ऋग्वेदः सूक्तं ६.६६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ६.६६ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ६.६५ ऋग्वेदः - मण्डल ६
सूक्तं ६.६६
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.६७ →
दे. मरुतः। त्रिष्टुप्।


वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम् ।
मर्तेष्वन्यद्दोहसे पीपाय सकृच्छुक्रं दुदुहे पृश्निरूधः ॥१॥
ये अग्नयो न शोशुचन्निधाना द्विर्यत्त्रिर्मरुतो वावृधन्त ।
अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश्च भूवन् ॥२॥
रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा याँश्चो नु दाधृविर्भरध्यै ।
विदे हि माता महो मही षा सेत्पृश्निः सुभ्वे गर्भमाधात् ॥३॥
न य ईषन्ते जनुषोऽया न्वन्तः सन्तोऽवद्यानि पुनानाः ।
निर्यद्दुह्रे शुचयोऽनु जोषमनु श्रिया तन्वमुक्षमाणाः ॥४॥
मक्षू न येषु दोहसे चिदया आ नाम धृष्णु मारुतं दधानाः ।
न ये स्तौना अयासो मह्ना नू चित्सुदानुरव यासदुग्रान् ॥५॥
त इदुग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके ।
अध स्मैषु रोदसी स्वशोचिरामवत्सु तस्थौ न रोकः ॥६॥
अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद्यमजत्यरथीः ।
अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन् ॥७॥
नास्य वर्ता न तरुता न्वस्ति मरुतो यमवथ वाजसातौ ।
तोके वा गोषु तनये यमप्सु स व्रजं दर्ता पार्ये अध द्योः ॥८॥
प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् ।
ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ॥९॥
त्विषीमन्तो अध्वरस्येव दिद्युत्तृषुच्यवसो जुह्वो नाग्नेः ।
अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥१०॥
तं वृधन्तं मारुतं भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे ।
दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ॥११॥


सायणभाष्यम्

वपुर्नु तत् ' इत्येकादशर्चं पञ्चमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं मारुतम् । तथा चानुक्रम्यते - ‘ वपुर्न्वेकादश मारुतम् ' इति । व्यूळ्हे दशरात्रे षष्ठेऽहनि अग्निमारुत इदं सूक्तं मारुतनिविद्धानम् । सूत्रितं च - ‘ हविष्पान्तं वपुर्नु तत् ' ( आश्व. श्रौ. ८.८) इति । वैश्वदेवे पर्वणि मारुतसप्तकपालस्य ‘प्र चित्रमर्कम् ' इति याज्या । सूत्रितं च --' प्र चित्रमर्कं गृणते तुरायेति नवानुयाजाः' ( आश्व. श्रौ. २. १६ ) इति । एकादशिने मारुते पशौ ‘ प्र चित्रमर्कम् ' इत्येषैव याज्या । सूत्रितं च - ‘ प्र चित्रमर्कं गृणते तुरायारा इवेदचरमा अहेव ' ( आश्व. श्रौ. ३.७ ) इति ॥


वपु॒र्नु तच्चि॑कि॒तुषे॑ चिदस्तु समा॒नं नाम॑ धे॒नु पत्य॑मानम् ।

मर्ते॑ष्व॒न्यद्दो॒हसे॑ पी॒पाय॑ स॒कृच्छु॒क्रं दु॑दुहे॒ पृश्नि॒रूध॑ः ॥१

वपुः॑ । नु । तत् । चि॒कि॒तुषे॑ । चि॒त् । अ॒स्तु॒ । स॒मा॒नम् । नाम॑ । धे॒नु । पत्य॑मानम् ।

मर्ते॑षु । अ॒न्यत् । दो॒हसे॑ । पी॒पाय॑ । स॒कृत् । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः॑ । ऊधः॑ ॥१

वपुः । नु । तत् । चिकितुषे । चित् । अस्तु । समानम् । नाम । धेनु । पत्यमानम् ।

मर्तेषु । अन्यत् । दोहसे । पीपाय । सकृत् । शुक्रम् । दुदुहे । पृश्निः । ऊधः ॥१

“तत् प्रसिद्धं "समानम् एकरूपम् । मरुतः सर्वदा समानरूपाः । तथा च निगमान्तरम् -- ‘ अज्येष्ठासो अकनिष्ठास एते ' ( ऋ. सं. ५.६०.५ ) इति । “नाम स्थिराणामपि नामकं “धेनु प्रीणयितृ "पत्यमानं सर्वदा गच्छत् "वपुः मरुतां रूपं "चिकितुषे विदुषे स्तोत्रे “नु क्षिप्रम् "अस्तु प्रादुर्भवतु। “चित् इति पूरकम् । किंच तद्रूपं "मर्तेषु मर्त्यलोके "अन्यत् ओषधिवनस्पत्यादिकं "दोहसे कामान् दोग्धुं "पीपाय आप्याययति । किंच मरुतामेव निर्देशात् "पृश्निः अन्तरिक्षं "सकृत् संवत्सरस्य वर्षासु "शुक्रं शुक्लवर्णम् “ऊधः उदकं "दुदुहे क्षरति ॥


ये अ॒ग्नयो॒ न शोशु॑चन्निधा॒ना द्विर्यत्त्रिर्म॒रुतो॑ वावृ॒धन्त॑ ।

अ॒रे॒णवो॑ हिर॒ण्यया॑स एषां सा॒कं नृ॒म्णैः पौंस्ये॑भिश्च भूवन् ॥२

ये । अ॒ग्नयः॑ । न । शोशु॑चन् । इ॒धा॒नाः । द्विः । यत् । त्रिः । म॒रुतः॑ । व॒वृ॒धन्त॑ ।

अ॒रे॒णवः॑ । हि॒र॒ण्यया॑सः । ए॒षा॒म् । सा॒कम् । नृ॒म्णैः । पौंस्ये॑भिः । च॒ । भू॒व॒न् ॥२

ये । अग्नयः । न । शोशुचन् । इधानाः । द्विः । यत् । त्रिः । मरुतः । ववृधन्त ।

अरेणवः । हिरण्ययासः । एषाम् । साकम् । नृम्णैः । पौंस्येभिः । च । भूवन् ॥२

“ये "मरुतः “इधानाः “अग्नयो “न समिध्यमाना अग्नय इव "शोशुचन् दीप्यन्ते । "यत् ये मरुतः "द्विः द्विगुणं "त्रिः त्रिगुणं च “ववृधन्त इच्छानुरूपं वर्धन्ते ॥ संहितायां दीर्घश्छान्दसः ॥ “एषां मरुतां रथाः "अरेणवः रेणुरहिताः "हिरण्ययासः हिरण्मयालंकाराश्च भवन्ति। ते मरुतः "नृम्णैः धनैः "पौंस्येभिः बलैः "च "साकं सार्धं "भूवन् प्रादुर्भवन्ति । तथा च निगमान्तरं - ये पृषतीभिर्ऋष्टिभिः' ( ऋ. सं. १. ३७. २ ) इति ॥


रु॒द्रस्य॒ ये मी॒ळ्हुष॒ः सन्ति॑ पु॒त्रा याँश्चो॒ नु दाधृ॑वि॒र्भर॑ध्यै ।

वि॒दे हि मा॒ता म॒हो म॒ही षा सेत्पृश्नि॑ः सु॒भ्वे॒३॒॑ गर्भ॒माधा॑त् ॥३

रु॒द्रस्य॑ । ये । मी॒ळ्हुषः॑ । सन्ति॑ । पु॒त्राः । यान् । चो॒ इति॑ । नु । दाधृ॑विः । भर॑ध्यै ।

वि॒दे । हि । मा॒ता । म॒हः । म॒ही । सा । सा । इत् । पृश्निः॑ । सु॒ऽभ्वे॑ । गर्भ॑म् । आ । अ॒धा॒त् ॥३

रुद्रस्य । ये । मीळ्हुषः । सन्ति । पुत्राः । यान् । चो इति । नु । दाधृविः । भरध्यै ।

विदे । हि । माता । महः । मही । सा । सा । इत् । पृश्निः । सुऽभ्वे । गर्भम् । आ । अधात् ॥३

“मीळ्हुषः सेक्तुः "रुद्रस्य "पुत्राः "ये मरुतः "सन्ति "दाधृविः धरित्री पृश्निः अन्तरिक्षं “यांश्चो "नु यांश्च मरुतो नु “भरध्यै भर्तुं क्षमा भवति । "विदे “हि सर्वज्ञाता हि "महः महतामेषां “माता "सा पृश्निः "मही महती। किंच "सा "पृश्निः "सुभ्वे नृणां सम्यक् भवनाय "गर्भम् उदकम् “आधात् आदधाति ॥


न य ईष॑न्ते ज॒नुषोऽया॒ न्व१॒॑न्तः सन्तो॑ऽव॒द्यानि॑ पुना॒नाः ।

निर्यद्दु॒ह्रे शुच॒योऽनु॒ जोष॒मनु॑ श्रि॒या त॒न्व॑मु॒क्षमा॑णाः ॥४

न । ये । ईष॑न्ते । ज॒नुषः॑ । अया॑ । नु । अ॒न्तरिति॑ । सन्तः॑ । अ॒व॒द्यानि॑ । पु॒ना॒नाः ।

निः । यत् । दु॒ह्रे । शुच॑यः । अनु॑ । जोष॑म् । अनु॑ । श्रि॒या । त॒न्व॑म् । उ॒क्षमा॑णाः ॥४

न । ये । ईषन्ते । जनुषः । अया । नु । अन्तरिति । सन्तः । अवद्यानि । पुनानाः ।

निः । यत् । दुह्रे । शुचयः । अनु । जोषम् । अनु । श्रिया । तन्वम् । उक्षमाणाः ॥४

"ये प्रसिद्धा मरुतः "जनुषः जनान् स्तोतॄन् प्रति "अया अयेन गमनसाधनेन "न “ईषन्ते न गच्छन्ति । किं तेषां रक्षणीयत्वाभावात् गमनाभावो नेत्याह । "अन्तः "सन्तः सर्वेषां हृदि वर्तमाना एव "अवद्यानि पापानि “पुनानाः शोधयन्तः । तथा च निगमान्तरं -- प्राणा वै मरुतः स्वापयः (ऐ. ब्रा. ३.१६ ) इति । अतः सर्वप्राणिनां हृदि वर्तमानत्वात् तेषां गमनं नास्तीति अध्यात्मं प्राणरूपेणावस्थानं दर्शितं भवति । शीघ्रगामित्वं तु तेषामधिदैवतरूपेणेति द्रष्टव्यम् । "यत् यदा “शुचयः दीप्यमाना मरुतः "जोषमनु स्तोतॄणां काममनु "निः “दुह्रे नितरां दुहन्त्युदकम् । तथा "श्रिया दीप्त्या "अनु अनुगताः “तन्वम् आत्मीयं शरीरं प्रकाशयन्तः "उक्षमाणाः भूमिं सिञ्चन्तो भवन्ति । यद्वा। तन्वं विस्तीर्णं यथा भवति तथा उक्षमाणा भूमिं सिञ्चन्तो भवन्तीत्यर्थः ।।


म॒क्षू न येषु॑ दो॒हसे॑ चिद॒या आ नाम॑ धृ॒ष्णु मारु॑तं॒ दधा॑नाः ।

न ये स्तौ॒ना अ॒यासो॑ म॒ह्ना नू चि॑त्सु॒दानु॒रव॑ यासदु॒ग्रान् ॥५

म॒क्षु । न । येषु॑ । दो॒हसे॑ । चि॒त् । अ॒याः । आ । नाम॑ । घृ॒ष्णु । मारु॑तम् । दधा॑नाः ।

न । ये । स्तौ॒नाः । अ॒यासः॑ । म॒ह्ना । नु । चि॒त् । सु॒ऽदानुः॑ । अव॑ । या॒स॒त् । उ॒ग्रान् ॥५

मक्षु । न । येषु । दोहसे । चित् । अयाः । आ । नाम । घृष्णु । मारुतम् । दधानाः ।

न । ये । स्तौनाः । अयासः । मह्ना । नु । चित् । सुऽदानुः । अव । यासत् । उग्रान् ॥५

"येषु प्रसिद्धेषु मरुत्सु “धृष्णु धर्षकं "मारुतं "नाम मरुत्संज्ञकं शस्त्रम् “आ “दधानाः उञ्चारयन्तः “अयाः उपगच्छन्तः स्तोतारः "मक्षु क्षिप्रं "दोहसे कामान् दोग्धुं क्षमा भवन्ति । "न इति संप्रत्यर्थे । "ये "स्तौनाः स्तेनास्तिरोहित वा स्तोतृधनानामपहर्तारः "अयासः गन्तारो भवन्ति । "मह्ना महत्त्वेन युक्ताश्च भवन्ति “उग्रान् तान् । क्रुद्धान् "सुदानुः शोभनहविर्दानो यजमानः "अव "यासत् अवयजते । अपगतक्रोधान् करोति । "न इति संप्रत्यर्थे ॥ ॥ ७ ॥


त इदु॒ग्राः शव॑सा धृ॒ष्णुषे॑णा उ॒भे यु॑जन्त॒ रोद॑सी सु॒मेके॑ ।

अध॑ स्मैषु रोद॒सी स्वशो॑चि॒राम॑वत्सु तस्थौ॒ न रोक॑ः ॥६

ते । इत् । उ॒ग्राः । शव॑सा । धृ॒ष्णुऽसे॑नाः । उ॒भे इति॑ । यु॒ज॒न्त॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।

अध॑ । स्म॒ । ए॒षु॒ । रो॒द॒सी । स्वऽशो॑चिः । आ । अम॑वत्ऽसु । त॒स्थौ॒ । न । रोकः॑ ॥६

ते । इत् । उग्राः । शवसा । धृष्णुऽसेनाः । उभे इति । युजन्त । रोदसी इति । सुमेके इति सुऽमेके ।

अध । स्म । एषु । रोदसी । स्वऽशोचिः । आ । अमवत्ऽसु । तस्थौ । न । रोकः ॥६

“ते मरुतः "उग्राः “शवसा बलेन वेगेन युक्ताः "धृष्णुषेणाः धर्षकसेनाः "सुमेके सुरूपे "उभे “रोदसी द्यावापृथिव्यौ “युजन्त योजयन्ति । वृष्ट्या पृथिवीं तर्पयन्तीत्यभिप्रायः । “अध “स्म अपि च “एषु येषु मरुत्सु "रोदसी रुद्रस्य पत्नी माध्यमिकी वाक् "स्वशोचिः स्वदीप्तिर्वर्तते “अमवत्सु बलवत्सु तेषु "रोकः दीप्ति: बाधको वा "न “आ “तस्थौ न तिष्ठति । न निःसरत्येवेत्यर्थः ॥


अ॒ने॒नो वो॑ मरुतो॒ यामो॑ अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः ।

अ॒न॒व॒सो अ॑नभी॒शू र॑ज॒स्तूर्वि रोद॑सी प॒थ्या॑ याति॒ साध॑न् ॥७

अ॒ने॒नः । वः॒ । म॒रु॒तः॒ । यामः॑ । अ॒स्तु॒ । अ॒न॒श्वः । चि॒त् । यम् । अज॑ति । अर॑थीः ।

अ॒न॒व॒सः । अ॒न॒भी॒शुः । र॒जः॒ऽतूः । वि । रोद॑सी॒ इति॑ । प॒थ्याः॑ । या॒ति॒ । साध॑न् ॥७

अनेनः । वः । मरुतः । यामः । अस्तु । अनश्वः । चित् । यम् । अजति । अरथीः ।

अनवसः । अनभीशुः । रजःऽतूः । वि । रोदसी इति । पथ्याः । याति । साधन् ॥७

हे "मरुतः "वः युष्माकं संबन्धी "यामः रथः "अनेनः पापरहितं यथा भवति तथा "अस्तु प्रादुर्भवतु । किंच "यं यामम् “अरथी: । रथिः सारथिः । न रथिररथी:। असारथिरपि स्तोता “अजति प्रेरयति स रथः "अनश्वश्चित् अश्वरहितोऽपि “अनवसः पथ्यदनरहितः "अनभीशुः पाशरहितोऽपि "रजस्तूः उदकस्य प्रेरकः "साधन् स्तोतॄणां कामान् साधयन् "रोदसी द्यावापृथिव्यौ “पथ्याः पथोऽन्तरिक्षमार्गान् "वि "याति विविधं गच्छति ॥


नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ ।

तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒ अध॒ द्योः ॥८

न । अ॒स्य॒ । व॒र्ता । न । त॒रु॒ता । नु । अ॒स्ति॒ । मरु॑तः । यम् । अव॑थ । वाज॑ऽसातौ ।

तो॒के । वा॒ । गोषु॑ । तन॑ये । यम् । अ॒प्ऽसु । सः । व्र॒जम् । दर्ता॑ । पार्ये॑ । अध॑ । द्योः ॥८

न । अस्य । वर्ता । न । तरुता । नु । अस्ति । मरुतः । यम् । अवथ । वाजऽसातौ ।

तोके । वा । गोषु । तनये । यम् । अप्ऽसु । सः । व्रजम् । दर्ता । पार्ये । अध । द्योः ॥८

हे "मरुतः “वाजसातौ संग्रामे "यम् "अवथ रक्षथ "अस्य जनस्य “वर्ता प्रेरकः "न "अस्ति । अस्य “तरुता "नु हिंसिता च "न अस्ति । "अध अपि च "तोके पुत्रे “तनये पौत्रे धने वा “गोषु “वा "अप्सु वा निमित्तभूतेषु 'यम् अवथ "सः “पार्ये संग्रामे “द्योः दीप्तस्यापि विजिगीषोर्वा शत्रोः “व्रजं गवां संघं "दर्ता दारयिता भवति ॥


प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् ।

ये सहां॑सि॒ सह॑सा॒ सह॑न्ते॒ रेज॑ते अग्ने पृथि॒वी म॒खेभ्य॑ः ॥९

प्र । चि॒त्रम् । अ॒र्कम् । गृ॒ण॒ते । तु॒राय॑ । मारु॑ताय । स्वऽत॑वसे । भ॒र॒ध्व॒म् ।

ये । सहां॑सि । सह॑सा । सह॑न्ते । रेज॑ते । अ॒ग्ने॒ । पृ॒थि॒वी । म॒खेभ्यः॑ ॥९

प्र । चित्रम् । अर्कम् । गृणते । तुराय । मारुताय । स्वऽतवसे । भरध्वम् ।

ये । सहांसि । सहसा । सहन्ते । रेजते । अग्ने । पृथिवी । मखेभ्यः ॥९

हे "अग्ने "गृणते शब्दं कुर्वते स्तूयमानाय वा “तुराय त्वरिताय "स्वतवसे स्वभूतबलाय 'मारुताय मरुतां गणाय “चित्रं दर्शनीयम् "अर्कम् अन्नं हविः । ‘ स्वधा अर्कः ' इत्यन्ननामसु पाठात् । “प्र “भरध्वम् । त्वत्सहायभूताः ऋत्विजस्त्वं च सर्वं यूयं प्रभरत । यथा लोके बहुष्वेककार्यकरेषु मुख्यमेकं संबोध्य यूयमेवं कुरुतेति प्रार्थना तद्वदत्रापि मुख्यमग्निमेकमेव संबोध्य प्रभरध्वमिति बहुवचनप्रयोगः। “ये मरुतः "सहांसि शत्रूणां बलानि “सहसा बलेन "सहन्ते अभिभवन्ति “मखेभ्यः मंहनीयेभ्यो मरुद्भ्यो भयात् "पृथिवी “रेजते कम्पते ॥ मारुतायेति तद्धितवृत्तावन्तर्भूतानामपि मरुतां बुद्ध्या प्रविभागात् य इति प्रत्यवमर्शः । यथा महाभाष्ये - ' अथ शब्दानुशासनम् । केषां शब्दानाम् ! ( पा. म. १. १. १) इति । यथा वा लोके राजपुरुष इत्युक्ते कस्य राज्ञ इति ॥


त्विषी॑मन्तो अध्व॒रस्ये॑व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॒॑ नाग्नेः ।

अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒ अधृ॑ष्टाः ॥१०

त्विषि॑ऽमन्तः । अ॒ध्व॒रस्य॑ऽइव । दि॒द्युत् । तृ॒षु॒ऽच्यव॑सः । जु॒ह्वः॑ । न । अ॒ग्नेः ।

अ॒र्चत्र॑यः । धुन॑यः । न । वी॒राः । भ्राज॑त्ऽजन्मानः । म॒रुतः॑ । अधृ॑ष्टाः ॥१०

त्विषिऽमन्तः । अध्वरस्यऽइव । दिद्युत् । तृषुऽच्यवसः । जुह्वः । न । अग्नेः ।

अर्चत्रयः । धुनयः । न । वीराः । भ्राजत्ऽजन्मानः । मरुतः । अधृष्टाः ॥१०

“मरुतः "अध्वरस्येव यज्ञस्येव "दिद्युत् द्योतमानाः "तृषुच्यवसः क्षिप्रगमनाः “अग्नेः “जुह्वो "न रश्मय इव “त्विषीमन्तः दीप्तिमन्तः "अर्चत्रयः अर्चनीयाः “धुनयो “न सपत्नान् कम्पयन्त इव “वीराः शूराः "भ्राजज्जन्मानः दीप्तशरीराः "अधृष्टाः परैरनभिभूताश्च भवन्ति ।।


तं वृ॒धन्तं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे ।

दि॒वः शर्धा॑य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा अ॑स्पृध्रन् ॥११

तम् । वृ॒धन्त॑म् । मारु॑तम् । भ्राज॑त्ऽऋष्टिम् । रु॒द्रस्य॑ । सू॒नुम् । ह॒वसा॑ । आ । वि॒वा॒से॒ ।

दि॒वः । शर्धा॑य । शुच॑यः । म॒नी॒षाः । गि॒रयः॑ । न । आपः॑ । उ॒ग्राः । अ॒स्पृ॒ध्र॒न् ॥११

तम् । वृधन्तम् । मारुतम् । भ्राजत्ऽऋष्टिम् । रुद्रस्य । सूनुम् । हवसा । आ । विवासे ।

दिवः । शर्धाय । शुचयः । मनीषाः । गिरयः । न । आपः । उग्राः । अस्पृध्रन् ॥११

"तं प्रसिद्धं "वृधन्तं वर्धमानं “भ्राजदृष्टिं भ्राजमानऋष्टिं "रुद्रस्य "सूनुं पुत्रं "मारुतं मरुद्गणं "हवसा स्तोत्रेण “आ “विवासे परिचरामि । किंच "दिवः स्तोतुः "शुचयः निर्मला: “मनीषाः स्तुतयः “उग्राः उद्गूर्णा: “शर्धाय मारुताय बलाय । “तृक्षः शर्धः' इति बलनामसु पाठात् । "आपः आप्नुवन्तः “गिरयो “न मेघा इव । ‘ गिरिः व्रजः' इति मेघनामसु पाठात् । “अस्पृधन् अस्पर्धन्त ॥ ॥ ८ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.६६&oldid=200454" इत्यस्माद् पुनः प्राप्तिः