ऋग्वेदः सूक्तं ६.३९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.३८ ऋग्वेदः - मण्डल ६
सूक्तं ६.३९
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.४० →
दे. इन्द्रः। त्रिष्टुप्।

मन्द्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः ।
अपा नस्तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः ॥१॥
अयमुशानः पर्यद्रिमुस्रा ऋतधीतिभिरृतयुग्युजानः ।
रुजदरुग्णं वि वलस्य सानुं पणीँर्वचोभिरभि योधदिन्द्रः ॥२॥
अयं द्योतयदद्युतो व्यक्तून्दोषा वस्तोः शरद इन्दुरिन्द्र ।
इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार ॥३॥
अयं रोचयदरुचो रुचानोऽयं वासयद्व्यृतेन पूर्वीः ।
अयमीयत ऋतयुग्भिरश्वैः स्वर्विदा नाभिना चर्षणिप्राः ॥४॥
नू गृणानो गृणते प्रत्न राजन्निषः पिन्व वसुदेयाय पूर्वीः ।
अप ओषधीरविषा वनानि गा अर्वतो नॄनृचसे रिरीहि ॥५॥

सायणभाष्यम्

‘मन्द्रस्य कवेः' इति पञ्चर्चं षोडशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम्। 'मन्द्रस्य' इत्यनुक्रान्तम् । गतो विनियोगः ॥


म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑ ।

अपा॑ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो॑ युवस्व गृण॒ते गोअ॑ग्राः ॥१

म॒न्द्रस्य॑ । क॒वेः । दि॒व्यस्य॑ । वह्नेः॑ । विप्र॑ऽमन्मनः । व॒च॒नस्य॑ । मध्वः॑ ।

अपाः॑ । नः॒ । तस्य॑ । स॒च॒नस्य॑ । दे॒व॒ । इषः॑ । यु॒व॒स्व॒ । गृ॒ण॒ते । गोऽअ॑ग्राः ॥१

मन्द्रस्य । कवेः । दिव्यस्य । वह्नेः । विप्रऽमन्मनः । वचनस्य । मध्वः ।

अपाः । नः । तस्य । सचनस्य । देव । इषः । युवस्व । गृणते । गोऽअग्राः ॥ १॥

“मन्द्रस्य मोदनस्य मदकरस्य वा “कवेः विक्रान्तस्य “दिव्यस्य दिवि भवस्य “वह्नेः वोढुः “विप्रमन्मनः । विप्रा मेधाविनो मन्मानः स्तोतारो यस्य स तथोक्तः । तस्य “वचनस्य वचनीयस्य स्तुत्यस्य “तस्य सर्वत्र प्रसिद्धस्थ "सचनस्य सेव्यस्य एवंभूतस्य मध्वः मधुनः सोमस्य ॥ ‘क्रियाग्रहण कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी ॥ एवंभूतं “नः अस्मदीयं सोमं हे इन्द्र त्वम् “अपाः पिब । अपि च हे “देव द्योतमानेन्द्र “गृणते स्तुवते । तृतीयार्थे चतुर्थी । स्तुवता मया “गोअग्राः । गावोऽग्रे प्रमुखे यासां तादृशाः “इषः अन्नानि "युवस्व संयोजय ॥


अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा ऋ॒तधी॑तिभिरृत॒युग्यु॑जा॒नः ।

रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं॑ प॒णीँर्वचो॑भिर॒भि यो॑ध॒दिन्द्रः॑ ॥२

अ॒यम् । उ॒शा॒नः । परि॑ । अद्रि॑म् । उ॒स्राः । ऋ॒तधी॑तिऽभिः । ऋ॒त॒ऽयुक् । यु॒जा॒नः ।

रु॒जत् । अरु॑ग्णम् । वि । व॒लस्य॑ । सानु॑म् । प॒णीन् । वचः॑ऽभिः । अ॒भि । यो॒ध॒त् । इन्द्रः॑ ॥२

अयम् । उशानः । परि । अद्रिम् । उस्राः । ऋतधीतिऽभिः । ऋतऽयुक् । युजानः ।

रुजत् । अरुग्णम् । वि । वलस्य । सानुम् । पणीन् । वचःऽभिः । अभि । योधत् । इन्द्रः ।।२।।

“अयम् इन्द्रः "अद्रिं वलेन गोपिधानाय निर्मितं शिलोचयं “परि परितः पर्वतसमीपे विद्यमाना: "उस्राः गाः “उशानः कामयमानः “ऋतधीतिभिः सत्यकर्मभिरङ्गिरोभिः “युजानः संगच्छमानः “ऋतयुक् ऋतेन तत्कृतेन स्तोत्रेण युक्तश्च भूत्वा “वलस्य असुरस्य स्वभूतं “सानुं समुच्छ्रितं पर्वतम् “अरुग्णम् अन्यैरभग्नं “वि “रुजत् व्यभाङ्क्षीत् । किंच "पणीन् वलानुचरानेतत्संज्ञानसुरांश्च “वचोभिः स्तुत्यरायुधैः संतर्जनरूपैर्वाक्यैरेव वा अयम् “इन्द्रः "अभि “योधत् अभ्ययुध्यत् ॥


अ॒यं द्यो॑तयद॒द्युतो॒ व्य१॒॑क्तून्दो॒षा वस्तोः॑ श॒रद॒ इन्दु॑रिन्द्र ।

इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ॥३

अ॒यम् । द्यो॒त॒य॒त् । अ॒द्युतः॑ । वि । अ॒क्तून् । दो॒षा । वस्तोः॑ । श॒रदः॑ । इन्दुः॑ । इ॒न्द्र॒ ।

इ॒मम् । के॒तुम् । अ॒द॒धुः॒ । नु । चि॒त् । अह्ना॑म् । शुचि॑ऽजन्मनः । उ॒षसः॑ । च॒का॒र॒ ॥३

अयम् । द्योतयत् । अद्युतः । वि । अक्तून् । दोषा । वस्तोः । शरदः । इन्दुः । इन्द्र।

इमम् । केतुम् । अदधुः । नु। चित् । अह्नाम् । शुचिऽजन्मनः । उषसः । चकार ॥ ३ ॥

हे “इन्द्र त्वया नियम्यमानः पीयमानो वा अयम् “इन्दुः सोमः "अद्युतः अद्योतमानान् “अक्तून् । अक्तुरिति रात्रिनाम । अत्र च तत्संबन्धात् पक्षमासादयो लक्ष्यन्ते । पक्षमासादीन् तथा “दोषा रात्रिं “वस्तोः दिवसं "शरदः संवत्सरांश्च “वि द्योतयत् व्यदीपयत्। कुत इत्यत आह । "नू “चित् पुरा देवाः “इमं सोमं चन्द्रात्मना नभसि वर्तमानम् "अह्नां दिवसानां "केतुं प्रज्ञापकं यस्मात् “अदधुः व्यदधुः अकुर्वन् तस्मादनेन पक्षमासादयः सर्वे प्रकाश्यन्ते । चन्द्रगत्यधीनत्वात्तिथिविभागानाम् । अपि चायं सोमः “उषसः उषःकालान् “शुचिजन्मनः आत्मीयेन तेजसा शुद्धोदयान् “चकार करोति ॥


अ॒यं रो॑चयद॒रुचो॑ रुचा॒नो॒३॒॑ऽयं वा॑सय॒द्व्यृ१॒॑तेन॑ पू॒र्वीः ।

अ॒यमी॑यत ऋत॒युग्भि॒रश्वैः॑ स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ॥४

अ॒यम् । रो॒च॒य॒त् । अ॒रुचः॑ । रु॒चा॒नः । अ॒यम् । वा॒स॒य॒त् । वि । ऋ॒तेन॑ । पू॒र्वीः ।

अ॒यम् । ई॒य॒ते॒ । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । स्वः॒ऽविदा॑ । नाभि॑ना । च॒र्ष॒णि॒ऽप्राः ॥४

अयम् । रोचयत् । अरुचः । रुचानः । अयम् । वासयत् । वि । ऋतेन । पूर्वीः ।

अयम् । ईयते । ऋतयुक्ऽभिः । अश्वैः । स्व:ऽविदा । नाभिना । चर्षणिऽप्राः ॥ ४ ॥

“अयम् इन्द्रः “रुचानः रोचमानः सूर्यात्मना दीप्यमानः “अरुचः प्रकाशरहितान् तमसा मलीमसान् सर्वलोकान् “रोचयत् प्रकाशयति । तथा “पूर्वीः बह्वीरुषसश्च “अयम् इन्द्रः “ऋतेन सत्यभूतेन सर्वत्र गमनशीलेन वा तेजसा “वि “वासयत व्यापयति । तत्रत्यानि तमांसि निवर्तयतीत्यर्थः । तथा “ऋतयुग्भिः ऋतेन स्तोत्रेण युज्यमानैः “अश्वैः “नाभिना संनद्धेन “स्वर्विदा सुष्ट्वरणीयस्य धनस्य लम्भकेन रथेन “चर्षणिप्राः चर्षणीनां मनुष्याणां कामैः पूरयिता सन् “अयम् एवेन्द्रः “ईयते गच्छति ।।


नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निषः॑ पिन्व वसु॒देया॑य पू॒र्वीः ।

अ॒प ओष॑धीरवि॒षा वना॑नि॒ गा अर्व॑तो॒ नॄनृ॒चसे॑ रिरीहि ॥५

नु । गृ॒णा॒नः । गृ॒ण॒ते । प्र॒त्न॒ । रा॒ज॒न् । इषः॑ । पि॒न्व॒ । व॒सु॒ऽदेया॑य । पू॒र्वीः ।

अ॒पः । ओष॑धीः । अ॒वि॒षा । वना॑नि । गाः । अर्व॑तः । नॄन् । ऋ॒चसे॑ । रि॒री॒हि॒ ॥५

नु। गृणानः । गृणते । प्रत्न । राजन् । इषः । पिन्व । वसुऽदेयय । पूर्वीः ।

अपः । ओषधीः । अविषा । वनानि । गाः । अर्वतः । नॄन् । ऋचसे । रिरीहि ॥ ५ ॥

हे “प्रत्न पुरातन “राजन् राजमानेन्द्र “गृणानः स्तूयमानस्त्वं “वसुदेयाय वसूनि धनानि त्वया देयानि यस्मै तादृशाय "गृणते स्तुवते "पूर्वीः बह्वीः “इषः अन्नानि “नु क्षिप्रं “पिन्व सिञ्च प्रयच्छेत्यर्थः । किंच “ऋचसे अर्चयित्रे स्तोत्रे “अपः वृष्टिलक्षणान्युदकानि “ओषधीः व्रीह्यादीन् “अविषा विषरहितानि रक्षकाणि वा “वनानि वृक्षजातानि चूतपनसादीनि “गा “अर्वतः अश्वान् “नॄन् मनुष्यांश्च कर्मकरान् “रिरीहि देहि ॥ ॥ ११ ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.३९&oldid=209205" इत्यस्माद् प्रतिप्राप्तम्