प॒र॒मे । विऽओ॑मनि । व्र॒तानि॑ । अ॒ग्निः । व्र॒त॒ऽपाः । अ॒र॒क्ष॒त॒ ।

वि । अ॒न्तरि॑क्षम् । अ॒मि॒मी॒त॒ । सु॒ऽक्रतुः॑ । वै॒श्वा॒न॒रः । म॒हि॒ना । नाक॑म् । अ॒स्पृ॒श॒त् ॥२

सः । जायमानः । परमे । विऽओमनि । व्रतानि । अग्निः । व्रतऽपाः । अरक्षत ।

वि । अन्तरिक्षम् । अमिमीत । सुऽक्रतुः । वैश्वानरः । महिना । नाकम् । अस्पृशत् ॥२

“सः वैश्वानरः “अग्निः “व्रतपाः व्रतस्य पालकः “परमे उत्कृष्टे “व्योमनि व्योम्न्याकाशे “जायमानः सूर्यात्मना प्रादुर्भवन् “व्रतानि कर्माणि लौकिकानि वैदिकानि च "अरक्षत रक्षति । “अन्तरिक्षं च “वि “अमिमीत । एतदुपलक्षितांस्त्रीन् लोकान्निर्मितवान् । तथा “सुक्रतुः शोभनकर्मा “वैश्वानरः अग्निः “महिना स्वमहिम्ना तेजसा “नाकं द्युलोकम् “अस्पृशत् स्पृशति स्म ।।


व्य॑स्तभ्ना॒द्रोद॑सी मि॒त्रो अद्भु॑तोऽंत॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒ तमः॑ ।

वि चर्म॑णीव धि॒षणे॑ अवर्तयद्वैश्वान॒रो विश्व॑मधत्त॒ वृष्ण्यं॑ ॥३

वि । अ॒स्त॒भ्ना॒त् । रोद॑सी॒ इति॑ । मि॒त्रः । अद्भु॑तः । अ॒न्तः॒ऽवाव॑त् । अ॒कृ॒णो॒त् । ज्योति॑षा । तमः॑ ।

वि । चर्म॑णी इ॒वेति॒ चर्म॑णीऽइव । धि॒षणे॒ इति॑ । अ॒व॒र्त॒य॒त् । वै॒श्वा॒न॒रः । विश्व॑म् । अ॒ध॒त्त॒ । वृष्ण्य॑म् ॥३

वि । अस्तभ्नात् । रोदसी इति । मित्रः । अद्भुतः । अन्तःऽवावत् । अकृणोत् । ज्योतिषा । तमः ।

वि । चर्मणी इवेति चर्मणीऽइव । धिषणे इति । अवर्तयत् । वैश्वानरः । विश्वम् । अधत्त । वृष्ण्यम् ॥३

“मित्रः मित्रभूतः सर्वेषाम् “अद्भुतः महान् आश्चर्यभूतो वा वैश्वानरोऽग्निः “रोदसी द्यावापृथिव्यौ “व्यस्तभ्नात् विशेषेण स्तम्भितवान् । यथाधो न पततस्तथा स्वकीयदेशे स्थापितवानित्यर्थः । तथा “ज्योतिषा तेजसा “तमः अन्धकारं च "अन्तर्वावत् अन्तर्हितं तिरोहितम् “अकृणोत् अकरोत् । वावदिति वातेर्गतिकर्मणो यङ्लुगन्तस्य रूपम् । अपि च “धिषणे धारयित्र्यौ द्यावापृथिव्यौ “चर्मणीव यथा पशोर्विशसिता द्वे चर्मणी शोषणार्थं प्रसारयति तथा “वि “अवर्तयत् विवृते विस्तृते अकरोत् । किं बहुना "वैश्वानरः अयमग्निः “विश्वं सर्वं वृष्ण्यं वीर्यम् "अधत्त धत्ते धारयति ॥


अ॒पामु॒पस्थे॑ महि॒षा अ॑गृभ्णत॒ विशो॒ राजा॑न॒मुप॑ तस्थुर्ऋ॒ग्मियं॑ ।

आ दू॒तो अ॒ग्निम॑भरद्वि॒वस्व॑तो वैश्वान॒रं मा॑त॒रिश्वा॑ परा॒वतः॑ ॥४

अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षाः । अ॒गृ॒भ्ण॒त॒ । विशः॑ । राजा॑नम् । उप॑ । त॒स्थुः॒ । ऋ॒ग्मिय॑म् ।

आ । दू॒तः । अ॒ग्निम् । अ॒भ॒र॒त् । वि॒वस्व॑तः । वै॒श्वा॒न॒रम् । मा॒त॒रिश्वा॑ । प॒रा॒ऽवतः॑ ॥४

अपाम् । उपऽस्थे । महिषाः । अगृभ्णत । विशः । राजानम् । उप । तस्थुः । ऋग्मियम् ।

आ । दूतः । अग्निम् । अभरत् । विवस्वतः । वैश्वानरम् । मातरिश्वा । पराऽवतः ॥४

आप इत्यन्तरिक्षनाम । “अपाम् अन्तरिक्षस्य “उपस्थे उपस्थाने मध्ये “महिषाः । महन्नामैतत् । महान्तो मरुतः “अगृभ्णत अगृह्णन् । इमं वैश्वानरं वैद्युतात्मना वर्तमानमजानन्नित्यर्थः । गृहीत्वा च “विशः प्रजाः “राजानं स्वामिनम् “ऋग्मियम् अर्चनीयम्' “उप “तस्थुः अस्तुवन् । अपि चेमं “वैश्वानरम् “अग्निं पुरा सूर्यसमीपे विद्यमानं “दूतः वेगवान् देवानां दूतो वा “मातरिश्वा वायुः “परावतः दूरदेशात् "विवस्वतः आदित्यात् "आ "अभरत् इमं लोकं प्रत्याजहार ॥


यु॒गेयु॑गे विद॒थ्यं॑ गृ॒णद्भ्योऽग्ने॑ र॒यिं य॒शसं॑ धेहि॒ नव्य॑सीं ।

प॒व्येव॑ राजन्न॒घशं॑समजर नी॒चा नि वृ॑श्च व॒निनं॒ न तेज॑सा ॥५

यु॒गेऽयु॑गे । वि॒द॒थ्य॑म् । गृ॒णत्ऽभ्यः॑ । अग्ने॑ । र॒यिम् । य॒शस॑म् । धे॒हि॒ । नव्य॑सीम् ।

प॒व्याऽइ॑व । रा॒ज॒न् । अ॒घऽशं॑सम् । अ॒ज॒र॒ । नी॒चा । नि । वृ॒श्च॒ । व॒निन॑म् । न । तेज॑सा ॥५

युगेऽयुगे । विदथ्यम् । गृणत्ऽभ्यः । अग्ने । रयिम् । यशसम् । धेहि । नव्यसीम् ।

पव्याऽइव । राजन् । अघऽशंसम् । अजर । नीचा । नि । वृश्च । वनिनम् । न । तेजसा ॥५

हे “अग्ने “युगेयुगे काले काले “विदथ्यम् । विदथो यज्ञः । तदर्हं त्वामुद्दिश्य “नव्यसीं नवतरां स्तुतिं “गृणद्भ्यः उच्चारयितृभ्योऽस्मभ्यं “रयिं धनं “यशसं यशस्विनं पुत्रं च “धेहि विधेहि कुरु । किंच हे “राजन् राजमान “अजर जरारहिताग्ने “पव्येव वज्रेणेवात्मीयेन “तेजसा “वनिनं “न वृक्षमिव “अघशंसम् अघस्यानर्थस्य शंसितारं शत्रुं “नीचा नीचीनो न्यग्भूतो यथा भवति तथा “नि “वृश्च निजहि ॥


अ॒स्माक॑मग्ने म॒घव॑त्सु धार॒याऽना॑मि क्ष॒त्रम॒जरं॑ सु॒वीर्यं॑ ।

व॒यं ज॑येम श॒तिनं॑ सह॒स्रिणं॒ वैश्वा॑नर॒ वाज॑मग्ने॒ तवो॒तिभिः॑ ॥६

अ॒स्माक॑म् । अ॒ग्ने॒ । म॒घव॑त्ऽसु । धा॒र॒य॒ । अना॑मि । क्ष॒त्रम् । अ॒जर॑म् । सु॒ऽवीर्य॑म् ।

व॒यम् । ज॒ये॒म॒ । श॒तिन॑म् । स॒ह॒स्रिण॑म् । वैश्वा॑नर । वाज॑म् । अ॒ग्ने॒ । तव॑ । ऊ॒तिऽभिः॑ ॥६

अस्माकम् । अग्ने । मघवत्ऽसु । धारय । अनामि । क्षत्रम् । अजरम् । सुऽवीर्यम् ।

वयम् । जयेम । शतिनम् । सहस्रिणम् । वैश्वानर । वाजम् । अग्ने । तव । ऊतिऽभिः ॥६

हे “अग्ने “अस्माकम् । सप्तम्यर्थे षष्टी । अस्मासु “मघवत्सु हविर्लक्षणेन धनेन युक्तेषु “क्षत्रं धनं “धारय स्थापय । कीदृशम् । “अनामि अनमनीयमनपहार्यम् “अजरं जरारहितमनश्वरं “सुवीर्यं शोभनवीर्योपेतम् । किंच हे “वैश्वानर “अग्ने “तवोतिभिः त्वत्संबन्धिभी रक्षणैः “वयं “शतिनं शतसंख्यायुक्तं शतपुरुषयुक्तं वा तथा “सहस्रिणं “वाजम् अन्नं “जयेम लभेमहि ।


अद॑ब्धेभि॒स्तव॑ गो॒पाभि॑रिष्टे॒ऽस्माकं॑ पाहि त्रिषधस्थ सू॒रीन् ।

रक्षा॑ च नो द॒दुषां॒ शर्धो॑ अग्ने॒ वैश्वा॑नर॒ प्र च॑ तारीः॒ स्तवा॑नः ॥७

अद॑ब्धेभिः । तव॑ । गो॒पाभिः॑ । इ॒ष्टे॒ । अ॒स्माक॑म् । पा॒हि॒ । त्रि॒ऽस॒ध॒स्थ॒ । सू॒रीन् ।

रक्ष॑ । च॒ । नः॒ । द॒दुषा॑म् । शर्धः॑ । अ॒ग्ने॒ । वैश्वा॑नर । प्र । च॒ । ता॒रीः॒ । स्तवा॑नः ॥७

अदब्धेभिः । तव । गोपाभिः । इष्टे । अस्माकम् । पाहि । त्रिऽसधस्थ । सूरीन् ।

रक्ष । च । नः । ददुषाम् । शर्धः । अग्ने । वैश्वानर । प्र । च । तारीः । स्तवानः ॥७

हे “इष्टे यष्टव्य एषणीय वा "त्रिषधस्थ त्रिषु लोकेषु सहावस्थायिन् यद्वा आहवनीयादिषु त्रिष्वायतनेषु यष्टव्यैर्देवैः सहावतिष्ठमानाग्ने “अदब्धेभिः केनाप्यहिंसितैः “तव त्वदीयैः “गोपाभिः गोपकैः रक्षकैस्तेजोभिः “अस्माकं “सूरीन् अस्मदीयान् स्तोतॄन् “पाहि रक्ष । हे "वैश्वानर “अग्ने “ददुषां हवींषि दत्तवतां “नः अस्माकं “शर्धः बलं “रक्ष “च । “स्तवानः स्तूयमानस्त्वं “प्र “च “तारीः प्रवर्धय च ॥ ॥ १० ॥

[सम्पाद्यताम्]


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.८&oldid=209203" इत्यस्माद् प्रतिप्राप्तम्