ऋग्वेदः सूक्तं ६.२७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.२६ ऋग्वेदः - मण्डल ६
सूक्तं ६.२७
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.२८ →
दे. इन्द्रः, ८ अभ्यावर्ती चायमानः (दानं)। त्रिष्टुप्


किमस्य मदे किम्वस्य पीताविन्द्रः किमस्य सख्ये चकार ।
रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किमु नूतनासः ॥१॥
सदस्य मदे सद्वस्य पीताविन्द्रः सदस्य सख्ये चकार ।
रणा वा ये निषदि सत्ते अस्य पुरा विविद्रे सदु नूतनासः ॥२॥
नहि नु ते महिमनः समस्य न मघवन्मघवत्त्वस्य विद्म ।
न राधसोराधसो नूतनस्येन्द्र नकिर्ददृश इन्द्रियं ते ॥३॥
एतत्त्यत्त इन्द्रियमचेति येनावधीर्वरशिखस्य शेषः ।
वज्रस्य यत्ते निहतस्य शुष्मात्स्वनाच्चिदिन्द्र परमो ददार ॥४॥
वधीदिन्द्रो वरशिखस्य शेषोऽभ्यावर्तिने चायमानाय शिक्षन् ।
वृचीवतो यद्धरियूपीयायां हन्पूर्वे अर्धे भियसापरो दर्त् ॥५॥
त्रिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्यां पुरुहूत श्रवस्या ।
वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्यायन् ॥६॥
यस्य गावावरुषा सूयवस्यू अन्तरू षु चरतो रेरिहाणा ।
स सृञ्जयाय तुर्वशं परादाद्वृचीवतो दैववाताय शिक्षन् ॥७॥
द्वयाँ अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट् ।
अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ॥८॥


सायणभाष्यम्

‘ किमस्य मदे' इत्यष्टर्चं चतुर्थं सूक्तं भरद्वाजस्यार्षम् । अनुक्रान्तं च– किमस्यान्त्या चायमानस्याभ्यावर्तिनो दानस्तुतिः' इति । भरद्वाज ऋषिः । त्रिष्टुप् छन्दः । अन्त्यायास्तु दानस्तुतिरूपत्वात् ‘या तेनोच्यते' इति न्यायेन दानमेव देवता । विनियोगो लैङ्गिकः ॥


किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविन्द्र॒ः किम॑स्य स॒ख्ये च॑कार ।

रणा॑ वा॒ ये नि॒षदि॒ किं ते अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः ॥१

किम् । अ॒स्य॒ । मदे॑ । किम् । ऊं॒ इति॑ । अ॒स्य॒ । पी॒तौ । इन्द्रः॑ । किम् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ ।

रणाः॑ । वा॒ । ये । नि॒ऽसदि॑ । किम् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । किम् । ऊं॒ इति॑ । नूत॑नासः ॥१

किम् । अस्य । मदे । किम् । ऊं इति । अस्य । पीतौ । इन्द्रः । किम् । अस्य । सख्ये । चकार ।

रणाः । वा । ये । निऽसदि । किम् । ते । अस्य । पुरा । विविद्रे । किम् । ऊं इति । नूतनासः ॥१

भरद्वाज ऋषिः फलविलम्बनासहिष्णुः सन् अनयेन्द्रमाक्षिपति । “अस्य सोमस्य “मदे सति “इन्द्रः “किं “चकार कृतवान् । “किमु किंच “अस्य सोमस्य “पीतौ पाने सति किं चकार । “अस्य सोमस्य “सख्ये सखित्वे “किं चकार । पानात् पूर्वम् इन्द्रः सोमेन सह वसतीत्यर्थः । “अस्य सोमस्य “निषदि गृहे “रणा “वा "ये स्तोतारश्च सन्ति ते स्तोतारः “पुरा पूर्वं हे इन्द्र “ते त्वत्तः “किं “विविद्रे किं लेभिरे । “नूतनास: नूतना इदानींतनाः स्तोतारश्च “किमु लेभिरे ॥


सद॑स्य॒ मदे॒ सद्व॑स्य पी॒ताविन्द्र॒ः सद॑स्य स॒ख्ये च॑कार ।

रणा॑ वा॒ ये नि॒षदि॒ सत्ते अ॑स्य पु॒रा वि॑विद्रे॒ सदु॒ नूत॑नासः ॥२

सत् । अ॒स्य॒ । मदे॑ । सत् । ऊं॒ इति॑ । अ॒स्य॒ । पी॒तौ । इन्द्रः॑ । सत् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ ।

रणाः॑ । वा॒ । ये । नि॒ऽसदि॑ । सत् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । सत् । ऊं॒ इति॑ । नूत॑नासः ॥२

सत् । अस्य । मदे । सत् । ऊं इति । अस्य । पीतौ । इन्द्रः । सत् । अस्य । सख्ये । चकार ।

रणाः । वा । ये । निऽसदि । सत् । ते । अस्य । पुरा । विविद्रे । सत् । ऊं इति । नूतनासः ॥२

एवमाक्षिप्त इन्द्रस्तस्मा ऋषय ईप्सितं धनं प्रददौ । तदनन्तरमृषिरिन्द्रसकाशात् संपूर्णकामः सन् पुरा यान्युपालम्भप्रतिपादकानि वाक्यान्युवाच इदानीं तानि निराकरोति । “इन्द्रः “अस्य सोमस्य “मदे “सत् शुभं कर्म “चकार । “अस्य सोमस्य “पीतौ पाने “सत् शुभं कर्म चकार । “अस्य “सख्ये “सत् शुभं कर्म चकार । "ये “रणा “वा स्तोतारश्च ते “निषदि गृहे । यज्ञगृह इत्यर्थः । “पुरा पूर्वं हे इन्द्र “ते त्वत्तः “सत् शुभं कर्म “विविद्रे लेभिरे । “नूतनासः इदानींतनाः स्तोतारः “सदु शुभमेव कर्म लेभिरे ॥


न॒हि नु ते॑ महि॒मन॑ः समस्य॒ न म॑घवन्मघव॒त्त्वस्य॑ वि॒द्म ।

न राध॑सोराधसो॒ नूत॑न॒स्येन्द्र॒ नकि॑र्ददृश इन्द्रि॒यं ते॑ ॥३

न॒हि । नु । ते॒ । म॒हि॒मनः॑ । स॒म॒स्य॒ । न । म॒घ॒ऽव॒न् । म॒घ॒व॒त्ऽत्वस्य॑ । वि॒द्म ।

न । राध॑सःऽराधसः । नूत॑नस्य । इन्द्र॑ । नकिः॑ । द॒दृ॒शे॒ । इ॒न्द्रि॒यम् । ते॒ ॥३

नहि । नु । ते । महिमनः । समस्य । न । मघऽवन् । मघवत्ऽत्वस्य । विद्म ।

न । राधसःऽराधसः । नूतनस्य । इन्द्र । नकिः । ददृशे । इन्द्रियम् । ते ॥३

हे “मघवन् धनवन्निन्द्र "ते त्वदीयस्य “समस्य समस्तस्य “महिमनः महिम्नो महिमानं “नहि “विद्म वयं न जानीमः । नुशब्दः पूरणः । तथा “मघवत्त्वस्य त्वदीयस्य धनिकत्वस्य च वयं न जानीमः । "नूतनस्य स्तुत्यस्य “राधसोराधसः त्वदीयं सर्वं धनं च न जानीमः । सर्वत्र द्वितीयार्थे षष्ठी । हे “इन्द्र “ते त्वदीयम् “इन्द्रियं सामर्थ्यं “नकिर्ददृशे केनापि न दृश्यते ॥


ए॒तत्त्यत्त॑ इन्द्रि॒यम॑चेति॒ येनाव॑धीर्व॒रशि॑खस्य॒ शेष॑ः ।

वज्र॑स्य॒ यत्ते॒ निह॑तस्य॒ शुष्मा॑त्स्व॒नाच्चि॑दिन्द्र पर॒मो द॒दार॑ ॥४

ए॒तत् । त्यत् । ते॒ । इ॒न्द्रि॒यम् । अ॒चे॒ति॒ । येन॑ । अव॑धीः । व॒रऽशि॑खस्य । शेषः॑ ।

वज्र॑स्य । यत् । ते॒ । निऽह॑तस्य । शुष्मा॑त् । स्व॒नात् । चि॒त् । इ॒न्द्र॒ । प॒र॒मः । द॒दार॑ ॥४

एतत् । त्यत् । ते । इन्द्रियम् । अचेति । येन । अवधीः । वरऽशिखस्य । शेषः ।

वज्रस्य । यत् । ते । निऽहतस्य । शुष्मात् । स्वनात् । चित् । इन्द्र । परमः । ददार ॥४

हे इन्द्र “येन वीर्येण “वरशिखस्य । वरशिखो नाम कश्चिदसुरः । तस्य “शेषः शेषांसि पुत्रान्। शेष इत्यपत्यनामैतत् । “अवधीः अहिंसीः “ते त्वदीयम् “एतत्त्यत् तदिदम् “इन्द्रियं वीर्यम् “अचेति अस्माभिरज्ञायि । हे “इन्द्र यत् यस्मात् “शुष्मात् बलात् “निहतस्य प्रेरितस्य त्वदीय “वज्रस्य “स्वनाच्चित् ध्वनेरेव “परमः वरशिखस्य पुत्राणां मध्ये बलाद्याधिक्येनोत्कृष्टः कश्चित् पुत्रः “ददार अदीर्यत ॥


वधी॒दिन्द्रो॑ व॒रशि॑खस्य॒ शेषो॑ऽभ्याव॒र्तिने॑ चायमा॒नाय॒ शिक्ष॑न् ।

वृ॒चीव॑तो॒ यद्ध॑रियू॒पीया॑यां॒ हन्पूर्वे॒ अर्धे॑ भि॒यसाप॑रो॒ दर्त् ॥५

वधी॑त् । इन्द्रः॑ । व॒रऽशि॑खस्य । शेषः॑ । अ॒भि॒ऽआ॒व॒र्तिने॑ । चा॒य॒मा॒नाय॑ । शिक्ष॑न् ।

वृ॒चीव॑तः । यत् । ह॒रि॒ऽयू॒पीया॑याम् । हन् । पूर्वे॑ । अर्धे॑ । भि॒यसा॑ । अप॑रः । दर्त् ॥५

वधीत् । इन्द्रः । वरऽशिखस्य । शेषः । अभिऽआवर्तिने । चायमानाय । शिक्षन् ।

वृचीवतः । यत् । हरिऽयूपीयायाम् । हन् । पूर्वे । अर्धे । भियसा । अपरः । दर्त् ॥५

पूर्वोक्तमेवार्थमनया विवृणोति । अयम् “इन्द्रः “चायमानाय चयमानस्य राज्ञः पुत्राय “अभ्यावर्तिने एतन्नामकाय राज्ञे “शिक्षन् ईप्सितानि वसूनि प्रयच्छन् “वरशिखस्य असुरस्य “शेष पुत्रान् “वधीत् अवधीत् । अहिंसीत् । वरशिखस्य पुत्रान् कथमवधीदित्युच्यते । “यत् यदा अयमिन्द्रः “हरियूपीयायाम् । हरियूपीया नाम काचिन्नदी काचिन्नगरी वा । तस्यां “पूर्वे “अर्धे प्राग्भागे स्थितान् “वृचीवतः । वृचीवान् नाम वरशिखस्य कुलोत्पन्नः पूर्वः । तद्रोत्रजान् वरशिखस्य पुत्रान् “हन् अवधीत् तदा “अपरः अपरभागे स्थितः वरशिखस्य श्रेष्ठः पुत्रः “भियसा भीत्या “दर्त् दीर्णोऽभूत् ॥ ॥ २३ ॥


त्रिं॒शच्छ॑तं व॒र्मिण॑ इन्द्र सा॒कं य॒व्याव॑त्यां पुरुहूत श्रव॒स्या ।

वृ॒चीव॑न्त॒ः शर॑वे॒ पत्य॑माना॒ः पात्रा॑ भिन्दा॒ना न्य॒र्थान्या॑यन् ॥६

त्रिं॒शत्ऽश॑तम् । व॒र्मिणः॑ । इ॒न्द्र॒ । सा॒कम् । य॒व्याऽव॑त्याम् । पु॒रु॒ऽहू॒त॒ । श्र॒व॒स्या ।

वृ॒चीव॑न्तः । शर॑वे । पत्य॑मानाः । पात्रा॑ । भि॒न्दा॒नाः । नि॒ऽअ॒र्थानि॑ । आ॒य॒न् ॥६

त्रिंशत्ऽशतम् । वर्मिणः । इन्द्र । साकम् । यव्याऽवत्याम् । पुरुऽहूत । श्रवस्या ।

वृचीवन्तः । शरवे । पत्यमानाः । पात्रा । भिन्दानाः । निऽअर्थानि । आयन् ॥६

इदानीमुक्तमेवार्थं विवृणोति । हे “पुरुहूत बहुभिराहूत “इन्द्र “श्रवस्या श्रवस्यया । श्रवोऽन्नं यशो वा । तद्वाञ्छया । युद्धे त्वां जित्वा अन्नं प्राप्नुयाम यशो वा प्राप्नुयामेति कामयमानाः “शरवे हिंसायै । त्वां हिंसितुमित्यर्थः । “पत्यमानाः अभिपतन्तोऽभिगच्छन्तः “पात्रा पात्राणि यज्ञसाधनानि । “भिन्दानाः भिन्दन्तः “वर्मिणः कवचभृतः “त्रिंशच्छतं त्रिंशदधिकशतसंख्याका: “वृचीवन्तः वरशिखस्य पुत्राः “साकं युगपदेव “यव्यावत्यां पूर्वोक्तायां हरियूपीयायां “न्यर्धानि अर्थशून्यानि “आयन् अगच्छन् । विनाशं प्रापुरित्यर्थः ॥


यस्य॒ गावा॑वरु॒षा सू॑यव॒स्यू अ॒न्तरू॒ षु चर॑तो॒ रेरि॑हाणा ।

स सृञ्ज॑याय तु॒र्वशं॒ परा॑दाद्वृ॒चीव॑तो दैववा॒ताय॒ शिक्ष॑न् ॥७

यस्य॑ । गावौ॑ । अ॒रु॒षा । सु॒य॒व॒स्यू इति॑ सु॒ऽय॒व॒स्यू । अ॒न्तः । ऊं॒ इति॑ । सु । चर॑तः । रेरि॑हाणा ।

सः । सृञ्ज॑याय । तु॒र्वश॑म् । परा॑ । अ॒दा॒त् । वृ॒चीव॑तः । दै॒व॒ऽवा॒ताय॑ । शिक्ष॑न् ॥७

यस्य । गावौ । अरुषा । सुयवस्यू इति सुऽयवस्यू । अन्तः । ऊं इति । सु । चरतः । रेरिहाणा ।

सः । सृञ्जयाय । तुर्वशम् । परा । अदात् । वृचीवतः । दैवऽवाताय । शिक्षन् ॥७

“अरुषा अरुषौ रोचमानौ “सुयवस्यू' शोभनतृणानीच्छन्तौ “रेरिहाणा लेलिहानौ पुनः पुनः घासमास्वादयन्तौ । यद्वा । गतिविशेषं कुर्वन्तौ । “यस्य इन्द्रस्य संबन्धिनौ “गावौ अश्वौ “अन्तः द्यावापृथिव्योर्मध्ये अन्तरिक्षे “चरतः गच्छतः । “उ "सु इतीमौ पूरणौ । “सः इन्द्रः “सृञ्जयाय एतन्नामकाय राज्ञे “तुर्वशं राजानं “परादात् प्रददौ । किं कुर्वन् । “वृचीवतः वारशिखान् “दैववाताय देववातवंशोत्पन्नायाभ्यावर्तिने राज्ञे “शिक्षन् वशीकुर्वन् । तेषां धनानि प्रयच्छन्निति वा ॥


द्व॒याँ अ॑ग्ने र॒थिनो॑ विंश॒तिं गा व॒धूम॑तो म॒घवा॒ मह्यं॑ स॒म्राट् ।

अ॒भ्या॒व॒र्ती चा॑यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वाना॑म् ॥८

द्व॒यान् । अ॒ग्ने॒ । र॒थिनः॑ । विं॒श॒तिम् । गाः । व॒धूऽम॑तः । म॒घऽवा॑ । मह्य॑म् । स॒म्ऽराट् ।

अ॒भि॒ऽआ॒व॒र्ती । चा॒य॒मा॒नः । द॒दा॒ति॒ । दुः॒ऽनशा॑ । इ॒यम् । दक्षि॑णा । पा॒र्थ॒वाना॑म् ॥८

द्वयान् । अग्ने । रथिनः । विंशतिम् । गाः । वधूऽमतः । मघऽवा । मह्यम् । सम्ऽराट् ।

अभिऽआवर्ती । चायमानः । ददाति । दुःऽनशा । इयम् । दक्षिणा । पार्थवानाम् ॥८

अधुना भरद्वाजः स्वस्मा अभ्यावर्तिना दत्तं धनजातमग्नये प्रकथयति । हे “अग्ने “मघवा धनवान् प्रभूतदानो वा “सम्राट् राजसूययाजी “चायमानः चयमानस्य पुत्रः अभ्यावर्ती एतदाह्वयो राजा “रथिनः रथसहितान् “वधूमतः स्त्रीयुक्तान् “द्वयान् मिथुनभूतान् “विंशतिं विंशतिसंख्याकान् “गाः पशून् “मह्यं “ददाति प्रायच्छत् । “पार्थवानां पृथोर्वंशजस्याभ्यावर्तिनो राज्ञः संबन्धिनी । पूजार्थं बहुवचनम् । “इयं “दक्षिणा “दुर्नशा केनापि नाशयितुमशक्या भवति ॥ ॥ २४ ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.२७&oldid=187857" इत्यस्माद् पुनः प्राप्तिः