ऋग्वेदः सूक्तं ६.५५
← सूक्तं ६.५४ | ऋग्वेदः - मण्डल ६ सूक्तं ६.५५ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.५६ → |
दे. पूषा। गायत्री। |
एहि वां विमुचो नपादाघृणे सं सचावहै ।
रथीरृतस्य नो भव ॥१॥
रथीतमं कपर्दिनमीशानं राधसो महः ।
रायः सखायमीमहे ॥२॥
रायो धारास्याघृणे वसो राशिरजाश्व ।
धीवतोधीवतः सखा ॥३॥
पूषणं न्वजाश्वमुप स्तोषाम वाजिनम् ।
स्वसुर्यो जार उच्यते ॥४॥
मातुर्दिधिषुमब्रवं स्वसुर्जारः शृणोतु नः ।
भ्रातेन्द्रस्य सखा मम ॥५॥
आजासः पूषणं रथे निशृम्भास्ते जनश्रियम् ।
देवं वहन्तु बिभ्रतः ॥६॥
सायणभाष्यम्
‘एहि वाम्' इति षड़ृचं षष्ठं सूक्तं भरद्वाजस्यार्षं गायत्रं पौष्णम् । अनुक्रम्यते च – एहि वां षट् ' इति । गतो विनियोगः ॥
एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै ।
र॒थीरृ॒तस्य॑ नो भव ॥१
आ । इ॒हि॒ । वाम् । वि॒ऽमु॒चः॒ । न॒पा॒त् । आघृ॑णे । सम् । स॒चा॒व॒है॒ ।
र॒थीः । ऋ॒तस्य॑ । नः॒ । भ॒व॒ ॥१
आ । इहि । वाम् । विऽमुचः । नपात् । आघृणे । सम् । सचावहै ।
रथीः । ऋतस्य । नः । भव ॥१
हे “विमुचो "नपात् । विमुञ्चति सृष्टिकाले स्वसकाशात् सर्वाः प्रजा विसृजतीति विमुक् प्रजापतिः । तस्य पुत्र “आघृणे आगतदीप्ते पूषन् “वाम् । वाति गच्छति स्तुतिं प्राप्नोतीति वाः स्तोता ।। ' वा गतिगन्धनयोः' इत्यस्मात् ‘ आतो मनिन् ' इति विच् ॥ वां गन्तारं स्तोतारं माम् “एहि आगच्छ । आवां च “सं “सचावहै समयाव । संगच्छावहै। तादृशस्त्वं “नः अस्माकम् “ऋतस्य यज्ञस्य “रथीः रंहिता नेता “भव । तथा सति तत्रत्यं हविस्त्वयापि लभ्यत इत्यर्थः ॥
र॒थीत॑मं कप॒र्दिन॒मीशा॑नं॒ राध॑सो म॒हः ।
रा॒यः सखा॑यमीमहे ॥२
र॒थिऽत॑मम् । क॒प॒र्दिन॑म् । ईशा॑नम् । राध॑सः । म॒हः ।
रा॒यः । सखा॑यम् । ई॒म॒हे॒ ॥२
रथिऽतमम् । कपर्दिनम् । ईशानम् । राधसः । महः ।
रायः । सखायम् । ईमहे ॥२
“रथीतमम् अतिशयेन रथिनम् । यद्वा । अतिशयेन रंहितारं नेतारं “कपर्दिनम् । कपर्दश्चूडा । तद्वन्तम् । राध्नोत्यनेनेति राधो धनम् । “महः महतः “राधसः धनस्य “ईशानं स्वामिनं "सखायम् अस्माकं मित्रमेवंविधं पूषणं “रायः धनानि “ईमहे याचामहे ॥
रा॒यो धारा॑स्याघृणे॒ वसो॑ रा॒शिर॑जाश्व ।
धीव॑तोधीवत॒ः सखा॑ ॥३
रा॒यः । धारा॑ । अ॒सि॒ । आ॒घृ॒णे॒ । वसोः॑ । रा॒शिः । अ॒ज॒ऽअ॒श्व॒ ।
धीव॑तःऽधीवतः । सखा॑ ॥३
रायः । धारा । असि । आघृणे । वसोः । राशिः । अजऽअश्व ।
धीवतःऽधीवतः । सखा ॥३
हे “आघृणे आगतदीप्ते पूषन् “रायः धनस्य “धारा “असि प्रवाहो भवसि । स्तोतृभ्यो बहुधनं नैरन्तर्येण प्रयच्छसीत्यर्थः । “अजाश्व । अजाश्छागा एवाश्वा अश्वकार्यापन्ना यस्य तादृश पूषन् 'वसोः वसुनः धनस्य “राशिः संघश्च भवसि । धनसंघश्च त्वय्येव निवसतीत्यर्थः । “धीवतोधीवतः सर्वस्य स्तोत्रवतः पुरुषस्य “सखा मित्रभूतश्च भवसि ।।
पू॒षणं॒ न्व१॒॑जाश्व॒मुप॑ स्तोषाम वा॒जिन॑म् ।
स्वसु॒र्यो जा॒र उ॒च्यते॑ ॥४
पू॒षण॑म् । नु । अ॒जऽअ॑श्वम् । उप॑ । स्तो॒षा॒म॒ । वा॒जिन॑म् ।
स्वसुः॑ । यः । जा॒रः । उ॒च्यते॑ ॥४
पूषणम् । नु । अजऽअश्वम् । उप । स्तोषाम । वाजिनम् ।
स्वसुः । यः । जारः । उच्यते ॥४
"अजाश्वं छागवाहनं “वाजिनम् अन्नवन्तं बलवन्तं वा “पूषणं पोषकं देवं "नु अद्य “उप “स्तोषाम उपस्तवाम। "यः पूषा “स्वसुः उषसः “जारः उपपतिरिति “उच्यते तं पूषणमित्यन्वयः ।।
मा॒तुर्दि॑धि॒षुम॑ब्रवं॒ स्वसु॑र्जा॒रः शृ॑णोतु नः ।
भ्रातेन्द्र॑स्य॒ सखा॒ मम॑ ॥५
मा॒तुः । दि॒धि॒षुम् । अ॒ब्र॒व॒म् । स्वसुः॑ । जा॒रः । शृ॒णो॒तु॒ । नः॒ ।
भ्राता॑ । इन्द्र॑स्य । सखा॑ । मम॑ ॥५
मातुः । दिधिषुम् । अब्रवम् । स्वसुः । जारः । शृणोतु । नः ।
भ्राता । इन्द्रस्य । सखा । मम ॥५
"मातुः निर्मात्र्या रात्रेः “दिधिषुं पतिं पूषणम् “अब्रवं स्तौमि । “स्वसुः उषसः “जारः च पूषा “नः अस्माकं स्तोत्राणि “शृणोतु । “इन्द्रस्य “भ्राता सहजातः पूषा “मम स्तोतुः “सखा मित्रभूतोऽस्तु ॥
आजास॑ः पू॒षणं॒ रथे॑ निशृ॒म्भास्ते ज॑न॒श्रिय॑म् ।
दे॒वं व॑हन्तु॒ बिभ्र॑तः ॥६
आ । अ॒जासः॑ । पू॒षण॑म् । रथे॑ । नि॒ऽशृ॒म्भाः । ते । ज॒न॒ऽश्रिय॑म् ।
दे॒वम् । व॒ह॒न्तु॒ । बिभ्र॑तः ॥६
आ । अजासः । पूषणम् । रथे । निऽशृम्भाः । ते । जनऽश्रियम् ।
देवम् । वहन्तु । बिभ्रतः ॥६
“अजासः अजाश्छागाः “निशृम्भाः निश्रथ्य संबध्य हर्तारः “ते पूष्णो वाहनतया प्रसिद्धाश्छागाः “जनश्रियम् । जनं स्तोतृसंघं श्रयति गच्छतीति जनश्रीः । तं “पूषणं “देवं “रथे “बिभ्रतः धारयन्तः “आ “वहन्तु आनयन्तु ॥ ॥ २१ ॥
मण्डल ६ | ||||
---|---|---|---|---|