ऋग्वेदः सूक्तं ६.७३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.७२ ऋग्वेदः - मण्डल ६
सूक्तं ६.७३
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.७४ →
दे. बृहस्पतिः। त्रिष्टुप्।
बृहस्पतिः


यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् ।
द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥१॥
जनाय चिद्य ईवत उ लोकं बृहस्पतिर्देवहूतौ चकार ।
घ्नन्वृत्राणि वि पुरो दर्दरीति जयञ्छत्रूँरमित्रान्पृत्सु साहन् ॥२॥
बृहस्पतिः समजयद्वसूनि महो व्रजान्गोमतो देव एषः ।
अपः सिषासन्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥३॥


सायणभाष्यम्

‘यो अद्रिभित्' इति तृचं द्वादशं सूक्तं बार्हस्पत्यं भरद्वाजस्यार्षं त्रैष्टुभम् । तथा चानुक्रम्यते -- ‘यो अद्रिभित्तृचं बार्हस्पत्यम् ' इति । आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिशस्त्रे स्तोमातिशंसनार्थमिदं सूक्तम् । सूत्र्यते हि--- यो अद्रिभिद्यज्ञे दिव इति सूक्ते ' (आश्व. श्रौ. ७. ९ ) इति । वाजपेये बार्हस्पत्ये चरौ ‘बृहस्पतिः समजयद्वसूनीति --- त्वामीळते अजिरं दूत्याय' ( आश्व. श्रौ. ९. ९) इति ।।


यो अ॑द्रि॒भित्प्र॑थम॒जा ऋ॒तावा॒ बृह॒स्पति॑राङ्गिर॒सो ह॒विष्मा॑न् ।

द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो॑रवीति ॥१

यः । अ॒द्रि॒ऽभित् । प्र॒थ॒म॒ऽजाः । ऋ॒तऽवा॑ । बृह॒स्पतिः॑ । आ॒ङ्गि॒र॒सः । ह॒विष्मा॑न् ।

द्वि॒बर्ह॑ऽज्मा । प्रा॒घ॒र्म॒ऽसत् । पि॒ता । नः॒ । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ॥१

यः । अद्रिऽभित् । प्रथमऽजाः । ऋतऽवा । बृहस्पतिः । आङ्गिरसः । हविष्मान् ।

द्विबर्हऽज्मा । प्राघर्मऽसत् । पिता । नः । आ । रोदसी इति । वृषभः । रोरवीति ॥१

यः “बृहस्पतिः “अद्रिभित् पणिभिर्विरचितानां शिलोच्चयानां भेत्ता मेघानां विदारको वा । ‘ अद्रिः ग्रावः' इति मेघनामसु पाठात् । “प्रथमजाः प्रजापतेर्वीर्यात् प्रथमं जातः “ऋतावा सत्यवान् उदकवान् वा “आङ्गिरसः पश्चाज्जातः । तथा च निगमः - ‘ येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन्यदङ्गाराः पुनरवशान्ता उददीप्यन्त तत् बृहस्पतिरभवत् ' ( ऐ. ब्रा. ३. ३४ ) इति । “हविष्मान् यज्ञभागवान् द्विबर्हज्मा द्वयोर्लोकयोर्बृंहितगमनः “प्राघर्मसत् प्रकर्षेण दीप्तस्थाने वर्तमानः “नः अस्माकं “पिता पालयिता भवति स बृहस्पतिः “वृषभः वर्षकः सन् “रोदसी द्यावापृथिव्यौ “आ “रोरवीति अभिगर्जति ॥


जना॑य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑ ।

घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जय॒ञ्छत्रूँ॑र॒मित्रा॑न्पृ॒त्सु साह॑न् ॥२

जना॑य । चि॒त् । यः । ईव॑ते । ऊं॒ इति॑ । लो॒कम् । बृह॒स्पतिः॑ । दे॒वऽहू॑तौ । च॒कार॑ ।

घ्नन् । वृ॒त्राणि॑ । वि । पुरः॑ । द॒र्द॒री॒ति॒ । जय॑न् । शत्रू॑न् । अ॒मित्रा॑न् । पृ॒त्ऽसु । सह॑न् ॥२

जनाय । चित् । यः । ईवते । ऊं इति । लोकम् । बृहस्पतिः । देवऽहूतौ । चकार ।

घ्नन् । वृत्राणि । वि । पुरः । दर्दरीति । जयन् । शत्रून् । अमित्रान् । पृत्ऽसु । सहन् ॥२

अपि च “यः “बृहस्पतिः “देवहूतौ यज्ञे वर्तमानाय "ईवते उपगच्छते स्तोत्रे “जनाय “लोकं स्थानं “चकार करोति । “चित् इति पूरणः । सः “वृत्राणि आवरकाणि तमांसि “घ्नन् निवारयन् “पृत्सु युद्धेषु "शत्रून् "जयन् "अमित्रान् “सहन् अभिभवन् "पुरः आसुरीः पुरीः “वि "दर्दरीति भृशं विदारयति ।।


बृह॒स्पति॒ः सम॑जय॒द्वसू॑नि म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः ।

अ॒पः सिषा॑स॒न्स्व१॒॑रप्र॑तीतो॒ बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ॥३

बृह॒स्पतिः॑ । सम् । अ॒ज॒य॒त् । वसू॑नि । म॒हः । व्र॒जान् । गोऽम॑तः । दे॒वः । ए॒षः ।

अ॒पः । सिसा॑सन् । स्वः॑ । अप्र॑तिऽइतः । बृह॒स्पतिः॑ । हन्ति॑ । अ॒मित्र॑म् । अ॒र्कैः ॥३

बृहस्पतिः । सम् । अजयत् । वसूनि । महः । व्रजान् । गोऽमतः । देवः । एषः ।

अपः । सिसासन् । स्वः । अप्रतिऽइतः । बृहस्पतिः । हन्ति । अमित्रम् । अर्कैः ॥३

"देवः द्योतमानः “एषः प्रसिद्धः "बृहस्पतिः “वसूनि पणीनामसुराणां वलस्य वा धनानि “महः महतः “गोमतः गोसहितान् “व्रजान् च “समजयत् । तथा च निगमौ-- बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ' (ऋ. सं. १०. ६८. ९) इति, ‘ दूरमित पणयो वरीय उद्गावो यन्तु मिनतीर्ऋतेन । बृहस्पतिर्या अविन्दन्निगूळ्हाः सोमो ग्रावाण ऋषयश्च विप्राः ' ( ऋ. सं. १०. १०८. ११) इति । किंच “बृहस्पतिः “अप्रतीतः केनाप्यप्रतिगतः “सिषासन् संभक्तुकामः “स्वः स्वर्गस्य “अमित्रम् असुरम् “अर्कैः अर्चनसाधनैर्मन्त्रैः “हन्ति । ‘ अर्को मन्त्रो भवति यदेनेनार्चन्ति' ( निरु. ५. ४ ) इति यास्कः ॥ ॥ १७ ॥

[सम्पाद्यताम्]


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.७३&oldid=314271" इत्यस्माद् प्रतिप्राप्तम्