ऋग्वेदः सूक्तं ६.१६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.१५ ऋग्वेदः - मण्डल ६
सूक्तं ६.१६
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.१७ →
दे. अग्निः। गायत्री, १, ६ वर्धमाना, २७, ४७-४८ अनुष्टुप्, ४६ त्रिष्टुप्।


त्वमग्ने यज्ञानां होता विश्वेषां हितः ।
देवेभिर्मानुषे जने ॥१॥
स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः ।
आ देवान्वक्षि यक्षि च ॥२॥
वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा ।
अग्ने यज्ञेषु सुक्रतो ॥३॥
त्वामीळे अध द्विता भरतो वाजिभिः शुनम् ।
ईजे यज्ञेषु यज्ञियम् ॥४॥
त्वमिमा वार्या पुरु दिवोदासाय सुन्वते ।
भरद्वाजाय दाशुषे ॥५॥
त्वं दूतो अमर्त्य आ वहा दैव्यं जनम् ।
शृण्वन्विप्रस्य सुष्टुतिम् ॥६॥
त्वामग्ने स्वाध्यो मर्तासो देववीतये ।
यज्ञेषु देवमीळते ॥७॥
तव प्र यक्षि संदृशमुत क्रतुं सुदानवः ।
विश्वे जुषन्त कामिनः ॥८॥
त्वं होता मनुर्हितो वह्निरासा विदुष्टरः ।
अग्ने यक्षि दिवो विशः ॥९॥
अग्न आ याहि वीतये गृणानो हव्यदातये ।
नि होता सत्सि बर्हिषि ॥१०॥
तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि ।
बृहच्छोचा यविष्ठ्य ॥११॥
स नः पृथु श्रवाय्यमच्छा देव विवाससि ।
बृहदग्ने सुवीर्यम् ॥१२॥
त्वामग्ने पुष्करादध्यथर्वा निरमन्थत ।
मूर्ध्नो विश्वस्य वाघतः ॥१३॥
तमु त्वा दध्यङ्ङृषिः पुत्र ईधे अथर्वणः ।
वृत्रहणं पुरंदरम् ॥१४॥
तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् ।
धनंजयं रणेरणे ॥१५॥
एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः ।
एभिर्वर्धास इन्दुभिः ॥१६॥
यत्र क्व च ते मनो दक्षं दधस उत्तरम् ।
तत्रा सदः कृणवसे ॥१७॥
नहि ते पूर्तमक्षिपद्भुवन्नेमानां वसो ।
अथा दुवो वनवसे ॥१८॥
आग्निरगामि भारतो वृत्रहा पुरुचेतनः ।
दिवोदासस्य सत्पतिः ॥१९॥
स हि विश्वाति पार्थिवा रयिं दाशन्महित्वना ।
वन्वन्नवातो अस्तृतः ॥२०॥
स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता ।
बृहत्ततन्थ भानुना ॥२१॥
प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया ।
अर्च गाय च वेधसे ॥२२॥
स हि यो मानुषा युगा सीदद्धोता कविक्रतुः ।
दूतश्च हव्यवाहनः ॥२३॥
ता राजाना शुचिव्रतादित्यान्मारुतं गणम् ।
वसो यक्षीह रोदसी ॥२४॥
वस्वी ते अग्ने संदृष्टिरिषयते मर्त्याय ।
ऊर्जो नपादमृतस्य ॥२५॥
क्रत्वा दा अस्तु श्रेष्ठोऽद्य त्वा वन्वन्सुरेक्णाः ।
मर्त आनाश सुवृक्तिम् ॥२६॥
ते ते अग्ने त्वोता इषयन्तो विश्वमायुः ।
तरन्तो अर्यो अरातीर्वन्वन्तो अर्यो अरातीः ॥२७॥
अग्निस्तिग्मेन शोचिषा यासद्विश्वं न्यत्रिणम् ।
अग्निर्नो वनते रयिम् ॥२८॥
सुवीरं रयिमा भर जातवेदो विचर्षणे ।
जहि रक्षांसि सुक्रतो ॥२९॥
त्वं नः पाह्यंहसो जातवेदो अघायतः ।
रक्षा णो ब्रह्मणस्कवे ॥३०॥
यो नो अग्ने दुरेव आ मर्तो वधाय दाशति ।
तस्मान्नः पाह्यंहसः ॥३१॥
त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम् ।
मर्तो यो नो जिघांसति ॥३२॥
भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य ।
अग्ने वरेण्यं वसु ॥३३॥
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया ।
समिद्धः शुक्र आहुतः ॥३४॥
गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे ।
सीदन्नृतस्य योनिमा ॥३५॥
ब्रह्म प्रजावदा भर जातवेदो विचर्षणे ।
अग्ने यद्दीदयद्दिवि ॥३६॥
उप त्वा रण्वसंदृशं प्रयस्वन्तः सहस्कृत ।
अग्ने ससृज्महे गिरः ॥३७॥
उप च्छायामिव घृणेरगन्म शर्म ते वयम् ।
अग्ने हिरण्यसंदृशः ॥३८॥
य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः ।
अग्ने पुरो रुरोजिथ ॥३९॥
आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति ।
विशामग्निं स्वध्वरम् ॥४०॥
प्र देवं देववीतये भरता वसुवित्तमम् ।
आ स्वे योनौ नि षीदतु ॥४१॥
आ जातं जातवेदसि प्रियं शिशीतातिथिम् ।
स्योन आ गृहपतिम् ॥४२॥
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः ।
अरं वहन्ति मन्यवे ॥४३॥
अच्छा नो याह्या वहाभि प्रयांसि वीतये ।
आ देवान्सोमपीतये ॥४४॥
उदग्ने भारत द्युमदजस्रेण दविद्युतत् ।
शोचा वि भाह्यजर ॥४५॥
वीती यो देवं मर्तो दुवस्येदग्निमीळीताध्वरे हविष्मान् ।
होतारं सत्ययजं रोदस्योरुत्तानहस्तो नमसा विवासेत् ॥४६॥
आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि ।
ते ते भवन्तूक्षण ऋषभासो वशा उत ॥४७॥
अग्निं देवासो अग्रियमिन्धते वृत्रहन्तमम् ।
येना वसून्याभृता तृळ्हा रक्षांसि वाजिना ॥४८॥


सायणभाष्यम्

द्वितीयेऽनुवाकेऽष्ट सूक्तानि । तत्र त्वमग्ने यज्ञानाम् ' इत्यष्टाचत्वारिंशदृचं प्रथमं सूक्तं भरद्वाजस्यार्षमाग्नेयम् । आद्या षष्ठी च वर्धमाना गायत्री ‘ षट्कसप्तकाष्टकाः सा वर्धमाना ' इत्युक्तलक्षणोपेतत्वात् । सप्तविंश्यनुष्टुप् । 'आ ते अग्ने, अग्निं देवासः' इत्येते ऋचावनुष्टुभौ। तयोः पूर्वा 'वीती यो देवम् इति त्रिष्टुप् । शिष्टा द्वाचत्वारिंशदृचो गायत्र्यः । तथा चानुक्रम्यते-- ‘ त्वमग्नेऽष्टाचत्वारिंशद्गायत्रं वर्धमानाद्या षष्ठी च सप्तविंश्यनुष्टुप् त्रिष्टुप्पूर्वे चान्त्ये ' इति । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ गायत्रे छन्दसीदं सूक्तमुच्यते । तत्रान्त्यास्तिस्र ऋच उद्धर्तव्याः । सूत्र्यते हि -- त्वमग्ने यज्ञानामिति तिस्र उत्तमा उद्धरेत्' (आश्व. श्रौ. ४. १३ ) इति । विश्वजित्याग्निमारुते बृहत्साम यद्यग्निष्टोमसाम स्यात्तदानीमाद्याः षड़ृचः स्तोत्रियानुरूपार्थाः । सूत्रितं हि - त्वमग्ने यज्ञानामिति स्तोत्रियानुरूपौ ' (आश्व. श्रौ. ८. ७) इति ।।


त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे॑षां हि॒तः ।

दे॒वेभि॒र्मानु॑षे॒ जने॑ ॥१

त्वम् । अ॒ग्ने॒ । य॒ज्ञाना॑म् । होता॑ । विश्वे॑षाम् । हि॒तः ।

दे॒वेभिः॑ । मानु॑षे । जने॑ ॥१

त्वम् । अग्ने । यज्ञानाम् । होता । विश्वेषाम् । हितः ।

देवेभिः । मानुषे । जने ॥१

हे "अग्ने "त्वं "विश्वेषां सर्वेषां सप्तसंस्थारूपेण भिन्नानां "यज्ञानां "होता होमनिष्पादकोऽसि । यद्वा । यज्ञानां संबन्धी देवानामाह्वाता भवसि । कुत इत्यत आह । यस्मात् त्वं "मानुषे मनोः संबन्धिनि मनुष्ये "जने यजमाने "देवेभिः देवैः “हितो होतृत्वेन निहितोऽसि तस्मादित्यर्थः ॥


स नो॑ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि॑र्यजा म॒हः ।

आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥२

सः । नः॒ । म॒न्द्राभिः॑ । अ॒ध्व॒रे । जि॒ह्वाभिः॑ । य॒ज॒ । म॒हः ।

आ । दे॒वान् । व॒क्षि॒ । यक्षि॑ । च॒ ॥२

सः । नः । मन्द्राभिः । अध्वरे । जिह्वाभिः । यज । महः ।

आ । देवान् । वक्षि । यक्षि । च ॥२

हे अग्ने "सः त्वं "नः अस्माकम् "अध्वरे यज्ञे "मन्द्राभिः मदकरीभिः स्तुत्याभिर्वा "जिह्वाभिः ज्वालाभिः "महः महतः "देवान् "यज हविर्भिस्तर्पय । कथं तदित्युच्यते । देवान् यष्टव्यानिन्द्रादीन् “आ “वक्षि आवह । ततः "यक्षि "च यज च। हवींषि तेभ्यो देहीत्यर्थः ॥


पाथिकृत्यामग्नेः पथिकृतोऽनुवाक्या ‘वेत्था' इत्येषा । सूत्रितं च – ' वेत्था हि वेधो अध्वन आ देवानामपि पन्थामगन्म ' ( आश्व. श्रौ. ३. १० ) इति ॥

वेत्था॒ हि वे॑धो॒ अध्व॑नः प॒थश्च॑ दे॒वाञ्ज॑सा ।

अग्ने॑ य॒ज्ञेषु॑ सुक्रतो ॥३

वेत्थ॑ । हि । वे॒धः॒ । अध्व॑नः । प॒थः । च॒ । दे॒व॒ । अञ्ज॑सा ।

अग्ने॑ । य॒ज्ञेषु॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥३

वेत्थ । हि । वेधः । अध्वनः । पथः । च । देव । अञ्जसा ।

अग्ने । यज्ञेषु । सुक्रतो इति सुऽक्रतो ॥३

हे "वेधः विधातः "सुक्रतो शोभनकर्मन् "देव दानादिगुणयुक्त "अग्ने त्वं "यज्ञेषु दर्शपूर्णमासादियागेषु "अध्वनः महामार्गान् “पथश्च क्षुद्रमार्गाश्च “अञ्जसा आर्जवेन "वेत्थ जानासि। “हि यस्मादेवं तस्मात् कारणाद्यज्ञमार्गात् भ्रष्टं यजमानं पुनस्तं मार्गं प्रापयेत्यर्थः ॥


त्वामी॑ळे॒ अध॑ द्वि॒ता भ॑र॒तो वा॒जिभि॑ः शु॒नम् ।

ई॒जे य॒ज्ञेषु॑ य॒ज्ञिय॑म् ॥४

त्वाम् । ई॒ळे॒ । अध॑ । द्वि॒ता । भ॒र॒तः । वा॒जिऽभिः॑ । शु॒नम् ।

ई॒जे । य॒ज्ञेषु॑ । य॒ज्ञिय॑म् ॥४

त्वाम् । ईळे । अध । द्विता । भरतः । वाजिऽभिः । शुनम् ।

ईजे । यज्ञेषु । यज्ञियम् ॥४

हे अग्ने “त्वां “भरतः दौष्यन्तिरेतत्संज्ञो राजा “वाजिभिः । वाजो हविर्लक्षणमन्नम् । तद्वद्भिः ऋत्विग्भिः सह "द्विता द्विविधमिष्टप्राप्त्यनिष्टपरिहाररूपेण द्विधा भिन्नं “शुनं सुखमुद्दिश्य "ईळे स्तुतवान्। स्तुत्वा च "यज्ञियं यज्ञार्हं त्वां "यज्ञेषु । तृतीयार्थे सप्तमी । यज्ञैः "ईजे इष्टवान् । तस्मै त्वम् उभयविधं सुखं प्रादा इत्यर्थः ॥


त्वमि॒मा वार्या॑ पु॒रु दिवो॑दासाय सुन्व॒ते ।

भ॒रद्वा॑जाय दा॒शुषे॑ ॥५

त्वम् । इ॒मा । वार्या॑ । पु॒रु । दिवः॑ऽदासाय । सु॒न्व॒ते ।

भ॒रत्ऽवा॑जाय । दा॒शुषे॑ ॥५

त्वम् । इमा । वार्या । पुरु । दिवःऽदासाय । सुन्वते ।

भरत्ऽवाजाय । दाशुषे ॥५

हे अग्ने “त्वम् “इमा इमानि दृश्यमानानि “पुरु पुरूणि बहूनि "वार्या वार्याणि वरणीयानि संभजनीयानि धनानि "दिवोदासाय "सुन्वते । लुप्तोपममेतत् । यथा सोमाभिषवं कुर्वते दिवोदासाख्याय राज्ञे प्रादास्तथा "दाशुषे हवींषि दत्तवते "भरद्वाजाय ऋषये देहीति शेषः ॥ ॥ २१ ॥


त्वं दू॒तो अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जन॑म् ।

शृ॒ण्वन्विप्र॑स्य सुष्टु॒तिम् ॥६

त्वम् । दू॒तः । अम॑र्त्यः । आ । व॒ह॒ । दैव्य॑म् । जन॑म् ।

शृ॒ण्वन् । विप्र॑स्य । सु॒ऽस्तु॒तिम् ॥६

त्वम् । दूतः । अमर्त्यः । आ । वह । दैव्यम् । जनम् ।

शृण्वन् । विप्रस्य । सुऽस्तुतिम् ॥६

“अमर्त्यः अमरणधर्मः “त्वं "दूतः भूत्वा "दैव्यं देवसंबन्धिनं "जनम् "आ "वह अस्मद्यज्ञ आनय । किं कुर्वन् । 'विप्रस्य मेधाविनो भरद्वाजस्य "सुष्टुतिं शोभनां स्तुतिं “शृण्वन् ।


त्वाम॑ग्ने स्वा॒ध्यो॒३॒॑ मर्ता॑सो दे॒ववी॑तये ।

य॒ज्ञेषु॑ दे॒वमी॑ळते ॥७

त्वाम् । अ॒ग्ने॒ । सु॒ऽआ॒ध्यः॑ । मर्ता॑सः । दे॒वऽवी॑तये ।

य॒ज्ञेषु॑ । दे॒वम् । ई॒ळ॒ते॒ ॥७

त्वाम् । अग्ने । सुऽआध्यः । मर्तासः । देवऽवीतये ।

यज्ञेषु । देवम् । ईळते ॥७

हे "अग्ने "देवं योतमानं "त्वां "स्वाध्यः शोभनाध्यानाः ”मर्तासः मनुष्याः "देववीतये देवाना तर्पणार्थं यज्ञेषु "ईळते स्तुवन्ति याचन्ते वा ॥


तव॒ प्र य॑क्षि सं॒दृश॑मु॒त क्रतुं॑ सु॒दान॑वः ।

विश्वे॑ जुषन्त का॒मिन॑ः ॥८

तव॑ । प्र । य॒क्षि॒ । स॒म्ऽदृश॑म् । उ॒त । क्रतु॑म् । सु॒ऽदान॑वः ।

विश्वे॑ । जु॒ष॒न्त॒ । का॒मिनः॑ ॥८

तव । प्र । यक्षि । सम्ऽदृशम् । उत । क्रतुम् । सुऽदानवः ।

विश्वे । जुषन्त । कामिनः ॥८

हे अग्ने “तव “संदृशं सम्यग्दर्शनीयं यद्वा सम्यग्द्रष्टारं सर्वस्य भासकं तेजः “प्र “यक्षि प्रयजे । प्रकर्षेण पूजयामि । "उत अपि च "सुदानवः सुदानोः शोभनदानस्य तव “क्रतुं कर्म प्रज्ञानं वा पूजयामि । न केवलमहमेव किन्त्वन्ये "विश्वे सर्वेऽपि यजमानाः "कामिनः त्वदनुग्रहात्तैस्तैः कामैः उपेताः सन्तः "जुषन्त । त्वदीयं संदृशं क्रतुं च सेवन्ते । ।


त्वं होता॒ मनु॑र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः ।

अग्ने॒ यक्षि॑ दि॒वो विश॑ः ॥९

त्वम् । होता॑ । मनुः॑ऽहितः । वह्निः॑ । आ॒सा । वि॒दुःऽत॑रः ।

अग्ने॑ । यक्षि॑ । दि॒वः । विशः॑ ॥९

त्वम् । होता । मनुःऽहितः । वह्निः । आसा । विदुःऽतरः ।

अग्ने । यक्षि । दिवः । विशः ॥९

हे "अग्ने "त्वं "होता होतृत्वेन "मनुर्हितः मनुनाहितोऽसि । “आसा आस्येनास्यभूतया ज्वालया “वह्निः हविषां वोढा "विदुष्टरः अतिशयेन विद्वान् । अतः कारणात् त्वं "दिवः द्युलोकसंबन्धिनीः "विशः दैवीः प्रजाः "यक्षि यज ।


दर्शपूर्णमासयोः सामिधेनीषु ' अग्न आ याहि ' इत्याद्यास्तिस्रः । सूत्रितं च - अग्न आ याहि वीतये गृणान ईळेऽन्यो नमस्यस्तिरः' ( आश्व. श्रौ. १.२ ) इति । गार्हपत्याहवनीययोर्मिथः संसर्गेऽग्नये वीतयेऽष्टाकपालः पुरोडाशः । तस्य ‘अग्न आ याहि ' इत्येषानुवाक्या । सूत्रितं च - ‘ अग्न आ याहि वीतये यो अग्निं देववीतये ' (आश्व. श्रौ. ३. १३) इति ॥

अग्न॒ आ या॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये ।

नि होता॑ सत्सि ब॒र्हिषि॑ ॥१०

अग्ने॑ । आ । या॒हि॒ । वी॒तये॑ । गृ॒णा॒नः । ह॒व्यऽदा॑तये ।

नि । होता॑ । स॒त्सि॒ । ब॒र्हिषि॑ ॥१०

अग्ने । आ । याहि । वीतये । गृणानः । हव्यऽदातये ।

नि । होता । सत्सि । बर्हिषि ॥१०

हे अग्ने त्वम् “आ “याहि आगच्छ । किमर्थम् । "वीतये हविषां भक्षणार्थम् । किंच "हव्यदातये हव्यानि हवींषि देवेभ्यो दातुम् । "गृणानः स्तूयमानस्त्वं "बर्हिषि आस्तीर्णे दर्भे "होता सन् “नि "सत्सि निषीद उपविश ॥ ॥ २२ ॥


तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि ।

बृ॒हच्छो॑चा यविष्ठ्य ॥११

तम् । त्वा॒ । स॒मित्ऽभिः॑ । अ॒ङ्गि॒रः॒ । घृ॒तेन॑ । व॒र्ध॒या॒म॒सि॒ ।

बृ॒हत् । शो॒च॒ । य॒वि॒ष्ठ्य॒ ॥११

तम् । त्वा । समित्ऽभिः । अङ्गिरः । घृतेन । वर्धयामसि ।

बृहत् । शोच । यविष्ठ्य ॥११

हे अङ्गिरः, अङ्गनादिगुणयुक्त अङ्गाररूप वाङ्गिरसः पुत्र वाग्ने "तं पूर्वोक्तगुणं “त्वा त्वां "समिद्भिः समिन्धनहेतुभिर्दारुभिः “घृतेन आज्येन च “वर्धयामसि वर्धयामः । अतो हे "यविष्ठ्य युवतमाग्ने “बृहत् महदत्यन्तं "शोच दीप्यस्व ॥


स न॑ः पृ॒थु श्र॒वाय्य॒मच्छा॑ देव विवाससि ।

बृ॒हद॑ग्ने सु॒वीर्य॑म् ॥१२

सः । नः॒ । पृ॒थु । श्र॒वाय्य॑म् । अच्छ॑ । दे॒व॒ । वि॒वा॒स॒सि॒ ।

बृ॒हत् । अ॒ग्ने॒ । सु॒ऽवीर्य॑म् ॥१२

सः । नः । पृथु । श्रवाय्यम् । अच्छ । देव । विवाससि ।

बृहत् । अग्ने । सुऽवीर्यम् ॥१२

हे "देव द्योतमानाग्ने “सः पूर्वोक्तगुणस्त्वं "पृथु विस्तीर्णं “श्रवाय्यं श्रवणीयं प्रशस्यं “बृहत् महत् "सुवीर्यं शोभनवीर्योपेतं धनं "नः अस्मान् "अच्छ "विवाससि अभिगमय । अत्र वाजसनेयकम् -- ‘ अच्छा देव विवाससीति तन्नो गमयेत्येवैतदाह ' (श. ब्रा. १. ४. १. २७ ) इति ।।


अग्निमन्थने ‘ त्वामग्ने पुष्करादधि ' इत्याद्यास्तिस्र ऋचोऽनूच्याः । सूत्रितं च- ‘ त्वामग्ने पुष्करादधीति तिसृणामर्धर्चं शिष्ट्वारमेत्' ( आश्व. श्रौ. २.१६) इति ॥

त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत ।

मू॒र्ध्नो विश्व॑स्य वा॒घत॑ः ॥१३

त्वाम् । अ॒ग्ने॒ । पुष्क॑रात् । अधि॑ । अथ॑र्वा । निः । अ॒म॒न्थ॒त॒ ।

मू॒र्ध्नः । विश्व॑स्य । वा॒घतः॑ ॥१३

त्वाम् । अग्ने । पुष्करात् । अधि । अथर्वा । निः । अमन्थत ।

मूर्ध्नः । विश्वस्य । वाघतः ॥१३

हे "अग्ने "अथर्वा एतत्संज्ञक ऋषिः "त्वां "पुष्करादधि पुष्करपर्णे “निरमन्थत । अरण्योः सकाशात् अजनयत् । कीदृशात् पुष्करात् । "मूर्ध्नः मूर्धवद्धारकात् "विश्वस्य सर्वस्य जगतः "वाघतः वाहकात् । पुष्करपर्णे हि प्रजापतिर्भूमिमप्रथयत् ' तत्पुष्करपर्णेऽप्रथयत्' ( तै. ब्रा. १.१.३.६ ) इति श्रुतेः ।। भूमिश्च सर्वजगत आधारभूतेति पुष्करपर्णस्य सर्वजगद्धारकत्वम् । अत्र पुष्करशब्देन पुष्करपर्णमभिधीयत इति । एतच्च तैत्तिरीयके विस्पष्टमाम्नातं- ‘ त्वामग्ने पुष्करादधीत्याह पुष्करपर्णे ह्येनमुपश्रितमविन्दत् ' ( तै. सं. ५.१.४.४ ) इति ॥


तमु॑ त्वा द॒ध्यङ्ङृषि॑ः पु॒त्र ई॑धे॒ अथ॑र्वणः ।

वृ॒त्र॒हणं॑ पुरंद॒रम् ॥१४

तम् । ऊं॒ इति॑ । त्वा॒ । द॒ध्यङ् । ऋषिः॑ । पु॒त्रः । ई॒धे॒ । अथ॑र्वणः ।

वृ॒त्र॒ऽहन॑म् । पु॒र॒म्ऽद॒रम् ॥१४

तम् । ऊं इति । त्वा । दध्यङ् । ऋषिः । पुत्रः । ईधे । अथर्वणः ।

वृत्रऽहनम् । पुरम्ऽदरम् ॥१४

हे अग्ने य उक्तगुणः "तमु तमेव त्वाम् "अथर्वणः "पुत्रः “दध्यङ् एतत्संज्ञः “ऋषिः "ईधे दीपितवान् । कीदृशम् । "वृत्रहणम् आवरकाणां शत्रूणां हन्तारं “पुरंदरम् असुरपुराणां दारयितारम् ॥


तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् ।

ध॒नं॒ज॒यं रणे॑रणे ॥१५

तम् । ऊं॒ इति॑ । त्वा॒ । पा॒थ्यः । वृषा॑ । सम् । ई॒धे॒ । द॒स्यु॒हन्ऽत॑मम् ।

ध॒न॒म्ऽज॒यम् । रणे॑ऽरणे ॥१५

तम् । ऊं इति । त्वा । पाथ्यः । वृषा । सम् । ईधे । दस्युहन्ऽतमम् ।

धनम्ऽजयम् । रणेऽरणे ॥१५

"पाथ्यो “वृषा नाम कश्चिदृषिः "तमु तमेव “त्वा त्वां हे अग्ने "समीधे समैन्ध समदीपयत् । कीदृशम् । "दस्युहन्तमम् अतिशयेन दस्यूनामुपक्षपयितॄणां शत्रूणां हन्तारं “रणेरणे युद्धे युद्धे “धनंजयं धनानां जेतारम् ॥ ॥ २३ ।।


उक्थ्ये क्रतौ तृतीयसवने मैत्रावरुणस्य ‘एह्यू षु' इत्यादिकौ तृचौ स्तोत्रियानुरूपौ ( आश्व. श्रौ. ६. १ ) । आभिप्लविकेषूक्थ्येषु त्वेतौ वैकल्पिकौ स्तौत्रियानुरूपौ । आभिप्लविकेषूक्थ्येषु सूत्रितं च- ‘ एह्यू षु ब्रवाणि त आग्निरगामि भारतः ' ( आश्व. श्रौ. ७.८ ) इति । पौनराधेयिक्यामिष्टावुत्तराज्यभागस्य ‘एह्यू षु ' इत्यनुवाक्या । सूत्रितं च - ‘एह्यू षु ब्रवाणि त इत्याग्नेयावाज्यभागौ ' ( आश्व. श्रौ. २.८ ) इति ॥

एह्यू॒ षु ब्रवा॑णि॒ तेऽग्न॑ इ॒त्थेत॑रा॒ गिर॑ः ।

ए॒भिर्व॑र्धास॒ इन्दु॑भिः ॥१६

आ । इ॒हि॒ । ऊं॒ इति॑ । सु । ब्रवा॑णि । ते॒ । अग्ने॑ । इ॒त्था । इत॑राः । गिरः॑ ।

ए॒भिः । व॒र्धा॒से॒ । इन्दु॑ऽभिः ॥१६

आ । इहि । ऊं इति । सु । ब्रवाणि । ते । अग्ने । इत्था । इतराः । गिरः ।

एभिः । वर्धासे । इन्दुऽभिः ॥१६

हे अग्ने “एहि आगच्छ । "ते तुभ्यं त्वदर्थं “गिरः स्तुतीः “इत्था इत्थमनेन प्रकारेण "सु सुष्ठु “ब्रवाणि इत्याशास्यते । ताः स्तुतीः श्रृण्वित्यर्थः । “उ इत्येतत्पूरकम् । "इतराः असुरैः कृताः स्तुतीः शृण्विति शेषः । तथा च ब्राह्मणम्- 'अग्न इत्थेतरा गिर इत्यसुर्या ह वा इतरा गिरः ' ( ऐ. ब्रा ३.४९ ) इति । अपि चागतस्त्वम् “एभिः एतैः “इन्दुभिः सोमैः "वर्धासे वर्धस्व ॥


यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं॑ दधस॒ उत्त॑रम् ।

तत्रा॒ सद॑ः कृणवसे ॥१७

यत्र॑ । क्व॑ । च॒ । ते॒ । मनः॑ । दक्ष॑म् । द॒ध॒से॒ । उत्ऽत॑रम् ।

तत्र॑ । सदः॑ । कृ॒ण॒व॒से॒ ॥१७

यत्र । क्व । च । ते । मनः । दक्षम् । दधसे । उत्ऽतरम् ।

तत्र । सदः । कृणवसे ॥१७

हे अग्ने "ते तव "मनः अनुग्रहात्मकमन्तःकरणं "यत्र यस्मिन् देशे "क्व “च कस्मिंश्चिद्यजमाने वर्तते "तत्र तस्मिन् यजमाने "उत्तरम् उद्धततरं श्रेष्ठं "दक्षं बलकरमन्नं वा “दधसे धारयसि । तथा “सदः स्थानं च "कृणवसे । तस्मिन् यजमाने करोषि ॥


न॒हि ते॑ पू॒र्तम॑क्षि॒पद्भुव॑न्नेमानां वसो ।

अथा॒ दुवो॑ वनवसे ॥१८

न॒हि । ते॒ । पू॒र्तम् । अ॒क्षि॒ऽपत् । भुव॑त् । ने॒मा॒ना॒म् । व॒सो॒ इति॑ ।

अथ॑ । दुवः॑ । व॒न॒व॒से॒ ॥१८

नहि । ते । पूर्तम् । अक्षिऽपत् । भुवत् । नेमानाम् । वसो इति ।

अथ । दुवः । वनवसे ॥१८

हे अग्ने "ते त्वदीयं “पूर्तं पूरकं तेजः "अक्षिपत् अक्ष्णोः पातकं विनाशकं “नहि भुवत् न भवतु । सर्वदास्माकं दर्शनसामर्थ्यं करोतु । हे "नेमानां "वसो । नेमशब्दोऽल्पवाची । मनुष्याणां मध्ये कतिपयानां यजमानानां वासक । "अथ अतः कारणात् "दुवः अस्माभिर्यजमानैः कृतं परिचरणं “वनवसे संभजस्व ॥


आग्निर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः ।

दिवो॑दासस्य॒ सत्प॑तिः ॥१९

आ । अ॒ग्निः । अ॒गा॒मि॒ । भार॑तः । वृ॒त्र॒ऽहा । पु॒रु॒ऽचेत॑नः ।

दिवः॑ऽदासस्य । सत्ऽप॑तिः ॥१९

आ । अग्निः । अगामि । भारतः । वृत्रऽहा । पुरुऽचेतनः ।

दिवःऽदासस्य । सत्ऽपतिः ॥१९

अयम् "अग्निः “आ “अगामि । अस्माभिः स्तुतिभिरभ्यगम्यत । कीदृशः । “भारतः हविषां भर्ता "दिवोदासस्य एतत्संज्ञस्य राज्ञः "वृत्रहा वृत्राणां शत्रूणां हन्ता "पुरुचेतनः पुरूणां बहूनां चेतयिता ज्ञाता । सर्वज्ञ इत्यर्थः । "सत्पतिः सतां यजमानानां पालयिता ।।


स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश॑न्महित्व॒ना ।

व॒न्वन्नवा॑तो॒ अस्तृ॑तः ॥२०

सः । हि । विश्वा॑ । अति॑ । पार्थि॑वा । र॒यिम् । दाश॑त् । म॒हि॒ऽत्व॒ना ।

व॒न्वन् । अवा॑तः । अस्तृ॑तः ॥२०

सः । हि । विश्वा । अति । पार्थिवा । रयिम् । दाशत् । महिऽत्वना ।

वन्वन् । अवातः । अस्तृतः ॥२०

“स “हि स खल्वग्निः “विश्वा विश्वानि सर्वाणि "पार्थिवा पृथिव्यां भवानि भूतजातानि "महित्वना महत्त्वेन स्वमहिम्नातिक्रामन् "रयिं धनं "दाशत् अस्मभ्यं ददातु । यद्वा । विश्वं सर्वं पार्थिवं पृथिव्यां विद्यमानं रयिं धनम् "अति अतिशयेन दाशत् ददातु। कीदृशोऽग्निः । महित्वना महत्त्वेन तेजसा "वन्वन् काष्ठानि शत्रून् वा हिंसन् "अवातः अन्यैः शत्रुभिरप्रतिगतः "अस्तृतः केनाप्यहिंसितः ॥ ॥ २४ ॥


स प्र॑त्न॒वन्नवी॑य॒साग्ने॑ द्यु॒म्नेन॑ सं॒यता॑ ।

बृ॒हत्त॑तन्थ भा॒नुना॑ ॥२१

सः । प्र॒त्न॒ऽवत् । नवी॑यसा । अग्ने॑ । द्यु॒म्नेन॑ । स॒म्ऽयता॑ ।

बृ॒हत् । त॒त॒न्थ॒ । भा॒नुना॑ ॥२१

सः । प्रत्नऽवत् । नवीयसा । अग्ने । द्युम्नेन । सम्ऽयता ।

बृहत् । ततन्थ । भानुना ॥२१

हे "अग्ने यः पूर्वोक्तगुणविशिष्टः "सः तादृशस्त्वं “प्रत्नवत् प्रत्नेन पुराणेन "नवीयसा नवतरेण “द्युम्नेन द्योतमानेन "संयता संगच्छता सम्यग्व्याप्नुवता "भानुना तेजसा “बृहत् महदन्तरिक्षं "ततन्थ विस्तारयसि ॥


प्र व॑ः सखायो अ॒ग्नये॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या ।

अर्च॒ गाय॑ च वे॒धसे॑ ॥२२

प्र । वः॒ । स॒खा॒यः॒ । अ॒ग्नये॑ । स्तोम॑म् । य॒ज्ञम् । च॒ । धृ॒ष्णु॒ऽया ।

अर्च॑ । गाय॑ । च॒ । वे॒धसे॑ ॥२२

प्र । वः । सखायः । अग्नये । स्तोमम् । यज्ञम् । च । धृष्णुऽया ।

अर्च । गाय । च । वेधसे ॥२२

हे "सखायः समानख्याना ऋत्विजः "वः यूयं “धृष्णुया शत्रूणां धर्षकाय "वेधसे विधात्रे “अग्नये "स्तोमं स्तोत्रं "गाय गायत । तथा "यज्ञं यजनसाधनं हविः च” "प्र “अर्च प्रयच्छत ।।


स हि यो मानु॑षा यु॒गा सीद॒द्धोता॑ क॒विक्र॑तुः ।

दू॒तश्च॑ हव्य॒वाह॑नः ॥२३

सः । हि । यः । मानु॑षा । यु॒गा । सीद॑त् । होता॑ । क॒विऽक्र॑तुः ।

दू॒तः । च॒ । ह॒व्य॒ऽवाह॑नः ॥२३

सः । हि । यः । मानुषा । युगा । सीदत् । होता । कविऽक्रतुः ।

दूतः । च । हव्यऽवाहनः ॥२३

“स "हि स खल्वग्निः "सीदत् सीदतु । अस्मदीये यज्ञे बर्हिष्युपविशतु । "यः अग्निः "होता देवानामाह्वाता "कविक्रतुः क्रान्तप्रज्ञः "मानुषा “युगा मानुषाणि युगानि मनुष्यसंबन्धिनो यज्ञार्हान् कालविशेषान् येषु यागाः अनुष्ठीयन्ते । अत्यन्तसंयोगे द्वितीया ॥ एतावन्तं कालं देवानां “दूतः । सः "हव्यवाहनः हविषां वोढा "च भवति ॥


ता राजा॑ना॒ शुचि॑व्रतादि॒त्यान्मारु॑तं ग॒णम् ।

वसो॒ यक्षी॒ह रोद॑सी ॥२४

ता । राजा॑ना । शुचि॑ऽव्रता । आ॒दि॒त्यान् । मारु॑तम् । ग॒णम् ।

वसो॒ इति॑ । यक्षि॑ । इ॒ह । रोद॑सी॒ इति॑ ॥२४

ता । राजाना । शुचिऽव्रता । आदित्यान् । मारुतम् । गणम् ।

वसो इति । यक्षि । इह । रोदसी इति ॥२४

“ता तौ प्रसिद्धौ "राजाना राजमानौ "शुचित्रता शुचिकर्माणौ मित्रावरुणौ "आदित्यान् अदितेः पुत्रान् धात्रादीन् "मारुतं "गणं मरुतां संघं च "रोदसी द्यावापृथिव्यौ च एतान् देवान् हे “वसो वासकाग्ने “इह अस्मिन् यज्ञे "यक्षि यज ।।


वस्वी॑ ते अग्ने॒ संदृ॑ष्टिरिषय॒ते मर्त्या॑य ।

ऊर्जो॑ नपाद॒मृत॑स्य ॥२५

वस्वी॑ । ते॒ । अ॒ग्ने॒ । सम्ऽदृ॑ष्टिः । इ॒ष॒ऽय॒ते । मर्त्या॑य ।

ऊर्जः॑ । न॒पा॒त् । अ॒मृत॑स्य ॥२५

वस्वी । ते । अग्ने । सम्ऽदृष्टिः । इषऽयते । मर्त्याय ।

ऊर्जः । नपात् । अमृतस्य ॥२५

हे “ऊर्जो "नपात् बलस्य पुत्र “अग्ने “अमृतस्य मरणरहितस्य “ते तव “संदृष्टिः दीप्तिः “वस्वी वासयित्री । प्रशस्येत्यर्थः । सो “मर्त्याय मनुष्याय यजमानाय “इषयते । इषमन्नमिच्छति'। ददातीत्यर्थः ॥ ॥ २५ ॥


क्रत्वा॒ दा अ॑स्तु॒ श्रेष्ठो॒ऽद्य त्वा॑ व॒न्वन्सु॒रेक्णा॑ः ।

मर्त॑ आनाश सुवृ॒क्तिम् ॥२६

क्रत्वा॑ । दाः । अ॒स्तु॒ । श्रेष्ठः॑ । अ॒द्य । त्वा॒ । व॒न्वन् । सु॒ऽरेक्णाः॑ ।

मर्तः॑ । आ॒ना॒श॒ । सु॒ऽवृ॒क्तिम् ॥२६

क्रत्वा । दाः । अस्तु । श्रेष्ठः । अद्य । त्वा । वन्वन् । सुऽरेक्णाः ।

मर्तः । आनाश । सुऽवृक्तिम् ॥२६

हे अग्ने "अद्य इदानीं "क्रत्वा कर्मणा परिचरणात्मना त्वां "वन्वन् संभजन “दाः हवींषि दाता यजमानः "श्रेष्ठः अतिशयेन प्रशस्यः "अस्तु । "सुरेक्णाः शोभनधनश्चास्तु । तथा सः “मर्तः मनुष्यः सुवृक्तिं त्वद्विषयां सुष्टुतिं च "आनाश व्याप्नोतु । तव सर्वदा स्तोता भवत्वित्यर्थः ॥


ते ते॑ अग्ने॒ त्वोता॑ इ॒षय॑न्तो॒ विश्व॒मायु॑ः ।

तर॑न्तो अ॒र्यो अरा॑तीर्व॒न्वन्तो॑ अ॒र्यो अरा॑तीः ॥२७

ते । ते॒ । अ॒ग्ने॒ । त्वाऽऊ॑ताः । इ॒षय॑न्तः । विश्व॑म् । आयुः॑ ।

तर॑न्तः । अ॒र्यः । अरा॑तीः । व॒न्वन्तः॑ । अ॒र्यः । अरा॑तीः ॥२७

ते । ते । अग्ने । त्वाऽऊताः । इषयन्तः । विश्वम् । आयुः ।

तरन्तः । अर्यः । अरातीः । वन्वन्तः । अर्यः । अरातीः ॥२७

हे "अग्ने "ते त्वदीया ये त्वां स्तुवन्ति "ते स्तोतारः "त्वोताः त्वयोता रक्षिता अत एव "इषयन्तः इषमात्मन इच्छन्तः सन्तः विश्वं सर्वम् "आयुः अन्नं लभन्त इति शेषः । आयुरेव वा शतवर्षलक्षणमिषयन्त इच्छन्तः प्राप्नुवन्तीति शेषः । तथा "अर्यः अरीनभिगन्त्रीः “अरातीः काश्चित् शत्रुसेनाः “तरन्तः अतिक्रामन्तः "अर्यः अभिगन्त्रीः “अरातीः काश्चन शत्रुसेनाः “वन्वन्तः हिंसन्तश्च भवन्तीति शेषः ।।


अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्य१॒॑त्रिण॑म् ।

अ॒ग्निर्नो॑ वनते र॒यिम् ॥२८

अ॒ग्निः । ति॒ग्मेन॑ । शो॒चिषा॑ । यास॑त् । विश्व॑म् । नि । अ॒त्रिण॑म् ।

अ॒ग्निः । नः॒ । व॒न॒ते॒ । र॒यिम् ॥२८

अग्निः । तिग्मेन । शोचिषा । यासत् । विश्वम् । नि । अत्रिणम् ।

अग्निः । नः । वनते । रयिम् ॥२८

अयम् अग्निः “तिग्मेन तीक्ष्णेन “शोचिषा तेजसा "विश्वं सर्वम् "अत्रिणम् अत्तारं राक्षसादिकं “नि "यासत् निहन्तु । अपि च "नः अस्मभ्यम् "अग्निः "रयिं धनं "वनते ददातु ॥


सु॒वीरं॑ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे ।

ज॒हि रक्षां॑सि सुक्रतो ॥२९

सु॒ऽवीर॑म् । र॒यिम् । आ । भ॒र॒ । जात॑ऽवेदः । विऽच॑र्षणे ।

ज॒हि । रक्षां॑सि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥२९

सुऽवीरम् । रयिम् । आ । भर । जातऽवेदः । विऽचर्षणे ।

जहि । रक्षांसि । सुक्रतो इति सुऽक्रतो ॥२९

हे "जातवेदः जातप्रज्ञान जातधन वा "विचर्षणे विशेषेण द्रष्टरग्ने “सुवीरं शोभनैर्वीरैः पुत्रपौत्रादिभिरुपेतं "रयिं धनम् "आ "भर आहर। तथा हे "सुक्रतो सुकर्मन्नग्ने "रक्षांसि च "जहि विनाशय ॥


त्वं न॑ः पा॒ह्यंह॑सो॒ जात॑वेदो अघाय॒तः ।

रक्षा॑ णो ब्रह्मणस्कवे ॥३०

त्वम् । नः॒ । पा॒हि॒ । अंह॑सः । जात॑ऽवेदः । अ॒घ॒ऽय॒तः ।

रक्ष॑ । नः॒ । ब्र॒ह्म॒णः॒ । क॒वे॒ ॥३०

त्वम् । नः । पाहि । अंहसः । जातऽवेदः । अघऽयतः ।

रक्ष । नः । ब्रह्मणः । कवे ॥३०

हे “जातवेदः “त्वं “नः अस्मान् "अंहसः पापात् "पाहि रक्ष। तथा हे ब्रह्मणस्कवे स्तुतिरूपस्य मन्त्रस्य कवे कावयितः शब्दयितरग्ने । अग्निर्हि शब्दमुत्पादयति । तथा च स्मर्यते - ‘ मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् । मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ' (पा. शि. ६-७ ) इति । तादृशाग्ने "अघायतः अघमनर्थमस्माकमिच्छतः शत्रोश्च "नः अस्मान् "रक्ष ॥ ॥ २६ ॥


यो नो॑ अग्ने दु॒रेव॒ आ मर्तो॑ व॒धाय॒ दाश॑ति ।

तस्मा॑न्नः पा॒ह्यंह॑सः ॥३१

यः । नः॒ । अ॒ग्ने॒ । दुः॒ऽएवः॑ । आ । मर्तः॑ । व॒धाय॑ । दाश॑ति ।

तस्मा॑त् । नः॒ । पा॒हि॒ । अंह॑सः ॥३१

यः । नः । अग्ने । दुःऽएवः । आ । मर्तः । वधाय । दाशति ।

तस्मात् । नः । पाहि । अंहसः ॥३१

हे "अग्ने "दुरेवः दुष्टाभिप्रायः "यः “मर्तः मनुष्यः “वधाय स्वस्यायुधाय “नः अस्मान् "आ "दाशति अभिप्रयच्छति । आयुधेनास्मान् हन्तीत्यर्थः । "तस्मात् मनुष्यात् "अंहसः पापाच्च "नः अस्मान् "पाहि रक्ष ॥


त्वं तं दे॑व जि॒ह्वया॒ परि॑ बाधस्व दु॒ष्कृत॑म् ।

मर्तो॒ यो नो॒ जिघां॑सति ॥३२

त्वम् । तम् । दे॒व॒ । जि॒ह्वया॑ । परि॑ । बा॒ध॒स्व॒ । दुः॒ऽकृत॑म् ।

मर्तः॑ । यः । नः॒ । जिघां॑सति ॥३२

त्वम् । तम् । देव । जिह्वया । परि । बाधस्व । दुःऽकृतम् ।

मर्तः । यः । नः । जिघांसति ॥३२

हे "देव द्योतमानाग्ने "त्वं "तं वक्ष्यमाणं "दुष्कृतं दुष्कर्मकारिणं मनुष्यं "जिह्वया ज्वालया “परि “बाधस्व सर्वतो जहि । "यः “मर्तः मनुष्यः "नः अस्मान् "जिघांसति हन्तुमिच्छति ॥


भ॒रद्वा॑जाय स॒प्रथ॒ः शर्म॑ यच्छ सहन्त्य ।

अग्ने॒ वरे॑ण्यं॒ वसु॑ ॥३३

भ॒रत्ऽवा॑जाय । स॒ऽप्रथः॑ । शर्म॑ । य॒च्छ॒ । स॒ह॒न्त्य॒ ।

अग्ने॑ । वरे॑ण्यम् । वसु॑ ॥३३

भरत्ऽवाजाय । सऽप्रथः । शर्म । यच्छ । सहन्त्य ।

अग्ने । वरेण्यम् । वसु ॥३३

हे सहन्त्य शत्रूणामभिभवितः "अग्ने "भरद्वाजाय मह्यमृषये "सप्रथः सर्वतः पृथु विस्तीर्णं “शर्म सुखं गृहं वा "यच्छ देहि । तथा “वरेण्यं वरणीयं "वसु धनं च देहि ।।


पौर्णमास्यामाग्नेयाज्यभागस्यानुवाक्या ‘अग्निर्वृत्राणि' इत्येषा । सूत्रितं च - अग्निर्वृत्राणि जङ्घनदिति पूर्वस्याज्यभागस्यानुवाक्या' (आश्व. श्रौ. १. ५ ), इति । इष्टिपशुसोमेषु च यत्र वृधन्वन्तौ पुष्टिमन्तावित्यादिविशेषविधिर्न दृश्यते तत्र सर्वत्रैषैव प्रथमाज्यभागानुवाक्या। उपसद्याग्नेयस्यैषानुवाक्या सायंकालीनस्य त्वेषैव याज्या । सूत्रितं च - ‘ अग्निर्वृत्राणि जङ्घनद्य उग्रइव शर्यहेति विपर्यासो याज्यानुवाक्यानाम् ' ( आश्व. श्रौ. ४. ८) इति ।

अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया॑ ।

समि॑द्धः शु॒क्र आहु॑तः ॥३४

अ॒ग्निः । वृ॒त्राणि॑ । ज॒ङ्घ॒न॒त् । द्र॒वि॒ण॒स्युः । वि॒प॒न्यया॑ ।

सम्ऽइ॑द्धः । शु॒क्रः । आऽहु॑तः ॥३४

अग्निः । वृत्राणि । जङ्घनत् । द्रविणस्युः । विपन्यया ।

सम्ऽइद्धः । शुक्रः । आऽहुतः ॥३४

“विपन्यया स्तुत्या स्तूयमानः “द्रविणस्युः द्रविणं धनं स्तोतॄणामिच्छन् यद्वा हविर्लक्षणं धनमात्मन इच्छन् “अग्निः “वृत्राणि आवरकाणि रक्षःप्रभृतीनि तमांसि वा “जङ्घनत् भृशं हन्तु । कीदृशोऽग्निः । “समिद्धः सम्यग्दीप्तः अत एव “शुक्रः शुक्लवर्णः “आहुतः हविर्भिरभिहुतः ।।


गर्भे॑ मा॒तुः पि॒तुष्पि॒ता वि॑दिद्युता॒नो अ॒क्षरे॑ ।

सीद॑न्नृ॒तस्य॒ योनि॒मा ॥३५

गर्भे॑ । मा॒तुः । पि॒तुः । पि॒ता । वि॒ऽदि॒द्यु॒ता॒नः । अ॒क्षरे॑ ।

सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥३५

गर्भे । मातुः । पितुः । पिता । विऽदिद्युतानः । अक्षरे ।

सीदन् । ऋतस्य । योनिम् । आ ॥३५

अत्र मातृपितृशब्दाभ्यां भूर्द्यौश्चाभिधीयेते । 'द्यौर्वः पिता पृथिवी माता' (ऋ. सं. १. १९१. ६) इति श्रुतेः । “मातुः भूम्याः “गर्भे गर्भस्थाने मध्ये “अक्षरे क्षरणरहिते वेद्याख्ये स्थाने “विदिद्युतानः विशेषेण दीप्यमानः “पितुः “पिता द्युलोकस्य पालयिता हविषां प्रदानेन । एवंभूतोऽग्निः “ऋतस्य यज्ञस्य “योनिम् उत्तरवेद्याख्यं धिष्ण्यम् ॥ सप्तम्यर्थे द्वितीया ॥ “आ "सीदन् उत्तरवेद्यामुपविशन् अग्निर्वृत्राणि जङ्घनदित्यन्वयः ॥ ॥ २७ ॥


ब्रह्म॑ प्र॒जाव॒दा भ॑र॒ जात॑वेदो॒ विच॑र्षणे ।

अग्ने॒ यद्दी॒दय॑द्दि॒वि ॥३६

ब्रह्म॑ । प्र॒जाऽव॑त् । आ । भ॒र॒ । जात॑ऽवेदः । विऽच॑र्षणे ।

अग्ने॑ । यत् । दी॒दय॑त् । दि॒वि ॥३६

ब्रह्म । प्रजाऽवत् । आ । भर । जातऽवेदः । विऽचर्षणे ।

अग्ने । यत् । दीदयत् । दिवि ॥३६

हे "जातवेदः जातानां वेदितः “विचर्षणे विशेषेण द्रष्टः “अग्ने “प्रजावत् पुत्रपौत्रसहितं “ब्रह्म अन्नम् “आ “भर आहर। “यत् ब्रह्म “दिवि द्युलोके “दीदयत् दीप्यते देवेषु मध्ये यत्प्रशस्तमन्नं राजते तदाहरेत्यर्थः ॥


उप॑ त्वा र॒ण्वसं॑दृशं॒ प्रय॑स्वन्तः सहस्कृत ।

अग्ने॑ ससृ॒ज्महे॒ गिर॑ः ॥३७

उप॑ । त्वा॒ । र॒ण्वऽस॑न्दृशम् । प्रय॑स्वन्तः । स॒हः॒ऽकृ॒त॒ ।

अग्ने॑ । स॒सृ॒ज्महे॑ । गिरः॑ ॥३७

उप । त्वा । रण्वऽसन्दृशम् । प्रयस्वन्तः । सहःऽकृत ।

अग्ने । ससृज्महे । गिरः ॥३७

हे “सहस्कृत सहसा बलेनोत्पन्न “अग्ने “प्रयस्वन्तः हविर्लक्षणन्नवन्तो वयं “रण्वसंदृशं रमणीयसंदर्शनं स्तोतव्यसंदर्शनं वा “त्वा त्वाम् “उप प्रति “गिरः स्तुतीः “ससृज्महे विसृजामः उच्चारयाम इत्यर्थः ॥


उप॑ च्छा॒यामि॑व॒ घृणे॒रग॑न्म॒ शर्म॑ ते व॒यम् ।

अग्ने॒ हिर॑ण्यसंदृशः ॥३८

उप॑ । छा॒याम्ऽइ॑व । घृणेः॑ । अग॑न्म । शर्म॑ । ते॒ । व॒यम् ।

अग्ने॑ । हिर॑ण्यऽसन्दृशः ॥३८

उप । छायाम्ऽइव । घृणेः । अगन्म । शर्म । ते । वयम् ।

अग्ने । हिरण्यऽसन्दृशः ॥३८

हे “अग्ने “हिरण्यसंदृशः हितरमणीयतेजसो हिरण्यवद्रोचमानतेजसो वा “घृणेः दीप्तस्य “ते तव “शर्म शरणमाश्रयणम् “उप “अगन्म उपगच्छाम । तत्र दृष्टान्तः । “छायामिव । यथा घर्मार्ताः संतप्ताश्छायामुपगच्छन्ति तद्वत् ॥


उपसदि प्रातःकालीनस्याग्नेयस्य ‘य उग्रइव' इति याज्या सायंकालीनस्य त्वेषैवानुवाक्या । सूत्रितं च--- अग्निर्वृत्राणि जङ्घनद्य उग्रइव शर्यहा ' (आश्व. श्रौ. ४. ८) इति ॥

य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ॑ङ्गो॒ न वंस॑गः ।

अग्ने॒ पुरो॑ रु॒रोजि॑थ ॥३९

यः । उ॒ग्रःऽइ॑व । श॒र्य॒ऽहा । ति॒ग्मऽशृ॑ङ्गः । न । वंस॑गः ।

अग्ने॑ । पुरः॑ । रु॒रोजि॑थ ॥३९

यः । उग्रःऽइव । शर्यऽहा । तिग्मऽशृङ्गः । न । वंसगः ।

अग्ने । पुरः । रुरोजिथ ॥३९

“यः अग्निः “उग्रइव उद्गूर्णबलो धन्वीव “शर्यहा शर्यैर्बाणैः शत्रूणां हन्ता “तिग्मशृङ्गो “न “वंसगः तीक्ष्णशृङ्गो वननीयगतिर्वृषभ इव हे “अग्ने स त्वं “पुरः आसुरीस्तिस्रः पुरीः “रोजिथ भग्नवानसि । ‘रुद्रो वा एष यदग्निः' (तै. ब्रा. २. १. ३. १ ) इति श्रुतेः रुद्रकृतमपि त्रिपुरदहनमग्निकृतमेवेत्यग्निः स्तूयते । यद्वा । त्रिपुरदहनसाधनभूते बाणेऽग्नेरनीकत्वेनावस्थानादग्निः पुराणि भग्नवानित्युच्यते । ‘देवासुरा वा एषु लोकेषु समयतन्त' (ऐ. ब्रा. १. २३) इत्यादिकं ब्राह्मणमनुसंधेयम् ॥


अग्निमन्थने जायमानेऽग्नौ ' आ यं हस्ते ' इत्येषानुवाक्या। सूत्रितं च- ‘ आ यं हस्ते न खादिनमित्यर्धर्च आरमेत् ' ( आश्व. श्रौ. २. १६ ) इति ॥

आ यं हस्ते॒ न खा॒दिनं॒ शिशुं॑ जा॒तं न बिभ्र॑ति ।

वि॒शाम॒ग्निं स्व॑ध्व॒रम् ॥४०

आ । यम् । हस्ते॑ । न । खा॒दिन॑म् । शिशु॑म् । जा॒तम् । न । बिभ्र॑ति ।

वि॒शाम् । अ॒ग्निम् । सु॒ऽअ॒ध्व॒रम् ॥४०

आ । यम् । हस्ते । न । खादिनम् । शिशुम् । जातम् । न । बिभ्रति ।

विशाम् । अग्निम् । सुऽअध्वरम् ॥४०

मन्थनोत्पन्नं “यम् अग्निं “शिशुम् "जातं “न जातं पुत्रमिव “हस्ते “आ “बिभ्रति हस्तेष्वभिमुखं धारयन्त्यध्वर्यवः । पूर्वो नशब्दः पुरस्तादुपचारोऽप्युपमार्थीयः। “खादिनं “न भक्षकं व्याघ्रादिमिव । यथा तं बिभ्रतः पुरुषा अवहितास्तथाभूता इत्यर्थः। यद्वा संप्रत्यर्थे संप्रतीदानीं खादिनं हविषां भक्षकं यम् अग्निं हस्ते धारयन्ति "विशां जनानां “स्वध्वरं शोभनयागस्य निष्पादकं तम् “अग्निं हे ऋत्विजः परिचरतेति शेषः ॥ ॥ २८॥


अग्निमन्थने जातस्याग्नेराहवनीये प्रहरणसमये ‘प्र देवं देववीतये' इति द्वृचोऽनुवक्तव्यः । सूत्रितं च--- प्र देवं देववीतय इति द्वे अग्निनाग्निः समिध्यते ' ( आश्व. श्रौ. २. १६) इति ॥

प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् ।

आ स्वे योनौ॒ नि षी॑दतु ॥४१

प्र । दे॒वम् । दे॒वऽवी॑तये । भर॑त । व॒सु॒वित्ऽत॑मम् ।

आ । स्वे । योनौ॑ । नि । सी॒द॒तु॒ ॥४१

प्र । देवम् । देवऽवीतये । भरत । वसुवित्ऽतमम् ।

आ । स्वे । योनौ । नि । सीदतु ॥४१

हे अध्वर्यवः' “देवं द्योतमानं “वसुवित्तमं वसूनां धनानां वेदयितारं लम्भयितारमग्निं “प्र “भरत प्रहरत । आहवनीयेऽग्नौ प्रक्षिपत । किमर्थम् । “देववीतये देवानां भक्षणार्थम् । तथा च ब्राह्मणं - ‘ प्र देवं देववीतये भरता वसुवित्तममिति प्रह्रियमाणायाभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम् ' ( ऐ.ब्रा. १. १६) इति । स चाग्निः “स्वे “योनौ कारणे स्थाने आहवनीये “आ “नि “षीदतु अभिनिषण्णो भवतु । ब्राह्मणं च भवति – एष ह वा अस्य स्वो योनिर्यदग्निरग्नेः' (ऐ. ब्रा. १. १६) इति ॥


आ जा॒तं जा॒तवे॑दसि प्रि॒यं शि॑शी॒ताति॑थिम् ।

स्यो॒न आ गृ॒हप॑तिम् ॥४२

आ । जा॒तम् । जा॒तऽवे॑दसि । प्रि॒यम् । शि॒शी॒त॒ । अति॑थिम् ।

स्यो॒ने । आ । गृ॒हऽप॑तिम् ॥४२

आ । जातम् । जातऽवेदसि । प्रियम् । शिशीत । अतिथिम् ।

स्योने । आ । गृहऽपतिम् ॥४२

हे अध्वर्यवः "जातं प्रादुर्भूतम् "अतिथिम् । लुप्तोपममेतत् । अतिथिमिव “प्रियं अत एव “गृहपतिं गृहाणां स्वामिनमग्निं “जातवेदसि जातप्रज्ञे “स्योने सुखकरे आहवनीयेऽग्नौ “आ “शिशीत ।। अन्तर्णीतण्यर्थस्य शीङ एतद्रूपम् ॥ शाययत स्थापयत ॥ यद्वा । ‘ श्यैङ् गतौ ' इत्यस्य छान्दसं रूपम् ॥ गमयत । प्रापयतेत्यर्थः ॥ ‘शो तनूकरणे ' इत्यस्य वा रूपम् । श्यत तीक्ष्णीकुरुत। संस्कुरुत । प्रहरतेति यावत् । द्वितीय आकारः पूरकः । ‘जात इतरो जातवेदा इतरः ' (ऐ. ब्रा. १. १६ ) इत्यादिकं ब्राह्मणमत्रानुसंधेयम् ॥


अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धव॑ः ।

अरं॒ वह॑न्ति म॒न्यवे॑ ॥४३

अग्ने॑ । यु॒क्ष्व । हि । ये । तव॑ । अश्वा॑सः । दे॒व॒ । सा॒धवः॑ ।

अर॑म् । वह॑न्ति । म॒न्यवे॑ ॥४३

अग्ने । युक्ष्व । हि । ये । तव । अश्वासः । देव । साधवः ।

अरम् । वहन्ति । मन्यवे ॥४३

हे “देव द्योतमान “अग्ने तानश्वान् "युक्ष्व आत्मीये रथे योजय। "ये “तव त्वदीयाः “साधवः साधकाः सुशीला वा “अश्वासः अश्वाः “अरम् अलं पर्याप्तं “वहन्ति । किमर्थम् । “मन्यवे । मन्यते यष्टव्यत्वेन देवानत्रेति मन्युर्यागः । तदर्थं तानश्वान् रथे युक्ष्वेत्यर्थः । “हि खलु ॥


अच्छा॑ नो या॒ह्या व॑हा॒भि प्रयां॑सि वी॒तये॑ ।

आ दे॒वान्सोम॑पीतये ॥४४

अच्छ॑ । नः॒ । या॒हि॒ । आ । व॒ह॒ । अ॒भि । प्रयां॑सि । वी॒तये॑ ।

आ । दे॒वान् । सोम॑ऽपीतये ॥४४

अच्छ । नः । याहि । आ । वह । अभि । प्रयांसि । वीतये ।

आ । देवान् । सोमऽपीतये ॥४४

हे अग्ने “नः अस्मान् “अच्छ आभिमुख्येन “याहि आगच्छ । तथा “प्रयांसि हविर्लक्षणान्यन्नानि अभिलक्ष्य "देवान् “आ “वह । किमर्थम् । “वीतये तेषां हविषां स्वादनार्थम् । तथा “सोमपीतये सोमपानार्थं च तान् देवान् “आ वह ॥


उद॑ग्ने भारत द्यु॒मदज॑स्रेण॒ दवि॑द्युतत् ।

शोचा॒ वि भा॑ह्यजर ॥४५

उत् । अ॒ग्ने॒ । भा॒र॒त॒ । द्यु॒ऽमत् । अज॑स्रेण । दवि॑द्युतत् ।

शोच॑ । वि । भा॒हि॒ । अ॒ज॒र॒ ॥४५

उत् । अग्ने । भारत । द्युऽमत् । अजस्रेण । दविद्युतत् ।

शोच । वि । भाहि । अजर ॥४५

हे “भारत हविषां भर्तः “अग्ने “उत् "शोच उद्गततरं दीप्यस्व । तदेव विवृणोति । हे “अजर जरारहिताग्ने "दविद्युतत् भृशं द्योतमानस्त्वं “द्युमत् द्युमता दीप्तिमता ॥ ‘सुपां सुलुक्' इति तृतीयाया लुक् ॥ “अजस्रेण अविच्छेदेन तेजसा “वि “भाहि विशेषेण प्रकाशस्व ॥ यद्वा । भातिरत्रान्तर्णीतण्यर्थः ॥ त्वं प्रथममुद्दीप्यस्व पश्चादात्मीयेनं तेजसा सर्वं जगत् प्रकाशयेति योजनीयम् ॥ ॥२९॥


वी॒ती यो दे॒वं मर्तो॑ दुव॒स्येद॒ग्निमी॑ळीताध्व॒रे ह॒विष्मा॑न् ।

होता॑रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत् ॥४६

वी॒ती । यः । दे॒वम् । मर्तः॑ । दु॒व॒स्येत् । अ॒ग्निम् । ई॒ळी॒त॒ । अ॒ध्व॒रे । ह॒विष्मा॑न् ।

होता॑रम् । स॒त्य॒ऽयज॑म् । रोद॑स्योः । उ॒त्ता॒नऽह॑स्तः । नम॑सा । आ । वि॒वा॒से॒त् ॥४६

वीती । यः । देवम् । मर्तः । दुवस्येत् । अग्निम् । ईळीत । अध्वरे । हविष्मान् ।

होतारम् । सत्यऽयजम् । रोदस्योः । उत्तानऽहस्तः । नमसा । आ । विवासेत् ॥४६

"यः “मर्तः मनुष्यः "हविष्मान् हविर्भि र्युक्तो यजमानः “वीती वीत्या कान्तेन हविर्लक्षणेनान्नेन यं कंचन "देवं "दुवस्येत् परिचरेत् तस्मिन् “अध्वरे यज्ञे “अग्निम् “ईळीत स्तुवीत । सर्वेषु यागेष्वग्निः पूज्यत इत्यर्थः । कीदृशमग्निम् । “रोदस्योः द्यावापृथिव्योर्लोकद्वये वर्तमानानां देवानां “होतारम् आह्वातारं "सत्ययजं सत्येनावितथेन हविषा यष्टारम् । किंचायं यजमान ईदृशमग्निम् "उत्तानहस्तः कृताञ्जलिपुटः सन् "नमसा नमस्कारेण हविषा वा “आ “विवासेत् परिचरेत् ॥


आ ते॑ अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि ।

ते ते॑ भवन्तू॒क्षण॑ ऋष॒भासो॑ व॒शा उ॒त ॥४७

आ । ते॒ । अ॒ग्ने॒ । ऋ॒चा । ह॒विः । हृ॒दा । त॒ष्टम् । भ॒रा॒म॒सि॒ ।

ते । ते॒ । भ॒व॒न्तु॒ । उ॒क्षणः॑ । ऋ॒ष॒भासः॑ । व॒शाः । उ॒त ॥४७

आ । ते । अग्ने । ऋचा । हविः । हृदा । तष्टम् । भरामसि ।

ते । ते । भवन्तु । उक्षणः । ऋषभासः । वशाः । उत ॥४७

अनयाध्ययनं प्रशस्यत इत्याश्वलायनो मन्यते (आश्व. गृ. १. १. ५)। हे “अग्ने “ते तुभ्यं “हृदा हृदयेन “तष्टं संस्कृतम् “ऋचा ऋग्रूपेण वर्तमानं हविः ऋचमेव हविः कृत्वा “आ “भरामसि आहरामः । त इति तच्छब्देन प्रकृतमृग्रूपं हविः परामृश्यते । प्रतिनिर्दिश्यमानापेक्षया पुंस्त्वबहुत्वे । ऋग्रूपं तद्धविः “ते तुभ्यम् “उक्षणः उक्षाणः सेचनसमर्थाः “ऋषभासः ऋषभाः “उत अपि च “वशाः च “भवन्तु । ऋषभवशारूपेण परिणतं सत् त्वद्भक्षणाय भवत्विति शेषः ॥


अ॒ग्निं दे॒वासो॑ अग्रि॒यमि॒न्धते॑ वृत्र॒हन्त॑मम् ।

येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां॑सि वा॒जिना॑ ॥४८

अ॒ग्निम् । दे॒वासः॑ । अ॒ग्रि॒यम् । इ॒न्धते॑ । वृ॒त्र॒हन्ऽत॑मम् ।

येन॑ । वसू॑नि । आऽभृ॑ता । तृ॒ळ्हा । रक्षां॑सि । वा॒जिना॑ ॥४८

अग्निम् । देवासः । अग्रियम् । इन्धते । वृत्रहन्ऽतमम् ।

येन । वसूनि । आऽभृता । तृळ्हा । रक्षांसि । वाजिना ॥४८

“अग्रियं मुख्यं “वृत्रहन्तमम् अतिशयेन वृत्रस्य हन्तारमिमम् “अग्निं “देवासः देवाः “इन्धते दीपयन्ति । “येन अग्निना “वसूनि असुरैरपहृतानि धनानि हविर्लक्षणान्यन्नानि वा “आभृता असुरसकाशाद्यजमानाद्वाहृतानि । येन च "वाजिना बलवताग्निना “रक्षांसि यज्ञविरोधीनि “तृळ्हा तृढानि हिंसितानि तमग्निमिन्धत इत्यन्वयः ॥ ॥ ३० ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये चतुर्थाष्टके पञ्चमोऽध्यायः समाप्तः ॥


टिप्पणी

६.१६.१० अग्न आ याहि वीतये इति

द्र. ग्रामगेयः साम १

संभावित व्याख्या



मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.१६&oldid=205161" इत्यस्माद् पुनः प्राप्तिः