ऋग्वेदः सूक्तं ६.३६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.३५ ऋग्वेदः - मण्डल ६
सूक्तं ६.३६
नरो भारद्वाजः
सूक्तं ६.३७ →
दे. इन्द्रः। त्रिष्टुप्।


सत्रा मदासस्तव विश्वजन्याः सत्रा रायोऽध ये पार्थिवासः ।
सत्रा वाजानामभवो विभक्ता यद्देवेषु धारयथा असुर्यम् ॥१॥
अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय ।
स्यूमगृभे दुधयेऽर्वते च क्रतुं वृञ्जन्त्यपि वृत्रहत्ये ॥२॥
तं सध्रीचीरूतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुरिन्द्रम् ।
समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिर आ विशन्ति ॥३॥
स रायस्खामुप सृजा गृणानः पुरुश्चन्द्रस्य त्वमिन्द्र वस्वः ।
पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा ॥४॥
स तु श्रुधि श्रुत्या यो दुवोयुर्द्यौर्न भूमाभि रायो अर्यः ।
असो यथा नः शवसा चकानो युगेयुगे वयसा चेकितानः ॥५॥


सायणभाष्यम्

‘सत्रा मदासः' इति पञ्चर्चं त्रयोदशं सूक्तं नरस्यार्षं त्रैष्टुभमैन्द्रम् । ‘सत्रा' इत्यनुक्रान्तम् । पृष्ठ्यस्य पञ्चमेऽहनि निष्केवल्य एतत्सूक्तं शस्यम् । सूत्रितं च-’ प्रेदं ब्रह्मेन्द्रो मदाय सत्रा मदास इति निष्केवल्यम् ' ( आश्व. श्रौ. ७. १२ ) इति । विश्वजिति माध्यंदिनसवने प्रशास्तुः शस्त्र इदं सामसूक्ताख्यं शंसनीयम् । सूत्रितं च--- सत्रा मदासो यो जात एवाभूरेक इति सामसूक्तानि ( आश्व. श्रौ. ८. ७) इति । महाव्रतेऽपि निकेवल्य उक्तो विनियोगः ।।


स॒त्रा मदा॑स॒स्तव॑ वि॒श्वज॑न्याः स॒त्रा रायोऽध॒ ये पार्थि॑वासः ।

स॒त्रा वाजा॑नामभवो विभ॒क्ता यद्दे॒वेषु॑ धा॒रय॑था असु॒र्य॑म् ॥१

स॒त्रा । मदा॑सः । तव॑ । वि॒श्वऽज॑न्याः । स॒त्रा । रायः॑ । अध॑ । ये । पार्थि॑वासः ।

स॒त्रा । वाजा॑नाम् । अ॒भ॒वः॒ । वि॒ऽभ॒क्ता । यत् । दे॒वेषु॑ । धा॒रय॑थाः । अ॒सु॒र्य॑म् ॥१

सत्रा । मदासः । तव । विश्वऽजन्याः । सत्रा । रायः । अध । ये । पार्थिवासः ।

सत्रा । वाजानाम् । अभवः । विऽभक्ता । यत् । देवेषु । धारयथाः । असुर्यम् ॥१

हे इन्द्र “तव त्वदीयाः “मदासः सोमपानजनिता मदाः “सत्रा । सत्यनामैतत् । सत्यं "विश्वजन्याः सर्वजनहिता भवन्ति । यद्वा । सत्रेति महन्नाम । महान्तस्तव मदा इति योज्यम् । “अध अपि च “पार्थिवासः पृथिव्युपलक्षिते लोकत्रये भवास्त्वदीयाः “ये “रायः धनसमूहाः सन्ति तेऽपि "सत्रा सत्यं विश्वजनहिता भवन्तीत्यन्वयः । किंच त्वं “वाजानाम् अन्नानां “सत्रा सत्यं “विभक्ता दाता “अभवः भवसि । यद्वा । सत्रा महतां वाजानामिति योऽयम् । “यत् यस्मात्त्वं “देवेषु मध्ये "असुर्यं बलं “धारयथाः अतः कारणात्त्वमेवं करोषीत्यर्थः ॥


अनु॒ प्र ये॑जे॒ जन॒ ओजो॑ अस्य स॒त्रा द॑धिरे॒ अनु॑ वी॒र्या॑य ।

स्यू॒म॒गृभे॒ दुध॒येऽर्व॑ते च॒ क्रतुं॑ वृञ्ज॒न्त्यपि॑ वृत्र॒हत्ये॑ ॥२

अनु॑ । प्र । ये॒जे॒ । जनः॑ । ओजः॑ । अ॒स्य॒ । स॒त्रा । द॒धि॒रे॒ । अनु॑ । वी॒र्या॑य ।

स्यू॒म॒ऽगृभे॑ । दुध॑ये । अर्व॑ते । च॒ । क्रतु॑म् । वृ॒ञ्ज॒न्ति॒ । अपि॑ । वृ॒त्र॒ऽहत्ये॑ ॥२

अनु । प्र । येजे । जनः । ओजः । अस्य । सत्रा । दधिरे । अनु । वीर्याय ।

स्यूमऽगृभे । दुधये । अर्वते । च । क्रतुम् । वृञ्जन्ति । अपि । वृत्रऽहत्ये ॥२

“अस्य इन्द्रस्य “ओजः बलं “जनः यजमानः “अनु “प्र "येजे संततं प्रकर्षेण यजते पूजयति । अपि च तमिन्द्रं “वीर्याय वीरकर्म कर्तुं “सत्रा सत्यम् “अनु “दधिरे पुरो दधिरे यजमानाः । यद्वा । सत्रा महान्तमिन्द्रमिति योज्यम् । अपि च “स्यूमगृभे स्यूम्नः स्यूतान् अविच्छेदेन वर्तमानान् शत्रून् गृह्णते “दुधये । दुधिर्हिंसाकर्मा । तेषां हिंसकाय “अर्वते शत्रूणामभिगन्त्रे “च तस्मा इन्द्राय “क्रतुं कर्म परिचरणात्मकं “वृञ्जन्ति निष्पादयन्ति । किमर्थम् । “वृत्रहत्ये वृत्रस्य वारकस्य शत्रोर्हनननिमित्तम् ॥


तं स॒ध्रीची॑रू॒तयो॒ वृष्ण्या॑नि॒ पौंस्या॑नि नि॒युत॑ः सश्चु॒रिन्द्र॑म् ।

स॒मु॒द्रं न सिन्ध॑व उ॒क्थशु॑ष्मा उरु॒व्यच॑सं॒ गिर॒ आ वि॑शन्ति ॥३

तम् । स॒ध्रीचीः॑ । ऊ॒तयः॑ । वृष्ण्या॑नि । पौंस्या॑नि । नि॒ऽयुतः॑ । स॒श्चुः॒ । इन्द्र॑म् ।

स॒मु॒द्रम् । न । सिन्ध॑वः । उ॒क्थऽशु॑ष्माः । उ॒रु॒ऽव्यच॑सम् । गिरः॑ । आ । वि॒श॒न्ति॒ ॥३

तम् । सध्रीचीः । ऊतयः । वृष्ण्यानि । पौंस्यानि । निऽयुतः । सश्चुः । इन्द्रम् ।

समुद्रम् । न । सिन्धवः । उक्थऽशुष्माः । उरुऽव्यचसम् । गिरः । आ । विशन्ति ॥३

“तम् इन्द्रम् “ऊतयः मरुतः “सध्रीचीः सहाञ्चन्त्यः संगता भूत्वा “सश्चुः सचन्ते सेवन्ते । यद्वा । ऊतयस्तर्पकाण्यन्नानि सह वर्तमानानि भूत्वा सेवन्ते । तथा “वृष्ण्यानि वीर्याणि “पौंस्यानि बलानि च “नियुतः रथे युज्यमानाः वडवाश्च तम् “इन्द्रं सेवन्ते । अपि च “उक्थशुष्माः । उक्थं शस्त्रम् । तदेव बलं यासां तादृशाः “गिरः स्तुतयश्च “उरुव्यचसं विस्तीर्णव्याप्तिकं तमिन्द्रम् “आ “विशन्ति प्रविशन्ति । तत्र दृष्टान्तः । “समुद्रं “न “सिन्धवः । यथा स्यन्दनशीला नद्यः समुद्रमाविशन्त्याविश्य च विभक्ततया न दृश्यन्ते एवं सर्वा अपि स्तुतय इन्द्रेणैकीभवन्तीत्यर्थः ॥


स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्च॒न्द्रस्य॒ त्वमि॑न्द्र॒ वस्व॑ः ।

पति॑र्बभू॒थास॑मो॒ जना॑ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥४

सः । रा॒यः । खाम् । उप॑ । सृ॒ज॒ । गृ॒णा॒नः । पु॒रु॒ऽच॒न्द्रस्य॑ । त्वम् । इ॒न्द्र॒ । वस्वः॑ ।

पतिः॑ । ब॒भू॒थ॒ । अस॑मः । जना॑नाम् । एकः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ ॥४

सः । रायः । खाम् । उप । सृज । गृणानः । पुरुऽचन्द्रस्य । त्वम् । इन्द्र । वस्वः ।

पतिः । बभूथ । असमः । जनानाम् । एकः । विश्वस्य । भुवनस्य । राजा ॥४

हे “इन्द्र “गृणानः स्तूयमानः “सः “त्वं “रायः धनस्य “खाम् । नदीनामैतत् । अत्र तत्संबद्धा धारा लक्ष्यते । धाराम् “उप “सृज विमुञ्च । अस्माभिः संयोजयेत्यर्थः । कीदृशस्य धनस्य । “पुरुश्चन्द्रस्य बहूनामाह्लादकस्य “वस्वः निवासकस्य । अपि च “असमः अनुपम: सर्वोत्कृष्टस्त्वं “जनानां सर्वेषां प्राणिनां “पतिः अधिपतिः “बभूथ । तथा “विश्वस्य सर्वस्य “भुवनस्य भूतजातस्य “एकः असाधारणो “राजा ईश्वरश्व बभूविथ ।।


स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो॑ अ॒र्यः ।

असो॒ यथा॑ न॒ः शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः ॥५

सः । तु । श्रु॒धि॒ । श्रुत्या॑ । यः । दु॒वः॒ऽयुः । द्यौः । न । भूम॑ । अ॒भि । रायः॑ । अ॒र्यः ।

असः॑ । यथा॑ । नः॒ । शव॑सा । च॒का॒नः । यु॒गेऽयु॑गे । वय॑सा । चेकि॑तानः ॥५

सः । तु । श्रुधि । श्रुत्या । यः । दुवःऽयुः । द्यौः । न । भूम । अभि । रायः । अर्यः ।

असः । यथा । नः । शवसा । चकानः । युगेऽयुगे । वयसा । चेकितानः ॥५

हे इन्द्र “श्रुत्या श्रुत्यानि श्रोतव्यानि स्तोत्राणि “तु क्षिप्रं “श्रुधि शृणु । "यः त्वं “दुवोयुः अस्मदीयं परिचरणमात्मन इच्छन् “अर्यः अरेः संबन्धीनि “रायः धनानि “भूम बहुतराणि “द्यौर्न सूर्य इव “अभि भवसि “सः त्वं श्रुधीत्यन्वयः । अपि च “शवसा आत्मीयेन बलेन स्तोतव्येन युक्तः “चकानः स्तूयमानः “युगेयुगे काले काले “वयसा हविर्लक्षणेनान्नेन “चेकितानः प्रज्ञायमानस्त्वं “यथा येन प्रकारेण “न: अस्माकमसाधारणोऽसि तथा “असः स्याः ॥ ॥ ८ ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.३६&oldid=188373" इत्यस्माद् पुनः प्राप्तिः