ऋग्वेदः सूक्तं ६.२१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.२० ऋग्वेदः - मण्डल ६
सूक्तं ६.२१
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.२२ →
दे. इन्द्रः, ९,११ विश्वे देवाः। त्रिष्टुप् ।


इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते ।
धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या ॥१॥
तमु स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर्यज्ञवृद्धम् ।
यस्य दिवमति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम् ॥२॥
स इत्तमोऽवयुनं ततन्वत्सूर्येण वयुनवच्चकार ।
कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः ॥३॥
यस्ता चकार स कुह स्विदिन्द्रः कमा जनं चरति कासु विक्षु ।
कस्ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता ॥४॥
इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत्सखायः ।
ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ॥५॥
तं पृच्छन्तोऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः ।
अर्चामसि वीर ब्रह्मवाहो यादेव विद्म तात्त्वा महान्तम् ॥६॥
अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत्सु तिष्ठ ।
तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व ॥७॥
स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः ।
त्वं ह्यापिः प्रदिवि पितॄणां शश्वद्बभूथ सुहव एष्टौ ॥८॥
प्रोतये वरुणं मित्रमिन्द्रं मरुतः कृष्वावसे नो अद्य ।
प्र पूषणं विष्णुमग्निं पुरंधिं सवितारमोषधीः पर्वताँश्च ॥९॥
इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्यर्चन्त्यर्कैः ।
श्रुधी हवमा हुवतो हुवानो न त्वावाँ अन्यो अमृत त्वदस्ति ॥१०॥
नू म आ वाचमुप याहि विद्वान्विश्वेभिः सूनो सहसो यजत्रैः ।
ये अग्निजिह्वा ऋतसाप आसुर्ये मनुं चक्रुरुपरं दसाय ॥११॥
स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद्विदानः ।
ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम् ॥१२॥


सायणभाष्यम्

‘इमा उ त्वा' इति द्वादशर्चं षष्ठं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । नवम्येकादशी च वैश्वदेव्यौ । तथा चानुक्रम्यते-’ इमा उ द्वादश नवम्येकादश्यौ वैश्वदेव्यौ' इति । उपहव्यनाम्न्येकाहे इदं सूक्तं मरुत्वतीयनिविद्धानम् । सूत्रितं च-’ इमा उ त्वा य एक इदिति मध्यंदिनः' (आश्व. श्रौ. ९. ७) इति । इन्द्राविष्ण्वोत्क्रान्तिनाम्न्येकाहेऽपीदं मरुत्वतीयनिविद्धानम् । सूत्रितं च-’ इमा उ त्वा द्यौर्न य इन्द्रेति मध्यंदिनः ' ( आश्व. श्रौ. ९. ७ ) इति । तृतीये छन्दोमेऽपि मरुत्वतीय इदं सूक्तम् । सूत्रितं च- प्र मन्दिन इमा उ त्वेति मरुत्वतीयम् ' ( आश्व. श्रौ. ८. ७) इति ॥


इ॒मा उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं॑ वीर॒ हव्या॑ हवन्ते ।

धियो॑ रथे॒ष्ठाम॒जरं॒ नवी॑यो र॒यिर्विभू॑तिरीयते वच॒स्या ॥१

इ॒माः । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒ऽतम॑स्य । का॒रोः । हव्य॑म् । वी॒र॒ । हव्याः॑ । ह॒व॒न्ते॒ ।

धियः॑ । र॒थे॒ऽस्थाम् । अ॒जर॑म् । नवी॑यः । र॒यिः । विऽभू॑तिः । ई॒य॒ते॒ । व॒च॒स्या ॥१

इमाः । ऊं इति । त्वा । पुरुऽतमस्य । कारोः । हव्यम् । वीर । हव्याः । हवन्ते ।

धियः । रथेऽस्थाम् । अजरम् । नवीयः । रयिः । विऽभूतिः । ईयते । वचस्या ॥१

“पुरुतमस्य बहुलं कामं काङ्क्षतः । ‘तमु अभिकाङ्क्षायाम्' इति धातुः । “कारोः स्तोतुर्भरद्वाजस्य संबन्धिन्यः “हव्याः स्तुत्याः प्रशस्याः “इमाः “धियः स्तुतयो हे “वीर शूरेन्द्र "हव्यं “त्वा त्वां “हवन्ते ह्वयन्ति । कीदृशम् । “रथेस्थां रथे स्थितम् “अजरं जरारहितं “नवीयः नवीयांसं नवतरम्। “उ इति पूरणः । अपि च “वचस्या स्तुत्या श्रेष्ठा “विभूतिः जगतो विभवहेतुः “रयिः हविर्लक्षणं धनम् “ईयते त्वामभिगच्छति ॥


तमु॑ स्तुष॒ इन्द्रं॒ यो विदा॑नो॒ गिर्वा॑हसं गी॒र्भिर्य॒ज्ञवृ॑द्धम् ।

यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वम् ॥२

तम् । ऊं॒ इति॑ । स्तु॒षे॒ । इन्द्र॑म् । यः । विदा॑नः । गिर्वा॑हसम् । गीः॒ऽभिः । य॒ज्ञऽवृ॑द्धम् ।

यस्य॑ । दिव॑म् । अति॑ । म॒ह्ना । पृ॒थि॒व्याः । पु॒रु॒ऽमा॒यस्य॑ । रि॒रि॒चे । म॒हि॒ऽत्वम् ॥२

तम् । ऊं इति । स्तुषे । इन्द्रम् । यः । विदानः । गिर्वाहसम् । गीःऽभिः । यज्ञऽवृद्धम् ।

यस्य । दिवम् । अति । मह्ना । पृथिव्याः । पुरुऽमायस्य । रिरिचे । महिऽत्वम् ॥२

"यः इन्द्रः “विदानः सर्वं विद्वान् सर्वैर्ज्ञायमानो वा “गिर्वाहसं गीर्भिर्वहनीयं “यज्ञवृद्धं यज्ञैः प्रवृद्धं “तमु तमेव “इन्द्रं “स्तुषे स्तुवे। “पुरुमायस्य बहुप्रज्ञस्य बहुवञ्चनस्य वा “यस्य इन्द्रस्य “महित्वं माहात्म्यं “दिवं दिवो द्युलोकात् । पञ्चम्यर्थे द्वितीया । “पृथिव्याः भूलोकात् “मह्ना महिम्ना “अति “रिरिचे अतिरिच्यते तं स्तुवे इति संबन्धः ॥


स इत्तमो॑ऽवयु॒नं त॑त॒न्वत्सूर्ये॑ण व॒युन॑वच्चकार ।

क॒दा ते॒ मर्ता॑ अ॒मृत॑स्य॒ धामेय॑क्षन्तो॒ न मि॑नन्ति स्वधावः ॥३

सः । इत् । तमः॑ । अ॒व॒यु॒नम् । त॒त॒न्वत् । सूर्ये॑ण । व॒युन॑ऽवत् । च॒का॒र॒ ।

क॒दा । ते॒ । मर्ताः॑ । अ॒मृत॑स्य । धाम॑ । इय॑क्षन्तः । न । मि॒न॒न्ति॒ । स्व॒धा॒ऽवः॒ ॥३

सः । इत् । तमः । अवयुनम् । ततन्वत् । सूर्येण । वयुनऽवत् । चकार ।

कदा । ते । मर्ताः । अमृतस्य । धाम । इयक्षन्तः । न । मिनन्ति । स्वधाऽवः ॥३

“स “इत् स एवेन्द्रः “अवयुनम् अप्रज्ञानम् । प्रज्ञाननाशनमित्यर्थः । “ततन्वत् वृत्रेण विस्तीर्यमाणं “तमः अन्धकारं दिवि “सूर्येण दिव्यारोपितेन देवेन “वयुनवत् प्रकाशवत् “चकार कृतवान् । परोऽर्धर्चः प्रत्यक्षकृतः । हे “स्वधावः बलवन्निन्द्र “मर्ताः मनुष्याः “अमृतस्य नित्यस्य “ते त्वदीयं “धाम स्वर्गाख्यं स्थानम् । तत्रस्थान् देवानित्यर्थः । “इयक्षन्तः यष्टुमिच्छन्तः “कदा कदाचित् । सर्वदेत्यर्थः ।। “न “मिनन्ति किमपि प्राणिजातं न हिंसन्ति ।।


यस्ता च॒कार॒ स कुह॑ स्वि॒दिन्द्र॒ः कमा जनं॑ चरति॒ कासु॑ वि॒क्षु ।

कस्ते॑ य॒ज्ञो मन॑से॒ शं वरा॑य॒ को अ॒र्क इ॑न्द्र कत॒मः स होता॑ ॥४

यः । ता । च॒कार॑ । सः । कुह॑ । स्वि॒त् । इन्द्रः॑ । कम् । आ । जन॑म् । च॒र॒ति॒ । कासु॑ । वि॒क्षु ।

कः । ते॒ । य॒ज्ञः । मन॑से । शम् । वरा॑य । कः । अ॒र्कः । इ॒न्द्र॒ । क॒त॒मः । सः । होता॑ ॥४

यः । ता । चकार । सः । कुह । स्वित् । इन्द्रः । कम् । आ । जनम् । चरति । कासु । विक्षु ।

कः । ते । यज्ञः । मनसे । शम् । वराय । कः । अर्कः । इन्द्र । कतमः । सः । होता ॥४

“यः इन्द्रः “ता तान्युक्तानि प्रसिद्धानि वृत्रवधादीनि कर्माणि “चकार अकरोत् “सः “इन्द्रः अद्य “कुह “स्वित् क्व स्विद्वर्तते । “कं “जनं कमपि देशम् “आ “चरति “कासु “विक्षु प्रजासु वर्तत इतीन्द्रस्य विभूतिमहत्त्वात् न निश्चेतुं शक्यम् । अथ प्रत्यक्षस्तुतिः । हे “इन्द्र “कः कीदृशः “यज्ञः “ते तव “मनसे चेतसे "शं सुखकरो भवति । “वराय तव वरणाय “कः कीदृशः “अर्कः मन्त्रः समर्थो भवति । “होता आह्वाता तव वरणाय यः समर्थो भवति “सः होता “कतमः च भवति ॥


इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त्सखा॑यः ।

ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ॥५

इ॒दा । हि । ते॒ । वेवि॑षतः । पु॒रा॒ऽजाः । प्र॒त्नासः॑ । आ॒सुः । पु॒रु॒ऽकृ॒त् । सखा॑यः ।

ये । म॒ध्य॒मासः॑ । उ॒त । नूत॑नासः । उ॒त । अ॒व॒मस्य॑ । पु॒रु॒ऽहू॒त॒ । बो॒धि॒ ॥५

इदा । हि । ते । वेविषतः । पुराऽजाः । प्रत्नासः । आसुः । पुरुऽकृत् । सखायः ।

ये । मध्यमासः । उत । नूतनासः । उत । अवमस्य । पुरुऽहूत । बोधि ॥५

“पुराजाः पूर्वस्मिन् काले जाताः “प्रत्नासः पुराणाः अङ्गिरःप्रभृतयः “इदा “हि इदानीमिव । हिशब्द उपमार्थे वर्तते । “वेविषतः कर्माणि प्राप्नुवन्तो हे पुरुकृत् बहूनां कर्मणां कर्तरिन्द्र “ते तव “सखायः स्तोतारः “आसुः बभूवुः । ये “मध्यमासः मध्यमकालजाः “उत अपि च ये “नूतनासः अद्यतना यतस्तेऽपि सर्वे ते स्तोतारो बभूवुः अतः कारणात् “उत अपि च “अवमस्य अर्वाचीनस्य ममापि स्तोत्रं हे “पुरुहूत बहुभिराहूतेन्द्र त्वं “बोधि बुध्यस्व ॥ ॥ ११ ॥


तं पृ॒च्छन्तोऽव॑रास॒ः परा॑णि प्र॒त्ना त॑ इन्द्र॒ श्रुत्यानु॑ येमुः ।

अर्चा॑मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात्त्वा॑ म॒हान्त॑म् ॥६

तम् । पृ॒च्छन्तः॑ । अव॑रासः । परा॑णि । प्र॒त्ना । ते॒ । इ॒न्द्र॒ । श्रुत्या॑ । अनु॑ । ये॒मुः॒ ।

अर्चा॑मसि । वी॒र॒ । ब्र॒ह्म॒ऽवा॒हः॒ । यात् । ए॒व । वि॒द्म । तात् । त्वा॒ । म॒हान्त॑म् ॥६

तम् । पृच्छन्तः । अवरासः । पराणि । प्रत्ना । ते । इन्द्र । श्रुत्या । अनु । येमुः ।

अर्चामसि । वीर । ब्रह्मऽवाहः । यात् । एव । विद्म । तात् । त्वा । महान्तम् ॥६

हे "वीर शूर “ब्रह्मवाहः ब्रह्मभिर्मन्त्रैर्वहनीय “इन्द्र “अवरासः अर्वाचीनाः मनुष्याः “तम् उक्तगुणोपेतं त्वां “पृच्छन्तः अर्चन्तः । पृच्छतिरर्चतिकर्मा । “पराणि प्रकृष्टानि “प्रत्ना प्रत्नानि पुराणानि “श्रुत्या श्रुत्यानि श्रोतव्यानि “ते त्वदीयानि कर्माणि “अनु “येमुः। अनुयमनं निबन्धनम् । स्तुतिरूपाभिर्वाग्भिर्निबबन्धुः । तथा वयमपि “महान्तं प्रभूतं “त्वा त्वाम् अर्चामसि अर्चामः स्तुमः । “यादेव यान्येव कर्माणि विग्न जानीमः “तात् तैः कर्मभिः स्तुम इति संबन्धः ॥


अ॒भि त्वा॒ पाजो॑ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ ।

तव॑ प्र॒त्नेन॒ युज्ये॑न॒ सख्या॒ वज्रे॑ण धृष्णो॒ अप॒ ता नु॑दस्व ॥७

अ॒भि । त्वा॒ । पाजः॑ । र॒क्षसः॑ । वि । त॒स्थे॒ । महि॑ । ज॒ज्ञा॒नम् । अ॒भि । तत् । सु । ति॒ष्ठ॒ ।

तव॑ । प्र॒त्नेन॑ । युज्ये॑न । सख्या॑ । वज्रे॑ण । धृ॒ष्णो॒ इति॑ । अप॑ । ता । नु॒द॒स्व॒ ॥७

अभि । त्वा । पाजः । रक्षसः । वि । तस्थे । महि । जज्ञानम् । अभि । तत् । सु । तिष्ठ ।

तव । प्रत्नेन । युज्येन । सख्या । वज्रेण । धृष्णो इति । अप । ता । नुदस्व ॥७

“रक्षसः रक्षसां संबन्धि “पाजः सेनालक्षणं बलं हे इन्द्र “त्वा “अभि त्वामभिमुखं “वि “तस्थे प्रतिष्ठते । तथा त्वमपि "महि महत् "जज्ञानं प्रादुर्भवत् “तत् बलम् “अभि अभिमुखः सन् “सु सुष्ठु “ तिष्ठ स्थिरो भव । स्थित्वा च हे “धृष्णो शत्रूणां धर्षकेन्द्र “तव त्वदीयेन “वज्रेण “ता तद्बलम् अप “नुदस्व अपगतं प्रेरय । छिन्धीत्यर्थः । कीदृशेन । “प्रत्नेन पुराणेन "युज्येन नियोज्येन “सख्या नित्यसहायेन ॥


स तु श्रु॑धीन्द्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी॑र कारुधायः ।

त्वं ह्या॒३॒॑पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द्ब॒भूथ॑ सु॒हव॒ एष्टौ॑ ॥८

सः । तु । श्रु॒धि॒ । इ॒न्द्र॒ । नूत॑नस्य । ब्र॒ह्म॒ण्य॒तः । वी॒र॒ । का॒रु॒ऽधा॒यः॒ ।

त्वम् । हि । आ॒पिः । प्र॒ऽदिवि॑ । पि॒तॄ॒णाम् । शश्व॑त् । ब॒भूथ॑ । सु॒ऽहवः॑ । आऽइ॑ष्टौ ॥८

सः । तु । श्रुधि । इन्द्र । नूतनस्य । ब्रह्मण्यतः । वीर । कारुऽधायः ।

त्वम् । हि । आपिः । प्रऽदिवि । पितॄणाम् । शश्वत् । बभूथ । सुऽहवः । आऽइष्टौ ॥८

हे "कारुधायः कारूणां स्तोतॄणां धारक हे “वीर “इन्द्र “सः प्रसिद्धस्त्वं “नूतनस्य इदानींतनस्य “ब्रह्मण्यत: ब्रह्म स्तोत्रं कर्तुमिच्छतो मम स्तोत्रं “तु क्षिप्रं “श्रुधि शृणुहि । यस्मात् कारणात् हे इन्द्र “त्वम् “एष्टौ आयजने अभिकामने वा सति सुहवः शोभनाह्वान: सन् "प्रदिवि पूर्वस्मिन् काले पितॄणाम् अङ्गिरसाम् “आपिः बन्धुः “शश्वत् चिरकालं “बभूथ अभूः तस्मात् कारणात् मदीयं स्तोत्रं श्रुधीति संबन्धः ॥


प्रोतये॒ वरु॑णं मि॒त्रमिन्द्रं॑ म॒रुत॑ः कृ॒ष्वाव॑से नो अ॒द्य ।

प्र पू॒षणं॒ विष्णु॑म॒ग्निं पुरं॑धिं सवि॒तार॒मोष॑धी॒ः पर्व॑ताँश्च ॥९

प्र । ऊ॒तये॑ । वरु॑णम् । मि॒त्रम् । इन्द्र॑म् । म॒रुतः॑ । कृ॒ष्व॒ । अव॑से । नः॒ । अ॒द्य ।

प्र । पू॒षण॑म् । विष्णु॑म् । अ॒ग्निम् । पुर॑म्ऽधि॑म् । स॒वि॒तार॑म् । ओष॑धीः । पर्व॑तान् । च॒ ॥९

प्र । ऊतये । वरुणम् । मित्रम् । इन्द्रम् । मरुतः । कृष्व । अवसे । नः । अद्य ।

प्र । पूषणम् । विष्णुम् । अग्निम् । पुरम्ऽधिम् । सवितारम् । ओषधीः । पर्वतान् । च ॥९

अस्यामृचि विश्वे देवाः स्तूयन्ते । हे भरद्वाज “अद्य इदानीं “वरुणं रात्र्यभिमानिनं च “मित्रम् अहरभिमानिनं च “इन्द्रं च प्रसिद्धं “मरुतः मरुद्गणांश्च “नः अस्माकम् “ऊतये तर्पणाय “अवसे रक्षणाय च “प्र “कृष्व अभिमुखीकुरुष्व । किंच “पूषणम् एतत्संज्ञकं च “विष्णुं सर्वव्यापिनं देवं च “पुरंधिं पुरुधियं पुरुकर्माणम् “अग्निं च “सवितारं सर्वस्य प्रेरकं देवम् “ओषधीः ओषध्यभिमानिनो देवान् “पर्वतांश्च अद्रीनित्येतान् देवान् अस्माकं तर्पणाय रक्षणाय च प्रकृष्व स्तुत्या अभिमुखीकुरु ॥


इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो॑ अ॒भ्य॑र्चन्त्य॒र्कैः ।

श्रु॒धी हव॒मा हु॑व॒तो हु॑वा॒नो न त्वावाँ॑ अ॒न्यो अ॑मृत॒ त्वद॑स्ति ॥१०

इ॒मे । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒ऽशा॒क॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो । ज॒रि॒तारः॑ । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।

श्रु॒धि । हव॑म् । आ । हु॒व॒तः । हु॒वा॒नः । न । त्वाऽवा॑न् । अ॒न्यः । अ॒मृ॒त॒ । त्वत् । अ॒स्ति॒ ॥१०

इमे । ऊं इति । त्वा । पुरुऽशाक । प्रयज्यो इति प्रऽयज्यो । जरितारः । अभि । अर्चन्ति । अर्कैः ।

श्रुधि । हवम् । आ । हुवतः । हुवानः । न । त्वाऽवान् । अन्यः । अमृत । त्वत् । अस्ति ॥१०

हे “पुरुशाक बहुशक्ते हे “प्रयज्यो प्रकृष्टेन यजनीयेन्द्र “त्वा त्वाम् “इमे “जरितारः स्तोतारः “अर्कैः अर्चनीयैः स्तोत्रैः "अभ्यर्चन्ति अभिष्टुवन्ति । तथा हे “अमृत अमरणशीलेन्द्र “हुवानः स्तूयमानस्त्वम् “आ “हुवतः अभिष्टुवतो मम “हवं स्तोत्रं “श्रुधि शृणु । किंच “त्वावान् त्वत्सदृशो देवः “त्वत् "अन्यः न “अस्ति ।।


नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान्विश्वे॑भिः सूनो सहसो॒ यज॑त्रैः ।

ये अ॑ग्निजि॒ह्वा ऋ॑त॒साप॑ आ॒सुर्ये मनुं॑ च॒क्रुरुप॑रं॒ दसा॑य ॥११

नु । मे॒ । आ । वाच॑म् । उप॑ । या॒हि॒ । वि॒द्वान् । विश्वे॑भिः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यज॑त्रैः ।

ये । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽसापः॑ । आ॒सुः । ये । मनु॑म् । च॒क्रुः । उप॑रम् । दसा॑य ॥११

नु । मे । आ । वाचम् । उप । याहि । विद्वान् । विश्वेभिः । सूनो इति । सहसः । यजत्रैः ।

ये । अग्निऽजिह्वाः । ऋतऽसापः । आसुः । ये । मनुम् । चक्रुः । उपरम् । दसाय ॥११

इयं च वैश्वदेवीत्युक्तम् । हे “सहसः “सूनो बलस्य पुत्रेन्द्र “विद्वान् सर्वज्ञस्त्वं “यजत्रैः यजनीयैः “विश्वेभिः सर्वैर्देवैः सह “नु क्षिप्रं “मे मदीया वाचः स्तुतिरूपाणि वचांसि “उप अभि “आ “याहि आगच्छ । एवंभूतमिन्द्रं प्रार्थयत ऐन्द्रत्वात् सूक्तस्य । "ये देवाः “अग्निजिह्वाः । अग्निर्जिह्वास्थानीयो येषां ते । “ऋतसापः ऋतं यज्ञं स्पृशन्तः “आसुः भवन्ति “ये च देवाः “दसाय शत्रूणामुपक्षपणाय “मनुं राजर्षिम् “उपरं दस्यूनामुपरिभवं “चक्रुः कृतवन्तः तैः सहागच्छेति पूर्वेण संबन्धः ॥


स नो॑ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद्विदा॑नः ।

ये अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि॑र्न इन्द्रा॒भि व॑क्षि॒ वाज॑म् ॥१२

सः । नः॒ । बो॒धि॒ । पु॒रः॒ऽए॒ता । सु॒ऽगेषु॑ । उ॒त । दुः॒ऽगेषु॑ । प॒थि॒ऽकृत् । विदा॑नः ।

ये । अश्र॑मासः । उ॒रवः॑ । वहि॑ष्ठाः । तेभिः॑ । नः॒ । इ॒न्द्र॒ । अ॒भि । व॒क्षि॒ । वाज॑म् ॥१२

सः । नः । बोधि । पुरःऽएता । सुऽगेषु । उत । दुःऽगेषु । पथिऽकृत् । विदानः ।

ये । अश्रमासः । उरवः । वहिष्ठाः । तेभिः । नः । इन्द्र । अभि । वक्षि । वाजम् ॥१२

हे “इन्द्र “पथिकृत् वर्त्मनां कर्ता “विदानः सर्वं विद्वान् “सः त्वं “सुगेषु सुखेन गन्तव्येषु "उत अपि च “दुर्गेषु दुःखेन गन्तव्येषु च मार्गेषु “नः अस्माकं “पुरएता पुरो गन्ता “बोधि भव । बोधीति भवतेर्लोण्मध्यमपुरुषैकवचनस्य छान्दसं रूपम् । “अश्रमासः श्रमरहिताः “उरवः महान्तः “वहिष्ठाः वोढृतमाः तव “ये अश्वाः सन्ति हे इन्द्र “तेभिः तैरश्वैः “नः अस्मभ्यं “वाजम् अन्नम् “अभि “वक्षि अभिवह ॥ ॥ १२ ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.२१&oldid=186338" इत्यस्माद् पुनः प्राप्तिः