ऋग्वेदः सूक्तं ६.४३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.४२ ऋग्वेदः - मण्डल ६
सूक्तं ६.४३
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.४४ →
दे. इन्द्रः। उष्णिक्।


यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयः ।
अयं स सोम इन्द्र ते सुतः पिब ॥१॥
यस्य तीव्रसुतं मदं मध्यमन्तं च रक्षसे ।
अयं स सोम इन्द्र ते सुतः पिब ॥२॥
यस्य गा अन्तरश्मनो मदे दृळ्हा अवासृजः ।
अयं स सोम इन्द्र ते सुतः पिब ॥३॥
यस्य मन्दानो अन्धसो माघोनं दधिषे शवः ।
अयं स सोम इन्द्र ते सुतः पिब ॥४॥


सायणभाष्यम्

यस्य त्यत्' इति चतुर्ऋचं विंशं सूक्तं भरद्वाजस्यार्षमौष्णिहमैन्द्रम् । अनुक्रम्यते च ‘ यस्यौष्णिहम्' इति । महाव्रतेऽपि निष्केवल्ये औष्णिहतृचाशीतावेतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितं -- यस्य त्यच्छम्बरं मद इति त्रयस्तृचा गायत्र्यः' (ऐ.आ. ५. २. ५) इति ।


यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो॑दासाय र॒न्धय॑ः ।

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥१

यस्य॑ । त्यत् । शम्ब॑रम् । मदे॑ । दिवः॑ऽदासाय । र॒न्धयः॑ ।

अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥१

यस्य । त्यत् । शम्बरम् । मदे । दिवःऽदासाय । रन्धयः ।

अयम् । सः । सोमः । इन्द्र । ते । सुतः । पिब ॥१

हे इन्द्र “यस्य सोमस्य “मदे पानेन जनिते हर्षे सति “शम्बरम् असुरं “दिवोदासाय “रन्धयः अहिंसीः । यद्वा । वशीकृतवानसि । रध्यतिर्वंशगमने ' (निरु, ६. ३२) इति यास्कः । इति क्रियाविशेषणम् । “त्यत् तत् प्रसिद्धं यथा भवति तथा अरन्धय इत्यर्थ: । हे “इन्द्र ”सः सोमः “ते त्वदर्थं “सुतः अभिषुतः अतस्तं “पिब ।।


यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं॑ च॒ रक्ष॑से ।

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥२

यस्य॑ । ती॒व्र॒ऽसुत॑म् । मद॑म् । मध्य॑म् । अन्त॑म् । च॒ । रक्ष॑से ।

अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥२

यस्य । तीव्रऽसुतम् । मदम् । मध्यम् । अन्तम् । च । रक्षसे ।

अयम् । सः । सोमः । इन्द्र । ते । सुतः । पिब ॥२

हे “इन्द्र त्वं “यस्य सोमस्यावयवभूतं “तीव्रसुतम् । तीक्ष्णं सुतमभिषवो यस्य स तीव्रसुतः प्रातःसवनिकः । तं "मदं मदकरं सोमरसं “मध्यं मध्यंदिनसवनगतम् “अन्तं तृतीयसवनगतं “च सोमरसं “रक्षसे रक्षसि “सः “अयं “सोमः त्वदर्थमभिषुतस्तं “पिब इति ॥


यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे॑ दृ॒ळ्हा अ॒वासृ॑जः ।

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥३

यस्य॑ । गाः । अ॒न्तः । अश्म॑नः । मदे॑ । दृ॒ळ्हाः । अ॒व॒ऽअसृ॑जः ।

अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥३

यस्य । गाः । अन्तः । अश्मनः । मदे । दृळ्हाः । अवऽअसृजः ।

अयम् । सः । सोमः । इन्द्र । ते । सुतः । पिब ॥३

“यस्य सोमस्य “मदे मदकरे रसे पीते सति “अश्मनः वलासुरेण निहितस्य पर्वतस्य “अन्तः मध्ये विद्यमानाः “दृब्हाः दृढपिधानाश्च “गाः पणिभिरपहृताः “अवासृजः वलस्य बन्धनाद्व्यसृजः स सोम इत्यादि गतम् ॥


यस्य॑ मन्दा॒नो अन्ध॑सो॒ माघो॑नं दधि॒षे शव॑ः ।

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥४

यस्य॑ । म॒न्दा॒नः । अन्ध॑सः । माघो॑नम् । द॒धि॒षे । शवः॑ ।

अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥४

यस्य । मन्दानः । अन्धसः । माघोनम् । दधिषे । शवः ।

अयम् । सः । सोमः । इन्द्र । ते । सुतः । पिब ॥४

हे “इन्द्र त्वं “यस्य “अन्धसः सोमलक्षणस्यान्नस्य पानेन’ “मन्दानः मन्दमानो हृष्टः सन् “माघोनम् ऐन्द्रं “शवः असाधारणं बलं “दधिषे धारयसि । येन सोमेन तवेन्द्रत्वं जातमित्यर्थः । “सः “अयं “सोमः “सुतः अभिषुतस्तं “पिब ॥ ॥ १५ ॥ ॥ ३ ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.४३&oldid=188630" इत्यस्माद् प्रतिप्राप्तम्