ऋग्वेदः सूक्तं ६.५९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.५८ ऋग्वेदः - मण्डल ६
सूक्तं ६.५९
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.६० →
दे. इन्द्राग्नी। बृहती, ७-१० अनुष्टुप्।


प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः ।
हतासो वां पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् ॥१॥
बळित्था महिमा वामिन्द्राग्नी पनिष्ठ आ ।
समानो वां जनिता भ्रातरा युवं यमाविहेहमातरा ॥२॥
ओकिवांसा सुते सचाँ अश्वा सप्ती इवादने ।
इन्द्रा न्वग्नी अवसेह वज्रिणा वयं देवा हवामहे ॥३॥
य इन्द्राग्नी सुतेषु वां स्तवत्तेष्वृतावृधा ।
जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन ॥४॥
इन्द्राग्नी को अस्य वां देवौ मर्तश्चिकेतति ।
विषूचो अश्वान्युयुजान ईयत एकः समान आ रथे ॥५॥
इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः ।
हित्वी शिरो जिह्वया वावदच्चरत्त्रिंशत्पदा न्यक्रमीत् ॥६॥
इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः ।
मा नो अस्मिन्महाधने परा वर्क्तं गविष्टिषु ॥७॥
इन्द्राग्नी तपन्ति माघा अर्यो अरातयः ।
अप द्वेषांस्या कृतं युयुतं सूर्यादधि ॥८॥
इन्द्राग्नी युवोरपि वसु दिव्यानि पार्थिवा ।
आ न इह प्र यच्छतं रयिं विश्वायुपोषसम् ॥९॥
इन्द्राग्नी उक्थवाहसा स्तोमेभिर्हवनश्रुता ।
विश्वाभिर्गीर्भिरा गतमस्य सोमस्य पीतये ॥१०॥


सायणभाष्यम्

‘प्र नु वोचा ' इति दशर्चं दशमं सूक्तं भरद्वाजस्यार्षमिन्द्राग्निदेवताकम् । सप्तम्याद्याश्चतस्रोऽनुष्टुभः शिष्टाः षट् बृहत्यः । तथा चानुकान्तं - प्र नु दशैन्द्राग्नं तु बार्हतं चतुरनुष्टुबन्तम् ' इति । गतो विनियोगः ॥


प्र नु वो॑चा सु॒तेषु॑ वां वी॒र्या॒३॒॑ यानि॑ च॒क्रथु॑ः ।

ह॒तासो॑ वां पि॒तरो॑ दे॒वश॑त्रव॒ इन्द्रा॑ग्नी॒ जीव॑थो यु॒वम् ॥१

प्र । नु । वो॒च॒ । सु॒तेषु॑ । वा॒म् । वी॒र्या॑ । यानि॑ । च॒क्रथुः॑ ।

ह॒तासः॑ । वा॒म् । पि॒तरः॑ । दे॒वऽश॑त्रवः । इन्द्रा॑ग्नी॒ इति॑ । जीव॑थः । यु॒वम् ॥१

प्र । नु । वोच । सुतेषु । वाम् । वीर्या । यानि । चक्रथुः ।

हतासः । वाम् । पितरः । देवऽशत्रवः । इन्द्राग्नी इति । जीवथः । युवम् ॥१

हे इन्द्राग्नी “यानि “वीर्या वीर्याणि वीरकर्माणि “चक्रथुः कृतवन्तौ युवां “सुतेषु अभिषुतेषु सोमेषु अस्मद्यज्ञे "वां युवयोः तानि वीर्याणि “नु क्षिप्रं “प्र “वोच प्रवोचं प्रब्रवीमि । तदेव वीर्यं दर्शयति । हे “इन्द्राग्नी “देवशत्रवः । देवाः शत्रवः शातयितारो येषां तादृशाः । असुराः “पितरः हिंसकाः । पीयतिर्हिंसाकर्मा । तस्यैतद्रूपम् । ईदृशा असुराः “वां युवाभ्यां “हतासः हता: आसन् । “युवं युवां तु "जीवथः जीवनवन्तौ भवथः । असुरैर्न बाधिताविति यावत् ॥


बळि॒त्था म॑हि॒मा वा॒मिन्द्रा॑ग्नी॒ पनि॑ष्ठ॒ आ ।

स॒मा॒नो वां॑ जनि॒ता भ्रात॑रा यु॒वं य॒मावि॒हेह॑मातरा ॥२

बट् । इ॒त्था । म॒हि॒मा । वा॒म् । इन्द्रा॑ग्नी॒ इति॑ । पनि॑ष्ठः । आ ।

स॒मा॒नः । वा॒म् । ज॒नि॒ता । भ्रात॑रा । यु॒वम् । य॒मौ । इ॒हेह॑ऽमातरा ॥२

बट् । इत्था । महिमा । वाम् । इन्द्राग्नी इति । पनिष्ठः । आ ।

समानः । वाम् । जनिता । भ्रातरा । युवम् । यमौ । इहेहऽमातरा ॥२

हे "इन्द्राग्नी “वां युवयोः “महिमा महत्त्वम् “इत्था इत्थमनेन प्रकारेण “बट् सत्यम् । युष्मद्विषयं यज्जन्ममहत्त्वं प्रतिपाद्यते तत्सर्वं यथार्थमित्यर्थः । “पनिष्ठ “आ पनिष्ठः स्तुत्यतमश्च प्रजापतिः “समानः एक एव “वां युवयोः “जनिता जनयिता । अतः “युवं युवां “भ्रातरा भ्रातरौ स्थः । अपि च “यमौ यमलौ सहोत्पन्नौ “इहेहमातरा । इह चेह च सर्वत्र माता ययोस्तादृशौ स्थः । अदितिर्हि अनयोर्माता सैव विस्तीर्णा भूमिरिति इहेहमातराविति श्रूयते ॥


ओ॒कि॒वांसा॑ सु॒ते सचाँ॒ अश्वा॒ सप्ती॑ इ॒वाद॑ने ।

इन्द्रा॒ न्व१॒॑ग्नी अव॑से॒ह व॒ज्रिणा॑ व॒यं दे॒वा ह॑वामहे ॥३

ओ॒कि॒ऽवांसा॑ । सु॒ते । सचा॑ । अश्वा॑ । सप्ती॑ इ॒वेति॒ सप्ती॑ऽइव । आद॑ने ।

इन्द्रा॑ । नु । अ॒ग्नी इति॑ । अव॑सा । इ॒ह । व॒ज्रिणा॑ । व॒यम् । दे॒वा । ह॒वा॒म॒हे॒ ॥३

ओकिऽवांसा । सुते । सचा । अश्वा । सप्ती इवेति सप्तीऽइव । आदने ।

इन्द्रा । नु । अग्नी इति । अवसा । इह । वज्रिणा । वयम् । देवा । हवामहे ॥३

हे इन्द्राग्नी “सुते अभिषुते सोमे युवां “सचा सह “ओकिवांसा ओकिवांसौ समवेतौ संगतौ भवतम् । ‘उच समवाये' इत्यस्यैतद्रूपम् । तत्र दृष्टान्तः । “आदने भक्षणीये घासे “सप्तीइव “अश्वा सर्पणशीलावश्वाविव । “नु अद्य “वयं तादृशौ इन्द्राग्नी “इह अस्मिन् यज्ञे “अवसा रक्षणेन हेतुना “हवामहे आह्वयामहे ॥ इतरेतरयोगात् इन्द्रशब्दे अग्निशब्दे च द्विवचनम् ॥ कीदृशाविन्द्राग्नी । “वज्रिणा वज्रिणावायुधोपेतौ “देवा दानादिगुणयुक्तौ ॥


य इ॑न्द्राग्नी सु॒तेषु॑ वां॒ स्तव॒त्तेष्वृ॑तावृधा ।

जो॒ष॒वा॒कं वद॑तः पज्रहोषिणा॒ न दे॑वा भ॒सथ॑श्च॒न ॥४

यः । इ॒न्द्रा॒ग्नी॒ इति॑ । सु॒तेषु॑ । वा॒म् । स्तव॑त् । तेषु॑ । ऋ॒त॒ऽवृ॒धा॒ ।

जो॒ष॒ऽवा॒कम् । वद॑तः । प॒ज्र॒ऽहो॒षि॒णा॒ । न । दे॒वा॒ । भ॒सथः॑ । च॒न ॥४

यः । इन्द्राग्नी इति । सुतेषु । वाम् । स्तवत् । तेषु । ऋतऽवृधा ।

जोषऽवाकम् । वदतः । पज्रऽहोषिणा । न । देवा । भसथः । चन ॥४

हे "ऋतावृधा ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारौ “इन्द्राग्नी "सुतेषु अभिषुतेषु सोमेषु “यः स्तोता “वां युवां “स्तवत् कुत्सितं स्तूयात् “तेषु सोमेषु मध्ये “जोषवाकं “वदतः जोषं जोषयितव्यं प्रीतिहेतुत्वेन कर्तव्यं स्वयमप्रीतिकरं तादृशं वाकं वाक्यं वदतस्तस्य स्तोतुः सोमं हे “पज्रहोषिणा पज्रः प्रार्जित: प्रसिद्धो होषो घोषः स्तोत्रं ययोस्तादृशौ हे “देवा देवौ युवां “न “भसथः न भक्षयथः । “चन इति पादपूरणः । अत्र निरुक्तं - जोषवाकमित्यविज्ञातनामधेयं जोषयितव्यं भवति । य इन्द्राग्नी सुतेषु वां सोमेषु स्तौति तेष्वृतस्य वर्धयितारौ न तस्याश्नीथः । अथ योऽयं जोषवाकं वदति विजञ्जपः प्रार्जितहोषिणौ देवौ न तस्याश्नीथः' ( निरु. ५. २२) इति ॥


इन्द्रा॑ग्नी॒ को अ॒स्य वां॒ देवौ॒ मर्त॑श्चिकेतति ।

विषू॑चो॒ अश्वा॑न्युयुजा॒न ई॑यत॒ एक॑ः समा॒न आ रथे॑ ॥५

इन्द्रा॑ग्नी॒ इति॑ । कः । अ॒स्य । वा॒म् । देवौ॑ । मर्तः॑ । चि॒के॒त॒ति॒ ।

विषू॑चः । अश्वा॑न् । यु॒यु॒जा॒नः । ई॒य॒ते॒ । एकः॑ । स॒मा॒ने । आ । रथे॑ ॥५

इन्द्राग्नी इति । कः । अस्य । वाम् । देवौ । मर्तः । चिकेतति ।

विषूचः । अश्वान् । युयुजानः । ईयते । एकः । समाने । आ । रथे ॥५

हे “देवौ द्योतमानौ “इन्द्राग्नी “वां युवयोः “अस्य इदं कर्म “कः “मर्तः मनुष्यः "चिकेतति जानीयात् । न कोऽपीत्यर्थः । किं तत्कर्म । “विषूच: नानाञ्चतो गच्छतः “अश्वान् “समाने उभयार्थ एकस्मिन् “रथे युवयोः “एकः इन्द्रः सूर्यात्मना वर्तमानः “युयुजानः तादृशानश्वान् योजयन् “आ “ईयते सर्वं जगदभिगच्छति । यद्वा । विषूचो नानारूपानश्वान् व्यापकान् समान एकरूपे रथे संवत्सरात्मके युयुजानो योजयन् युवयोरेकः सूर्यात्मेन्द्र एयते आगच्छति । एतद्युवयोः कर्म को यथावज्जानीयादित्यर्थः ॥ ॥ २५ ॥ ।


इन्द्रा॑ग्नी अ॒पादि॒यं पूर्वागा॑त्प॒द्वती॑भ्यः ।

हि॒त्वी शिरो॑ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दा न्य॑क्रमीत् ॥६

इन्द्रा॑ग्नी॒ इति॑ । अ॒पात् । इ॒यम् । पूर्वा॑ । आ । अ॒गा॒त् । प॒त्ऽवती॑भ्यः ।

हि॒त्वी । शिरः॑ । जि॒ह्वया॑ । वाव॑दत् । चर॑त् । त्रिं॒शत् । प॒दा । नि । अ॒क्र॒मी॒त् ॥६

इन्द्राग्नी इति । अपात् । इयम् । पूर्वा । आ । अगात् । पत्ऽवतीभ्यः ।

हित्वी । शिरः । जिह्वया । वावदत् । चरत् । त्रिंशत् । पदा । नि । अक्रमीत् ॥६

हे "इन्द्राग्नी “अपात् पादरहिता “इयम् उषाः “पद्वतीभ्यः पादयुक्ताभ्यः सुप्ताभ्यः प्रजाभ्यः “पूर्वा प्रथमभाविनी सती “आगात् आगच्छति । तथा प्राणिनां “शिरः “हित्वी प्रेरयित्री। यद्वा । शिरो हित्वा त्यक्त्वा स्वयमशिरस्का सती । “जिह्वया प्राणिस्थया तदीयेन वागिन्द्रियेण “वावदत् भृशं शब्दं कुर्वती “चरत् । एवं चरन्ती उषाः “त्रिंशत् पदानि अवयवभूतान् त्रिंशन्मुहूर्तान् “न्यक्रमीत् एकेन दिवसेनातिक्रामति । एतच्च युवयोः कर्म । तत् को जानीयादिति पूर्वत्रान्वयः ॥


इन्द्रा॑ग्नी॒ आ हि त॑न्व॒ते नरो॒ धन्वा॑नि बा॒ह्वोः ।

मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्क्तं॒ गवि॑ष्टिषु ॥७

इन्द्रा॑ग्नी॒ इति॑ । आ । हि । त॒न्व॒ते । नरः॑ । धन्वा॑नि । बा॒ह्वोः ।

मा । नः॒ । अ॒स्मिन् । म॒हा॒ऽध॒ने । परा॑ । व॒र्क्त॒म् । गोऽइ॑ष्टिषु ॥७

इन्द्राग्नी इति । आ । हि । तन्वते । नरः । धन्वानि । बाह्वोः ।

मा । नः । अस्मिन् । महाऽधने । परा । वर्क्तम् । गोऽइष्टिषु ॥७

हे “इन्द्राग्नी “नरः योद्धारो मनुष्याः “बाह्वोः हस्तयोः “धन्वानि धनूंषि “आ “तन्वते “हि आततज्यानि कुर्वते “हि । युवां च “अस्मिन् “महाधने जेतव्येन महाधनेनोपेते संग्रामे “गविष्टिषु गवामन्वेषणेषु “नः अस्मान् “मा “परा “वर्क्तम् । मा परित्यजतम् ॥


इन्द्रा॑ग्नी॒ तप॑न्ति मा॒घा अ॒र्यो अरा॑तयः ।

अप॒ द्वेषां॒स्या कृ॑तं युयु॒तं सूर्या॒दधि॑ ॥८

इन्द्रा॑ग्नी॒ इति॑ । तप॑न्ति । मा॒ । अ॒घाः । अ॒र्यः । अरा॑तयः ।

अप॑ । द्वेषां॑सि । आ । कृ॒त॒म् । यु॒यु॒तम् । सूर्या॑त् । अधि॑ ॥८

इन्द्राग्नी इति । तपन्ति । मा । अघाः । अर्यः । अरातयः ।

अप । द्वेषांसि । आ । कृतम् । युयुतम् । सूर्यात् । अधि ॥८

हे “इन्द्राग्नी “अघाः आहन्त्र्यः “अर्यः अभिगन्त्र्यः “अरातयः शत्रुसेनाः “मा “तपन्ति मां बाधन्ते । ताः “अप “आ “कृतम् अपाकुरुतम् । तथा “द्वेषांसि द्वेष्टॄन् शत्रून् सूर्यादधि । अधिः पञ्चम्यर्थानुवादकः । सूर्यदर्शनात् “युयुतं पृथक्कुरुतं च । यथा ते सूर्यं न पश्यन्ति तथा कुरुतम् । मारयतमित्यर्थः ॥


इन्द्रा॑ग्नी यु॒वोरपि॒ वसु॑ दि॒व्यानि॒ पार्थि॑वा ।

आ न॑ इ॒ह प्र य॑च्छतं र॒यिं वि॒श्वायु॑पोषसम् ॥९

इन्द्रा॑ग्नी॒ इति॑ । यु॒वोः । अपि॑ । वसु॑ । दि॒व्यानि॑ । पार्थि॑वा ।

आ । नः॒ । इ॒ह । प्र । य॒च्छ॒त॒म् । र॒यिम् । वि॒श्वायु॑ऽपोषसम् ॥९

इन्द्राग्नी इति । युवोः । अपि । वसु । दिव्यानि । पार्थिवा ।

आ । नः । इह । प्र । यच्छतम् । रयिम् । विश्वायुऽपोषसम् ॥९

हे “इन्द्राग्नी “युवोः युवयोः "दिव्यानि दिवि भवानि “पार्थिवा पृथिव्यां भवानि लोकद्वयसंबन्धीनि “वसु वसूनि “अपि हितानि युवयोरेव वर्तन्ते । अतः कारणात् “इह अस्मिन् यज्ञे “नः अस्मभ्यं “रयिं धनम् “आ अभि “प्र यच्छतम् । कीदृशं रयिम् । “विश्वायुपोषसम् । आयव इति मनुष्यनाम । सर्वेषां मनुष्याणां पोषणाय पर्याप्तम् । यद्वा । सर्वस्यायुषः पोषणे शक्तम् । छान्दसो वर्णलोपः॥


इन्द्रा॑ग्नी उक्थवाहसा॒ स्तोमे॑भिर्हवनश्रुता ।

विश्वा॑भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये॑ ॥१०

इन्द्रा॑ग्नी॒ इति॑ । उ॒क्थ॒ऽवा॒ह॒सा॒ । स्तोमे॑भिः । ह॒व॒न॒ऽश्रु॒ता॒ ।

विश्वा॑भिः । गीः॒ऽभिः । आ । ग॒त॒म् । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥१०

इन्द्राग्नी इति । उक्थऽवाहसा । स्तोमेभिः । हवनऽश्रुता ।

विश्वाभिः । गीःऽभिः । आ । गतम् । अस्य । सोमस्य । पीतये ॥१०

हे “उक्थवाहसा उक्थैः स्तुतिभिः वहनीयौ हे “हवनश्रुता हवनस्याह्वानस्य श्रोतारौ एवंभूतौ हे “इन्द्राग्नी “स्तोमेभिः स्तोत्रैः “विश्वाभिः सर्वाभिः “गीर्भिः शस्त्ररूपाभिर्वाग्भिश्च हेतुभूताभिः “आ “गतम् आगच्छतम् । किमर्थम्। “अस्य अस्मदीयस्य “सोमस्य “पीतये पानार्थम् ॥ ॥ २६ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.५९&oldid=200353" इत्यस्माद् पुनः प्राप्तिः