ऋग्वेदः सूक्तं ६.७१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.७० ऋग्वेदः - मण्डल ६
सूक्तं ६.७१
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.७२ →
दे. सविता। जगती, ४-६ त्रिष्टुप् ।


उदु ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः ।
घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि ॥१॥
देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश्च दावने ।
यो विश्वस्य द्विपदो यश्चतुष्पदो निवेशने प्रसवे चासि भूमनः ॥२॥
अदब्धेभिः सवितः पायुभिष्ट्वं शिवेभिरद्य परि पाहि नो गयम् ।
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नो अघशंस ईशत ॥३॥
उदु ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषमस्थात् ।
अयोहनुर्यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम् ॥४॥
उदू अयाँ उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका ।
दिवो रोहांस्यरुहत्पृथिव्या अरीरमत्पतयत्कच्चिदभ्वम् ॥५॥
वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः ।
वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम ॥६॥


सायणभाष्यम्

' उदु ष्य देवः' इति षड़ृचं दशमं सूक्तं भरद्वाजस्यार्षं सवितृदेवताकम् । अद्यास्तिस्रो जगत्यश्चतुर्थ्याद्यास्तिस्रस्त्रिष्टुभः । तथा चानुक्रान्तम् - उदु ष्य सावित्रं त्रित्रिष्टुबन्तम् ' इति । सूक्तविनियोगो लैङ्गिकः । चातुर्विंशिकेऽहनि वैश्वदेवशस्त्रे आद्यस्तृचः सावित्रसूक्तस्थान आवपनीयः । सूत्रितं च – ‘उदु ष्य देवः सविता हिरण्ययेति तिस्रस्ते हि द्यावापृथिवी ' ( आश्व. श्रौ. ७ . ४ ) इति । बृहस्पतिसवेऽपि वैश्वदेवशस्त्रे सावित्रसूक्तस्थान एष तृचः । सूत्रितं च - उदु ष्य देवः सविता हिरण्ययेत्यनूत्तिष्ठेत् ' (आश्व. श्रौ. ९ . ५) इति । व्यूळ्हे पञ्चमेऽहनि वैश्वदेवशस्रेष् ‘उदु ष्य देवः सविता दमूनाः ' इति तृचः सावित्रनिविद्धानार्थः । सूत्रितं च - ‘उदु ष्य देवः सविता दमूना इति तिस्रः ' ( आश्व. श्रौ. ८ . ८ ) इति । वैश्वदेवपर्वणि सावित्रद्वादशकपालस्य ' वाममद्य ' इति याज्या । सूत्रितं च – वाममद्य सवितर्वाममु श्वः पूषन्तव व्रते वयम् ' ( आश्व. श्रौ. २. १६ ) इति ॥


उदु॒ ष्य दे॒वः स॑वि॒ता हि॑र॒ण्यया॑ बा॒हू अ॑यंस्त॒ सव॑नाय सु॒क्रतु॑ः ।

घृ॒तेन॑ पा॒णी अ॒भि प्रु॑ष्णुते म॒खो युवा॑ सु॒दक्षो॒ रज॑सो॒ विध॑र्मणि ॥१

उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । हि॒र॒ण्यया॑ । बा॒हू इति॑ । अ॒यं॒स्त॒ । सव॑नाय । सु॒ऽक्रतुः॑ ।

घृ॒तेन॑ । पा॒णी इति॑ । अ॒भि । प्रु॒ष्णु॒ते॒ । म॒खः । युवा॑ । सु॒ऽदक्षः॑ । रज॑सः । विऽध॑र्मणि ॥१

उत् । ऊं इति । स्यः । देवः । सविता । हिरण्यया । बाहू इति । अयंस्त । सवनाय । सुऽक्रतुः ।

घृतेन । पाणी इति । अभि । प्रुष्णुते । मखः । युवा । सुऽदक्षः । रजसः । विऽधर्मणि ॥१

“देवः द्योतमान: "सुक्रतुः सुकर्मा “स्यः स प्रसिद्धः "सविता “हिरण्यया हिरण्मयौ आत्मीयौ “बाहू "सवनाय सुवनाय दानाय वा “उत् "अयंस्त उद्यच्छति । किंच “मखः मंहनीयः "युवा नित्यतरुणः "सुदक्षः सुप्रज्ञः "रजसः लोकस्योदकस्य वा "विधर्मणि विधारणे स्थितः “घृतेन उदकेन पूर्णौ स्वौ "पाणी "अभि “प्रुष्णुते अभिप्रेरयति ॥


दे॒वस्य॑ व॒यं स॑वि॒तुः सवी॑मनि॒ श्रेष्ठे॑ स्याम॒ वसु॑नश्च दा॒वने॑ ।

यो विश्व॑स्य द्वि॒पदो॒ यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ॥२

दे॒वस्य॑ । व॒यम् । स॒वि॒तुः । सवी॑मनि । श्रेष्ठे॑ । स्या॒म॒ । वसु॑नः । च॒ । दा॒वने॑ ।

यः । विश्व॑स्य । द्वि॒ऽपदः॑ । यः । चतुः॑ऽपदः । नि॒ऽवेश॑ने । प्र॒ऽस॒वे । च॒ । असि॑ । भूम॑नः ॥२

देवस्य । वयम् । सवितुः । सवीमनि । श्रेष्ठे । स्याम । वसुनः । च । दावने ।

यः । विश्वस्य । द्विऽपदः । यः । चतुःऽपदः । निऽवेशने । प्रऽसवे । च । असि । भूमनः ॥२

तस्य "देवस्य "सवितुः प्रेरकस्य "सवीमनि प्रसवेऽनुज्ञाने। तथा च यास्कः - सवीमनि प्रसवे ' ( निरु. ६ . ७ ) इति । "श्रेष्ठे अतिशयेन प्रशस्ते “वसुनः धनस्य “दावने दाने “च “स्याम समर्था भूयास्म । "यः त्वं "विश्वस्य सर्वस्य “द्विपदः “निवेशने स्थितौ "प्रसवे "च स्वतन्त्रः “असि । "यः त्वं “भूमनः भूरेः "चतुष्पदः निवेशने प्रसवे च स्वतन्त्रोऽसि ॥


अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वं शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् ।

हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥३

अद॑ब्धेभिः । स॒वि॒त॒रिति॑ । पा॒युऽभिः॑ । त्वम् । शि॒वेभिः॑ । अ॒द्य । परि॑ । पा॒हि॒ । नः॒ । गय॑म् ।

हिर॑ण्यऽजिह्वः । सु॒वि॒ताय॑ । नव्य॑से । रक्ष॑ । माकिः॑ । नः॒ । अ॒घऽशं॑सः । ई॒श॒त॒ ॥३

अदब्धेभिः । सवितरिति । पायुऽभिः । त्वम् । शिवेभिः । अद्य । परि । पाहि । नः । गयम् ।

हिरण्यऽजिह्वः । सुविताय । नव्यसे । रक्ष । माकिः । नः । अघऽशंसः । ईशत ॥३

हे "सवितः "अदब्धेभिः अहिंसितैः "पायुभिः तेजोभिः रक्षणसाधनैर्वा “शिवेभिः सुखकरैः "नः अस्माकं "गयं गृहं धनं वा । ‘ गयः कृदरः' इति गृहनामसु ' मीळ्हं गयः' इति धननामसु पाठात् । "अद्य “परि "पाहि रक्ष। "हिरण्यजिह्वः हितरमणीयवाक् "त्वम् । तथा च यास्कः - ‘ हिरण्यं कस्मात् ' इत्युपक्रम्य ' हितरमणं भवतीति वा ' ( निरु. २ : १० ) इति । “सुविताय सुखाय "नव्यसे नवतराय भव । "रक्ष अम्मान् पालय च । 'नः अस्माकम् "अघशंसः अनर्थमाशंसमानः शत्रुः “माकिः "ईशत मेशत ॥


उदु॒ ष्य दे॒वः स॑वि॒ता दमू॑ना॒ हिर॑ण्यपाणिः प्रतिदो॒षम॑स्थात् ।

अयो॑हनुर्यज॒तो म॒न्द्रजि॑ह्व॒ आ दा॒शुषे॑ सुवति॒ भूरि॑ वा॒मम् ॥४

उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । दमू॑नाः । हिर॑ण्यऽपाणिः । प्र॒ति॒ऽदो॒षम् । अ॒स्था॒त् ।

अयः॑ऽहनुः । य॒ज॒तः । म॒न्द्रऽजि॑ह्वः । आ । दा॒शुषे॑ । सु॒व॒ति॒ । भूरि॑ । वा॒मम् ॥४

उत् । ऊं इति । स्यः । देवः । सविता । दमूनाः । हिरण्यऽपाणिः । प्रतिऽदोषम् । अस्थात् ।

अयःऽहनुः । यजतः । मन्द्रऽजिह्वः । आ । दाशुषे । सुवति । भूरि । वामम् ॥४

“देवः द्योतमानः "दमूना: दममनाः दानमना वा । तथा च यास्कः - ‘ दमूना दममना वा दानमना वा दान्तमना वा ' ( निरु. ४. ४ ) इति । "हिरण्यपाणिः हिरण्मयपाणिः “अयोहनुः हिरण्मयहनुः । ‘ रुक्मम् अयः' इति हिरण्यनामसु पाठात् । "यजतः यष्टव्यः "मन्द्रजिह्वः मोदमानवाक् "स्यः सः "सविता "प्रतिदोषं प्रतिरात्रं रात्रेः अवसानेऽवसाने "उत् "अस्थात् उत्तिष्ठतु । यः "दाशुषे यजमानाय मह्यं "भूरि प्रभूतं “वामं वननीयं संभजनीयमन्नम् । वामं वननीयम् ' ( निरु. ६ : ३१ ) इति यास्कः । “आ "सुवति प्रेरयति ॥


उदू॑ अयाँ उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया॑ सवि॒ता सु॒प्रती॑का ।

दि॒वो रोहां॑स्यरुहत्पृथि॒व्या अरी॑रमत्प॒तय॒त्कच्चि॒दभ्व॑म् ॥५

उत् । ऊं॒ इति॑ । अ॒या॒न् । उ॒प॒व॒क्ताऽइ॑व । बा॒हू इति॑ । हि॒र॒ण्यया॑ । स॒वि॒ता । सु॒ऽप्रती॑का ।

दि॒वः । रोहां॑सि । अ॒रु॒ह॒त् । पृ॒थि॒व्याः । अरी॑रमत् । प॒तय॑त् । कत् । चि॒त् । अभ्व॑म् ॥५

उत् । ऊं इति । अयान् । उपवक्ताऽइव । बाहू इति । हिरण्यया । सविता । सुऽप्रतीका ।

दिवः । रोहांसि । अरुहत् । पृथिव्याः । अरीरमत् । पतयत् । कत् । चित् । अभ्वम् ॥५

“सविता “उपवक्तेव अस्माकमधिवक्तेव "हिरण्यया हिरण्मयौ "सुप्रतीका शोभनावयवौ “बाहू “उत् "अयान् उद्यच्छतु । योऽयं "पृथिव्याः पृथिवीपर्यन्तात् “दिवः अन्तरिक्षस्य "रोहांसि उच्छ्रितप्रदेशान् "अरुहत् रोहति । “पतयत् गच्छत् "कच्चित् यत्किंचित् “अभ्वं महत् सर्वं वस्तुजातं तिरोहितम् "अरीरमत् रमयति च ॥


वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यं॑ सावीः ।

वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाज॑ः स्याम ॥६

वा॒मम् । अ॒द्य । स॒वि॒तः॒ । वा॒मम् । ऊं॒ इति॑ । श्वः । दि॒वेऽदि॑वे । वा॒मम् । अ॒स्मभ्य॑म् । सा॒वीः॒ ।

वा॒मस्य॑ । हि । क्षय॑स्य । दे॒व॒ । भूरेः॑ । अ॒या । धि॒या । वा॒म॒ऽभाजः॑ । स्या॒म॒ ॥६

वामम् । अद्य । सवितः । वामम् । ऊं इति । श्वः । दिवेऽदिवे । वामम् । अस्मभ्यम् । सावीः ।

वामस्य । हि । क्षयस्य । देव । भूरेः । अया । धिया । वामऽभाजः । स्याम ॥६

हे “सवितः “अस्मभ्यं “वामं धनम् “अद्य “सावीः सुव । “श्वः च "वामं धनं प्रसुव । किं बहूक्त्या। "दिवेदिवे प्रतिदिनं “वामं धनं प्रसुव । हे “देव "हि यस्मात् “क्षयस्य निवासभूतस्य “भूरेः प्रभूतस्य “वामस्य दातासि अतो वयम् “अया अनया “धिया स्तुत्या "वामभाजः धनवन्तः “स्याम भूयास्म ॥ ॥ १५ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.७१&oldid=200547" इत्यस्माद् पुनः प्राप्तिः