सामग्री पर जाएँ

ऋग्वेदः सूक्तं ६.४५

विकिस्रोतः तः
← सूक्तं ६.४४ ऋग्वेदः - मण्डल ६
सूक्तं ६.४५
शंयुर्बार्हस्पत्यः
सूक्तं ६.४६ →
दे. इन्द्रः, ३१-३३ बृबुस्तक्षा।गायत्री, २९ अतिनिचृत्, ३१ पादनिचृत्, ३३ अनुष्टुप्।


य आनयत्परावतः सुनीती तुर्वशं यदुम् ।
इन्द्रः स नो युवा सखा ॥१॥
अविप्रे चिद्वयो दधदनाशुना चिदर्वता ।
इन्द्रो जेता हितं धनम् ॥२॥
महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः ।
नास्य क्षीयन्त ऊतयः ॥३॥
सखायो ब्रह्मवाहसेऽर्चत प्र च गायत ।
स हि नः प्रमतिर्मही ॥४॥
त्वमेकस्य वृत्रहन्नविता द्वयोरसि ।
उतेदृशे यथा वयम् ॥५॥
नयसीद्वति द्विषः कृणोष्युक्थशंसिनः ।
नृभिः सुवीर उच्यसे ॥६॥
ब्रह्माणं ब्रह्मवाहसं गीर्भिः सखायमृग्मियम् ।
गां न दोहसे हुवे ॥७॥
यस्य विश्वानि हस्तयोरूचुर्वसूनि नि द्विता ।
वीरस्य पृतनाषहः ॥८॥
वि दृळ्हानि चिदद्रिवो जनानां शचीपते ।
वृह माया अनानत ॥९॥
तमु त्वा सत्य सोमपा इन्द्र वाजानां पते ।
अहूमहि श्रवस्यवः ॥१०॥
तमु त्वा यः पुरासिथ यो वा नूनं हिते धने ।
हव्यः स श्रुधी हवम् ॥११॥
धीभिरर्वद्भिरर्वतो वाजाँ इन्द्र श्रवाय्यान् ।
त्वया जेष्म हितं धनम् ॥१२॥
अभूरु वीर गिर्वणो महाँ इन्द्र धने हिते ।
भरे वितन्तसाय्यः ॥१३॥
या त ऊतिरमित्रहन्मक्षूजवस्तमासति ।
तया नो हिनुही रथम् ॥१४॥
स रथेन रथीतमोऽस्माकेनाभियुग्वना ।
जेषि जिष्णो हितं धनम् ॥१५॥
य एक इत्तमु ष्टुहि कृष्टीनां विचर्षणिः ।
पतिर्जज्ञे वृषक्रतुः ॥१६॥
यो गृणतामिदासिथापिरूती शिवः सखा ।
स त्वं न इन्द्र मृळय ॥१७॥
धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः ।
सासहीष्ठा अभि स्पृधः ॥१८॥
प्रत्नं रयीणां युजं सखायं कीरिचोदनम् ।
ब्रह्मवाहस्तमं हुवे ॥१९॥
स हि विश्वानि पार्थिवाँ एको वसूनि पत्यते ।
गिर्वणस्तमो अध्रिगुः ॥२०॥
स नो नियुद्भिरा पृण कामं वाजेभिरश्विभिः ।
गोमद्भिर्गोपते धृषत् ॥२१॥
तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
शं यद्गवे न शाकिने ॥२२॥
न घा वसुर्नि यमते दानं वाजस्य गोमतः ।
यत्सीमुप श्रवद्गिरः ॥२३॥
कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् ।
शचीभिरप नो वरत् ॥२४॥
इमा उ त्वा शतक्रतोऽभि प्र णोनुवुर्गिरः ।
इन्द्र वत्सं न मातरः ॥२५॥
दूणाशं सख्यं तव गौरसि वीर गव्यते ।
अश्वो अश्वायते भव ॥२६॥
स मन्दस्वा ह्यन्धसो राधसे तन्वा महे ।
न स्तोतारं निदे करः ॥२७॥
इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः ।
वत्सं गावो न धेनवः ॥२८॥
पुरूतमं पुरूणां स्तोतॄणां विवाचि ।
वाजेभिर्वाजयताम् ॥२९॥
अस्माकमिन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः ।
अस्मान्राये महे हिनु ॥३०॥
अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्नस्थात् ।
उरुः कक्षो न गाङ्ग्यः ॥३१॥
यस्य वायोरिव द्रवद्भद्रा रातिः सहस्रिणी ।
सद्यो दानाय मंहते ॥३२॥
तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः ।
बृबुं सहस्रदातमं सूरिं सहस्रसातमम् ॥३३॥


सायणभाष्यम्

‘य आनयत्' इति त्रयस्त्रिशदृचं द्वितीयं सूक्तं बृहस्पतिपुत्रस्य शंयोरार्षम् । “ पुरूतमम्' इत्येषातिनिचृत् “ त्रयः सप्तकाः पादनिचृत् मध्यमः षट्कश्चेदतिनिचृत्' इत्युक्तलक्षणात्” । त्रयस्त्रिंश्यनुष्टुप् शिष्टा गायत्र्यः । अधि बृबुः पणीनाम्' इत्यस्मिन्नन्त्ये तृचे बृबुर्नाम तक्षा स्तूयते । अतः स तृचस्तद्देवताकः । शिष्टास्त्रिंशदैन्द्र्यः । तथा चानुक्रान्तं-- य आनयत्त्रयस्त्रिंशद्गायत्रं पुरूतममतिनिचृदन्त्यानुष्टुप् तृचेऽन्त्ये बृबुस्तक्षा दैवतम्' इति । महाव्रतेऽपि निष्केवल्येऽन्त्यतृचवर्जमेतत्सूक्तम् । तथैव पञ्चमारण्यकं- य आनयत्परावत इति तिस्र उत्तमा उद्धरति ' ( ऐ. आ. ५. २. ५) इति ॥


य आन॑यत्परा॒वत॒ः सुनी॑ती तु॒र्वशं॒ यदु॑म् ।

इन्द्र॒ः स नो॒ युवा॒ सखा॑ ॥१

यः । आ । अन॑यत् । प॒रा॒ऽवतः॑ । सुऽनी॑ती । तु॒र्वश॑म् । यदु॑म् ।

इन्द्रः॑ । सः । नः॒ । युवा॑ । सखा॑ ॥१

यः । आ । अनयत् । पराऽवतः । सुऽनीती । तुर्वशम् । यदुम् ।

इन्द्रः । सः । नः । युवा । सखा ॥१

यः इन्द्रः "तुर्वशं “यदुं चैतत्संज्ञौ राजानौ शत्रुभिर्दूरदेशे प्रक्षिप्तौ “सुनीती सुनीत्या शोभनेन नयनेन “परावतः तस्माद्दूरदेशात् “आनयत् अनीतवान् “युवा तरुणः “सः “इन्द्रः “नः अस्माकं “सखा भवतु ।।


अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना॑ चि॒दर्व॑ता ।

इन्द्रो॒ जेता॑ हि॒तं धन॑म् ॥२

अ॒वि॒प्रे । चि॒त् । वयः॑ । दध॑त् । अ॒ना॒शुना॑ । चि॒त् । अर्व॑ता ।

इन्द्रः॑ । जेता॑ । हि॒तम् । धन॑म् ॥२

अविप्रे । चित् । वयः । दधत् । अनाशुना । चित् । अर्वता ।

इन्द्रः । जेता । हितम् । धनम् ॥२

“अविप्रे “चित् । विप्रः स्तोता। तद्विलक्षणेऽपि पुरुषे “वयः अन्नं “दधत् इन्द्रो धारयति ।। किमु वक्तव्यं स्तोतरि धारयतीति । सः “इन्द्रः “अनाशुना “चित् अक्षिप्रगमनेनापि “अर्वता अश्वेन “हितं शत्रुषु निहितं स्थापितं “धनं “जेता जयशीलो भवति ॥ जयतेस्ताच्छीलिकस्तृन् । अतो ‘न लोकव्यय° ' इति षष्ठीप्रतिषेधः ।।


म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः ।

नास्य॑ क्षीयन्त ऊ॒तय॑ः ॥३

म॒हीः । अ॒स्य॒ । प्रऽनी॑तयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः ।

न । अ॒स्य॒ । क्षी॒य॒न्ते॒ । ऊ॒तयः॑ ॥३

महीः । अस्य । प्रऽनीतयः । पूर्वीः । उत । प्रऽशस्तयः ।

न । अस्य । क्षीयन्ते । ऊतयः ॥३

“अस्य इन्द्रस्य “प्रणीतयः प्रकृष्टा नीतयः प्रापणानि “महीः मह्यो महत्यो भवन्ति । "उत अपि च “प्रशस्तयः प्रकृष्टाः स्तुतयः स्तोतृभिः क्रियमाणा: “पूर्वीः बह्व्यो भवन्ति । तथा “अस्य इन्द्रस्य “ऊतयः रक्षा: “न “क्षीयन्ते नापचीयन्ते । किन्तु सर्वदा वर्धन्त एव ।।


सखा॑यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत ।

स हि न॒ः प्रम॑तिर्म॒ही ॥४

सखा॑यः । ब्रह्म॑ऽवाहसे । अर्च॑त । प्र । च॒ । गा॒य॒त॒ ।

सः । हि । नः॒ । प्रऽम॑तिः । म॒ही ॥४

सखायः । ब्रह्मऽवाहसे । अर्चत । प्र । च । गायत ।

सः । हि । नः । प्रऽमतिः । मही ॥४

हे “सखायः समानख्यानाः स्तोतारः “ब्रह्मवाहसे ब्रह्मभिर्मन्त्रैर्वहनीयाय प्राप्तव्यायेन्द्राय “अर्चत शस्त्राणि शंसत । “प्र “गायत “च स्तोत्राणि । “स “हि स खल्विन्द्रः “नः अस्माकं "मही महती “प्रमतिः प्रकृष्टा बुद्धिः । ईदृश्या बुद्धेः प्रदातेत्यर्थः ।


त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो॑रसि ।

उ॒तेदृशे॒ यथा॑ व॒यम् ॥५

त्वम् । एक॑स्य । वृ॒त्र॒ऽह॒न् । अ॒वि॒ता । द्वयोः॑ । अ॒सि॒ ।

उ॒त । ई॒दृशे॑ । यथा॑ । व॒यम् ॥५

त्वम् । एकस्य । वृत्रऽहन् । अविता । द्वयोः । असि ।

उत । ईदृशे । यथा । वयम् ॥५

हे “वृत्रहन् वृत्राणां शत्रूणां हन्तरिन्द्र “त्वमेकस्य स्तोतुः “द्वयोः च स्तोत्रोः “अविता रक्षिता “असि । सर्वेषां स्तोतॄणां रक्षको भवसीत्यर्थः । “उत अपि च “ईदृशे जनेऽप्यविता भवसि “यथा यादृशाः “वयं त्वया रक्षिता बहुविधपुत्रपौत्रा अभूम । ईदृशस्यापि जनस्य त्वमेव रक्षको नान्य इत्यर्थः ॥ ॥ २१ ॥


नय॒सीद्वति॒ द्विष॑ः कृ॒णोष्यु॑क्थशं॒सिन॑ः ।

नृभि॑ः सु॒वीर॑ उच्यसे ॥६

नय॑सि । इत् । ऊं॒ इति॑ । अति॑ । द्विषः॑ । कृ॒णोषि॑ । उ॒क्थ॒ऽशं॒सिनः॑ ।

नृऽभिः॑ । सु॒ऽवीरः॑ । उ॒च्य॒से॒ ॥६

नयसि । इत् । ऊं इति । अति । द्विषः । कृणोषि । उक्थऽशंसिनः ।

नृऽभिः । सुऽवीरः । उच्यसे ॥६

हे इन्द्र “इत् त्वमेव “द्विषः द्वेष्टॄन् “अति “नयसि अस्मान्नयसि तारयसि । “उ इति पूरकः । तथा “उक्थशंसिनः उक्थानि शस्त्राणि शंसतः स्तोतॄनस्मान् “कृणोषि समृद्धान् करोषि । यस्मात् त्वं “नृभिः स्तुतीनां नेतृभिः पुरुषैः “सुवीरः शोभनैर्वीरैः पुत्रपौत्रादिभिः स्तोतृभ्यो दातव्यैरुपेत इति “उच्यसे स्तूयसे अतस्तानप्यस्मभ्यं प्रयच्छेति शेषः ॥


ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा॑यमृ॒ग्मिय॑म् ।

गां न दो॒हसे॑ हुवे ॥७

ब्र॒ह्माण॑म् । ब्रह्म॑ऽवाहसम् । गीः॒ऽभिः । सखा॑यम् । ऋ॒ग्मिय॑म् ।

गाम् । न । दो॒हसे॑ । हु॒वे॒ ॥७

ब्रह्माणम् । ब्रह्मऽवाहसम् । गीःऽभिः । सखायम् । ऋग्मियम् ।

गाम् । न । दोहसे । हुवे ॥७

“ब्रह्माणं परिवृढं “ब्रह्मवाहसं ब्रह्मभिः स्तुतिरूपैर्मन्त्रैर्वहनीयं “सखायम् अस्माकं सखिभूतम् “ऋग्मियम् । ऋग्मा ऋचः । तदर्हम् । स्तुत्यर्हमित्यर्थः । एवंभूतमिन्द्रं "दोहसे दोग्धुं “गां “न गामिव “गीर्भिः स्तुतिभिः “हुवे आह्वयाम्यस्मदीयान् कामान् दोग्धुम् ॥


यस्य॒ विश्वा॑नि॒ हस्त॑योरू॒चुर्वसू॑नि॒ नि द्वि॒ता ।

वी॒रस्य॑ पृतना॒षह॑ः ॥८

यस्य॑ । विश्वा॑नि । हस्त॑योः । ऊ॒चुः । वसू॑नि । नि । द्वि॒ता ।

वी॒रस्य॑ । पृ॒त॒ना॒ऽसहः॑ ॥८

यस्य । विश्वानि । हस्तयोः । ऊचुः । वसूनि । नि । द्विता ।

वीरस्य । पृतनाऽसहः ॥८

“वीरस्य वीर्यवतः “पृतनासहः । पृतनाः शत्रुसेनाः । तासामभिभवितुः “यस्य इन्द्रस्य “हस्तयोः बाह्रोः “विश्वानि सर्वाणि “द्विता दिव्यपार्थिवरूपेण द्वैधं वर्तमानानि “वसूनि विद्यन्ते इति “नि “ऊचुः ऋषयो नितरां वदन्ति तमिन्द्रं हुव इति पूर्वत्र संबन्धः ॥


वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना॑नां शचीपते ।

वृ॒ह मा॒या अ॑नानत ॥९

वि । दृ॒ळ्हानि॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । जना॑नाम् । श॒ची॒ऽप॒ते॒ ।

वृ॒ह । मा॒याः । अ॒ना॒न॒त॒ ॥९

वि । दृळ्हानि । चित् । अद्रिऽवः । जनानाम् । शचीऽपते ।

वृह । मायाः । अनानत ॥९

हे “अद्रिवः । आदृणात्यनेनेत्यद्रिर्वज्रः । तद्वन् “शचीपते इन्द्र “जनानां शत्रूणां “दृळ्हानि "चित् दृढानि स्थिराण्यपि पुराणि बलानि वा “वि “वृह विभिन्धि । विविधमुन्मूलयेत्यर्थः । हे "अनानत अप्रह्वीभूत सर्वोच्छ्रितेन्द्र “मायाः च शत्रुभिर्निर्मिता वि वृह विनाशय ॥


तमु॑ त्वा सत्य सोमपा॒ इन्द्र॑ वाजानां पते ।

अहू॑महि श्रव॒स्यव॑ः ॥१०

तम् । ऊं॒ इति॑ । त्वा॒ । स॒त्य॒ । सो॒म॒ऽपाः॒ । इन्द्र॑ । वा॒जा॒ना॒म् । प॒ते॒ ।

अहू॑महि । श्र॒व॒स्यवः॑ ॥१०

तम् । ऊं इति । त्वा । सत्य । सोमऽपाः । इन्द्र । वाजानाम् । पते ।

अहूमहि । श्रवस्यवः ॥१०

हे “सत्य अवितथस्वभाव “सोमपाः सोमस्य पातर्हे “वाजानां “पते अन्नानां पालयितरेवंभूत हे “इन्द्र “श्रवस्यवः श्रवोऽन्नमात्मन इच्छन्तो वयं “तमु “त्वा तादृशं त्वामेव अहूमहि आह्वयामः स्तुम इत्यर्थः ॥ ॥ २२ ॥


तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा॑ नू॒नं हि॒ते धने॑ ।

हव्य॒ः स श्रु॑धी॒ हव॑म् ॥११

तम् । ऊं॒ इति॑ । त्वा॒ । यः । पु॒रा । आसि॑थ । यः । वा॒ । नू॒नम् । हि॒ते । धने॑ ।

हव्यः॑ । सः । श्रु॒धि॒ । हव॑म् ॥११

तम् । ऊं इति । त्वा । यः । पुरा । आसिथ । यः । वा । नूनम् । हिते । धने ।

हव्यः । सः । श्रुधि । हवम् ॥११

हे इन्द्र “तमु “त्वा तमेव त्वां स्तुम इति शेषः । “यः त्वं “पुरा पूर्वस्मिन् काले “हव्यः ह्वातव्यः “आसिथ बभूविथ धनलाभार्थम् । “यो “वा यश्च त्वं “हिते शत्रुषु निहिते “धने निमित्तभूते सति "नूनम् अद्यापि हव्यः ह्वातव्यो बभूविथ “सः त्वमस्मदीयं “हवं स्तोत्रं “श्रुधि शृणु ॥


धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ॑ इन्द्र श्र॒वाय्या॑न् ।

त्वया॑ जेष्म हि॒तं धन॑म् ॥१२

धी॒भिः । अर्व॑त्ऽभिः । अर्व॑तः । वाजा॑न् । इ॒न्द्र॒ । श्र॒वाय्या॑न् ।

त्वया॑ । जे॒ष्म॒ । हि॒तम् । धन॑म् ॥१२

धीभिः । अर्वत्ऽभिः । अर्वतः । वाजान् । इन्द्र । श्रवाय्यान् ।

त्वया । जेष्म । हितम् । धनम् ॥१२

हे "इन्द्र “धीभिः स्तुतिभिस्त्वद्विषयाभिः प्रीतेन “त्वया अनुगृहीता वयम् “अर्वद्भिः अस्मदीयैः अश्वैः “अर्वतः शत्रुसंबन्धिनोऽश्वान् “श्रवाय्यान् श्रवणीयान् प्रशस्यान् "वाजान् अन्नानि च “हितं शत्रुषु निहितं “धनं च "जेष्म त्वदनुग्रहाज्जयेम ॥


अभू॑रु वीर गिर्वणो म॒हाँ इ॑न्द्र॒ धने॑ हि॒ते ।

भरे॑ वितन्त॒साय्य॑ः ॥१३

अभूः॑ । ऊं॒ इति॑ । वी॒र॒ । गि॒र्व॒णः॒ । म॒हान् । इ॒न्द्र॒ । धने॑ । हि॒ते ।

भरे॑ । वि॒त॒न्त॒साय्यः॑ ॥१३

अभूः । ऊं इति । वीर । गिर्वणः । महान् । इन्द्र । धने । हिते ।

भरे । वितन्तसाय्यः ॥१३

हे “वीर विविधमीरयितः शत्रूणां हे "गिर्वणः गीर्भिर्वननीय “इन्द्र “हिते शत्रुषु निहिते “धने निमित्तभूते सति “महान् प्रवृद्धस्त्वं “भरे संग्रामे “वितन्तसाय्यः शत्रूणां जेता “अभूः ॥ तन्तस इति धातुर्जयार्थः कण्ड्वादौ पठ्यते । तस्मात् व्युपसृष्टादौणादिकः कर्तर्याय्यप्रत्ययः ॥


या त॑ ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति ।

तया॑ नो हिनुही॒ रथ॑म् ॥१४

या । ते॒ । ऊ॒तिः । अ॒मि॒त्र॒ऽह॒न् । म॒क्षुज॑वःऽतमा । अस॑ति ।

तया॑ । नः॒ । हि॒नु॒हि॒ । रथ॑म् ॥१४

या । ते । ऊतिः । अमित्रऽहन् । मक्षुजवःऽतमा । असति ।

तया । नः । हिनुहि । रथम् ॥१४

हे “अमित्रहन् अमित्राणां शत्रूणां हन्तरिन्द्र “ते त्वदीया “मक्षुजवस्तमा अतिशयेन शीघ्रजवा या “ऊतिः गतिः "असति अस्ति “तया गत्या “नः अस्माकं रथं “हिनुहि प्रेरय शत्रुजयार्थं शीघ्रं गमय ।


स रथे॑न र॒थीत॑मो॒ऽस्माके॑नाभि॒युग्व॑ना ।

जेषि॑ जिष्णो हि॒तं धन॑म् ॥१५

सः । रथे॑न । र॒थिऽत॑मः । अ॒स्माके॑न । अ॒भि॒ऽयुग्व॑ना ।

जेषि॑ । जि॒ष्णो॒ इति॑ । हि॒तम् । धन॑म् ॥१५

सः । रथेन । रथिऽतमः । अस्माकेन । अभिऽयुग्वना ।

जेषि । जिष्णो इति । हितम् । धनम् ॥१५

हे “जिष्णो जयशीलेन्द्र “रथीतमः अतिशयेन रथी महारथः “सः त्वम् “अस्माकेन अस्मदीयेन “अभियुग्वना अभियोक्त्रा शत्रूणामभिभवित्रा “रथेन “हितं शत्रुषु निहितं “धनं “जेषि अस्मदर्थं जय ॥ ॥ २३ ॥


य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः ।

पति॑र्ज॒ज्ञे वृष॑क्रतुः ॥१६

यः । एकः॑ । इत् । तम् । ऊं॒ इति॑ । स्तु॒हि॒ । कृ॒ष्टी॒नाम् । विऽच॑र्षणिः ।

पतिः॑ । ज॒ज्ञे । वृष॑ऽक्रतुः ॥१६

यः । एकः । इत् । तम् । ऊं इति । स्तुहि । कृष्टीनाम् । विऽचर्षणिः ।

पतिः । जज्ञे । वृषऽक्रतुः ॥१६

“विचर्षणिः विशेषेण सर्वस्य द्रष्टा “वृषक्रतुः वर्षकर्मा “यः इन्द्रः “एक “इत् एक एव “कृष्टीनां प्रजानां “पतिः अधिपतिः "जज्ञे अजायत नान्यः कश्चित् “तमु तमेवेन्द्रं हे स्तोतः “स्तुहि ॥


यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा॑ ।

स त्वं न॑ इन्द्र मृळय ॥१७

यः । गृ॒ण॒ताम् । इत् । आसि॑थ । आ॒पिः । ऊ॒ती । शि॒वः । सखा॑ ।

सः । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥१७

यः । गृणताम् । इत् । आसिथ । आपिः । ऊती । शिवः । सखा ।

सः । त्वम् । नः । इन्द्र । मृळय ॥१७

हे इन्द्र “यः त्वम् “ऊती ऊत्या रक्षया “शिवः सुखकरोऽत एव “सखा मित्रभूतश्च सन् “गृणतामित् स्तुवतामस्माकमेव “आपिः बन्धुः “आसिथ पुरा बभूविथ “सः तादृशः “त्वं “नः अस्मान् इदानीं “मृळय सुखय ॥


धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या॑य वज्रिवः ।

सा॒स॒ही॒ष्ठा अ॒भि स्पृध॑ः ॥१८

धि॒ष्व । वज्र॑म् । गभ॑स्त्योः । र॒क्षः॒ऽहत्या॑य । व॒ज्रि॒ऽवः॒ ।

स॒स॒ही॒ष्ठाः । अ॒भि । स्पृधः॑ ॥१८

धिष्व । वज्रम् । गभस्त्योः । रक्षःऽहत्याय । वज्रिऽवः ।

ससहीष्ठाः । अभि । स्पृधः ॥१८

हे “वज्रिवः वज्रवन्निन्द्र “गभस्त्योः आत्मीययोर्हस्तयोः “वज्रं कुलिशं “धिष्व धारय । किमर्थम् । “रक्षोहत्याय रक्षसां हननार्थम् । धृत्वा च "स्पृधः स्पर्धमानाः “अभि अभिगन्त्रीरासुरीः सेनाः “ससहीष्ठाः अत्यर्थमभिभव ॥


प्र॒त्नं र॑यी॒णां युजं॒ सखा॑यं कीरि॒चोद॑नम् ।

ब्रह्म॑वाहस्तमं हुवे ॥१९

प्र॒त्नम् । र॒यी॒णाम् । युज॑म् । सखा॑यम् । की॒रि॒ऽचोद॑नम् ।

ब्रह्म॑ऽवाहःऽतमम् । हु॒वे॒ ॥१९

प्रत्नम् । रयीणाम् । युजम् । सखायम् । कीरिऽचोदनम् ।

ब्रह्मऽवाहःऽतमम् । हुवे ॥१९

“प्रत्नं चिरंतनं सर्वेषामाद्यं “रयीणां धनानां “युजं योजयितारं दातारं “सखायं मित्रभूतं “कीरिचोदनं कीरीणां स्तोतॄणां चोदयितारं “ब्रह्मवाहस्तमम् अतिशयेन ब्रह्मभिर्मन्त्रैर्वहनीयमेवंविधमिन्द्रं "हुवे आह्वयामि ॥


स हि विश्वा॑नि॒ पार्थि॑वाँ॒ एको॒ वसू॑नि॒ पत्य॑ते ।

गिर्व॑णस्तमो॒ अध्रि॑गुः ॥२०

सः । हि । विश्वा॑नि । पार्थि॑वा । एकः॑ । वसू॑नि । पत्य॑ते ।

गिर्व॑णःऽतमः । अध्रि॑ऽगुः ॥२०

सः । हि । विश्वानि । पार्थिवा । एकः । वसूनि । पत्यते ।

गिर्वणःऽतमः । अध्रिऽगुः ॥२०

“स “हि स खल्विन्द्रः “विश्वानि सर्वाणि "पार्थिवा पृथिव्यां भवानि “वसूनि धनानि “एकः एव "पत्यते ईष्टे नान्यः कश्चित् । पत्यतिरैश्वर्यकर्मा । कीदृश इन्द्रः । “गिर्वणस्तमः अतिशयेन गीर्भिः स्तुतिभिः संभजनीयः अध्रिगुः अधृतगमनः । अप्रतिहतगतिरित्यर्थः ॥ ॥ २४ ॥


स नो॑ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे॑भिर॒श्विभि॑ः ।

गोम॑द्भिर्गोपते धृ॒षत् ॥२१

सः । नः॒ । नि॒युत्ऽभिः॑ । आ । पृ॒ण॒ । काम॑म् । वाजे॑भिः । अ॒श्विऽभिः॑ ।

गोम॑त्ऽभिः । गो॒ऽप॒ते॒ । धृ॒षत् ॥२१

सः । नः । नियुत्ऽभिः । आ । पृण । कामम् । वाजेभिः । अश्विऽभिः ।

गोमत्ऽभिः । गोऽपते । धृषत् ॥२१

हे “गोपते गवां पालयितः “सः त्वं “नः अस्माकं “कामं “नियुद्भिः वडवाभिः “धृषत् धृष्टं दारिद्र्यनाशनसमर्थं यथा भवति तथा “आ “पृण आपूरयः । यद्वा धृषदितीन्द्रविशेषणम् । शत्रूणां धर्षकस्त्वमित्यर्थः । तथा “गोमद्भिः बहुभिर्गोभिर्युक्तैः “अश्विभिः बहुभिरश्वैरुपेतैर्वाजैरन्नैश्चास्मदीयं काममापूरय ।।


तद्वो॑ गाय सु॒ते सचा॑ पुरुहू॒ताय॒ सत्व॑ने ।

शं यद्गवे॒ न शा॒किने॑ ॥२२

तत् । वः॒ । गा॒य॒ । सु॒ते । सचा॑ । पु॒रु॒ऽहू॒ताय॑ । सत्व॑ने ।

शम् । यत् । गवे॑ । न । शा॒किने॑ ॥२२

तत् । वः । गाय । सुते । सचा । पुरुऽहूताय । सत्वने ।

शम् । यत् । गवे । न । शाकिने ॥२२

हे स्तोतारः “वः यूयं “सुते अभिषुते सोमे सति “पुरुहूताय बहुभिर्यजमानैराहूताय “सत्वने शत्रूणां सादयित्रे धनानां वा सनित्रे दात्रे इन्द्राय “तत् स्तोत्रं "सचा सह संहता भूत्वा “गाय गायत । “यत् स्तोत्रं “शाकिने शक्तिमते इन्द्राय “शं सुखकरं भवति “गवे “न । यथा गवे यवसं सुखकरं तद्वदित्यर्थः ॥


न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः ।

यत्सी॒मुप॒ श्रव॒द्गिर॑ः ॥२३

न । घ॒ । वसुः॑ । नि । य॒म॒ते॒ । दा॒नम् । वाज॑स्य । गोऽम॑तः ।

यत् । सी॒म् । उप॑ । श्रव॑त् । गिरः॑ ॥२३

न । घ । वसुः । नि । यमते । दानम् । वाजस्य । गोऽमतः ।

यत् । सीम् । उप । श्रवत् । गिरः ॥२३

“वसुः वासयिता स इन्द्रः “गोमतः बहुभिर्गोभिर्युक्तस्य “वाजस्य अन्नस्य बलस्य वा “दानं प्रदानं “न “घ न खलु “नि "यमते नियच्छति उपरतं करोति । “यत् यदि “सीम् इमाः “गिरः अस्मदीयाः स्तुतीः “उप “श्रवत् उपशृणुयात् । स्तोत्रश्रवणे सति सर्वदा ददातीत्यर्थः ॥


कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम॑न्तं दस्यु॒हा गम॑त् ।

शची॑भि॒रप॑ नो वरत् ॥२४

कु॒वित्ऽस॑स्य । प्र । हि । व्र॒जम् । गोऽम॑न्तम् । द॒स्यु॒ऽहा । गम॑त् ।

शची॑भिः । अप॑ । नः॒ । व॒र॒त् ॥२४

कुवित्ऽसस्य । प्र । हि । व्रजम् । गोऽमन्तम् । दस्युऽहा । गमत् ।

शचीभिः । अप । नः । वरत् ॥२४

"कुवित्सस्य । कुविद्बहुशः स्यति हिनस्तीति कुवित्सो नाम कश्चित् । तस्य स्वभूतं “गोमन्तं बहुभिर्गोभिर्युक्तं “व्रतं गोष्ठं “दस्युहा दस्यूनामुपक्षपयितॄणां हन्तेन्द्रः “प्र “गमत् प्रकर्षेण गच्छति । । “हि यस्मादेवं तस्मात् “शचीभिः आत्मीयैः कर्मभिः प्रज्ञाभिर्वा “नः अस्माकं ता गा “अप “वरत् निगूढास्ता अपावृणोत् ।।


इ॒मा उ॑ त्वा शतक्रतो॒ऽभि प्र णो॑नुवु॒र्गिर॑ः ।

इन्द्र॑ व॒त्सं न मा॒तर॑ः ॥२५

इ॒माः । ऊं॒ इति॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । अ॒भि । प्र । नो॒नु॒वुः॒ । गिरः॑ ।

इन्द्र॑ । व॒त्सम् । न । मा॒तरः॑ ॥२५

इमाः । ऊं इति । त्वा । शतक्रतो इति शतऽक्रतो । अभि । प्र । नोनुवुः । गिरः ।

इन्द्र । वत्सम् । न । मातरः ॥२५

हे “शतक्रतो बहुविधकर्मन् बहुविधप्रज्ञ वा “इन्द्र “त्वा त्वाम् “अभि “इमाः अस्मदीयाः “गिरः स्तुतयः “प्र “णोनुवुः प्रकर्षेण पुनः पुनर्गच्छन्ति । नौतिरत्र गतिकर्मा । तत्र दृष्टान्तः । “वत्सं “न “मातरः । यथा मातरो गावो गृहे वर्तमानं वत्सं शीघ्रमभिगच्छन्ति तद्वत् । यद्वा । अस्मदीया वाचस्त्वाम् अभि नोनुवुः अभितः शब्दयन्ति स्तुवन्ति । यथा गावो वत्समभिलक्ष्य हम्भारवं कुर्वन्ति तद्वत् ॥ ॥ २५ ।।


दू॒णाशं॑ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते ।

अश्वो॑ अश्वाय॒ते भ॑व ॥२६

दुः॒ऽनश॑म् । स॒ख्यम् । तव॑ । गौः । अ॒सि॒ । वी॒र॒ । ग॒व्य॒ते ।

अश्वः॑ । अ॒श्व॒ऽय॒ते । भ॒व॒ ॥२६

दुःऽनशम् । सख्यम् । तव । गौः । असि । वीर । गव्यते ।

अश्वः । अश्वऽयते । भव ॥२६

हे इन्द्र “तव त्वदीयं “सख्यं सखित्वं “दूणाशं दुर्णाशं नाशयितुमशक्यम् । अतिदृढमित्यर्थः । अतो हे वीर वीरयितरिन्द्र गव्यते गामात्मन इच्छते त्वं “गौरसि गवां प्रदाता भवसि । उपचारात् कारणे कार्यशब्दः । तथा “अश्वायते अश्वानात्मन इच्छते “अश्वः “भव अश्वप्रदो भवसि ।।


स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा॑ म॒हे ।

न स्तो॒तारं॑ नि॒दे क॑रः ॥२७

सः । म॒न्द॒स्व॒ । हि । अन्ध॑सः । राध॑से । त॒न्वा॑ । म॒हे ।

न । स्तो॒तार॑म् । नि॒दे । क॒रः॒ ॥२७

सः । मन्दस्व । हि । अन्धसः । राधसे । तन्वा । महे ।

न । स्तोतारम् । निदे । करः ॥२७

हे इन्द्र 'सः तादृशस्त्वम् “अन्धसः सोमस्य पानेन हृष्टया “तन्वा आत्मीयेन शरीरेण “मन्दस्व मोदस्व । किमर्थम् । “महे महते “राधसे धनार्थम् । “हि पूरणः । अपि च त्वदीयं “स्तोतारं “निदे निन्दकाय तस्य वशं “न “करः न कुर्याः ।।


इ॒मा उ॑ त्वा सु॒तेसु॑ते॒ नक्ष॑न्ते गिर्वणो॒ गिर॑ः ।

व॒त्सं गावो॒ न धे॒नव॑ः ॥२८

इ॒माः । ऊं॒ इति॑ । त्वा॒ । सु॒तेऽसु॑ते । नक्ष॑न्ते । गि॒र्व॒णः॒ । गिरः॑ ।

व॒त्सम् । गावः॑ । न । धे॒नवः॑ ॥२८

इमाः । ऊं इति । त्वा । सुतेऽसुते । नक्षन्ते । गिर्वणः । गिरः ।

वत्सम् । गावः । न । धेनवः ॥२८

हे "गिर्वणः गीर्भिर्वननीयेन्द्र “सुतेसुते सोमेऽभिषुते अभिषुते सति “इमाः अस्मदीयाः “गिरः स्तुतयः “त्वा त्वां “नक्षन्ते व्याप्नुवन्ति । “धेनवः दोग्ध्र्यः “गावो “न गाव इव “वत्सम् । यथा शीघ्रं वत्सं व्याप्नुवन्ति तद्वत् ॥


पु॒रू॒तमं॑ पुरू॒णां स्तो॑तॄ॒णां विवा॑चि ।

वाजे॑भिर्वाजय॒ताम् ॥२९

पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । स्तो॒तॄ॒णाम् । विऽवा॑चि ।

वाजे॑भिः । वा॒ज॒ऽय॒ताम् ॥२९

पुरुऽतमम् । पुरूणाम् । स्तोतॄणाम् । विऽवाचि ।

वाजेभिः । वाजऽयताम् ॥२९

हे इन्द्र “पुरुतमं पुरूणां बहूनां शत्रूणां तमयितारं ग्लपयितारं त्वां “पुरूणां बहूनां “स्तोतॄणाम् अस्माकं स्तुतिः प्राप्नोत्विति शेषः । कीदृशानाम् । “विवाचि विविधाः स्तुतशस्त्रात्मिका वाचो यस्मिन् यज्ञे तस्मिन् “वाजेभिः वाजैर्हविर्लक्षणैरन्नैः “वाजयतां वाजवन्तं बलवन्तं वा त्वां कुर्वताम् ॥


अ॒स्माक॑मिन्द्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः ।

अ॒स्मान्रा॒ये म॒हे हि॑नु ॥३०

अ॒स्माक॑म् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । स्तोमः॑ । वाहि॑ष्ठः । अन्त॑मः ।

अ॒स्मान् । रा॒ये । म॒हे । हि॒नु॒ ॥३०

अस्माकम् । इन्द्र । भूतु । ते । स्तोमः । वाहिष्ठः । अन्तमः ।

अस्मान् । राये । महे । हिनु ॥३०

हे “इन्द्र “वाहिष्ठः वोढ़ृतमः “अस्माकं “स्तोमः स्तोत्रं “ते तव "अन्तमः अन्तिकतमः “भूतु भवतु । त्वं च "अस्मान् “महे महते “राये धनाय “हिनु प्रेरय ।।


अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् ।

उ॒रुः कक्षो॒ न गा॒ङ्ग्यः ॥३१

अधि॑ । बृ॒बुः । प॒णी॒नाम् । वर्षि॑ष्ठे । मू॒र्धन् । अ॒स्था॒त् ।

उ॒रुः । कक्षः॑ । न । गा॒ङ्ग्यः ॥३१

अधि । बृबुः । पणीनाम् । वर्षिष्ठे । मूर्धन् । अस्थात् ।

उरुः । कक्षः । न । गाङ्ग्यः ॥३१

बृबुर्नाम पणीनां तक्षा । तत्सकाशाल्लब्धधनो भरद्वाजस्तदीयं दानमनेन तृचेनास्तौत् । एतच्च मनुना स्मर्यते–' भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने । बह्वीर्गाः प्रतिजग्राह बृबोस्तक्ष्णो महायशाः' (मनु. १०. १०७) इति ॥ पणनात् पणयो वणिज एतत्संज्ञा असुरा वा । तेषां तक्षा बृबुः "वर्षिष्ठे “मूर्धन् मूर्धनि मूर्धवदुच्छ्रिते स्थले “अधि “अस्थात् अधिष्ठितोऽभूत् “गाङ्ग्यः गङ्गायाः कूले उन्नते भवः “कक्षो "न कक्ष इव “उरुः विस्तीर्णः सन् । जातितो हीनोऽपि दातृत्वात् सर्वत्र श्रेष्ठो भवतीत्यर्थः ॥


यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑ ।

स॒द्यो दा॒नाय॒ मंह॑ते ॥३२

यस्य॑ । वा॒योःऽइ॑व । द्र॒वत् । भ॒द्रा । रा॒तिः । स॒ह॒स्रिणी॑ ।

स॒द्यः । दा॒नाय॑ । मंह॑ते ॥३२

यस्य । वायोःऽइव । द्रवत् । भद्रा । रातिः । सहस्रिणी ।

सद्यः । दानाय । मंहते ॥३२

“वायोरिव “द्रवत् क्षिप्रगामिनः “यस्य बृबोः “भद्रा कल्याणी “सहस्रिणी सहस्रसंख्यायुक्ता “रातिः दानं “सद्यः स्तुतिसमय एव “दानाय दानकामाय याचमानाय मह्यं “मंहते अपेक्षितं धनं ददाति तं बृबुमित्युत्तरस्यामृचि संबन्धः ॥


तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रव॑ः ।

बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम् ॥३३

तत् । सु । नः॒ । विश्वे॑ । अ॒र्यः । आ । सदा॑ । गृ॒ण॒न्ति॒ । का॒रवः॑ ।

बृ॒बुम् । स॒ह॒स्र॒ऽदात॑मम् । सू॒रिम् । स॒ह॒स्र॒ऽसात॑मम् ॥३३

तत् । सु । नः । विश्वे । अर्यः । आ । सदा । गृणन्ति । कारवः ।

बृबुम् । सहस्रऽदातमम् । सूरिम् । सहस्रऽसातमम् ॥३३

तत् तं "बृबुं “नः अस्मदीया: “विश्वे सर्वे “अर्यः स्तुतीनामीरयितारः “कारवः स्तोतारः “सदा “सु सुष्ठु “आ गृणन्ति अभिगृणन्ति अभिष्टुवन्ति । कीदृशम् । “सहस्रदातमम् अतिशयेन सहस्रसंख्यस्य धनस्य दातारं “सूरिं प्राज्ञं यद्वा प्रेरयितारं "सहस्रसातमम् अतिशयेन सहस्रसंख्यस्य स्तोत्रस्य धनस्य वा संभक्तारम् ॥ ॥ २६ ॥


टिप्पणी

६.४५.२२ तद्वो गाय सुते सचा इति

द्र. मार्गीयवम् (ऊहगानम्), मार्गीयवम् (ग्रामगेयः)


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.४५&oldid=273533" इत्यस्माद् प्रतिप्राप्तम्