ऋग्वेदः सूक्तं ६.६७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.६६ ऋग्वेदः - मण्डल ६
सूक्तं ६.६७
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.६८ →
दे. मित्रावरुणौ। त्रिष्टुप्


विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर्मित्रावरुणा वावृधध्यै ।
सं या रश्मेव यमतुर्यमिष्ठा द्वा जनाँ असमा बाहुभिः स्वैः ॥१॥
इयं मद्वां प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिरच्छ ।
यन्तं नो मित्रावरुणावधृष्टं छर्दिर्यद्वां वरूथ्यं सुदानू ॥२॥
आ यातं मित्रावरुणा सुशस्त्युप प्रिया नमसा हूयमाना ।
सं यावप्नस्थो अपसेव जनाञ्छ्रुधीयतश्चिद्यतथो महित्वा ॥३॥
अश्वा न या वाजिना पूतबन्धू ऋता यद्गर्भमदितिर्भरध्यै ।
प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि दीधः ॥४॥
विश्वे यद्वां मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः ।
परि यद्भूथो रोदसी चिदुर्वी सन्ति स्पशो अदब्धासो अमूराः ॥५॥
ता हि क्षत्रं धारयेथे अनु द्यून्दृंहेथे सानुमुपमादिव द्योः ।
दृळ्हो नक्षत्र उत विश्वदेवो भूमिमातान्द्यां धासिनायोः ॥६॥
ता विग्रं धैथे जठरं पृणध्या आ यत्सद्म सभृतयः पृणन्ति ।
न मृष्यन्ते युवतयोऽवाता वि यत्पयो विश्वजिन्वा भरन्ते ॥७॥
ता जिह्वया सदमेदं सुमेधा आ यद्वां सत्यो अरतिरृते भूत् ।
तद्वां महित्वं घृतान्नावस्तु युवं दाशुषे वि चयिष्टमंहः ॥८॥
प्र यद्वां मित्रावरुणा स्पूर्धन्प्रिया धाम युवधिता मिनन्ति ।
न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः ॥९॥
वि यद्वाचं कीस्तासो भरन्ते शंसन्ति के चिन्निविदो मनानाः ।
आद्वां ब्रवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा ॥१०॥
अवोरित्था वां छर्दिषो अभिष्टौ युवोर्मित्रावरुणावस्कृधोयु ।
अनु यद्गाव स्फुरानृजिप्यं धृष्णुं यद्रणे वृषणं युनजन् ॥११॥


सायणभाष्यम्

‘ विश्वेषां वः 'इत्येकादशर्चं षष्ठं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं मैत्रावरुणम् । तथा चानुक्रम्यते -- ‘ विश्वेषां मैत्रावरुणम्' इति । सूक्तविनियोगो लैङ्गिकः । मैत्रावरुणे पशौ ‘ आ यातं मित्रावरुणा ' इति पशुपुरोडाशस्यानुवाक्या । सूत्रितं च - ‘ आ यातं मित्रावरुणा सुशस्त्या नो मित्रावरुणा हव्यजुष्टिम् ' ( आश्व. श्रौ. ३. ८ ) इति । व्यूळ्हे दशरात्रे सप्तमेऽहनि प्रउगशस्त्रे ‘प्र यद्वाम् इति मैत्रावरुणस्तृतीयस्तृचः । तथा च सूत्रितं - ‘ प्र यद्वां मित्रावरुणा स्पूर्धन्ना गोमता नासत्या रथेन ' ( आश्व. श्रौ. ८.९ ) इति ।।


विश्वे॑षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै॑ ।

सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जनाँ॒ अस॑मा बा॒हुभि॒ः स्वैः ॥१

विश्वे॑षाम् । वः॒ । स॒ताम् । ज्येष्ठ॑ऽतमा । गीः॒ऽभिः । मि॒त्रावरु॑णा । व॒वृ॒धध्यै॑ ।

सम् । या । र॒श्माऽइ॑व । य॒मतुः॑ । यमि॑ष्ठा । द्वा । जना॑न् । अस॑मा । बा॒हुऽभिः॑ । स्वैः ॥१

विश्वेषाम् । वः । सताम् । ज्येष्ठऽतमा । गीःऽभिः । मित्रावरुणा । ववृधध्यै ।

सम् । या । रश्माऽइव । यमतुः । यमिष्ठा । द्वा । जनान् । असमा । बाहुऽभिः । स्वैः ॥१

“विश्वेषां "सतां मध्ये "ज्येष्ठतमा ज्येष्ठतमौ मित्रावरुणौ "वः वां "गीर्भिः स्तुतिभिः "ववृधध्यै वर्धयितुं प्रवृत्तोऽस्मि । "या यौ “द्वा द्वौ सहितौ “असमा विषमौ । ' त्रिरश्रिं हन्ति चतुरश्रिरुग्रः ' ( ऋ. सं. १.१५२.२ ) इति निगमान्तरेणासाम्यं दर्शितम् । "यमिष्ठा यन्तृतमौ “स्वैः आत्मीयै "बाहुभिः "रश्मेव रश्मिनेवाश्वान् "जनान् "सं "यमतुः संयच्छतः । बाहुभिरिति बहुवचनं पूजार्थम् ॥


इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑ ।

य॒न्तं नो॑ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां॑ वरू॒थ्यं॑ सुदानू ॥२

इ॒यम् । मत् । वा॒म् । प्र । स्तृ॒णी॒ते॒ । म॒नी॒षा । उप॑ । प्रि॒या । नम॑सा । ब॒र्हिः । अच्छ॑ ।

य॒न्तम् । नः॒ । मि॒त्रा॒व॒रु॒णौ॒ । अधृ॑ष्टम् । छ॒र्दिः । यत् । वा॒म् । व॒रू॒थ्य॑म् । सु॒दा॒नू॒ इति॑ सुऽदानू ॥२

इयम् । मत् । वाम् । प्र । स्तृणीते । मनीषा । उप । प्रिया । नमसा । बर्हिः । अच्छ ।

यन्तम् । नः । मित्रावरुणौ । अधृष्टम् । छर्दिः । यत् । वाम् । वरूथ्यम् । सुदानू इति सुऽदानू ॥२

हे मित्रावरुणौ "वां युवां "मत् मम “इयं मनीषा स्तुतिः “प्र “स्तृणीते प्रच्छादयति । “प्रिया हे प्रियौ युवां "नमसा अन्नेन हविषा सह "उप गच्छति च । युवयोः "बर्हिः यज्ञमू “अच्छ अभिगच्छति च । हे “मित्रावरुणौ “नः अस्मभ्यम् अधृष्टम् अनभिभूतं “छर्दिः गृहं "यन्तं प्रयच्छतम् । हे "सुदानू शोभनदानौ “वां युवयोः संबन्धि युवाभ्यां देयं "यत् गृहं “वरूथ्यं शीतवातातपानां वारयितृ भवति ।


आ या॑तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा हू॒यमा॑ना ।

सं याव॑प्न॒ःस्थो अ॒पसे॑व॒ जना॑ञ्छ्रुधीय॒तश्चि॑द्यतथो महि॒त्वा ॥३

आ । या॒त॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽश॒स्ति । उप॑ । प्रि॒या । नम॑सा । हू॒यमा॑ना ।

सम् । यौ । अ॒प्नः॒ऽस्थः । अ॒पसा॑ऽइव । जना॑न् । श्रु॒धि॒ऽय॒तः । चि॒त् । य॒त॒थः॒ । म॒हि॒ऽत्वा ॥३

आ । यातम् । मित्रावरुणा । सुऽशस्ति । उप । प्रिया । नमसा । हूयमाना ।

सम् । यौ । अप्नःऽस्थः । अपसाऽइव । जनान् । श्रुधिऽयतः । चित् । यतथः । महिऽत्वा ॥३

हे मित्रावरुणौ "सुशस्ति शोभनशंसनं "नमसा अन्नेन हविषा स्तोत्रेण वा "हूयमाना स्तूयमानौ वा “प्रिया विश्वस्य प्रियौ "उप “आ “यातम् उपागच्छतम् । “यौ महित्वा महत्त्वेन युक्तौ युवां “श्रुधीयतः श्रुधिमन्नं यशो वात्मन इच्छतो "जनान् "अप्नःस्थः कर्मण्यधिकृतः पुरुषः । ‘ अपः अप्नः' इति कर्मनामसु पाठात् । "अपसेव कर्मणेव "सं "यतथः संयच्छथः ॥


अश्वा॒ न या वा॒जिना॑ पू॒तब॑न्धू ऋ॒ता यद्गर्भ॒मदि॑ति॒र्भर॑ध्यै ।

प्र या महि॑ म॒हान्ता॒ जाय॑माना घो॒रा मर्ता॑य रि॒पवे॒ नि दी॑धः ॥४

अश्वा॑ । न । या । वा॒जिना॑ । पू॒तब॑न्धू॒ इति॑ पू॒तऽब॑न्धू । ऋ॒ता । यत् । गर्भ॑म् । अदि॑तिः । भर॑ध्यै ।

प्र । या । महि॑ । म॒हान्ता॑ । जाय॑माना । घो॒रा । मर्ता॑य । रि॒पवे॑ । नि । दी॒ध॒रिति॑ दीधः ॥४

अश्वा । न । या । वाजिना । पूतबन्धू इति पूतऽबन्धू । ऋता । यत् । गर्भम् । अदितिः । भरध्यै ।

प्र । या । महि । महान्ता । जायमाना । घोरा । मर्ताय । रिपवे । नि । दीधरिति दीधः ॥४

“या यौ "अश्वा "न अश्वाविव "वाजिना वाजिनौ बलिनौ “पूतबन्धू पूतस्तोत्रौ “ऋता सत्यौ च । "यत् यौ "गर्भं गर्भभूतौ "अदितिः देवी “भरध्यै बभार । किंच "या यौ “जायमाना जायमानावेव "महि महतः "महान्ता महत्तरौ प्रभूतौ मित्रावरुणौ “मर्ताय मर्त्याय "रिपवे हिंसकाय “घोरा घोरौ घातकौ "नि "दीधः निदधारादितिः स्वोदरे ।


विश्वे॒ यद्वां॑ मं॒हना॒ मन्द॑मानाः क्ष॒त्रं दे॒वासो॒ अद॑धुः स॒जोषा॑ः ।

परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी सन्ति॒ स्पशो॒ अद॑ब्धासो॒ अमू॑राः ॥५

विश्वे॑ । यत् । वा॒म् । मं॒हना॑ । मन्द॑मानाः । क्ष॒त्रम् । दे॒वासः॑ । अद॑धुः । स॒ऽजोषाः॑ ।

परि॑ । यत् । भू॒थः । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । सन्ति॑ । स्पशः॑ । अद॑ब्धासः । अमू॑राः ॥५

विश्वे । यत् । वाम् । मंहना । मन्दमानाः । क्षत्रम् । देवासः । अदधुः । सऽजोषाः ।

परि । यत् । भूथः । रोदसी इति । चित् । उर्वी इति । सन्ति । स्पशः । अदब्धासः । अमूराः ॥५

“विश्वे सर्वे "देवासः देवाः "सजोषाः परस्परं प्रीतियुक्ताः "यत् यौ “वां युवां "मंहना महत्त्वेन “मन्दमानाः स्तुवन्तः "क्षत्रं बलम् "अदधुः धत्तवन्तः। किंच "यत् यौ युवाम् “उर्वी विस्तीर्णे "रोदसी द्यावापृथिव्यौ “परि “भूथः परिभवथः तयोर्युवयोः "अदब्धास; अहिंसिताः "अमूराः अमूढाः "स्पशः रश्मयश्चरा वा "सन्ति ॥ ॥ ९ ॥


ता हि क्ष॒त्रं धा॒रये॑थे॒ अनु॒ द्यून्दृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः ।

दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे॑वो॒ भूमि॒माता॒न्द्यां धा॒सिना॒योः ॥६

ता । हि । क्ष॒त्रम् । धा॒रये॑थे॒ इति॑ । अनु॑ । द्यून् । दृं॒हेथे॒ इति॑ । सानु॑म् । उ॒प॒मात्ऽइ॑व । द्योः ।

दृ॒ळ्हः । नक्ष॑त्रः । उ॒त । वि॒श्वऽदे॑वः । भूमि॑म् । आ । अ॒ता॒न् । द्याम् । धा॒सिना॑ । आ॒योः ॥६

ता । हि । क्षत्रम् । धारयेथे इति । अनु । द्यून् । दृंहेथे इति । सानुम् । उपमात्ऽइव । द्योः ।

दृळ्हः । नक्षत्रः । उत । विश्वऽदेवः । भूमिम् । आ । अतान् । द्याम् । धासिना । आयोः ॥६

“ता तौ मित्रावरुणौ युवाम् "अनु "द्यून् दिवसे दिवसे "क्षत्रं बलं “धारयेथे "हि । "द्योः अन्तरिक्षस्य "सानुं समुच्छ्रितप्रदेशं मेघं सूर्यं वा "दृंहेथे दृढीकुरुतम् । "उपमादिव । उपमीयते प्रक्षिप्यते इति उपमात् स्थूणा । सा यथा वत्सं धारयति तद्वदित्यर्थः । "दृळ्हः युवाभ्यां दृढीकृतश्च मेघः "नक्षत्रः अन्तरिक्षं व्याप्नुवानः “उत अपि च विश्वदेवः सूर्यः “भूमिं “द्यां दिवं च "आयोः मनुष्यस्य । द्रुह्यवः आयवः' इति मनुष्यनामसु पाठात् । “धासिना अन्नेन हविषा । ‘क्षुत् धासिः' इत्यन्ननामसु पाठात्। आप्यायितः सन् “आतान् आतनोति युवाभ्यां दृढीकृत एव ।


ता वि॒ग्रं धै॑थे ज॒ठरं॑ पृ॒णध्या॒ आ यत्सद्म॒ सभृ॑तयः पृ॒णन्ति॑ ।

न मृ॑ष्यन्ते युव॒तयोऽवा॑ता॒ वि यत्पयो॑ विश्वजिन्वा॒ भर॑न्ते ॥७

ता । वि॒ग्रम् । धै॒थे॒ इति॑ । ज॒ठर॑म् । पृ॒णध्यै॑ । आ । यत् । सद्म॑ । सऽभृ॑तयः । पृ॒णन्ति॑ ।

न । मृ॒ष्य॒न्ते॒ । यु॒व॒तयः॑ । अवा॑ताः । वि । यत् । पयः॑ । वि॒श्व॒ऽजि॒न्वा॒ । भर॑न्ते ॥७

ता । विग्रम् । धैथे इति । जठरम् । पृणध्यै । आ । यत् । सद्म । सऽभृतयः । पृणन्ति ।

न । मृष्यन्ते । युवतयः । अवाताः । वि । यत् । पयः । विश्वऽजिन्वा । भरन्ते ॥७

“ता तौ मित्रावरुणौ युवां "विग्रं प्राज्ञं यजमानम् । ‘विप्रः विग्रः' इति मेधाविनामसु पाठात् । “धैथे धारयथः "जठरम् उदरं "पृणध्यै सोमेन पूरयितुम् । "यत् यदा "सभृतयः सह भ्रियमाणा ऋत्विजः “सद्म यज्ञसदनम् “आ “पृणन्ति आपूरयन्ति । "विश्वजिन्वा हे विश्वजिन्वानौ "यत् यदा "पयः जलं भवद्भ्यां प्रहितं तदा "युवतयः नद्यः दिशो वा “न “मृष्यन्ते रजसा नाभिभूयन्ते । "अवाताः अशुष्काश्च "वि “भरन्ते विभूतिं धारयन्ति ।।


ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा आ यद्वां॑ स॒त्यो अ॑र॒तिरृ॒ते भूत् ।

तद्वां॑ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंह॑ः ॥८

ता । जि॒ह्वया॑ । सद॑म् । आ । इ॒दम् । सु॒ऽमे॒धाः । आ । यत् । वा॒म् । स॒त्यः । अ॒र॒तिः । ऋ॒ते । भूत् ।

तत् । वा॒म् । म॒हि॒ऽत्वम् । घृ॒त॒ऽअ॒न्नौ॒ । अ॒स्तु॒ । यु॒वम् । दा॒शुषे॑ । वि । च॒यि॒ष्ट॒म् । अंहः॑ ॥८

ता । जिह्वया । सदम् । आ । इदम् । सुऽमेधाः । आ । यत् । वाम् । सत्यः । अरतिः । ऋते । भूत् ।

तत् । वाम् । महिऽत्वम् । घृतऽअन्नौ । अस्तु । युवम् । दाशुषे । वि । चयिष्टम् । अंहः ॥८

“ता तौ मित्रावरुणौ युवां "सुमेधाः प्राज्ञः "जिह्वया वाचा "सदं सर्वदा “इदं जलम् "आ याचते । आ इत्युपसर्गदर्शनात् योग्यक्रियाध्याहारात याचत इत्यध्याह्रियते । पूर्वस्यामृचि जलस्य प्रकृतत्वात् बुद्धौ विपरिवर्तमानं जलमिदंशब्देन परामृश्यते । "यत् यदा “वां युवयोः "अरतिः अभिगन्ता “ऋते यज्ञे "सत्यः मायारहितः “आ “भूत् आभवति हे "घृतान्नौ “तत् "महित्वम् अपेक्षितप्रदातृत्वलक्षणं “वां युवयोः "अस्तु । किंच "युवं युवां "दाशुषे दाशुषो यजमानस्य ॥ षष्ठ्यर्थे चतुर्थी ॥ “अंहः पापं “वि “चयिष्टं विनाशयतमित्यर्थः ॥


प्र यद्वां॑ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्ति॑ ।

न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒ अय॑ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ॥९

प्र । यत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स्पू॒र्धन् । प्रि॒या । धाम॑ । यु॒वऽधि॑ता । मि॒नन्ति॑ ।

न । ये । दे॒वासः॑ । ओह॑सा । न । मर्ताः॑ । अय॑ज्ञऽसाचः । अप्यः॑ । न । पु॒त्राः ॥९

प्र । यत् । वाम् । मित्रावरुणा । स्पूर्धन् । प्रिया । धाम । युवऽधिता । मिनन्ति ।

न । ये । देवासः । ओहसा । न । मर्ताः । अयज्ञऽसाचः । अप्यः । न । पुत्राः ॥९

हे मित्रावरुणौ “वां युवयोः "प्रिया प्रियाणि “धाम धामानि कर्माणि "युवधिता युवाभ्यां विहितानि "यत् ये अयजन्तो जनाः "स्पूर्धन् स्पर्धमानाः “प्र “मिनन्ति हिंसन्ति । ये च देवासः देवाः "ओहसा वहनसाधनेन स्तोत्रेण "न युज्यन्ते । “मर्ताः मनुष्याश्च ओहसा “न युज्यन्ते । ये च “अप्यः । पः: कर्म । तद्वन्तः "अयज्ञसाचः न यज्ञयुक्ताः वृथाकर्माणि कुर्वन्त इत्यर्थः । ये च “न “पुत्राः । पृणन्तीति पुत्राः । न पुत्रा अपृणन्त इत्यर्थः । तान् सर्वान् वि चयिष्टमित्यनुषज्यते ॥


वि यद्वाचं॑ की॒स्तासो॒ भर॑न्ते॒ शंस॑न्ति॒ के चि॑न्नि॒विदो॑ मना॒नाः ।

आद्वां॑ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि॑र्यतथो महि॒त्वा ॥१०

वि । यत् । वाच॑म् । की॒स्तासः॑ । भर॑न्ते । शंस॑न्ति । के । चि॒त् । नि॒ऽविदः॑ । म॒ना॒नाः ।

आत् । वा॒म् । ब्र॒वा॒म॒ । स॒त्यानि॑ । उ॒क्था । नकिः॑ । दे॒वेभिः॑ । य॒त॒थः॒ । म॒हि॒ऽत्वा ॥१०

वि । यत् । वाचम् । कीस्तासः । भरन्ते । शंसन्ति । के । चित् । निऽविदः । मनानाः ।

आत् । वाम् । ब्रवाम । सत्यानि । उक्था । नकिः । देवेभिः । यतथः । महिऽत्वा ॥१०

"यत् यदा "कीस्तासः मेधाविन उद्गातारः। उशिजः कीस्तासः' इति मेधाविनामसु पाठात् । “वाचं स्तुतिं "वि “भरन्ते पृथक् उच्चारयन्ति तदा “के "चित् बह्वृचाः "मनानाः अग्न्यादीन् स्तुवन्तः "निविदः “शंसन्ति । "आत् तथा सति “वां युवाभ्यां "सत्यानि उक्थानि स्तोत्राणि वयं "ब्रवाम । "महित्वा महत्त्वेन "देवेभिः अन्यैर्देवैः सह "नकिः "यतथः न गच्छथः ॥


अ॒वोरि॒त्था वां॑ छ॒र्दिषो॑ अ॒भिष्टौ॑ यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु ।

अनु॒ यद्गाव॑ः स्फु॒रानृ॑जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष॑णं यु॒नज॑न् ॥११

अ॒वोः । इ॒त्था । वा॒म् । छ॒र्दिषः॑ । अ॒भिष्टौ॑ । यु॒वोः । मि॒त्रा॒व॒रु॒णौ॒ । अस्कृ॑धोयु ।

अनु॑ । यत् । गावः॑ । स्फु॒रान् । ऋ॒जि॒प्यम् । धृ॒ष्णुम् । यत् । रणे॑ । वृष॑णम् । यु॒नज॑न् ॥११

अवोः । इत्था । वाम् । छर्दिषः । अभिष्टौ । युवोः । मित्रावरुणौ । अस्कृधोयु ।

अनु । यत् । गावः । स्फुरान् । ऋजिप्यम् । धृष्णुम् । यत् । रणे । वृषणम् । युनजन् ॥११

हे "मित्रावरुणौ "अवोः अवतोः “वां युवयोः "अभिष्टौ अभिगमने "छर्दिषः गृहाय सुखाथ वा । चतुर्थ्यर्थे षष्ठी । युवामभिगतेषु स्तोतृषु "युवोः युवयोः संबन्धि युवाभ्यां देयं तद्गृहादिकम् “अस्कृधोयु अविच्छिन्नं भवति । तथा च यास्कः- ‘ अस्कृधोयुरकृध्वायुः । कृध्विति ह्रस्वनाम निकृत्तं भवति ' (निरु. ६. ३ ) इति । “इत्था सत्यमेव । कदा मित्रावरुणयोरभिगमनमित्यत आह । “यत् यदा "गावः स्तुतयः "अनु "स्फुरान् अनुस्फुरेयुः। यदा च “ऋजिप्यम् ऋजुगामिनं “धृष्णुं शत्रूणां धर्षकं "वृषणं कामानां वर्षितारं सोमं "रणे रमणे यज्ञे "युनजन् यजमाना युञ्ज्युः ॥ ॥ १० ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.६७&oldid=209211" इत्यस्माद् पुनः प्राप्तिः