ऋग्वेदः सूक्तं ६.२५
← सूक्तं ६.२४ | ऋग्वेदः - मण्डल ६ सूक्तं ६.२५ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.२६ → |
दे. इन्द्रः। त्रिष्टुप् |
या त ऊतिरवमा या परमा या मध्यमेन्द्र शुष्मिन्नस्ति ।
ताभिरू षु वृत्रहत्येऽवीर्न एभिश्च वाजैर्महान्न उग्र ॥१॥
आभि स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिन्द्र ।
आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽव तारीर्दासीः ॥२॥
इन्द्र जामय उत येऽजामयोऽर्वाचीनासो वनुषो युयुज्रे ।
त्वमेषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः ॥३॥
शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत्कृण्वैते ।
तोके वा गोषु तनये यदप्सु वि क्रन्दसी उर्वरासु ब्रवैते ॥४॥
नहि त्वा शूरो न तुरो न धृष्णुर्न त्वा योधो मन्यमानो युयोध ।
इन्द्र नकिष्ट्वा प्रत्यस्त्येषां विश्वा जातान्यभ्यसि तानि ॥५॥
स पत्यत उभयोर्नृम्णमयोर्यदी वेधसः समिथे हवन्ते ।
वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते ॥६॥
अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता ।
अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ॥७॥
अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनु वृत्रहत्ये ।
अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषह्ये ॥८॥
एवा न स्पृधः समजा समत्स्विन्द्र रारन्धि मिथतीरदेवीः ।
विद्याम वस्तोरवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम् ॥९॥
सायणभाष्यम्
‘ या त ऊतिः' इति नवर्चं द्वितीयं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं-- ‘ या ते नव' इति । पृष्ठ्याभिप्लवषडहयोर्द्वितीयेऽहनीदं सूक्तं निष्केवल्यनिविद्धानम् । सूत्रितं च -- ’ या त ऊतिरवमेति मध्यंदिनः ' (आश्व. श्रौ. ७. ६) इति ॥
या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेन्द्र॑ शुष्मि॒न्नस्ति॑ ।
ताभि॑रू॒ षु वृ॑त्र॒हत्ये॑ऽवीर्न ए॒भिश्च॒ वाजै॑र्म॒हान्न॑ उग्र ॥१
या । ते॒ । ऊ॒तिः । अ॒व॒मा । या । प॒र॒मा । या । म॒ध्य॒मा । इ॒न्द्र॒ । शु॒ष्मि॒न् । अस्ति॑ ।
ताभिः॑ । ऊं॒ इति॑ । सु । वृ॒त्र॒ऽहत्ये॑ । अ॒वीः॒ । नः॒ । ए॒भिः । च॒ । वाजैः॑ । म॒हान् । नः॒ । उ॒ग्र॒ ॥१
या । ते । ऊतिः । अवमा । या । परमा । या । मध्यमा । इन्द्र । शुष्मिन् । अस्ति ।
ताभिः । ऊं इति । सु । वृत्रऽहत्ये । अवीः । नः । एभिः । च । वाजैः । महान् । नः । उग्र ॥१
हे “शुष्मिन् बलवन् “इन्द्र “ते त्वदीया “या “ऊतिः या रक्षा “अवमा अधमा “अस्ति । “या “परमा उत्कृष्टास्ति । "या “मध्यमा अस्ति । “ताभिः ऊतिभिः “वृत्रहत्ये युद्धे “नः अस्मान् "सु अत्यन्तम् “अवीः पालय । किंच हे “उग्र उद्गूर्णेन्द्र “महान् त्वम् “एभिः भोज्यसाधनैः “वाजैः अन्नैः “च “नः अस्मान् संयोजयेति शेषः ।
आभि॒ः स्पृधो॑ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र ।
आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑ची॒रार्या॑य॒ विशोऽव॑ तारी॒र्दासी॑ः ॥२
आभिः॑ । स्पृधः॑ । मि॒थ॒तीः । अरि॑षण्यन् । अ॒मित्र॑स्य । व्य॒थ॒य॒ । म॒न्युम् । इ॒न्द्र॒ ।
आभिः॑ । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । विषू॑चीः । आर्या॑य । विशः॑ । अव॑ । ता॒रीः॒ । दासीः॑ ॥२
आभिः । स्पृधः । मिथतीः । अरिषण्यन् । अमित्रस्य । व्यथय । मन्युम् । इन्द्र ।
आभिः । विश्वाः । अभिऽयुजः । विषूचीः । आर्याय । विशः । अव । तारीः । दासीः ॥२
हे “इन्द्र “आभिः अस्मदीयाभिः स्तुतिभिः “मिथतीः शत्रुसैन्यानि हिंसतीः “स्पृधः अस्मदीयाः सेनाः “अरिषण्यन् अहिंसन् । पालयन्नित्यर्थः । “अमित्रस्य शत्रोः “मन्युं संग्रामादिषु विद्यमानं कोपं “व्यथय नाशय । अपि च "आभिः स्तुतिभिरेव “अभियुजः अभियोक्त्रीः “विषूचीः सर्वतो विद्यमानाः "दासीः कर्मणामुपक्षपयित्रीः “विश्वाः सर्वाः “विशः प्रजाः “आर्याय यज्ञादिकर्मकृते यजमानाय "अव “तारीः विनाशय ।।
इन्द्र॑ जा॒मय॑ उ॒त येऽजा॑मयोऽर्वाची॒नासो॑ व॒नुषो॑ युयु॒ज्रे ।
त्वमे॑षां विथु॒रा शवां॑सि ज॒हि वृष्ण्या॑नि कृणु॒ही परा॑चः ॥३
इन्द्र॑ । जा॒मयः॑ । उ॒त । ये । अजा॑मयः । अ॒र्वा॒ची॒नासः॑ । व॒नुषः॑ । यु॒यु॒ज्रे ।
त्वम् । ए॒षा॒म् । वि॒थु॒रा । शवां॑सि । ज॒हि । वृष्ण्या॑नि । कृ॒णु॒हि । परा॑चः ॥३
इन्द्र । जामयः । उत । ये । अजामयः । अर्वाचीनासः । वनुषः । युयुज्रे ।
त्वम् । एषाम् । विथुरा । शवांसि । जहि । वृष्ण्यानि । कृणुहि । पराचः ॥३
हे “इन्द्र “जामयः ज्ञातिरूपाः संनिकृष्टा ये शत्रवः। “उत अपि च "अजामयः दूरदेशे स्थिता “ये शत्रवः “अर्वाचीनासः अस्मदभिमुखाः “वनुषः हिंसन्तः “युयुज्रे उद्युक्ता भवन्ति “एषाम् उभयविधानां शत्रूणां संबन्धीनि “शवांसि बलानि “विथुरा विथुराणि हीनानि “त्वं कुर्विति शेषः । तथा वृष्ण्यानि एषां वीर्याणि "जहि नाशय । किंच “पराचः उभयविधान् शत्रून् पराचः पराङ्मुखान् “कृणुहि कुरु ॥
शूरो॑ वा॒ शूरं॑ वनते॒ शरी॑रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते॑ ।
तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रन्द॑सी उ॒र्वरा॑सु॒ ब्रवै॑ते ॥४
शूरः॑ । वा॒ । शूर॑म् । व॒न॒ते॒ । शरी॑रैः । त॒नू॒ऽरुचा॑ । तरु॑षि । यत् । कृ॒ण्वैते॒ इति॑ ।
तो॒के । वा॒ । गोषु॑ । तन॑ये । यत् । अ॒प्ऽसु । वि । क्रन्द॑सी॒ इति॑ । उ॒र्वरा॑सु । ब्रवै॑ते॒ इति॑ ॥४
शूरः । वा । शूरम् । वनते । शरीरैः । तनूऽरुचा । तरुषि । यत् । कृण्वैते इति ।
तोके । वा । गोषु । तनये । यत् । अप्ऽसु । वि । क्रन्दसी इति । उर्वरासु । ब्रवैते इति ॥४
हे इन्द्र “शूरः त्वदनुगृहीतो वीरः “शरीरैः अङ्गैः “शूरं “वा वीरमपि “वनते हन्ति । वेत्ययमपीत्यस्यार्थे वर्तते । यद्वा । वेत्यनेन विकल्पाभिधायकेन अशूरो वा त्वदनुगृहीतः सन् शूरं वनते । कदा वनत इत्येतदाह । “तनूरुचा शरीरेण शोभमानौ परस्परविरोधिनौ "तरुषि युद्धे “यत् यदा “कृण्वेते संग्रामं कुर्वाते । “यत् यदा च “तोके “वा पुत्रनिमित्ते वा “गोषु निमित्तभूतासु वा “तनये पौत्रे निमित्तभूते वा “अप्सु उदकेषु निमित्तेषु वा “उर्वरासु सर्वसस्याढ्यासु भूमिषु निमित्तासु “क्रन्दसी क्रन्दमानावाक्रोशन्तौ “वि “ब्रवैते विवदेते । हे इन्द्र पुत्रादिलाभजयः त्वदनुगृहीतस्य भवतीत्यर्थः ॥
न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा॑ यो॒धो मन्य॑मानो यु॒योध॑ ।
इन्द्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा॑ जा॒तान्य॒भ्य॑सि॒ तानि॑ ॥५
न॒हि । त्वा॒ । शूरः॑ । न । तु॒रः । न । धृ॒ष्णुः । न । त्वा॒ । यो॒धः । मन्य॑मानः । यु॒योध॑ ।
इन्द्र॑ । नकिः॑ । त्वा॒ । प्रति॑ । अ॒स्ति॒ । ए॒षा॒म् । विश्वा॑ । जा॒तानि॑ । अ॒भि । अ॒सि॒ । तानि॑ ॥५
नहि । त्वा । शूरः । न । तुरः । न । धृष्णुः । न । त्वा । योधः । मन्यमानः । युयोध ।
इन्द्र । नकिः । त्वा । प्रति । अस्ति । एषाम् । विश्वा । जातानि । अभि । असि । तानि ॥५
हे इन्द्र “त्वा त्वया सह “शूरः विक्रान्तजनः “नहि “युयोध न युध्यते । तथा “तुरः अन्येषां शत्रूणां हिंसकः स त्वया “न युयोध । “धृष्णुः धर्षकः “न युयोध। “मन्यमानः युद्धे क्रुध्यन् “योधः भटः “त्वा त्वया “न युयोध। हे “इन्द्र “एषां शूरादीनां मध्ये कश्चन “त्वा तव “नकिः “प्रत्यस्ति प्रतिनिधिर्नास्ति । "विश्वा विश्वानि “जातानि प्रादुर्भूतानि “तानि शूरादीनि त्वम् “अभ्यसि अभिभवसि ॥ ॥ १९ ॥
स प॑त्यत उ॒भयो॑र्नृ॒म्णम॒योर्यदी॑ वे॒धस॑ः समि॒थे हव॑न्ते ।
वृ॒त्रे वा॑ म॒हो नृ॒वति॒ क्षये॑ वा॒ व्यच॑स्वन्ता॒ यदि॑ वितन्त॒सैते॑ ॥६
सः । प॒त्य॒ते॒ । उ॒भयोः॑ । नृ॒म्णम् । अ॒योः । यदि॑ । वे॒धसः॑ । स॒म्ऽइ॒थे । हव॑न्ते ।
वृ॒त्रे । वा॒ । म॒हः । नृ॒ऽवति॑ । क्षये॑ । वा॒ । व्यच॑स्वन्ता । यदि॑ । वि॒त॒न्त॒सैते॒ इति॑ ॥६
सः । पत्यते । उभयोः । नृम्णम् । अयोः । यदि । वेधसः । सम्ऽइथे । हवन्ते ।
वृत्रे । वा । महः । नृऽवति । क्षये । वा । व्यचस्वन्ता । यदि । वितन्तसैते इति ॥६
“अयोः अनयोः “उभयोः मध्ये "सः जनः “नृम्णं धनं "पत्यते ईष्टे । कयोर्मध्ये क ईष्ट इत्येतदुभयमाह । “यदि यस्य जनस्य । यदीति निपातो यस्यार्थे वर्तते । “समिथे यज्ञे “वेधसः कर्मणां विधातार ऋत्विजः “हवन्ते इन्द्रं स्तुवन्ति स ईष्ट इति संबन्धः । “महः महति प्रभूते “वृत्रे “वा निरोधे निमित्ते वा “नृवति परिचारकमनुष्ययुक्ते “क्षये “वा गृहनिमित्ते वा व्यचस्वन्तौ “यदि यौ जनौ । यदीति यावित्यर्थे वर्तते। “वितन्तसैते वियुध्येते तयोर्मध्ये इति संबन्धः ॥ तसेः उपक्षयकर्मणः विपूर्वात् वितन्तसैते इति भवति । यद्वा । तन्तस इति धातुः कण्ड्वादिषु पठ्यते तस्मादिदं रूपमिति ॥
अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निन्द्र॑ त्रा॒तोत भ॑वा वरू॒ता ।
अ॒स्माका॑सो॒ ये नृत॑मासो अ॒र्य इन्द्र॑ सू॒रयो॑ दधि॒रे पु॒रो न॑ः ॥७
अध॑ । स्म॒ । ते॒ । च॒र्ष॒णयः॑ । यत् । एजा॑न् । इन्द्र॑ । त्रा॒ता । उ॒त । भ॒व॒ । व॒रू॒ता ।
अ॒स्माका॑सः । ये । नृऽत॑मासः । अ॒र्यः । इन्द्र॑ । सू॒रयः॑ । द॒धि॒रे । पु॒रः । नः॒ ॥७
अध । स्म । ते । चर्षणयः । यत् । एजान् । इन्द्र । त्राता । उत । भव । वरूता ।
अस्माकासः । ये । नृऽतमासः । अर्यः । इन्द्र । सूरयः । दधिरे । पुरः । नः ॥७
“अध “स्म अपि च हे “इन्द्र “ते त्वदीयाः “चर्षणयः पुरुषाः “यत् यदा “एजान् एजेयुः भीत्या कम्पेयुः त्वं तेषां “त्राता पालकः “भव। “उत अपि च “वरूता संभक्ता भव । “अस्माकासः अस्मदीयाः “नृतमासः नेतृतमाः "ये मनुष्या हे इन्द्र त्वाम् “अर्यः अरयः । प्रापयितार इत्यर्थः । तेषां त्राता भव । हे “इन्द्र “सूरयः ये स्तोतारः “नः अस्मान् “पुरः “दधिरे पुरश्चक्रिरे । तेषां च त्राता भवेति ॥
साकमेधेषु माहेन्द्र्यामिष्टौ इन्द्रस्य वृत्रघ्नो याज्या । सूत्रितं च-’ अनु ते दायि मह इन्द्रियाय विश्वकर्मन्हविषा वावृधानः ' ( आश्व. श्रौ. २. १८) इति । अनुक्रीनाम्न्येकाहे निष्केवल्य एषैव सूक्तमुखीया । सूत्रितं च- अनु ते दायि मह इन्द्रियाय कथो नु ते परि चराणि विद्वानिति द्वे' ( आश्व. श्रौ. ९. ५) इति ॥
अनु ते दायि मह इन्द्रियार्य सुत्रा ते विश्वमनु वृत्रहत्यें।
अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑ ।
अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑ ॥८
अनु॑ । ते॒ । दा॒यि॒ । म॒हे । इ॒न्द्रि॒याय॑ । स॒त्रा । ते॒ । विश्व॑म् । अनु॑ । वृ॒त्र॒ऽहत्ये॑ ।
अनु॑ । क्ष॒त्रम् । अनु॑ । सहः॑ । य॒ज॒त्र॒ । इन्द्र॑ । दे॒वेभिः॑ । अनु॑ । ते॒ । नृ॒ऽसह्ये॑ ॥८
अनु । ते । दायि । महे । इन्द्रियाय । सत्रा । ते । विश्वम् । अनु । वृत्रऽहत्ये ।
अनु । क्षत्रम् । अनु । सहः । यजत्र । इन्द्र । देवेभिः । अनु । ते । नृऽसह्ये ॥८
हे इन्द्र “महे महते “ते तुभ्यम् “इन्द्रियाय ऐश्वर्यार्थम् “अनु “दायि अन्वदायि । अनुदीयते स्म । “वृत्रहत्ये वृत्रवधे निमित्ते “ते तुभ्यं “विश्वं समस्तं “सत्रा सत्यम् “अनु दायि । कैः किमनु दायीति तदुभयमाह । येन विश्वं बिभर्ति तत् “क्षत्रं बलम् “अनु दायि । येन शत्रूनभिभवति तद्गुणविशिष्टं “सहः बलम् “अनु दायि । हे “यजत्र यजनीय “इन्द्र “ते तुभ्यं “नृषह्ये युद्धे “देवेभिः सर्वैर्देवैरेतत्सर्वम् “अनु दायि ॥
ए॒वा न॒ः स्पृध॒ः सम॑जा स॒मत्स्विन्द्र॑ रार॒न्धि मि॑थ॒तीरदे॑वीः ।
वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ भ॒रद्वा॑जा उ॒त त॑ इन्द्र नू॒नम् ॥९
ए॒व । नः॒ । स्पृधः॑ । सम् । अ॒ज॒ । स॒मत्ऽसु॑ । इन्द्र॑ । र॒र॒न्धि । मि॒थ॒तीः । अदे॑वीः ।
वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । भ॒रत्ऽवा॑जाः । उ॒त । ते॒ । इ॒न्द्र॒ । नू॒नम् ॥९
एव । नः । स्पृधः । सम् । अज । समत्ऽसु । इन्द्र । ररन्धि । मिथतीः । अदेवीः ।
विद्याम । वस्तोः । अवसा । गृणन्तः । भरत्ऽवाजाः । उत । ते । इन्द्र । नूनम् ॥९
हे “इन्द्र “एव एवं स्तुतस्त्वं “नः अस्मदीयाः “स्पृधः शत्रुसेनाः “समत्सु संग्रामेषु “समज शत्रुवधार्थं प्रेरय । किंच “मिथतीः हिंसतीः “अदेवीः आसुरीः सेनाः “ररन्धि अस्मदर्थं वशीकुरु । “उत अपि च हे “इन्द्र "ते “गृणन्तः त्वां स्तुवन्तः “भरद्वाजाः वयम् “अवसा अन्नेन सह “वस्तोः वासस्य । निवासमित्यर्थः । “नूनम् अवश्यं “विद्याम लभेमहि ॥ ॥ २० ॥
मण्डल ६ | ||||
---|---|---|---|---|