ऋग्वेदः सूक्तं ६.५८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.५७ ऋग्वेदः - मण्डल ६
सूक्तं ६.५८
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.५९ →
दे. पूषा। त्रिष्टुप्, २ जगती।


शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि ।
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥१॥
अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः ।
अष्ट्रां पूषा शिथिरामुद्वरीवृजत्संचक्षाणो भुवना देव ईयते ॥२॥
यास्ते पूषन्नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति ।
ताभिर्यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः ॥३॥
पूषा सुबन्धुर्दिव आ पृथिव्या इळस्पतिर्मघवा दस्मवर्चाः ।
यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् ॥४॥


सायणभाष्यम्

' शुक्रं ते ' इति चतुर्ऋचं नवमं सूक्तं भरद्वाजस्यार्षं पौष्णम् । द्वितीया जगती शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तं -- ‘ शुक्रं चतुष्कं द्वितीया जगती ' इति । वैश्वदेवे पर्वणि पौष्णस्य हविषः ‘ शुक्रं ते ' इति याज्या। सूत्रितं च -- शुक्रं ते अन्यद्यजतं ते अन्यदिहेह वः स्वतवसः ' (आश्व. श्रौ. । २:१६ ) इति । एकादशिनस्य पौष्णस्य पशोर्वपाया एषैव याज्या । सूत्रितं च - शुक्रं ते अन्यद्यजतं ते अन्यत्प्रपथे पथामजनिष्ट पूषा ' (आश्व. श्रौ. ३. ७) इति । प्रवर्ग्याभिष्टवेऽप्येषा । सूत्रितं च - ‘ शुक्र ते अन्यद्यजतं ते अन्यदपश्यं गोपामनिपद्यमानम् ' ( आश्व. श्रौ. ४. ६ ) इति ॥ शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यद्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।


विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥१

शु॒क्रम् । ते॒ । अ॒न्यत् । य॒ज॒तम् । ते॒ । अ॒न्यत् । विषु॑रूपे॒ इति॒ विषु॑ऽरूपे । अह॑नी॒ इति॑ । द्यौःऽइ॑व । अ॒सि॒ ।

विश्वाः॑ । हि । मा॒याः । अव॑सि । स्व॒धा॒ऽवः॒ । भ॒द्रा । ते॒ । पू॒ष॒न् । इ॒ह । रा॒तिः । अ॒स्तु॒ ॥१

शुक्रम् । ते । अन्यत् । यजतम् । ते । अन्यत् । विषुरूपे इति विषुऽरूपे । अहनी इति । द्यौःऽइव । असि ।

विश्वाः । हि । मायाः । अवसि । स्वधाऽवः । भद्रा । ते । पूषन् । इह । रातिः । अस्तु ॥१

हे पूषन् “ते तव “शुक्रं शुक्लवर्णम् “अन्यत् एकम् अहर्भवति वासरात्मकम् । तथा “ते तव संबन्धि “यजतम् । यजिरत्र संगतिकरणे वर्तते । यजनीयं प्रकाशेन संगमनीयं स्वतः कृष्णवर्णम् “अन्यत् एकम् अहर्भवति रात्र्याख्यम् । इत्थं “विषुरूपे शुक्लकृष्णतया नानारूपे “अहनी तव महिम्ना निष्पद्यते । यद्वा । हे पूषन् त्वदीयमन्यदेकं रूपं शुक्रं निर्मलं दिवसस्योत्पादकम् । त्वदीयमन्यदेकं रूपं यजतं केवलं यजनीयं न प्रकाशकं रात्रेरुत्पादकम् । अत एव विषुरूपे विषमरूपे अहनी अहश्च रात्रिश्च भवतः । अहोरात्रयोर्निर्माणे सूर्य एव कर्ता कथमस्य प्रसक्तिरिति तत्राह । “द्यौरिवासि । यथा द्यौरादित्यः प्रकाशयिता तथा त्वं प्रकाशकोऽसि । कुत इत्यत आह । हे “स्वधावः अन्नवन् “पूषन् “विश्वाः सर्वाः “मायाः प्रज्ञा: “हि यस्मात् कारणात् "अवसि रक्षसि अतः कारणात् त्वं सूर्य इव भवसीत्यर्थः । तादृशस्य “ते तव “भद्रा कल्याणी “रातिः दानम् “इह अस्मासु “अस्तु भवतु । यास्कस्त्वाह ‘ शुक्रं ते अन्यल्लोहितं ते अन्यद्यज्ञियं ते अन्यदयज्ञियं ते अन्यत् इति वा विषमरूपे अहनी कर्मणा द्यौरिव चासि । सर्वाणि च प्रज्ञानान्यवस्यन्नवन् ' ( निरु. १२. १७) इति ॥


अ॒जाश्व॑ः पशु॒पा वाज॑पस्त्यो धियंजि॒न्वो भुव॑ने॒ विश्वे॒ अर्पि॑तः ।

अष्ट्रां॑ पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत्सं॒चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते ॥२

अ॒जऽअ॑श्वः । प॒शु॒ऽपाः । वाज॑ऽपस्त्यः । धि॒य॒म्ऽजि॒न्वः । भुव॑ने । विश्वे॑ । अर्पि॑तः ।

अष्ट्रा॑म् । पू॒षा । शि॒थि॒राम् । उ॒त्ऽवरी॑वृजत् । स॒म्ऽचक्षा॑णः । भुव॑ना । दे॒वः । ई॒य॒ते॒ ॥२

अजऽअश्वः । पशुऽपाः । वाजऽपस्त्यः । धियम्ऽजिन्वः । भुवने । विश्वे । अर्पितः ।

अष्ट्राम् । पूषा । शिथिराम् । उत्ऽवरीवृजत् । सम्ऽचक्षाणः । भुवना । देवः । ईयते ॥२

“अजाश्वः छागवाहनः “पशुपाः पशूनां पालयिता “वाजपस्त्यः । वाजा अन्नानि पस्त्ये गृहे यस्य तादृशः । “धियंजिन्वः। धियः स्तोतारः कर्माणि वा । तेषां प्रीणयिता “विश्वे विश्वस्मिन् सर्वस्मिन् “भुवने लोके “अर्पितः प्रजापतिना पोषकत्वेन स्थापितः। अत एवंभूतः “पूषा पोषको “देवः “अष्ट्राम् आरां स्वहस्तगतां “शिथिरां शिथिलां सतीम् “उद्वरीवृजत् उद्यच्छन् "भुवना भुवनानि सर्वान् लोकान् भूतजातानि वा "संचक्षाणः संपश्यन् सूर्यात्मना प्रकाशयन् “ईयते नभसि गच्छति ॥


पौष्णस्य पशोर्वपापुरोडाशयोः ‘ यास्ते पूषन् ' इत्यादिके द्वे ऋचौ अनुवाक्ये । सूत्रितं च -- ‘ यास्ते पूषन्नावो अन्तः समुद्र इति द्वे पूषेमा आशा अनु वेद सर्वाः ' ( आश्व. श्रौ. ३. ७ ) इति ॥

यास्ते॑ पूष॒न्नावो॑ अ॒न्तः स॑मु॒द्रे हि॑र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति ।

ताभि॑र्यासि दू॒त्यां सूर्य॑स्य॒ कामे॑न कृत॒ श्रव॑ इ॒च्छमा॑नः ॥३

याः । ते॒ । पू॒ष॒न् । नावः॑ । अ॒न्तरिति॑ । स॒मु॒द्रे । हि॒र॒ण्ययीः॑ । अ॒न्तरि॑क्षे । चर॑न्ति ।

ताभिः॑ । या॒सि॒ । दू॒त्याम् । सूर्य॑स्य । कामे॑न । कृ॒त॒ । श्रवः॑ । इ॒च्छमा॑नः ॥३

याः । ते । पूषन् । नावः । अन्तरिति । समुद्रे । हिरण्ययीः । अन्तरिक्षे । चरन्ति ।

ताभिः । यासि । दूत्याम् । सूर्यस्य । कामेन । कृत । श्रवः । इच्छमानः ॥३

हे “पूषन् "ते त्वदीयाः “याः “हिरण्ययीः हिरण्मय्यो हितरमणीयाः “नावः “समुद्रे उदधौ “अन्तः मध्ये “अन्तरिक्षे नभसि “चरन्ति संचरन्ति “ताभिः नौभिः “सूर्यस्य “दूत्यां “यासि गच्छसि । कदाचित् देवैः सार्धं सूर्येऽसुरवधार्थं प्रस्थिते सति तस्य भार्या स्वभर्तरि संजातौत्सुक्या बभूव तां प्रति सूर्यः पूषणं प्राहैषीत् तेन चात्र पूषा स्तूयते । अपि च त्वं “श्रवः हविर्लक्षणमन्नम् “इच्छमानः इच्छन् "कामेन पश्वादिविषयेण स्तोतृभिः “कृतः वशीकृतोऽसि ॥


पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्या इ॒ळस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः ।

यं दे॒वासो॒ अद॑दुः सू॒र्यायै॒ कामे॑न कृ॒तं त॒वसं॒ स्वञ्च॑म् ॥४

पू॒षा । सु॒ऽबन्धुः॑ । दि॒वः । आ । पृ॒थि॒व्याः । इ॒ळः । पतिः॑ । म॒घऽवा॑ । द॒स्मऽव॑र्चाः ।

यम् । दे॒वासः॑ । अद॑दुः । सू॒र्यायै॑ । कामे॑न । कृ॒तम् । त॒वस॑म् । सु॒ऽअञ्च॑म् ॥४

पूषा । सुऽबन्धुः । दिवः । आ । पृथिव्याः । इळः । पतिः । मघऽवा । दस्मऽवर्चाः ।

यम् । देवासः । अददुः । सूर्यायै । कामेन । कृतम् । तवसम् । सुऽअञ्चम् ॥४

“पूषा पोषको देवः “दिव “आ द्युलोकस्य च “पृथिव्याः च "सुबन्धुः शोभनो बन्धुर्भवति । तथा “इळस्पतिः इळाया अन्नस्य पतिः “मघवा । मघमिति धननाम् । तद्वान् । यद्वा । मंहतेर्दानकर्मणो भावसाधनो मघशब्दः । दानवान् “दस्मवर्चाः । वर्च इति रूपनाम । दस्मं दर्शनीयं वर्चो यस्य तादृशः । “यं पूषणं “देवासः सर्वे देवाः “सूर्यायै सूर्यस्य पत्न्यै यद्वा सावित्र्यै सूर्याख्यायै अश्विनोर्वरणाय “अददुः दत्तवन्तः । पुत्रः पितराववृणीत पूषा' ( ऋ. सं. १०. ८५. १४ ) इति हि श्रूयते । कीदृशं पूषणम् । “कामेन पश्वादिविषयेण “कृतं स्तोतृभिर्वशीकृतं “तवसं बलवन्तं प्रवृद्धं वा “स्वञ्चं स्वञ्चनं सुष्ठु गच्छन्तम् । एवंविधं यं पूषणमददुः स पूषा सुबन्धुरित्यन्वयः ॥ ॥ २४ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.५८&oldid=200352" इत्यस्माद् पुनः प्राप्तिः