ऋग्वेदः सूक्तं ६.३४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.३३ ऋग्वेदः - मण्डल ६
सूक्तं ६.३४
शुनहोत्रो भारद्वाजः
सूक्तं ६.३५ →
दे. इन्द्रः। त्रिष्टुप्।


सं च त्वे जग्मुर्गिर इन्द्र पूर्वीर्वि च त्वद्यन्ति विभ्वो मनीषाः ।
पुरा नूनं च स्तुतय ऋषीणां पस्पृध्र इन्द्रे अध्युक्थार्का ॥१॥
पुरुहूतो यः पुरुगूर्त ऋभ्वाँ एकः पुरुप्रशस्तो अस्ति यज्ञैः ।
रथो न महे शवसे युजानोऽस्माभिरिन्द्रो अनुमाद्यो भूत् ॥२॥
न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः ।
यदि स्तोतारः शतं यत्सहस्रं गृणन्ति गिर्वणसं शं तदस्मै ॥३॥
अस्मा एतद्दिव्यर्चेव मासा मिमिक्ष इन्द्रे न्ययामि सोमः ।
जनं न धन्वन्नभि सं यदापः सत्रा वावृधुर्हवनानि यज्ञैः ॥४॥
अस्मा एतन्मह्याङ्गूषमस्मा इन्द्राय स्तोत्रं मतिभिरवाचि ।
असद्यथा महति वृत्रतूर्य इन्द्रो विश्वायुरविता वृधश्च ॥५॥


सायणभाष्यम्

‘सं च त्वे जग्मुः' इति पञ्चर्चमेकादशं सूक्तं शुनहोत्रस्यार्षं त्रैष्टुभमैन्द्रम् । ‘सं च त्वे' इत्यनुक्रान्तम् । तृतीये छान्दोमिकेऽहनीदमादिके द्वे सूक्ते । सूत्रितं च--- सं च त्वे जग्मुरिति सूक्ते' ( आश्व. श्रौ. ८. ७) इति । महाव्रतेऽपि निष्केवल्य उक्तो विनियोगः ।।


सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य॑न्ति वि॒भ्वो॑ मनी॒षाः ।

पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी॑णां पस्पृ॒ध्र इन्द्रे॒ अध्यु॑क्था॒र्का ॥१

सम् । च॒ । त्वे इति॑ । ज॒ग्मुः । गिरः॑ । इ॒न्द्र॒ । पू॒र्वीः । वि । च॒ । त्वत् । य॒न्ति॒ । वि॒ऽभ्वः॑ । म॒नी॒षाः ।

पु॒रा । नू॒नम् । च॒ । स्तु॒तयः॑ । ऋषी॑णाम् । प॒स्पृ॒ध्रे । इन्द्रे॑ । अधि॑ । उ॒क्थ॒ऽअ॒र्का ॥१

सम् । च । त्वे इति । जग्मुः । गिरः । इन्द्र । पूर्वीः । वि । च । त्वत् । यन्ति । विऽभ्वः । मनीषाः ।

पुरा । नूनम् । च । स्तुतयः । ऋषीणाम् । पस्पृध्रे । इन्द्रे । अधि । उक्थऽअर्का ॥१

हे "इन्द्र “त्वे त्वयि “पूर्वीः बह्व्यः “गिरः स्तुतयश्च “सं "जग्मुः संगच्छन्ते । “त्वत् त्वत्तः “विभ्वः विभवो विस्तृताः “मनीषाः स्तोतॄणां मतयश्च “वि “यन्ति विविधं निर्गच्छन्ति । शेषः परोक्षकृतः । “पुरा पूर्वस्मिन्काले “नूनम् अद्य “च "ऋषीणाम् अतीन्द्रियार्थदर्शिनां भरद्वाजादीनां “स्तुतयः स्तोत्राणि “इन्द्रे “अधि अधिकं “पस्पृध्रे अस्पर्धन्त । अहमहमिकयेन्द्रस्य स्तवने त्वरिता बभूवुरित्यर्थः । तथा “उक्थार्का । उक्थं शस्त्रम् । तद्रूपाण्यर्काणि अर्चनसाधनानि स्तोत्राणि च पस्पृधे अस्पर्धन्त ॥


पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒ एक॑ः पुरुप्रश॒स्तो अस्ति॑ य॒ज्ञैः ।

रथो॒ न म॒हे शव॑से युजा॒नो॒३॒॑ऽस्माभि॒रिन्द्रो॑ अनु॒माद्यो॑ भूत् ॥२

पु॒रु॒ऽहू॒तः । यः । पु॒रु॒ऽगू॒र्तः । ऋभ्वा॑ । एकः॑ । पु॒रु॒ऽप्र॒श॒स्तः । अस्ति॑ । य॒ज्ञैः ।

रथः॑ । न । म॒हे । शव॑से । यु॒जा॒नः । अ॒स्माभिः॑ । इन्द्रः॑ । अ॒नु॒ऽमाद्यः॑ । भू॒त् ॥२

पुरुऽहूतः । यः । पुरुऽगूर्तः । ऋभ्वा । एकः । पुरुऽप्रशस्तः । अस्ति । यज्ञैः ।

रथः । न । महे । शवसे । युजानः । अस्माभिः । इन्द्रः । अनुऽमाद्यः । भूत् ॥२

"पुरुहूतः बहुभिराहूतः “पुरुगूर्तः बहुभिरुद्यमितः “ऋभ्वा महान् “एकः प्रधानभूत एवंगुणविशिष्टः “यः इन्द्रः “यज्ञैः यष्टृभिः पुरुषैः यजनसाधनैः स्तोत्रैर्वा “पुरुप्रशस्तः “अस्ति बहुधा प्रशस्तः स्तुतो भवति सः “इन्द्रः “रथो “न रथ इव "महे महते “शवसे बलाय तदर्थं “युजानः अस्मत्स्तुतिभिर्युज्यमानः सन् "अस्माभिः स्तोतृभिः "अनुमाद्यो “भूत् सर्वदा स्तुत्यो भवतु ॥


न यं हिंस॑न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय॑न्तीः ।

यदि॑ स्तो॒तार॑ः श॒तं यत्स॒हस्रं॑ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ॥३

न । यम् । हिंस॑न्ति । धी॒तयः॑ । न । वाणीः॑ । इन्द्र॑म् । नक्ष॑न्ति । इत् । अ॒भि । व॒र्धय॑न्तीः ।

यदि॑ । स्तो॒तारः॑ । श॒तम् । यत् । स॒हस्र॑म् । गृ॒णन्ति॑ । गिर्व॑णसम् । शम् । तत् । अ॒स्मै॒ ॥३

न । यम् । हिंसन्ति । धीतयः । न । वाणीः । इन्द्रम् । नक्षन्ति । इत् । अभि । वर्धयन्तीः ।

यदि । स्तोतारः । शतम् । यत् । सहस्रम् । गृणन्ति । गिर्वणसम् । शम् । तत् । अस्मै ॥३

“यम् “इन्द्रं “धीतयः कर्माणि परिचरणानि “न “हिंसन्ति न बाधन्ते । “वाणीः वाण्यः स्तुतयश्च यं “न बाधन्ते । दातुमसमर्थः पुरुषोऽन्यकृतैः परिचरणैः स्तुतिभिश्च भृशं खिद्यते अस्य चेन्द्रस्य बहुधनत्वाद्दातृत्वाच्च तस्मिन् प्रयुज्यमानानि परिचरणानि स्तोत्राणि च बाधहेतवो नाभूवन्नित्यर्थः । किं तर्हीत्यत आह । तमिन्द्रं “वर्धयन्तीः वर्धयन्त्यः “अभि “नक्षन्ति अभिगच्छन्ति । अपि च “गिर्वणसं गिरां संभक्तारमिन्द्रं “शतं शतसंख्याकाः “स्तोतारः "यदि “गृणन्ति स्तुवन्ति । “यत् यदि च “सहस्रं सहस्रसंख्याकाः स्तोतारः स्तुवन्ति “तत् सर्वं स्तोत्रम् “अस्मै इन्द्राय “शं सुखकरं भवति ।।


अस्मा॑ ए॒तद्दि॒व्य१॒॑र्चेव॑ मा॒सा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोम॑ः ।

जनं॒ न धन्व॑न्न॒भि सं यदाप॑ः स॒त्रा वा॑वृधु॒र्हव॑नानि य॒ज्ञैः ॥४

अस्मै॑ । ए॒तत् । दि॒वि । अ॒र्चाऽइ॑व । मा॒सा । मि॒मि॒क्षः । इन्द्रे॑ । नि । अ॒या॒मि॒ । सोमः॑ ।

जन॑म् । न । धन्व॑न् । अ॒भि । सम् । यत् । आपः॑ । स॒त्रा । व॒वृ॒धुः॒ । हव॑नानि । य॒ज्ञैः ॥४

अस्मै । एतत् । दिवि । अर्चाऽइव । मासा । मिमिक्षः । इन्द्रे । नि । अयामि । सोमः ।

जनम् । न । धन्वन् । अभि । सम् । यत् । आपः । सत्रा । ववृधुः । हवनानि । यज्ञैः ॥४

“एतत् एतस्मिन् “दिवि दिवसे सौत्येऽहनि “अर्चेव अर्चनसाधनेन स्तोत्रेणेव “मासा मानेन ‘इन्द्राय त्वा वृत्रघ्ने' इत्यादिमन्त्रसाध्येन युक्तः “मिमिक्षः वसतीवर्येकधनाख्याभिरद्भिरासिक्तः “सोमः “अस्मै । विभक्तिव्यत्ययः । अस्मिन् “इन्द्रे “न्ययामि नियतोऽभूत् । यद्वा । अस्मै इन्द्रायैतत्स्तोत्रं ब्रवाणीति शेषः । दिवि द्युलोके अर्चेव अर्कः सूर्य इव मासा । लुप्तोपममेतत् । माति परिच्छिनत्तीति मासश्चन्द्रमाः । स इव मिमिक्षो वृष्ट्युदकानां सेक्ता य इन्द्रो वर्ततेऽस्मिन्निन्द्रेऽभिषुतः सोमो नियम्यते स्म । किंच तमिन्द्रं “यज्ञैः यजनसाधनैः पुरोडाशादिभिर्हविर्भिः सार्धं “हवनानि स्तोत्राणि “सत्रा सह “वावृधुः अवर्धयन् । तत्र दृष्टान्तः । “धन्वन् धन्वनि मरुदेशे “अभि अभिमुखं “सं “यत् सम्यग्यत्यो गच्छन्त्यः “आपः “जनं प्राणिनमिव । यथा मरदेश उपलभ्यमाना आपः प्राणिनं वर्धयन्ति तद्वत् ॥


अस्मा॑ ए॒तन्मह्या॑ङ्गू॒षम॑स्मा॒ इन्द्रा॑य स्तो॒त्रं म॒तिभि॑रवाचि ।

अस॒द्यथा॑ मह॒ति वृ॑त्र॒तूर्य॒ इन्द्रो॑ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ॥५

अस्मै॑ । ए॒तत् । महि॑ । आ॒ङ्गू॒षम् । अ॒स्मै॒ । इन्द्रा॑य । स्तो॒त्रम् । म॒तिऽभिः॑ । अ॒वा॒चि॒ ।

अस॑त् । यथा॑ । म॒ह॒ति । वृ॒त्र॒ऽतूर्ये॑ । इन्द्रः॑ । वि॒श्वऽआ॑युः । अ॒वि॒ता । वृ॒धः । च॒ ॥५

अस्मै । एतत् । महि । आङ्गूषम् । अस्मै । इन्द्राय । स्तोत्रम् । मतिऽभिः । अवाचि ।

असत् । यथा । महति । वृत्रऽतूर्ये । इन्द्रः । विश्वऽआयुः । अविता । वृधः । च ॥५

“अस्मै इन्द्राय “महि महत् “एतत् “आङ्गूषं स्तोत्रं “मतिभिः स्तोतृभिः "अवाचि उक्तमभूत् । “अस्मा “इन्द्राय “स्तोत्रम् इति पुनरुक्तिरादरार्था । “विश्वायुः सर्वत्र गन्ता सः “इन्द्रः “महति प्रभूते “वृत्रतूर्ये संग्रामे “यथा येन प्रकारेणास्माकम् "अविता रक्षकः “वृधः वर्धयिता “च “असत् भवेत् तथावाचीत्यन्वयः ॥ ॥ ६ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.३४&oldid=188371" इत्यस्माद् प्रतिप्राप्तम्