ऋग्वेदः सूक्तं ६.७५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.७४ ऋग्वेदः - मण्डल ६
सूक्तं ६.७५
पायुर्भारद्वाजः
सूक्तं ७.१ →
(संग्रामाशिषः) १ वर्म, २ धनुः, ३ ज्या, ४ आर्त्नी, ५ इषुधिः, ६ (पूर्वार्धः) सारथिः, ६ (उत्तरार्धः) रश्मयः, ७ अश्वाः, ८ रथः,९ रथगोपाः, १० ब्राह्मण-पितृ-सोम-द्यावापृथिवी-पूषाणः, ११-१२, १५-१६ इषवः, १३ प्रतोदः, १४ हस्तघ्नः, १७ युद्धभूमि-कवच-ब्रह्मणस्पत्यादयः, १८ वर्म-सोम-वरुणाः, १९ देवब्रह्माणि। त्रिष्टुप्, ६,१० जगती, १२, १३, १५, १६, १९ अनुष्टुप्, १७ पङ्क्तिः
संजीवन्याः ओषध्याः नयने भरतेन स्वशरेण हनुमतः साहाय्यम्

जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे ।
अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥१॥
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम ।
धनुः शत्रोरपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥२॥
वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना ।
योषेव शिङ्क्ते वितताधि धन्वञ्ज्या इयं समने पारयन्ती ॥३॥
ते आचरन्ती समनेव योषा मातेव पुत्रं बिभृतामुपस्थे ।
अप शत्रून्विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥४॥
बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा कृणोति समनावगत्य ।
इषुधिः सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥५॥
रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः ।
अभीशूनां महिमानं पनायत मनः पश्चादनु यच्छन्ति रश्मयः ॥६॥
तीव्रान्घोषान्कृण्वते वृषपाणयोऽश्वा रथेभिः सह वाजयन्तः ।
अवक्रामन्तः प्रपदैरमित्रान्क्षिणन्ति शत्रूँरनपव्ययन्तः ॥७॥
रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म ।
तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ॥८॥
स्वादुषंसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः ।
चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥९॥
ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा ।
पूषा नः पातु दुरितादृतावृधो रक्षा माकिर्नो अघशंस ईशत ॥१०॥
सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता ।
यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यमिषवः शर्म यंसन् ॥११॥
ऋजीते परि वृङ्धि नोऽश्मा भवतु नस्तनूः ।
सोमो अधि ब्रवीतु नोऽदितिः शर्म यच्छतु ॥१२॥
आ जङ्घन्ति सान्वेषां जघनाँ उप जिघ्नते ।
अश्वाजनि प्रचेतसोऽश्वान्समत्सु चोदय ॥१३॥
अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः ॥१४॥
आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम् ।
इदं पर्जन्यरेतस इष्वै देव्यै बृहन्नमः ॥१५॥
अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।
गच्छामित्रान्प्र पद्यस्व मामीषां कं चनोच्छिषः ॥१६॥
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव ।
तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥१७॥
मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् ।
उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥१८॥
यो नः स्वो अरणो यश्च निष्ट्यो जिघांसति ।
देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥१९॥


सायणभाष्यम्

‘जीमूतस्य' इत्येकोनविंशत्यृचं चतुर्दशं सूक्तं भारद्वाजस्य पायोरार्षम् । अनुक्रम्यते च - ‘ जीमूतस्येवैकोना पायुर्भारद्वाजः संग्रामाङ्गान्यृक्शोऽभितुष्टाव वर्म धनुर्ज्यामार्त्नी इषुधिं जगत्यर्धे सारथिमर्धे रश्मीनश्वान् रथं रथगोपान् जगत्यां लिङ्गोकदेवता द्वाभ्यामिषूः प्रतोदं हस्तघ्नं द्वाभ्यामिषुः पराः पङ्क्त्यादयो लिङ्गोक्तदेवताः संग्रामाशिषोऽन्त्यानुष्टुबृजीत आलाक्तेति च द्वे द्वे ' इति । ' रथे तिष्ठन् ' ' ब्राह्मणासः' इति षष्ठीदशम्यौ जगत्यौ अन्त्या : यो नः स्वः इत्येषानुष्टुप् ‘ ऋजीते ' ' आ जङ्घन्ति ' ' आलाक्ता ' ' अवसृष्टा ' ' यो नः स्वः' इति पञ्चानुष्टुभः 'यत्र बाणाः' इति पङ्क्तिः शिष्टास्त्रिष्टुभः । आद्यया वर्म स्तूयते, द्वितीयया धनुः, तृतीयया ज्या, चतुर्थ्या आर्त्नी, पञ्चम्या इषुधिः । अतः पञ्चानां वर्माद्या देवताः । षष्ठ्याः पूर्वार्धन सारथिः स्तूयते । अतः सोऽर्धस्तद्देवताक:। उत्तरार्धेन रश्मयः स्तूयन्ते । सप्तम्या अश्वाः, अष्टम्या रथः, नवम्या रथगोपाः । अतस्तास्तद्देवताकाः । ‘ ब्राह्मणासः' इत्यस्यां ब्राझणपितृसोम्यद्यावापृथिवीपूषणो लिङ्गोक्तदेवताः । एकादशीद्वादश्यौ इषुस्तुतिरूपत्वात् इषुदेवताके । त्रयोदश्या प्रतोदः । चतुर्दश्या हस्तघ्नः । पञ्चदशीषोडश्यौ इषुदेवताके । सप्तदश्याः युद्धभूमिब्रह्मणस्पत्यदितिरूपा लिङ्गोक्तदेवताः । अष्टादश्याः कवचसोमवरुणा देवताः । अन्त्याया देवा ब्रह्म च देवताः । युद्धे अनेन सूक्तेन राजानं संनाहयेत् । तथा चाश्वलायनः- संग्रामे समुपोळ्हे राजानं संनाहयेदा त्वाहार्षमन्तरेधीति पश्चाद्रथस्यावस्थाय जीमूतस्येव भवति प्रतीकमिति कवचं प्रयच्छेत् उत्तरया धनुरुत्तरां वाचयेत्स्वयं चतुर्थीं जपेत्पञ्चम्येषुधिं प्रयच्छेदभिप्रवर्तमाने षष्ठीं सप्तम्याश्वानष्टमीमिषूनवेक्षमाणं वाचयत्यहिरिव भोगैः पर्येति बाहुमिति तलं नह्यमानम् ' ( आश्व. गृ. ३ : १२ ) इति । तथा च ' अवसृष्टा परा पतेतीषून्विसर्जयेद्यत्र बाणा: संपतन्तीति युध्यमानेषु जपेत् संशिष्याद्वा ' ( आश्व. गृ. ३:१२ ) इति । अध्यायोपाकरणोत्सर्जनयोर्मण्डलान्तहोमे यो नः स्वः' इत्येषा ( आश्व. गृ. ३. ५. ७ ) ॥


जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ ।

अना॑विद्धया त॒न्वा॑ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥१

जी॒मूत॑स्यऽइव । भ॒व॒ति॒ । प्रती॑कम् । यत् । व॒र्मी । याति॑ । स॒ऽमदा॑म् । उ॒पऽस्थे॑ ।

अना॑विद्धया । त॒न्वा॑ । ज॒य॒ । त्वम् । सः । त्वा॒ । वर्म॑णः । म॒हि॒मा । पि॒प॒र्तु॒ ॥१

जीमूतस्यऽइव । भवति । प्रतीकम् । यत् । वर्मी । याति । सऽमदाम् । उपऽस्थे ।

अनाविद्धया । तन्वा । जय । त्वम् । सः । त्वा । वर्मणः । महिमा । पिपर्तु ॥१

“समदां संग्रामाणाम् “उपस्थे उपस्थाने सति “यत् यदा अयं राजा “वर्मी कवची “याति तदा लोहमयेन वर्मणा संनद्धस्य राज्ञः “प्रतीकं रूपं “जीमूतस्येव मेघस्येव “भवति । मेघस्य यादृशं रूपं तादृशमस्य भवतीत्यर्थः । हे राजन “त्वम् अनाविद्धया शत्रुभिरबाधितया “तन्वा शरीरेण शत्रून् "जय । “वर्मणः “सः तादृशः “महिमा “त्वा त्वां “पिपर्तु पालयतु ।


धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम ।

धनु॒ः शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वा॑ः प्र॒दिशो॑ जयेम ॥२

धन्व॑ना । गाः । धन्व॑ना । आ॒जिम् । ज॒ये॒म॒ । धन्व॑ना । ती॒व्राः । स॒ऽमदः॑ । ज॒ये॒म॒ ।

धनुः॑ । शत्रोः॑ । अ॒प॒ऽका॒मम् । कृ॒णो॒ति॒ । धन्व॑ना । सर्वाः॑ । प्र॒ऽदिशः॑ । ज॒ये॒म॒ ॥२

धन्वना । गाः । धन्वना । आजिम् । जयेम । धन्वना । तीव्राः । सऽमदः । जयेम ।

धनुः । शत्रोः । अपऽकामम् । कृणोति । धन्वना । सर्वाः । प्रऽदिशः । जयेम ॥२

“धन्वना चापेन “गाः शत्रूणां जयेम वयं वशीकरवाम । “धन्वना “आजिं संग्रामं च जयेम । “धन्वना “तीव्राः उद्धताः “समदः अत्यन्तं मदवतीः शत्रुसेनाश्च “जयेम । तथा च यास्कः - ‘ समदः समदो वात्तेः संमदो वा मदतेः ' (निरु. ९.१७) इति । “धनुः शत्रोः “अपकामं कामस्यापायं “कृणोति करोतु । किंच “धन्वना वयं “सर्वाः “प्रदिशः सर्वासु दिक्षु वर्तमानान् शत्रून् “जयेम । प्रदिक्शब्दो लक्षणया तत्स्थेषु पुरुषेषु वर्तते मञ्चा: क्रोशन्तीतिवत् । धन्वञ्शब्दस्य जयतेश्चावृत्तिरादरार्था ॥


व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यं सखा॑यं परिषस्वजा॒ना ।

योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यं सम॑ने पा॒रय॑न्ती ॥३

व॒क्ष्यन्ती॑ऽइव । इत् । आ । ग॒नी॒ग॒न्ति॒ । कर्ण॑म् । प्रि॒यम् । सखा॑यम् । प॒रि॒ऽस॒स्व॒जा॒ना ।

योषा॑ऽइव । शि॒ङ्क्ते॒ । विऽत॑ता । अधि॑ । धन्व॑न् । ज्या । इ॒यम् । सम॑ने । पा॒रय॑न्ती ॥३

वक्ष्यन्तीऽइव । इत् । आ । गनीगन्ति । कर्णम् । प्रियम् । सखायम् । परिऽसस्वजाना ।

योषाऽइव । शिङ्क्ते । विऽतता । अधि । धन्वन् । ज्या । इयम् । समने । पारयन्ती ॥३

पूर्वत्र ऋग्द्वयेन कवचधनुषी स्तुते । अत्र ज्यास्तुतिः । “इयं “ज्या “समने संग्रामे “धन्वन् धन्वनि । “अधि इति सप्तम्यर्थानुवादः । “वितता विस्तृता “पारयन्ती पारं नयन्ती “प्रियं प्रियकर वाक्यं “वक्ष्यन्तीव “कर्णं धन्विनो राज्ञः कर्णप्रदेशम् “आ “गनीगन्ति आगच्छति । “इत् इति पूरणः। “योषा नारी “सखायं पतिम् “इव "परिषस्वजाना इषुं परिष्वजमाना “शिङ्तेरण शब्दायते च । तथा च यास्कः - ‘ वक्ष्यन्तीवागच्छति कर्णं प्रियमिव सखायमिषुं परिष्वजमाना योषेव शिङ्क्ते शब्दं करोति वितताधि धनुषि ज्येयं समने संग्रामे पारयन्ती पारं नयन्ती ' (निरु. ९.१८) इति ॥


ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑ ।

अप॒ शत्रू॑न्विध्यतां संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रा॑न् ॥४

ते इति॑ । आ॒चर॑न्ती॒ इत्या॒ऽचर॑न्ती । सम॑नाऽइव । योषा॑ । मा॒ताऽइ॑व । पु॒त्रम् । बि॒भृ॒ता॒म् । उ॒पऽस्थे॑ ।

अप॑ । शत्रू॑न् । वि॒ध्य॒ता॒म् । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने । आ॒र्त्नी इति॑ । इ॒मे इति॑ । वि॒स्फु॒रन्ती॒ इति॑ वि॒ऽस्फु॒रन्ती॑ । अ॒मित्रा॑न् ॥४

ते इति । आचरन्ती इत्याऽचरन्ती । समनाऽइव । योषा । माताऽइव । पुत्रम् । बिभृताम् । उपऽस्थे ।

अप । शत्रून् । विध्यताम् । संविदाने इति सम्ऽविदाने । आर्त्नी इति । इमे इति । विस्फुरन्ती इति विऽस्फुरन्ती । अमित्रान् ॥४

अत्र धनुष्कोट्योः स्तुतिः । “ते धनुष्कोट्यौ "समनेव समनस्केव “योषा पतिसमीपं न त्यजति तद्वत् "आचरन्ती अभितश्चरन्त्यौ “उपस्थे उपस्थाने “मातेव “पुत्रं यथा माता पुत्रं धारयति तद्वत् “बिभृतां राजानं धारयेताम् । किं च “इमे धनुष्कोट्यौ “संविदाने संजानाने विसंवादरहिते “आर्त्नी गच्छन्त्यौ ॥ ‘ ऋ गतौ ' इति धातोः ‘चुर्यगिभ्यां निः' इति बाहुलकात् निप्रत्ययो धातोरार्तभावश्च । ततः ‘कृदिकारादक्तिनः ' (पा. सू. ४.१.४५) इति ङीष् । द्विवचनस्य पूर्वसवर्णः ॥ अस्य राज्ञः “अमित्रान् “विष्फुरन्ती विहिंसन्त्यौ “शत्रून् च "अप “विध्यताम् । तथा च यास्कः - ते आचरन्त्यौ समनसाविव योषे मातेव पुत्रं बिभृतामुपस्थ उपस्थानेऽपविध्यतां शत्रून् संविदाने आर्न्याि विमे विघ्नत्यावमित्रान् ' ( निरु. ९.४० ) इति ॥


ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ ।

इ॒षु॒धिः सङ्का॒ः पृत॑नाश्च॒ सर्वा॑ः पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥५

ब॒ह्वी॒नाम् । पि॒ता । ब॒हुः । अ॒स्य । पु॒त्रः । चि॒श्चा । कृ॒णो॒ति॒ । सम॑ना । अ॒व॒ऽगत्य॑ ।

इ॒षु॒ऽधिः । सङ्काः॑ । पृत॑नाः । च॒ । सर्वाः॑ । पृ॒ष्ठे । निऽन॑द्धः । ज॒य॒ति॒ । प्रऽसू॑तः ॥५

बह्वीनाम् । पिता । बहुः । अस्य । पुत्रः । चिश्चा । कृणोति । समना । अवऽगत्य ।

इषुऽधिः । सङ्काः । पृतनाः । च । सर्वाः । पृष्ठे । निऽनद्धः । जयति । प्रऽसूतः ॥५

इषुधिरत्र स्तूयते । “इषुधिः “बह्वीनाम् इषूणां “पिता भवति । रक्षणहेतुत्वात् पितेत्युच्यते । इषुशब्दस्योभयलिङ्गत्वात् बह्वीनामिति प्रयोगः। “अस्य इषुधेः “पुत्रः इषुः "बहुः भवति । बहव इषवो हीषुधौ निधीयन्ते ! इषूणां निधानत्वादिषुधिः । तथा च यास्कः - ‘ इषुधिरिषूणां निधानम् ' ( निरु. ९. १३) इति । “चिश्चा “कृणोति । चिश्चेति शब्दानुकृतिः । इषुषु उद्ध्रियमाणेषु इषुधिश्चिश्चाशब्दं करोति । किंच इषुधिः “पृष्ठे “निनद्धः धन्विनो राज्ञः पृष्ठभागे बद्धः “समना युद्धानि “अवगत्य प्राप्य “प्रसूतः प्रसुवन् ॥ कर्तरि निष्ठा ॥ इषून् प्रेरयन् “संकाः । सह कायन्ति शब्दयन्त इति संकाः “पृतनाः “सर्वाः सेनाः "जयति ॥ ॥ १९ ॥


रथे॒ तिष्ठ॑न्नयति वा॒जिन॑ः पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः ।

अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मन॑ः प॒श्चादनु॑ यच्छन्ति र॒श्मय॑ः ॥६

रथे॑ । तिष्ठ॑न् । न॒य॒ति॒ । वा॒जिनः॑ । पु॒रः । यत्र॑ऽयत्र । का॒मय॑ते । सु॒ऽसा॒र॒थिः ।

अ॒भीशू॑नाम् । म॒हि॒मान॑म् । प॒ना॒य॒त॒ । मनः॑ । प॒श्चात् । अनु॑ । य॒च्छ॒न्ति॒ । र॒श्मयः॑ ॥६

रथे । तिष्ठन् । नयति । वाजिनः । पुरः । यत्रऽयत्र । कामयते । सुऽसारथिः ।

अभीशूनाम् । महिमानम् । पनायत । मनः । पश्चात् । अनु । यच्छन्ति । रश्मयः ॥६

अत्र पूर्वार्धे सारथिस्तुतिरुत्तरार्धेऽभीशूनां स्तुतिः । “सुषारथिः शोभनसारथिः “रथे “तिष्ठन् "पुरः पुरस्तात् वर्तमानान् “वाजिनः अश्वान् “यत्रयत्र नेतुं “कामयते तत्र तत्र "नयति । ये रथे “रश्मयः अश्वग्रीवाभ्यां व्याप्य वर्तमानाः पाशाः “पश्चात् रथस्य पृष्ठभागे विद्यमानाः अश्वान् “मनः सारथेर्मनोऽनुकूलम् “अनु “यच्छन्ति नियच्छन्ति । तेषाम् अभीशूनां रश्मीनां “महिमानं महत्त्वं “पनायत हे जनाः स्तुत । तथा च यास्कः- ‘ रथे तिष्ठन्नयति वाजिनः पुरस्तात्सतो यत्र यत्र कामयते सुषारथिः कल्याणसारथिरभीशूनां महिमानं पूजयत मनः पश्चात्सन्तोऽनुयच्छन्ति रश्मयः ' ( निरु. ९.१६ ) इति ॥


ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः ।

अ॒व॒क्राम॑न्त॒ः प्रप॑दैर॒मित्रा॑न्क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ॥७

ती॒व्रान् । घोषा॑न् । कृ॒ण्व॒ते॒ । वृष॑ऽपाणयः । अश्वाः॑ । रथे॑भिः । स॒ह । वा॒जय॑न्तः ।

अ॒व॒ऽक्राम॑न्तः । प्रऽप॑दैः । अ॒मित्रा॑न् । क्षि॒णन्ति॑ । शत्रू॑न् । अन॑पऽव्ययन्तः ॥७

तीव्रान् । घोषान् । कृण्वते । वृषऽपाणयः । अश्वाः । रथेभिः । सह । वाजयन्तः ।

अवऽक्रामन्तः । प्रऽपदैः । अमित्रान् । क्षिणन्ति । शत्रून् । अनपऽव्ययन्तः ॥७

अत्र अश्वस्तुतिः । “अश्वाः “वृषपाणयः पांसूनां वर्षकखुराः “रथेभिः रथैः “सह “वाजयन्तः वेगमाचरन्तः “तीव्रान् उच्चतरान् “घोषान् शब्दान् “कृण्वते कुर्वते । किंच "अनपव्ययन्तः अपलायमानाः "अमित्रान् हिंसकान् "शत्रून् "प्रपदैः पादाग्रैः “अवक्रामन्तः "क्षिणन्ति हिंसन्ति ॥


र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ ।

तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा॑ व॒यं सु॑मन॒स्यमा॑नाः ॥८

र॒थ॒ऽवाह॑नम् । ह॒विः । अ॒स्य॒ । नाम॑ । यत्र॑ । आयु॑धम् । निऽहि॑तम् । अ॒स्य॒ । वर्म॑ ।

तत्र॑ । रथ॑म् । उप॑ । श॒ग्मम् । स॒दे॒म॒ । वि॒श्वाहा॑ । व॒यम् । सु॒ऽम॒न॒स्यमा॑नाः ॥८

रथऽवाहनम् । हविः । अस्य । नाम । यत्र । आयुधम् । निऽहितम् । अस्य । वर्म ।

तत्र । रथम् । उप । शग्मम् । सदेम । विश्वाहा । वयम् । सुऽमनस्यमानाः ॥८

“अस्य राज्ञः “रथवाहनं शत्रून् जित्वा रथेनोह्यमानं धनं “हविः भवति । अग्नेर्हविरिव वर्धकं भवतीत्यर्थः । “नाम इति संमतिः । “यत्र रथे "अस्य राज्ञः “आयुधं धनुः शरादिकं “वर्म कवचं च “निहितं भवति “तत्र तम् ॥ तत्रेत्यव्ययस्य सार्वविभक्तिकत्वात् ॥ “शग्मं सुखकरं “विश्वाहा सर्वदा "सुमनस्यमानाः सुखमनसो भवन्तः “वयं पायवो भरद्वाजाः “उप "सदेम उपगच्छेम ॥


स्वा॒दु॒षं॒सद॑ः पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रित॒ः शक्ती॑वन्तो गभी॒राः ।

चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ॥९

स्वा॒दु॒ऽसं॒सदः॑ । पि॒तरः॑ । व॒यः॒ऽधाः । कृ॒च्छ्रे॒ऽश्रितः॑ । शक्ति॑ऽवन्तः । ग॒भी॒राः ।

चि॒त्रऽसे॑नाः । इषु॑ऽबलाः । अमृ॑ध्राः । स॒तःऽवी॑राः । उ॒रवः॑ । व्रा॒त॒ऽस॒हाः ॥९

स्वादुऽसंसदः । पितरः । वयःऽधाः । कृच्छ्रेऽश्रितः । शक्तिऽवन्तः । गभीराः ।

चित्रऽसेनाः । इषुऽबलाः । अमृध्राः । सतःऽवीराः । उरवः । व्रातऽसहाः ॥९

अत्र रथगोपस्तुतिः । "पितरः रथस्य पालयितारः "स्वादुषंसदः शत्रूणां स्वादुनि अन्ने संसीदन्तः शत्रूणामन्नमवसादयन्तो वा “वयोधाः अन्नस्य दातार: कृच्छ्रेश्रितः आपदि श्रयन्तः “शक्तीवन्तः शक्तिरायुधविशेषः तद्वन्तः शक्तीवन्तः । शक्तिहस्ता इति यावत् । यद्वा । शक्तिर्बलम् । तद्वन्तः । “गभीराः अनाधृष्याः “चित्रसेनाः दर्शनीयसेनाः “इषुबलाः । बाणबलाः "अमृध्राः हिंसितुमशक्याः “सतोवीराः प्राप्तवीर्याः । तथा च यास्कः - ‘ तिरः सत इति प्राप्तस्य तिरस्तीर्णं भवति सतः संसृतं भवति ' ( निरु. ३. २० ) इति । "उरवः महान्तः “व्रातसाहाः' समूहानामभिभवितारो भवन्तीति ॥


ब्राह्म॑णास॒ः पित॑र॒ः सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ ।

पू॒षा न॑ः पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥१०

ब्राह्म॑णासः । पित॑रः । सोम्या॑सः । शि॒वे इति॑ । नः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒ने॒हसा॑ ।

पू॒षा । नः॒ । पा॒तु॒ । दुः॒ऽइ॒तात् । ऋ॒त॒ऽवृ॒धः॒ । रक्ष॑ । माकिः॑ । नः॒ । अ॒घऽशं॑सः । ई॒श॒त॒ ॥१०

ब्राह्मणासः । पितरः । सोम्यासः । शिवे इति । नः । द्यावापृथिवी इति । अनेहसा ।

पूषा । नः । पातु । दुःऽइतात् । ऋतऽवृधः । रक्ष । माकिः । नः । अघऽशंसः । ईशत ॥१०

“ब्राह्मणासः हे ब्राह्मणाः “पितरः “ऋतावृधः । सत्यस्य यज्ञस्य वा वर्धयितारः “सोम्यासः सोमार्हाः सोमसंपादिनो वा । तथा च यास्कः - सोम्याः सोमसंपादिनः ' (निरु. ११.१८) इति । नः अस्मान् रक्षत । रक्ष इत्युपरितनमेकवचनान्तं सत्यपि व्यवधाने बहुवचनान्ततया विपरिणतं सदत्र संबध्यतेऽध्याहारस्यातिजघन्यत्वात् । किंच “अनेहसा अपापे “द्यावापृथिवी द्यावापृथिव्यौ “नः अस्माकं “शिवे सुखकृतौ भवताम् । “पूषा पोषको देवोऽपि “नः अस्मान् “दुरितात् दुष्कृतात् “पातु रक्षतु । "नः अस्माकम् “अघशंसः पापशंसः शत्रुरपि "माकिः "ईशत मा ईशिष्ट ॥ ॥२०॥


सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभि॒ः संन॑द्धा पतति॒ प्रसू॑ता ।

यत्रा॒ नर॒ः सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑व॒ः शर्म॑ यंसन् ॥११

सु॒ऽप॒र्णम् । व॒स्ते॒ । मृ॒गः । अ॒स्याः॒ । दन्तः॑ । गोभिः॑ । सम्ऽन॑द्धा । प॒त॒ति॒ । प्रऽसू॑ता ।

यत्र॑ । नरः॑ । सम् । च॒ । वि । च॒ । द्रव॑न्ति । तत्र॑ । अ॒स्मभ्य॑म् । इष॑वः । शर्म॑ । यं॒स॒न् ॥११

सुऽपर्णम् । वस्ते । मृगः । अस्याः । दन्तः । गोभिः । सम्ऽनद्धा । पतति । प्रऽसूता ।

यत्र । नरः । सम् । च । वि । च । द्रवन्ति । तत्र । अस्मभ्यम् । इषवः । शर्म । यंसन् ॥११

अस्यामृचि इषवः स्तूयन्ते । "सुपर्णं शोभनं वाजं “वस्ते । इयमिषुर्धारयति । “अस्याः इषोः "मृगः मृगावयवः शृङ्गं “दन्तः भवति । इषवः काश्चित् दन्तमुखा भवन्ति हि । अथवा अस्या दन्तो मृगः शत्रून् मृगयमाणो भवति । किंच "गोभिः गोविकारैः स्नायुभिः “संनद्धा सम्यक् बद्धा । अथवा गौरिति ज्यानाम । तया संबद्धा । अत्र वचनव्यत्ययः । तथा च निगमः - ‘ वृक्षेवृक्षे नियता मीमयद्गौः ' (ऋ. सं. १०. २७. २२ ) इति । अस्यायमर्थः । वृक्षेवृक्षे धनुषि धनुषि गौर्ज्या नियता मीमयत् शब्दं करोतीति । तथा च यास्कः – 'वृक्षवृक्षे धनुषि धनुषि । वृक्षो व्रश्चनात् वृत्वा क्षां तिष्ठतीति वा । क्षा क्षियतेर्निवासकर्मणः । नियता मीमयद्गौः शब्दं करोति । मीमयतिः शब्दकर्मा ' (निरु. २.६) इति । “प्रसूता प्रेरिता सती "पतति । "यत्र युद्धे “नरः "सं “च सह च “वि “च पृथक् च “द्रवन्ति चरन्ति “तत्र "अस्मभ्यम् “इषवः शराः "शर्म सुखं "यंसन् प्रयछन्तु। तथा च यास्कः – ‘सुपर्णं वस्त इति वाजानभिप्रेत्य मृगमयोऽस्या दन्तो मृगयतेर्वा गोभिः संनद्धा पतति प्रसूतेति व्याख्यातम् । यत्र नराः संद्रवन्ति च विद्रवन्ति च तत्रास्मभ्यमिषवः शर्म शरणं प्रयच्छन्तु' (निरु. ९.१९) इति ॥


ऋजी॑ते॒ परि॑ वृङ्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः ।

सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑ति॒ः शर्म॑ यच्छतु ॥१२

ऋजी॑ते । परि॑ । वृ॒ङ्धि॒ । नः॒ । अश्मा॑ । भ॒व॒तु॒ । नः॒ । त॒नूः ।

सोमः॑ । अधि॑ । ब्र॒वी॒तु॒ । नः॒ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ ॥१२

ऋजीते । परि । वृङ्धि । नः । अश्मा । भवतु । नः । तनूः ।

सोमः । अधि । ब्रवीतु । नः । अदितिः । शर्म । यच्छतु ॥१२

“ऋजीते । ऋजु गच्छतीति ऋजीतिः इषुः। हे इषो “नः अस्मान् “परि “वृङ्धि परितो वर्धय '। “नः अस्माकं “तनूः शरीरम् “अश्मा “भवतु । अश्मवदभेद्या दृढा भवतु । किंच “नः अस्मभ्यं “सोमो “अधि “ब्रवीतु पक्षपातेन ब्रवीतु । “अदितिः अपि "शर्म सुखं “यच्छतु ॥


आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घनाँ॒ उप॑ जिघ्नते ।

अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्स॒मत्सु॑ चोदय ॥१३

आ । ज॒ङ्घ॒न्ति॒ । सानु॑ । ए॒षा॒म् । ज॒घना॑न् । उप॑ । जि॒घ्न॒ते॒ ।

अश्व॑ऽअजनि । प्रऽचे॑तसः । अश्वा॑न् । स॒मत्ऽसु॑ । चो॒द॒य॒ ॥१३

आ । जङ्घन्ति । सानु । एषाम् । जघनान् । उप । जिघ्नते ।

अश्वऽअजनि । प्रऽचेतसः । अश्वान् । समत्ऽसु । चोदय ॥१३

“अश्वाजनि अश्वानां क्षेप्त्रि कशे यया त्वया “प्रचेतसः प्रकृष्टज्ञानाः सादिनः सारथयो वा “एषाम् अश्वानां “सानु सानूनि सक्थीनि “आ “जङ्घन्ति आघ्नन्ति । “जघनान् जघनानि च “उप “जिघ्नते उपजिघ्नन्ति सा त्वं “समत्सु संग्रामेषु “अश्वान् “चोदय प्रेरय । तथा च यास्कः --‘आघ्नन्ति सानून्येषां सरणानि सक्थीनि । सक्थि सचतेरासक्तोऽस्मिन् कायः । जघनानि चोपघ्नन्ति । जघनं जङ्घन्यतेः । अश्वाजनि प्रचेतसः प्रवृद्धचेतसोऽश्वान् समत्सु समरणेषु संग्रामेषु चोदय ' ( निरु. ९.२० ) इति ।


अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः ।

ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमां॑सं॒ परि॑ पातु वि॒श्वत॑ः ॥१४

अहिः॑ऽइव । भो॒गैः । परि॑ । ए॒ति॒ । बा॒हुम् । ज्यायाः॑ । हे॒तिम् । प॒रि॒ऽबाध॑मानः ।

ह॒स्त॒ऽघ्नः । विश्वा॑ । व॒युना॑नि । वि॒द्वान् । पुमा॑न् । पुमां॑सम् । परि॑ । पा॒तु॒ । वि॒श्वतः॑ ॥१४

अहिःऽइव । भोगैः । परि । एति । बाहुम् । ज्यायाः । हेतिम् । परिऽबाधमानः ।

हस्तऽघ्नः । विश्वा । वयुनानि । विद्वान् । पुमान् । पुमांसम् । परि । पातु । विश्वतः ॥१४

अत्र धन्विनः प्रकोष्ठे बन्धनीयस्य हस्तघ्नस्य स्तुतिः । “हस्तघ्नः । हस्ते हस्तसमीपे वर्तिनि प्रकोष्ठे स्थितः सन् ज्यया हन्यते इति हस्तघ्नः ॥ ‘ घञर्थे कविधानम् ' इति कः ॥ “ज्यायाः "हेतिं ज्याहेतुकां हिंसां परिबाधमानः निवारयन् “भोगैः शरीरेण ॥ वचनव्यत्ययः ॥ “अहिरिव सर्प इव “बाहुं प्रकोष्ठम् । लक्षणया बाहुशब्दः प्रकोष्ठे वर्तते । “पर्येति परिवेष्टयति । किंच "विश्वा विश्वानि “वयुनानि ज्ञानानि ज्ञातव्यानि । “माया वयुनम् ' इति तन्नामसु पाठात् । “विद्वान् जानन “पुमान् पौरुषोपेतः स्वयं “पुमांसं धन्विनं “विश्वतः सर्वतः “परि “पातु रक्षति । तथा च यास्कः -- ‘ अहिरिव भोगैः परिवेष्टयति बाहुं ज्याया वधात्परित्रायमाणो हस्तघ्नः सर्वाणि प्रज्ञानानि प्रजानन् पुमान्पुरुमना भवति पुंसतेर्वा ' ( निरु. ९. १५ ) इति ॥


आला॑क्ता॒ या रुरु॑शी॒र्ष्ण्यथो॒ यस्या॒ अयो॒ मुख॑म् ।

इ॒दं प॒र्जन्य॑रेतस॒ इष्वै॑ दे॒व्यै बृ॒हन्नम॑ः ॥१५

आल॑ऽअक्ता । या । रुरु॑ऽशीर्ष्णी । अथो॒ इति॑ । यस्याः॑ । अयः॑ । मुख॑म् ।

इ॒दम् । प॒र्जन्य॑ऽरेतसे । इष्वै॑ । दे॒व्यै । बृ॒हत् । नमः॑ ॥१५

आलऽअक्ता । या । रुरुऽशीर्ष्णी । अथो इति । यस्याः । अयः । मुखम् ।

इदम् । पर्जन्यऽरेतसे । इष्वै । देव्यै । बृहत् । नमः ॥१५

“या इषुः “आलाक्ता आलेन विषेण अक्ता “रुरुशीर्ष्णी हन्तृशिरस्का ॥ अर्तेः हिंसाकर्मणो रुरुशब्दोत्पत्तिः ॥ शृङ्गशीर्ष्णी वा । “अथो किंच “यस्याः इषोः “मुखम् “अयः अयोमयं भवति । “पर्जन्यरेतसे । पर्जन्यो रेतो यस्याः सा पर्जन्यरेताः । तस्यै पर्जन्यकार्यभूतायै । शरकाण्डस्य पर्जन्यजन्यत्वात् । “बृहत् बृहत्यै तस्यै “इष्वै “देव्यै "इदं “नमः क्रियते इति ॥ ॥ २१ ॥


अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते ।

गच्छा॒मित्रा॒न्प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ॥१६

अव॑ऽसृष्टा । परा॑ । प॒त॒ । शर॑व्ये । ब्रह्म॑ऽसंशिते ।

गच्छ॑ । अ॒मित्रा॑न् । प्र । प॒द्य॒स्व॒ । मा । अ॒मीषा॑म् । कम् । च॒न । उत् । शि॒षः॒ ॥१६

अवऽसृष्टा । परा । पत । शरव्ये । ब्रह्मऽसंशिते ।

गच्छ । अमित्रान् । प्र । पद्यस्व । मा । अमीषाम् । कम् । चन । उत् । शिषः ॥१६

“ब्रह्मसंशिते मन्त्रेण तीक्ष्णीकृते “शरव्ये हिंसाकुशले इषो त्वम् “अवसृष्टा क्षिप्ता “परा “पत परागच्छ । इतो देशात् “गच्छ च । “अमित्रान् हिंसकान् “प्र “पद्यस्व प्राप्नुहि च । “अमीषाम् अमित्राणां मध्ये "कं “चन कंचिदपि “मा “उच्छिषः अवशिष्टं मा कुरु ।।


यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।

तत्रा॑ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑ति॒ः शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥१७

यत्र॑ । बा॒णाः । स॒म्ऽपत॑न्ति । कु॒मा॒राः । वि॒शि॒खाःऽइ॑व ।

तत्र॑ । नः॒ । ब्रह्म॑णः । पतिः॑ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ । वि॒श्वाहा॑ । शर्म॑ । य॒च्छ॒तु॒ ॥१७

यत्र । बाणाः । सम्ऽपतन्ति । कुमाराः । विशिखाःऽइव ।

तत्र । नः । ब्रह्मणः । पतिः । अदितिः । शर्म । यच्छतु । विश्वाहा । शर्म । यच्छतु ॥१७

"यत्र युद्धे “कुमारा “विशिखाइव मुण्डिता इव “बाणाः “संपतन्ति “तत्र "नः अस्मभ्यं “ब्रह्मणस्पतिः “शर्म सुखं "विश्वाहा सर्वदा “यच्छतु । “अदितिः च “शर्म “यच्छतु । द्विरुक्तिरादरार्था ॥


मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् ।

उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥१८

मर्मा॑णि । ते॒ । वर्म॑णा । छा॒द॒या॒मि॒ । सोमः॑ । त्वा॒ । राजा॑ । अ॒मृते॑न । अनु॑ । व॒स्ता॒म् ।

उ॒रोः । वरी॑यः । वरु॑णः । ते॒ । कृ॒णो॒तु॒ । जय॑न्तम् । त्वा॒ । अनु॑ । दे॒वाः । म॒द॒न्तु॒ ॥१८

मर्माणि । ते । वर्मणा । छादयामि । सोमः । त्वा । राजा । अमृतेन । अनु । वस्ताम् ।

उरोः । वरीयः । वरुणः । ते । कृणोतु । जयन्तम् । त्वा । अनु । देवाः । मदन्तु ॥१८

हे राजन् "ते त्वदीयानि “मर्माणि । येषु स्थानेषु विद्धः सद्यो म्रियते तानि मर्माणि । “वर्मणा कवचेन “छादयामि । “सोमः "राजा “त्वा त्वाम् “अनु मर्मच्छादनानन्तरम् “अमृतेन “वस्ताम् आच्छादयतु । किंच “वरुणः अपि "ते तुभ्यम् "उरोर्वरीयः उरुतरं सुखं “कृणोतु करोतु । “जयन्तं “त्वा त्वां “देवाः सर्वेऽपि “अनु “मदन्तु अनुहृष्यन्तु ॥


यो न॒ः स्वो अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां॑सति ।

दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥१९

यः । नः॒ । स्वः । अर॑णः । यः । च॒ । निष्ट्यः॑ । जिघां॑सति ।

दे॒वाः । तम् । सर्वे॑ । धू॒र्व॒न्तु॒ । ब्रह्म॑ । वर्म॑ । मम॑ । अन्त॑रम् ॥१९

यः । नः । स्वः । अरणः । यः । च । निष्ट्यः । जिघांसति ।

देवाः । तम् । सर्वे । धूर्वन्तु । ब्रह्म । वर्म । मम । अन्तरम् ॥१९

“यः स्वः ज्ञातिः “अरणः अरममाणः “यश्च “निष्ट्यः तिरोभूतो दूरे स्थितः “नः अस्मान् “जिघांसति हन्तुमिच्छति “तं “देवाः “सर्वे देवाः “धूर्वन्तु हिंसन्तु । “ब्रह्म मन्त्रः “मम “अन्तरं शराणां निवारकं “वर्म विद्यते ॥ ॥ २२ ॥


॥ इति सायणाचार्यविरचिते दाशतय्याः षष्ठे मण्डले षष्ठोऽनुवाकः समाप्तं मण्डलं च ॥



[सम्पाद्यताम्]

टिप्पणी

पायुर्भारद्वाजः ऋषेः संदर्भे वसिष्ठधनुर्वेदसंहिता १.६८ द्रष्टव्या। पायनम् - सेचनम्, पानम्, दृढीकरणम् आदि अर्थेषु प्रयुज्यते।

धनुषोपरि पौराणिकसंदर्भाः

धनुषोपरि टिप्पणी

६.७५.१ जीमूतस्येव भवति प्रतीकम् इति

जीमूतोपरि पौराणिकसंदर्भाः

जीमूतवाहनोपरि टिप्पणी


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.७५&oldid=400055" इत्यस्माद् प्रतिप्राप्तम्