ऋग्वेदः सूक्तं ६.७२
← सूक्तं ६.७१ | ऋग्वेदः - मण्डल ६ सूक्तं ६.७२ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.७३ → |
दे. इन्द्रासोमौ। त्रिष्टुप् । |
इन्द्रासोमा महि तद्वां महित्वं युवं महानि प्रथमानि चक्रथुः ।
युवं सूर्यं विविदथुर्युवं स्वर्विश्वा तमांस्यहतं निदश्च ॥१॥
इन्द्रासोमा वासयथ उषासमुत्सूर्यं नयथो ज्योतिषा सह ।
उप द्यां स्कम्भथु स्कम्भनेनाप्रथतं पृथिवीं मातरं वि ॥२॥
इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत ।
प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि ॥३॥
इन्द्रासोमा पक्वमामास्वन्तर्नि गवामिद्दधथुर्वक्षणासु ।
जगृभथुरनपिनद्धमासु रुशच्चित्रासु जगतीष्वन्तः ॥४॥
इन्द्रासोमा युवमङ्ग तरुत्रमपत्यसाचं श्रुत्यं रराथे ।
युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहमुग्रा ॥५॥
सायणभाष्यम्
‘ इन्द्रासोमा महि ' इति पञ्चर्चमेकादशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमिन्द्रासोमदेवताकम् । अनुक्रम्यते च - ' इन्द्रासोमा पञ्चैन्द्रासोमम् ' इति । सूक्तविनियोगो लैङ्गिकः ॥
इन्द्रा॑सोमा॒ महि॒ तद्वां॑ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः ।
यु॒वं सूर्यं॑ विवि॒दथु॑र्यु॒वं स्व१॒॑र्विश्वा॒ तमां॑स्यहतं नि॒दश्च॑ ॥१
इन्द्रा॑सोमा । महि॑ । तत् । वा॒म् । म॒हि॒ऽत्वम् । यु॒वम् । म॒हानि॑ । प्र॒थ॒मानि॑ । च॒क्र॒थुः॒ ।
यु॒वम् । सूर्य॑म् । वि॒वि॒दथुः॑ । यु॒वम् । स्वः॑ । विश्वा॑ । तमां॑सि । अ॒ह॒त॒म् । नि॒दः । च॒ ॥१
इन्द्रासोमा । महि । तत् । वाम् । महिऽत्वम् । युवम् । महानि । प्रथमानि । चक्रथुः ।
युवम् । सूर्यम् । विविदथुः । युवम् । स्वः । विश्वा । तमांसि । अहतम् । निदः । च ॥१
“इन्द्रासोमा हे इन्द्रासोमौ "वां युवयोः “तत् “महित्वं महत्त्वं “महि महत् । किं तदित्यत आह । “युवं युवां "महानि महान्ति “प्रथमानि प्रतमानि मुख्यानि वा भूतानि । ‘ प्रथम इति मुख्यनाम प्रतमो भवति' ( निरु. २:२२ ) इति यास्कः । “चक्रथुः अकार्ष्टम् । किंच “युवं युवां “सूर्यं “विविदथुः अलम्भयतं च जनान् । “युवं युवां “स्वः उदकं च विविदथुः । ‘ हेम स्वः' इत्युदकनामसु पाठात् । अपि च “विश्वा विश्वानि “तमांसि “निदश्च निन्दितॄनसुरांश्च “अहतम् अहिंस्तम् ॥
इन्द्रा॑सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं॑ नयथो॒ ज्योति॑षा स॒ह ।
उप॒ द्यां स्क॒म्भथु॒ः स्कम्भ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ॥२
इन्द्रा॑सोमा । वा॒सय॑थः । उ॒षस॑म् । उत् । सूर्य॑म् । न॒य॒थः॒ । ज्योति॑षा । स॒ह ।
उप॑ । द्याम् । स्क॒म्भथुः॑ । स्कम्भ॑नेन । अप्र॑थतम् । पृ॒थि॒वीम् । मा॒तर॑म् । वि ॥२
इन्द्रासोमा । वासयथः । उषसम् । उत् । सूर्यम् । नयथः । ज्योतिषा । सह ।
उप । द्याम् । स्कम्भथुः । स्कम्भनेन । अप्रथतम् । पृथिवीम् । मातरम् । वि ॥२
“इन्द्रासोमा हे इन्द्रासोमौ “उषसं “वासयथः विवासयथः । उषसं व्युच्छन्तीं कारयथ इत्यर्थः । किंच "सूर्यं “ज्योतिषा तेजसा “सह “उत् “नयथः । अपि च “द्यां दिवं “स्कम्भनेन स्तम्भन हेतुनान्तरिक्षेण मध्ये स्थापितेन “उप “स्कम्भथुः अस्तम्भयतम् । “मातरं विश्वस्य मातृभूतां “पृथिवीं “वि "अप्रथतं व्यप्रथयतम् ।।
इन्द्रा॑सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत ।
प्रार्णां॑स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ॥३
इन्द्रा॑सोमौ । अहि॑म् । अ॒पः । प॒रि॒ऽस्थाम् । ह॒थः । वृ॒त्रम् । अनु॑ । वा॒म् । द्यौः । अ॒म॒न्य॒त॒ ।
प्र । अर्णां॑सि । ऐ॒र॒य॒त॒म् । न॒दीना॑म् । आ । स॒मु॒द्राणि॑ । प॒प्र॒थुः॒ । पु॒रूणि॑ ॥३
इन्द्रासोमौ । अहिम् । अपः । परिऽस्थाम् । हथः । वृत्रम् । अनु । वाम् । द्यौः । अमन्यत ।
प्र । अर्णांसि । ऐरयतम् । नदीनाम् । आ । समुद्राणि । पप्रथुः । पुरूणि ॥३
हे "इन्द्रासोमौ "अहिं जगत आहन्तारम् “अपः मेघस्थान्युदकानि “परिष्ठां परिवृत्य स्थितं “वृत्रम् असुरं “हथः हतम् । तदानीं “द्यौः “वां युवाम् “अनु “अमन्यत । किंच “नदीनाम् “अर्णांसि उदकानि “प्र “ऐरयतम् । “पुरूणि बहूनि । ‘तुवि पुरु' इति बहुनामसु पाठात् । “समुद्राणि उदकस्थानानि “आ “पप्रथुः उदकैरापूरयतं च । अथवा समुन्दन्तीत्युदकान्येव समुद्राणि । तानि रसेनापूरयतमित्यर्थः । तथा च यास्कः - ‘ समुद्रः कस्मात्समुद्द्रवन्त्यस्मादापः समभिद्रवन्त्येनमापः संमोदन्तेऽस्मिन्भूतानि समुदको भवति समुनत्तीति वा ' (निरु. २.१०) इति ॥
इन्द्रा॑सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा॑सु ।
ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ॥४
इन्द्रा॑सोमा । प॒क्वम् । आ॒मासु॑ । अ॒न्तः । नि । गवा॑म् । इत् । द॒ध॒थुः॒ । व॒क्षणा॑सु ।
ज॒गृ॒भथुः॑ । अन॑पिऽनद्धम् । आ॒सु॒ । रुश॑त् । चि॒त्रासु॑ । जग॑तीषु । अ॒न्तरिति॑ ॥४
इन्द्रासोमा । पक्वम् । आमासु । अन्तः । नि । गवाम् । इत् । दधथुः । वक्षणासु ।
जगृभथुः । अनपिऽनद्धम् । आसु । रुशत् । चित्रासु । जगतीषु । अन्तरिति ॥४
“इन्द्रासोमा हे इन्द्रासोमौ “आमासु अपक्वासु “गवां “वक्षणासु ऊधःसु “अन्तः मध्ये “पक्वं पयः “नि “दधथुः । किंच चित्रासु नानावर्णासु “आसु “जगतीषु गोषु । ‘ इळा जगती इति गोनामसु पाठात् । “अन्तः मध्ये “अनपिनद्धं केनाप्याबद्धं “रुशत् शुक्लवर्णं पयः "जगृभथुः । यथा पृथिव्यां स्वयं न क्षरति तथा धारितवन्तावित्यर्थः । “इत् इति पूरणः ।।
इन्द्रा॑सोमा यु॒वम॒ङ्ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं॑ रराथे ।
यु॒वं शुष्मं॒ नर्यं॑ चर्ष॒णिभ्य॒ः सं वि॑व्यथुः पृतना॒षाह॑मुग्रा ॥५
इन्द्रा॑सोमा । यु॒वम् । अ॒ङ्ग । तरु॑त्रम् । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । र॒रा॒थे॒ इति॑ ।
यु॒वम् । शुष्म॑म् । नर्य॑म् । च॒र्ष॒णिऽभ्यः॑ । सम् । वि॒व्य॒थुः॒ । पृ॒त॒ना॒ऽसह॑म् । उ॒ग्रा॒ ॥५
इन्द्रासोमा । युवम् । अङ्ग । तरुत्रम् । अपत्यऽसाचम् । श्रुत्यम् । रराथे इति ।
युवम् । शुष्मम् । नर्यम् । चर्षणिऽभ्यः । सम् । विव्यथुः । पृतनाऽसहम् । उग्रा ॥५
“इन्द्रासोमा हे इन्द्रासोमौ “युवं युवां “तरुत्रं तारकम् “अपत्यसाचं संतानयुक्तं “श्रुत्यं श्रवणीयं रयिं धनम् “अङ्ग क्षिप्रं "रराथे अस्मभ्यं धत्थः । किंच “उग्रा हे उद्गूर्णाविन्द्रासोमौ “युवं युवां "नर्यं नृभ्यो हितं "पृतनासहं शत्रुसैन्याभिभावुकं “शुष्मं बलं “चर्षणिभ्यः मनुष्येभ्यः । ‘कृष्टयः चर्षणयः' इति मनुष्यनामसु पाठात् । “सं विव्यथुः समतनुतम् । परिवेष्टयथो वा ॥ ॥१६॥
मण्डल ६ | ||||
---|---|---|---|---|