ऋग्वेदः सूक्तं ६.५२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.५१ ऋग्वेदः - मण्डल ६
सूक्तं ६.५२
ऋजिष्वा भारद्वाजः
सूक्तं ६.५३ →
दे. विश्वे देवाः। त्रिष्टुप् , ७-१२ गायत्री, १४ जगती।


न तद्दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः ।
उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा ॥१॥
अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् ।
तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौः ॥२॥
किमङ्ग त्वा ब्रह्मणः सोम गोपां किमङ्ग त्वाहुरभिशस्तिपां नः ।
किमङ्ग नः पश्यसि निद्यमानान्ब्रह्मद्विषे तपुषिं हेतिमस्य ॥३॥
अवन्तु मामुषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः ।
अवन्तु मा पर्वतासो ध्रुवासोऽवन्तु मा पितरो देवहूतौ ॥४॥
विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यमुच्चरन्तम् ।
तथा करद्वसुपतिर्वसूनां देवाँ ओहानोऽवसागमिष्ठः ॥५॥
इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना ।
पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव ॥६॥
विश्वे देवास आ गत शृणुता म इमं हवम् ।
एदं बर्हिर्नि षीदत ॥७॥
यो वो देवा घृतस्नुना हव्येन प्रतिभूषति ।
तं विश्व उप गच्छथ ॥८॥
उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये ।
सुमृळीका भवन्तु नः ॥९॥
विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः ।
जुषन्तां युज्यं पयः ॥१०॥
स्तोत्रमिन्द्रो मरुद्गणस्त्वष्टृमान्मित्रो अर्यमा ।
इमा हव्या जुषन्त नः ॥११॥
इमं नो अग्ने अध्वरं होतर्वयुनशो यज ।
चिकित्वान्दैव्यं जनम् ॥१२॥
विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ ।
ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वम् ॥१३॥
विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच्च मन्म ।
मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम ॥१४॥
ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे ।
ते अस्मभ्यमिषये विश्वमायुः क्षप उस्रा वरिवस्यन्तु देवाः ॥१५॥
अग्नीपर्जन्याववतं धियं मेऽस्मिन्हवे सुहवा सुष्टुतिं नः ।
इळामन्यो जनयद्गर्भमन्यः प्रजावतीरिष आ धत्तमस्मे ॥१६॥
स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे ।
अस्मिन्नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम् ॥१७॥


सायणभाष्यम्

‘न तद्दिवा' इति सप्तदशर्चं तृतीयं सूक्तम् ऋजिश्वन आर्षं वैश्वदेवम् । आदितः षट् त्रिष्टुभः सप्तम्याद्याः षट् गायत्र्यस्त्रयोदशी त्रिष्टुप् चतुर्दशी जगती शिष्टास्तिस्रस्त्रिष्टुभः । तथा चानुकान्तं -- ‘न तत्त्र्यूना सप्तम्याद्याः षड्गायत्र्यश्चतुर्दशी जगती ' इति । गतो विनियोगः ।।


न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी॑भिरा॒भिः ।

उ॒ब्जन्तु॒ तं सु॒भ्व१॒॑ः पर्व॑तासो॒ नि ही॑यतामतिया॒जस्य॑ य॒ष्टा ॥१

न । तत् । दि॒वा । न । पृ॒थि॒व्या । अनु॑ । म॒न्ये॒ । न । य॒ज्ञेन॑ । न । उ॒त । शमी॑भिः । आ॒भिः ।

उ॒ब्जन्तु॑ । तम् । सु॒ऽभ्वः॑ । पर्व॑तासः । नि । ही॒य॒ता॒म् । अ॒ति॒ऽया॒जस्य॑ । य॒ष्टा ॥१

न । तत् । दिवा । न । पृथिव्या । अनु । मन्ये । न । यज्ञेन । न । उत । शमीभिः । आभिः ।

उब्जन्तु । तम् । सुऽभ्वः । पर्वतासः । नि । हीयताम् । अतिऽयाजस्य । यष्टा ॥१

अतियाजो नाम कश्चिदृषिरस्मादृजिश्वन उत्कृष्टः स्यामहमिति बुद्ध्या देवान् यियक्षुरास । ऋषिस्तदीयं यजनं निराचष्टाद्यया । “न “तत् अतियाजस्य ऋषेः तत् यजनं “दिवा द्युलोकेन तत्रत्येन देवगणेन युक्तमित्यहं न “अनु मन्ये । अनुमतिं न करोमि । “न च “पृथिव्या पार्थिवेनापि देवगणेन युक्तमिति नानु मन्ये । “न च “यज्ञेन मयानुष्ठितेन सदृशं तदित्यहं नानु मन्ये। “उत अपि च “आभिः “शमीभिः अन्यैरपि मया कृतैरेभिः कर्मभिः सदृशमित्यपि “न अनु मन्ये। मया वशीकृता देवाः तदीयं यजनं नाङ्गीकुर्वन्ति स चानभिज्ञत्वात् सम्यक् यष्टुमपि न शक्नोतीति भावः। अपि च “तम् ऋषिं “सुभ्वः सुष्ठु भवन्तः “पर्वतासः पर्वता इन्द्रेण. प्रहिताः सन्तः "उब्जन्तु हिंसन्तु। उब्जिर्हिंसाकर्मा । तथा तस्य “अतियाजस्य ऋजिश्वनोऽप्यतिशयेनाहं देवान् यजामीति बुद्ध्या युक्तस्य ऋषेर्यो “यष्टा याजकः सः “नि “हीयतां नितरां हीनो भवतु ।।


अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा॑णं॒ निनि॑त्सात् ।

तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो॑चतु॒ द्यौः ॥२

अति॑ । वा॒ । यः । म॒रु॒तः॒ । मन्य॑ते । नः॒ । ब्रह्म॑ । वा॒ । यः । क्रि॒यमा॑णम् । निनि॑त्सात् ।

तपूं॑षि । तस्मै॑ । वृ॒जि॒नानि॑ । स॒न्तु॒ । ब्र॒ह्म॒ऽद्विष॑म् । अ॒भि । तम् । शो॒च॒तु॒ । द्यौः ॥२

अति । वा । यः । मरुतः । मन्यते । नः । ब्रह्म । वा । यः । क्रियमाणम् । निनित्सात् ।

तपूंषि । तस्मै । वृजिनानि । सन्तु । ब्रह्मऽद्विषम् । अभि । तम् । शोचतु । द्यौः ॥२

हे “मरुतः “यः पुरुषः “नः अस्मान् “अति “मन्यते अतीत्य स्वस्याधिक्यं मन्यते अस्मत्तोऽपि स्वयमधिक इति बुध्यते । अस्माभिः “क्रियमाणं “ब्रह्म स्तोत्रं “वा “यः “निनिस्सात् निन्दितुमिच्छेत् “तस्मै पुरुषाय “तपूंषि तेजांसि “वृजिनानि बाधकानि “सन्तु भवन्तु । “ब्रह्मद्विषं “तं शत्रुं “द्यौः आदित्यश्च “अभि “शोचतु अभितपतु । अभिदहतु ॥


किम॒ङ्ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किम॒ङ्ग त्वा॑हुरभिशस्ति॒पां न॑ः ।

किम॒ङ्ग न॑ः पश्यसि नि॒द्यमा॑नान्ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥३

किम् । अ॒ङ्ग । त्वा॒ । ब्रह्म॑णः । सो॒म॒ । गो॒पाम् । किम् । अ॒ङ्ग । त्वा॒ । आ॒हुः॒ । अ॒भि॒श॒स्ति॒ऽपाम् । नः॒ ।

किम् । अ॒ङ्ग । नः॒ । प॒श्य॒सि॒ । नि॒द्यमा॑नान् । ब्र॒ह्म॒ऽद्विषे॑ । तपु॑षिम् । हे॒तिम् । अ॒स्य॒ ॥३

किम् । अङ्ग । त्वा । ब्रह्मणः । सोम । गोपाम् । किम् । अङ्ग । त्वा । आहुः । अभिशस्तिऽपाम् । नः ।

किम् । अङ्ग । नः । पश्यसि । निद्यमानान् । ब्रह्मऽद्विषे । तपुषिम् । हेतिम् । अस्य ॥३

“किमङ्ग इति प्रसिद्धिद्योतकौ निपातौ । हे “सोम “त्वा त्वां खलु “ब्रह्मणः मन्त्रस्य कर्मणो वा ब्रह्मजातेर्वा “गोपां गोपायितारम् “आहुः कथयन्ति पुराविदः । तथा “नः अस्माकम् “अभिशस्तिपाम् अभिशंसकेभ्यः शत्रुभ्यः पालयितारं त्वामेव खल्वाहुः । यद्वा। अङ्गेत्यभिमुखीकरणे । अङ्ग हे सोम किंकारणं त्वां ब्रह्मणो गोपामाहुः । किंकारणं वा त्वामस्माकमभिशस्तिपामाहुः । “निद्यमानान् परैर्दूष्यमणान् “नः अस्मान् “अङ्ग हे सोम किंकारणं “पश्यसि । त्वामेव सर्वे ब्रह्मणो रक्षकं शत्रुभ्यः पालकं च कथयन्ति अतोऽस्मासु परैर्निन्द्यमानेष्वौदासीन्यं तवानुचितम् । अतः “ब्रह्मद्विषे ब्राह्मणद्वेष्ट्रे तस्मै “तपुषिं तापकं “हेतिम् आयुधम् “अस्य क्षिप । प्रेरय ॥


अव॑न्तु॒ मामु॒षसो॒ जाय॑माना॒ अव॑न्तु मा॒ सिन्ध॑व॒ः पिन्व॑मानाः ।

अव॑न्तु मा॒ पर्व॑तासो ध्रु॒वासोऽव॑न्तु मा पि॒तरो॑ दे॒वहू॑तौ ॥४

अव॑न्तु । माम् । उ॒षसः॑ । जाय॑मानाः । अव॑न्तु । मा॒ । सिन्ध॑वः । पिन्व॑मानाः ।

अव॑न्तु । मा॒ । पर्व॑तासः । ध्रु॒वासः॑ । अव॑न्तु । मा॒ । पि॒तरः॑ । दे॒वऽहू॑तौ ॥४

अवन्तु । माम् । उषसः । जायमानाः । अवन्तु । मा । सिन्धवः । पिन्वमानाः ।

अवन्तु । मा । पर्वतासः । ध्रुवासः । अवन्तु । मा । पितरः । देवऽहूतौ ॥४

“जायमानाः प्रादुर्भवन्त्यः “उषसः "माम् “अवन्तु रक्षन्तु । तथा “पिन्वमानाः वर्धमानाः “सिन्धवः स्यन्दनशीला नद्यश्च “मा माम् “अवन्तु । तथा “ध्रुवासः निश्चलाः “पर्वतासः पर्वताश्च “मा माम् “अवन्तु । तथा “देवहूतौ । देवानां हूतिराह्वानमस्मिन्निति देवहूतिर्यागः । तत्र विद्यमानाः “पितरः पितृदेवताश्च माम् “अवन्तु ।


वि॒श्व॒दानीं॑ सु॒मन॑सः स्याम॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चर॑न्तम् ।

तथा॑ कर॒द्वसु॑पति॒र्वसू॑नां दे॒वाँ ओहा॒नोऽव॒साग॑मिष्ठः ॥५

वि॒श्व॒ऽदानी॑म् । सु॒ऽमन॑सः । स्या॒म॒ । पश्ये॑म । नु । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ।

तथा॑ । क॒र॒त् । वसु॑ऽपतिः । वसू॑नाम् । दे॒वान् । ओहा॑नः । अव॑सा । आऽग॑मिष्ठः ॥५

विश्वऽदानीम् । सुऽमनसः । स्याम । पश्येम । नु । सूर्यम् । उत्ऽचरन्तम् ।

तथा । करत् । वसुऽपतिः । वसूनाम् । देवान् । ओहानः । अवसा । आऽगमिष्ठः ॥५

हे देवाः “विश्वदानीं सर्वदा वयं “सुमनसः “स्याम शोभनमनस्का भवेम । नुशब्दः समुच्चये । “उञ्चरन्तम् उद्यन्तं “सूर्यं सर्वदा “पश्येम च। “वसूनां “वसुपतिः उत्कृष्टधनाधिपतिरग्निः “देवान् “अवसा अस्मदीयेन हविषा “ओहानः वहन् प्रापयन् “आगमिष्टः आगन्तृतम एवंगुणविशिष्टः सन् “तथा “करत् । अस्मान् तथाविधानुक्तप्रकारान् करोतु ।। ॥ १४ ॥


इन्द्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठ॒ः सर॑स्वती॒ सिन्धु॑भि॒ः पिन्व॑माना ।

प॒र्जन्यो॑ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंस॑ः सु॒हव॑ः पि॒तेव॑ ॥६

इन्द्रः॑ । नेदि॑ष्ठम् । अव॑सा । आऽग॑मिष्ठः । सर॑स्वती । सिन्धु॑ऽभिः । पिन्व॑माना ।

प॒र्जन्यः॑ । नः॒ । ओष॑धीभिः । म॒यः॒ऽभुः । अ॒ग्निः । सु॒ऽशंसः॑ । सु॒ऽहवः॑ । पि॒ताऽइ॑व ॥६

इन्द्रः । नेदिष्ठम् । अवसा । आऽगमिष्ठः । सरस्वती । सिन्धुऽभिः । पिन्वमाना ।

पर्जन्यः । नः । ओषधीभिः । मयःऽभुः । अग्निः । सुऽशंसः । सुऽहवः । पिताऽइव ॥६

अयम् “इन्द्रो “नेदिष्ठम् अन्तिकतमं यथा भवति तथा “अवसा रक्षणेन सार्धम् “आगमिष्ठः आगन्तृतमोऽस्तु । “सिन्धुभिः स्यन्दनैरुदकैः “पिन्वमाना वर्धमाना नदीरूपा “सरस्वती चागन्तृतमा भवतु । “ओषधीभिः सार्धं “पर्जन्यः च “नः अस्माकं “मयोभुः सुखस्य भावयिता भवतु । "अग्निः च “पितेव पुत्रस्य जनक इव "सुशंसः सुखेन शंसनीयः “सुहवः सुखेनाह्वातव्यश्च भवतु ॥


आग्रयणे वैश्वदेवस्य चरोः ‘विश्वे देवास आ गत' इत्यनुवाक्या । सूत्रितं च -- विश्वे देवास आ गत ये के च ज्मा महिनो अहिमायाः' (आश्व. श्रौ. २. ९) इति ।

विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव॑म् ।

एदं ब॒र्हिर्नि षी॑दत ॥७

विश्वे॑ । दे॒वा॒सः॒ । आ । ग॒त॒ । शृ॒णु॒त । मे॒ । इ॒मम् । हव॑म् ।

आ । इ॒दम् । ब॒र्हिः । नि । सी॒द॒त॒ ॥७

विश्वे । देवासः । आ । गत । शृणुत । मे । इमम् । हवम् ।

आ । इदम् । बर्हिः । नि । सीदत ॥७

हे “विश्वे “देवासः सर्वे देवाः “आ “गत आगच्छत । आगत्य च “मे मदीयम् “इमं “हवम् इदमाह्वानं “शृणुत । श्रुत्वा च “इदम् आस्तीर्णं "बर्हिः “आ "नि “षीदत आस्तीर्णे बर्हिषि निषण्णा भवत ॥


यो वो॑ देवा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूष॑ति ।

तं विश्व॒ उप॑ गच्छथ ॥८

यः । वः॒ । दे॒वाः॒ । घृ॒तऽस्नु॑ना । ह॒व्येन॑ । प्र॒ति॒ऽभूष॑ति ।

तम् । विश्वे॑ । उप॑ । ग॒च्छ॒थ॒ ॥८

यः । वः । देवाः । घृतऽस्नुना । हव्येन । प्रतिऽभूषति ।

तम् । विश्वे । उप । गच्छथ ॥८

हे “देवाः “वः युष्मान् “यः जनः “घृतस्नुना घृतप्रक्षरणेन “हव्येन हविषा “प्रतिभूषति परिचरति “तं जनं “विश्वे सर्वे यूयम् "उप “गच्छथ उपगता भवथ ॥


उप॑ नः सू॒नवो॒ गिर॑ः शृ॒ण्वन्त्व॒मृत॑स्य॒ ये ।

सु॒मृ॒ळी॒का भ॑वन्तु नः ॥९

उप॑ । नः॒ । सू॒नवः॑ । गिरः॑ । शृ॒ण्वन्तु॑ । अ॒मृत॑स्य । ये ।

सु॒ऽमृ॒ळी॒काः । भ॒व॒न्तु॒ । नः॒ ॥९

उप । नः । सूनवः । गिरः । शृण्वन्तु । अमृतस्य । ये ।

सुऽमृळीकाः । भवन्तु । नः ॥९

"अमृतस्य मरणरहितस्य प्रजापतेः “ये "सूनवः पुत्राः ते देवाः “नः अस्माकं “गिरः स्तुतीः “उप “शृण्वन्तु । "नः अस्माकं "सुमृळीकाः सुष्ठु मृडयितारः सुखयितारश्च “भवन्तु ।।


विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुत॑ः ।

जु॒षन्तां॒ युज्यं॒ पय॑ः ॥१०

विश्वे॑ । दे॒वाः । ऋ॒त॒ऽवृधः॑ । ऋ॒तुऽभिः॑ । ह॒व॒न॒ऽश्रुतः॑ ।

जु॒षन्ता॑म् । युज्य॑म् । पयः॑ ॥१०

विश्वे । देवाः । ऋतऽवृधः । ऋतुऽभिः । हवनऽश्रुतः ।

जुषन्ताम् । युज्यम् । पयः ॥१०

“ऋतावृधः ऋतस्य यज्ञस्य वर्धकाः “ऋतुभिः कालविशेषैः "हवनश्रुतः हवनस्य स्तोत्रस्य श्रोतारः तस्मिंस्तस्मिन् यागकाले स्तूयमाना ईदृशाः “विश्वे सर्वे “देवाः "युज्यं योग्यं “पयः आमिक्षारूपं “जुषन्तां सेवन्ताम् । श्रूयते हि - ‘ तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा' इति ॥ ॥ १५ ॥


स्तो॒त्रमिन्द्रो॑ म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो अ॑र्य॒मा ।

इ॒मा ह॒व्या जु॑षन्त नः ॥११

स्तो॒त्रम् । इन्द्रः॑ । म॒रुत्ऽग॑णः । त्वष्टृ॑ऽमान् । मि॒त्रः । अ॒र्य॒मा ।

इ॒मा । ह॒व्या । जु॒ष॒न्त॒ । नः॒ ॥११

स्तोत्रम् । इन्द्रः । मरुत्ऽगणः । त्वष्टृऽमान् । मित्रः । अर्यमा ।

इमा । हव्या । जुषन्त । नः ॥११

“मरुद्गणः मरुतो गणभूताः परिजनभूता यस्य तादृशः “इन्द्रः “त्वष्टृमान् त्वष्टृसहितः “मित्रो “अर्यमा च “नः अस्माकं “स्तोत्रम् "इमा “हव्या इमानि हवींषि च "जुषन्त सेवन्ताम् ॥


इ॒मं नो॑ अग्ने अध्व॒रं होत॑र्वयुन॒शो य॑ज ।

चि॒कि॒त्वान्दैव्यं॒ जन॑म् ॥१२

इ॒मम् । नः॒ । अ॒ग्ने॒ । अ॒ध्व॒रम् । होतः॑ । व॒यु॒न॒ऽशः । य॒ज॒ ।

चि॒कि॒त्वान् । दैव्य॑म् । जन॑म् ॥१२

इमम् । नः । अग्ने । अध्वरम् । होतः । वयुनऽशः । यज ।

चिकित्वान् । दैव्यम् । जनम् ॥१२

हे “होतः देवानामाह्वातः “अग्ने “दैव्यं देवसंबन्धिनं “जनं संघं यजनीयं “चिकित्वान् जानंस्त्वं “नः अस्मदीयम् “इमम् “अध्वरं हिंसारहितं यज्ञं “वयुनशः ज्ञानक्रमेण यथानुपूर्व्या देवा बुद्धिस्थाः तथा "यज यागं कुरु ।।


वैश्वदेवशस्त्रस्य ‘ विश्वे देवाः ' इति याज्या । सूत्रितं च - 'आश्रुत्यै त्वेति शस्त्वा जपेद्विश्वे देवाः शृणुतेमं हवं म इति याज्या' ( आश्व. श्रौ. ५, १८ ) इति । वैश्वदेवे पशावेषैव याज्या । सूत्रितं च -- ‘ विश्वे देवाः शृणुतेमं हवं मे ये के च ज्मा महिनो अहिमायाः ' (आश्व. श्रौ. ३. ७) इति ।।

विश्वे॑ देवाः शृणु॒तेमं हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ ।

ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥१३

विश्वे॑ । दे॒वाः॒ । शृ॒णु॒त । इ॒मम् । हव॑म् । मे॒ । ये । अ॒न्तरि॑क्षे । ये । उप॑ । द्यवि॑ । स्थ ।

ये । अ॒ग्नि॒ऽजि॒ह्वाः । उ॒त । वा॒ । यज॑त्राः । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒ध्व॒म् ॥१३

विश्वे । देवाः । शृणुत । इमम् । हवम् । मे । ये । अन्तरिक्षे । ये । उप । द्यवि । स्थ ।

ये । अग्निऽजिह्वाः । उत । वा । यजत्राः । आऽसद्य । अस्मिन् । बर्हिषि । मादयध्वम् ॥१३

हे “विश्वे “देवाः “मे मदीयम् “इमं “हवम् आह्वानं “शृणुत। “ये यूयम् “अन्तरिक्षे “स्थ अन्तरिक्षलोके वर्तमाना भवथ । “ये च “उप तत्समीपस्थे भूलोके भवथ। ये च “द्यवि द्युलोके स्थ । “ये च “अग्निजिह्वाः । अग्निर्जिह्वास्थानीयो येषाम् । यद्वा । अग्नेर्जिह्वा । तया पोष्यमाणत्वात अग्निजिह्वा इत्युच्यन्ते । "उत “वा अपि वा ये “यजत्राः यजनीयाः ते सर्वे यूयम् आस्तीर्णे “अस्मिन् “बर्हिषि “आसद्य उपविश्य “मादयध्वं सोमेनात्मानं तर्पयथ ।।


विश्वे॑ दे॒वा मम॑ शृण्वन्तु य॒ज्ञिया॑ उ॒भे रोद॑सी अ॒पां नपा॑च्च॒ मन्म॑ ।

मा वो॒ वचां॑सि परि॒चक्ष्या॑णि वोचं सु॒म्नेष्विद्वो॒ अन्त॑मा मदेम ॥१४

विश्वे॑ । दे॒वाः । मम॑ । शृ॒ण्व॒न्तु॒ । य॒ज्ञियाः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । अ॒पाम् । नपा॑त् । च॒ । मन्म॑ ।

मा । वः॒ । वचां॑सि । प॒रि॒ऽचक्ष्या॑णि । वो॒च॒म् । सु॒म्नेषु॑ । इत् । वः॒ । अन्त॑माः । म॒दे॒म॒ ॥१४

विश्वे । देवाः । मम । शृण्वन्तु । यज्ञियाः । उभे इति । रोदसी इति । अपाम् । नपात् । च । मन्म ।

मा । वः । वचांसि । परिऽचक्ष्याणि । वोचम् । सुम्नेषु । इत् । वः । अन्तमाः । मदेम ॥१४

“यज्ञियाः यज्ञार्हाः “विश्वे “देवाः “मम मदीयं “मन्म मननीयं स्तोत्रं “शृण्वन्तु । चित्तेऽवधारयन्तु । तथा “उभे “रोदसी द्यावापृथिव्यौ “अपां “नपात् मध्यमस्थानोऽग्निः “च अस्मदीयं स्तोत्रं शृण्वन्तु । अथ प्रत्यक्षकृतः । हे देवाः “वः युष्मभ्यं “परिचक्ष्याणि वर्जनीयानि “वचांसि स्तोत्राणि “मा “वोचं मा ब्रवीमि । अपि तु समीचीनानि । अतः “वः युष्माकम् "अन्तमाः अन्तिकतमाः सन्तो वयं "सुम्नेष्वित् युष्माभिर्दत्तेषु सुखेष्वेव वर्तमानाः “मदेम मोदेम ॥


आग्रयणे वैश्वदेवस्य ‘ये के च ज्मा ' इति याज्या । सूत्रितं च – ' विश्वे देवास आ गत ये के च ज्मा महिनो अहिमायाः' ( आश्व. श्रौ. २.९) इति ।

ये के च॒ ज्मा म॒हिनो॒ अहि॑माया दि॒वो ज॑ज्ञि॒रे अ॒पां स॒धस्थे॑ ।

ते अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायु॒ः क्षप॑ उ॒स्रा व॑रिवस्यन्तु दे॒वाः ॥१५

ये । के । च॒ । ज्मा । म॒हिनः॑ । अहि॑ऽमायाः । दि॒वः । ज॒ज्ञि॒रे । अ॒पाम् । स॒धऽस्थे॑ ।

ते । अ॒स्मभ्य॑म् । इ॒षये॑ । विश्व॑म् । आयुः॑ । क्षपः॑ । उ॒स्राः । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥१५

ये । के । च । ज्मा । महिनः । अहिऽमायाः । दिवः । जज्ञिरे । अपाम् । सधऽस्थे ।

ते । अस्मभ्यम् । इषये । विश्वम् । आयुः । क्षपः । उस्राः । वरिवस्यन्तु । देवाः ॥१५

“महिनः महान्तः “अहिमायाः। माया प्रज्ञानाम। आहन्तृप्रज्ञाः । एवंभूताः "ये “के चन देवाः “ज्मा । पृथिवीनामैतत् । ज्मायां पृथिव्यां “जज्ञिरे प्रादुर्बभूवुः । ये के चन “दिवः द्युलोकाज्जज्ञिरे । ये के चन “अपां “सधस्थे सहान्तरिक्षे जज्ञिरे “ते सर्वे “देवाः “अस्मभ्यमिषये । इष्यत इतीषिः पुत्रादिः । तस्मै च “विश्व सर्वम् “आयुः अन्नं जीवनं वा “क्षपः सर्वा रात्रीः “उस्राः सर्वाण्यहानि च सर्वदा नैरन्तर्येण “वरिवस्यन्तु प्रयच्छन्तु ।।


अग्नी॑पर्जन्या॒वव॑तं॒ धियं॑ मे॒ऽस्मिन्हवे॑ सुहवा सुष्टु॒तिं न॑ः ।

इळा॑म॒न्यो ज॒नय॒द्गर्भ॑म॒न्यः प्र॒जाव॑ती॒रिष॒ आ ध॑त्तम॒स्मे ॥१६

अग्नी॑पर्जन्यौ । अव॑तम् । धिय॑म् । मे॒ । अ॒स्मिन् । हवे॑ । सु॒ऽह॒वा॒ । सु॒ऽस्तु॒तिम् । नः॒ ।

इळा॑म् । अ॒न्यः । ज॒नय॑त् । गर्भ॑म् । अ॒न्यः । प्र॒जाऽव॑तीः । इषः॑ । आ । ध॒त्त॒म् । अ॒स्मे इति॑ ॥१६

अग्नीपर्जन्यौ । अवतम् । धियम् । मे । अस्मिन् । हवे । सुऽहवा । सुऽस्तुतिम् । नः ।

इळाम् । अन्यः । जनयत् । गर्भम् । अन्यः । प्रजाऽवतीः । इषः । आ । धत्तम् । अस्मे इति ॥१६

हे “अग्नीपर्जन्यौ “मे मदीयं “धियं कर्म यज्ञलक्षणम् “अवतं गच्छतं रक्षतं वा । हे ”सुहवा सुखेन ह्वातुं शक्यौ “अस्मिन् “हवे यज्ञे “नः अस्मदीयां “सुष्टुतिं शोभनां स्तुतिं च रक्षतम् । यद्वा । अनुवृत्तोऽवतिः श्रवणार्थः। अवतं शृणुतम् । युवयोर्मध्ये “अन्यः पर्जन्यः “इळाम् अन्नं “जनयत् जनयति । वृष्ट्या हि ओषधिवनस्पतयो जायन्ते तेभ्यश्चान्नं जायते । “अन्यः अग्निः “गर्भं जनयति । पुरुषेण भुक्तमन्नं जाठरेणाग्निना पक्वं सत् रेतरूपेण परिणमते तदेव योषित्सु गर्भो भवति । अतो युवां “प्रजावतीः प्रजाभिर्युक्ताः “इषः अन्नानि “अस्मे अस्मासु “आ “धत्तम् अवस्थापयतम् ॥


स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्नौ सू॒क्तेन॑ म॒हा नम॒सा वि॑वासे ।

अ॒स्मिन्नो॑ अ॒द्य वि॒दथे॑ यजत्रा॒ विश्वे॑ देवा ह॒विषि॑ मादयध्वम् ॥१७

स्ती॒र्णे । ब॒र्हिषि॑ । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ । सु॒ऽउ॒क्तेन॑ । म॒हा । नम॑सा । आ । वि॒वा॒से॒ ।

अ॒स्मिन् । नः॒ । अ॒द्य । वि॒दथे॑ । य॒ज॒त्राः॒ । विश्वे॑ । दे॒वाः॒ । ह॒विषि॑ । मा॒द॒य॒ध्व॒म् ॥१७

स्तीर्णे । बर्हिषि । सम्ऽइधाने । अग्नौ । सुऽउक्तेन । महा । नमसा । आ । विवासे ।

अस्मिन् । नः । अद्य । विदथे । यजत्राः । विश्वे । देवाः । हविषि । मादयध्वम् ॥१७

हे विश्वे देवाः “बर्हिषि दर्भपुञ्जे वेद्यां “स्तीर्णे सति “अग्नौ च “समिधाने समिद्धे सति अनेन “सूक्तेन स्तोत्रेण च “महा महता "नमसा नमस्कारेण च “आ “विवासे पर्यचरम् । हे “यजत्राः यजनीयाः “विश्वे “देवाः “अद्य अस्मिन् दिने “नः अस्मदीये “अस्मिन् “विदथे यज्ञे “हविषि । तृतीयार्थे सप्तमी । हविषा अस्माभिर्दत्तेन “मादयध्वं तृप्यध्वम् ॥ ॥ १६ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.५२&oldid=200265" इत्यस्माद् प्रतिप्राप्तम्